[highlight_content]

127 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तविंशत्युत्तरशततमः सर्गः

रामेण भरद्वाजाश्रममेत्य तंप्रत्यभिवादनपूर्वकं भरतादिकुशलप्रश्नः ॥ १ ॥ तेन तंप्रति सकलजनकुशलनिवेदनपूर्वकं स्वस्यतपसैव तस्यपुरास्वाश्रम निर्गमप्रभृतिपुनरागमना -वधिकालमध्यवृत्तवृत्तान्तपरिज्ञाननिवेदनेनसह स्वीयातिथ्यस्वीकारेण परेद्युरयोध्यागमन -ोदना ॥ २ ॥ तथा रामप्रार्थनया वानरनिकरभोगायायोध्याध्वगततरुकुलेषु स्वतपोमहिम्ना -ऽमृतकल्पफलकुलनिष्पादनम् ॥ ३ ॥

 

पूर्णे तुर्दशे वर्षे पञ्म्यां लक्ष्मणाग्रजः ।

भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् ॥ १ ॥

अथ भरद्वाजाश्रमवासः– पूर्ण इति ॥ पूर्णे ैत्रशुद्धपञ्म्यामयोध्यातो निर्गमनं । तदारभ्य तुर्दशवर्षे पूर्णे सति पश्म्यां ैत्रशुद्धपञ्म्यां । तथा हि ैत्रशुद्धपञ्म्यां निर्गमः । तद्रात्र्यां तमसातीरे निवासः। षष्ठ्यां शृङ्गिबेरपुरे । सप्तम्यां वनस्पतिमूले । अष्टम्यां भरद्वाजाश्रमे । नवम्यां यमुनातीरे । दशम्यां रामश्ित्रकूटं गमिष्यतीति गुहारमुखेन विदितवृत्तान्तस्य सुमन्त्रस्य सायाह्ने अयोध्याप्रवेशः । तद्रात्रावेव दशरथस्य निर्याणं । एकादश्यां राज्ञस्तैलद्रोण्यां निक्षेपः । द्वादश्यां भरतं प्रति दूतप्रेषणं । ते दूता मार्गे त्रयोदशीं तुर्दशीं ापनीय पौर्णमास्यां रात्रौ केकयनगरं प्रविविशुः । प्रतिपदि भरतस्यायोध्यां प्रत्यागमनं । तत्र मार्गे सप्त रात्रीरुषित्वा अष्टमे दिने त्वरातिशयेनाहोरात्रमागत्य नवम्यां सूर्योदये भरतस्यायोध्याप्रवेशः । तस्यामेव दशरथसंस्कारः । तदहरारभ्य त्रयोदशदिने वैशाखशुद्धपञ्म्यां तत्पूर्वदिने भरतेन राज्ञः श्राद्धकर्मकरणं । षष्ठ्यां तद्देशीयाारसिद्धं दहनदेशशोधनं । सप्तम्यां मार्गशोधनाय कर्मान्तिकप्रेषणं । कर्मान्तिकैश् दशमीपर्यन्तं तुर्दिनं मार्गशोधनं । एकादश्यां भरतस्य रामसकाशं प्रति गमनं । तद्रात्रौ गङ्गातीरे निवासः । द्वादश्यां भरद्वाजाश्रमे । त्रयोदृश्यां रामसमागमः । तुर्दशीपौर्णमासीप्रतिपत्सु ित्रकूटे भरतस्य निवास: । वैशाखबहुल द्वितीयायां भरतस्यायोध्यां प्रति प्रयाणम् । तुर्थ्यामयोध्याप्रवेशः । इत्येवं सार्धमासे गते वैशाखबहुलपञ्म्यां रामस्य ित्रकूटान्निर्गमः अत्र्याश्रमप्रवेशश् । एवमाश्रममण्डलवासेन सह सार्धमासेषु दशसंवत्सरेषु गतेषु अवशिष्टकाले पञ्वटीवासे तत्र त्रयोदशवर्षेषु गतेषु ततश्तुर्दशे वर्षे ैत्रमासे सीताहरणम् । वैशाखे सुग्रीवदर्शनम् । आषाढे वालिवधः । आश्वयुजे सैन्योद्योगः । फाल्गुने प्रायोपवेश: । फाल्गुनशुद्धतुर्दश्यां लङ्कादाहः । फाल्गुनामावास्यायां रावणवधः । ैत्रशुद्धप्रतिपदि रावणसंस्कारादि । द्वितीयायां विभीषणाभिषेकः, सीताप्राप्तिर्देवताप्रस्थानानि । तृतीयायां लङ्कातो निर्गमः । तुर्थ्यां किष्किन्धायां वासः । पञ्म्यां भरद्वाजाश्रमे वासः । अत्र वक्तव्योपपत्तयस्तत्र तत्र प्रदर्शिताः । अस्मिन् प्रकारे हनुमत्सन्निधाने द्वौ मासौ रक्षितव्यौ मे इति रावणवनं सीतासान्त्वन परम् । मासादूर्ध्वं न जीविष्ये इति सीतावनं तु सम्यक् संग्छते । मासशब्दस्य वर्तमानमासपरत्वं ासकृदुक्तम् । रावणेन दश मासा गताः अविशिष्टौ द्वौ मासावित्युक्तिर्मधुपानमत्ततयाऽविवेककृता । सीताया मासादूर्ध्वमिति वनं तु वर्तमानमासपरमिति विवेकः । भरद्वाजाश्रमं प्राप्येत्यनेन महतां स्थानमपि प्राप्यमित्युक्तम् । नियतः नियतकरणत्रयः ॥ १ ॥

 

सोपृ्छदभिवाद्यैनं भरद्वाजं तपोधनम् ।

शृणोषि किद्भगवन्सुभिक्षानामयं पुरे ॥

ि युक्तो भरतो जीवन्त्यपि मातरः ॥ २ ॥

स इत्यादिसार्धश्लोक एकान्वयः ॥ सुभिक्षानामयं । भिक्ष्यन्त इति भिक्षाः अन्नानि भिक्षाणां समृद्धिः सुभिक्षं । समृद्धावव्ययीभावः । आमयस्याभावोनामयं । प्रसज्यप्रतिषेधेपि समासस्येष्टत्वात्साधुः । सुभिक्षं ानामयं ेति विग्रहः । अनामयं आरोग्यं । अनामयं स्यादारोग्यं इत्यमरः । युक्तः प्रजापालने समाहितः ॥ २ ॥

 

एवमुक्तस्तु रामेण भरद्वाजो महामुनिः ।

प्रत्युवा रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् ॥ ३ ॥

प्रहृष्टवत् प्रहृष्टं । क्रियाविशेषणं । स्मितपूर्वं । सर्वज्ञोप्यजानान इव पृ्छतीति स्मितं । यद्वा किं भरतः प्रजापालनसंतुष्टो वर्तत इति प्रश्नसारं मत्वा परतन्त्रे तस्मिन् कथमित्थं संभवतीति स्मितकरणं ॥ ३ ॥

 

पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते ।

पादुके ते पुरस्कृत्य सर्वं कुशलं गृहे ॥ ४ ॥

अतएव तदनुरूपमुत्तरयति-पङ्केति ॥ स्नानाभावात्पङ्कदिग्धत्वं । स्नानाभावेपि नित्यानुष्ठानं दीक्षितवद्गौणस्नानेन । स्नानाभावे निमित्तमाह – जटिल इति । जटिल: जटावान् । पि्छादित्वादिल् । जटिलानां वारुणस्नानं निषिद्धमिति भावः । कथंन्वपररात्रेषु सरयूमवगाहते इत्याद्युक्तिस्तु कादाित्कस्नानपरत्वेप्युपपद्यते । यद्वा सदाऽनास्तृतभूमिशयना -दिना वा तादृशत्वं । एवं व्रतनिष्ठो भरतस्ते पादुके राज्याय पुरस्कृत्य त्वां प्रतीक्षते । त्वदागमनाकाङ्क्षया वर्तत इत्यर्थः । कि युक्तो भरत इत्यस्योत्तरमुक्त्वा जीवन्त्यपि मातर इत्यस्योत्तरमाह -सर्वं ेति । तव गृहे यद्यस्ति तत्सर्वं कुशलं क्षेमयुक्तं । जीवन्त्यपि ेति समुाय्य पृष्टाः सर्वे मातृपरिारकादयो जीवन्तीत्यर्थः ॥ ४ ॥

 

त्वां पुरा ीरवसनं प्रविशन्तं महावनम् ।

स्त्रीतृतीयं ्युतं राज्याद्धर्मकामं केवलम् ॥ ५ ॥

पदातिं त्यक्तसर्वस्वं पितुर्वनकारिणम् ।

सर्वभोगैः परित्यक्तं स्वर्ग्युतमिवामरम् ॥ ६ ॥

दृष्ट्वा तु करुणा पूर्वं ममासीत्समितिंजय ।

कैकेयीवने युक्तं वन्यमूलफलाशिनम् ॥ ७ ॥

त्वां पुरेत्यादिश्लोकत्रयमेकं वाक्यं ॥ पुराीरवसनं पुरातनीरवसनं । अतो न पूर्वपदेन पौनरुक्त्यं । करुणा दुःखं । परदुःखदुःखित्वं हि करुणा ॥ ५-७ ॥

 

सांप्रतं सुसमृद्धार्थं समित्रगणवान्धवम् ।

समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा ॥ ८ ॥

सांम्प्रतं इदानीं तु त्वां समीक्ष्य । स्थितस्येति शेषः । प्रीतिः । जातेति शेषः । अनुत्तमेत्यनेन देवकार्यकरणहेतुत्वात्पूर्वमपि काित्प्रीतिरासीदिति द्योत्यते ॥ ८ ॥

 

सर्वे सुखदुःखं ते विदितं मम राघव ॥ ९ ॥

सर्वमित्यर्धं ॥ सुखं पञ्वटीवासादिकृतं । दुःखं सीताहरणजं ॥ ९ ॥

 

यत्वया विपुलं प्राप्तं जनस्थानवधादिकम् ।

ब्राह्मणार्थे नियुक्तस्य रक्षितुः सर्वतापसान् ॥ १० ॥

रावणेन हृता भार्या बभूवेयमनिन्दिता ।

मारीदर्शनं ैव सीतोन्मथनमेव ॥ ११ ॥

कबन्धदर्शनं ैव पम्पाभिगमनं तथा ।

सुग्रीवेण ते सख्यं य वाली हृतस्त्वया ॥ १२ ॥

मार्गणं ैव वैदेह्याः कर्म वातात्मजस्य

विदितायां वैदेह्यां नलसेतुर्यथा कृतः ॥ १३ ॥

यथा वा दीपिता लङ्का प्रहरियूथपैः ।

सपुत्रबान्धवामात्यः सबलः सहवाहनः ॥ १४ ॥

यथा विनिहतः संख्ये रावणो देवकण्टकः ।

[ यथा निहते तस्मिन्रावणे देवकण्टके ] ॥

समागमश्र त्रिदशैर्यथा दत्तश् ते वरः ।। १५ ।।

सर्वं ममैतद्विदितं तपसा धर्मवत्सल ।

[ संपतन्ति मे शिष्याः प्रवृत्याख्याः पुरीमितः ॥ १६ ॥]

यत्त्वयेत्यादिसार्धश्लोकषट्कमेकान्वयं । ब्राह्मणार्थे ऋषिजनरक्षणार्थे । नियुक्तस्य तैर्याितस्य । अतएव रक्षितुः खरादिवधमुखेन पालयितुः । तव भार्या हृता बभूवेति यत् तेति योजना । हृता हर्तुमीप्सिता । आशंसायां क्तः । अतो न सीतोन्मथनमित्यनेन पौनरुक्त्यं । वरः मृतवानरजीवनादिः ।। १०–१६ ।।

 

अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर ।

अर्घ्यमद्य गृहाणेदमयोध्यां श्वो गमिष्यसि ।। १७ ।।

वरं दद्मि ददामि । अत्र आश्रमे । अद्य अर्ध्यं पूजां । गृहाणेति संबन्धः ॥ १७ ॥

 

तस्य त्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः ।

बाढमित्येव संहेष्टो धीमान्वरमयात ॥ १८ ॥

अकाले फलिनो वृक्षाः सर्वे ापि मधुस्रवाः ।

फलान्यमृतकल्पानि बहूनि विविधानि

भवन्तु मार्गे भगवन्नयोध्यां प्रति ग्छतः ॥ १९ ॥

तस्येत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ बाढमिति प्रतिगृह्य तस्मिन् दिने तत्र पूजामङ्गीकृत्येत्यर्थः । धीमान् अद्यात्र स्थित्वा भरतं प्रति दूतप्रेषणमुितमिति ज्ञानवानित्यर्थः । मधूनि स्रवन्तीति मधुस्रवाः ग्छतः ममेति शेषः । मयि ग्छति सतीत्यर्थः । भवन्तु । अत्रेतिकरणं बोध्यं । इति वरमयातेति संबन्धः ॥ १८-१९ ।

 

तथेति प्रतिज्ञाते बनात्समनन्तरम् ।

अभवन्पादपास्तत्र स्वर्गपादपसन्निभाः ॥ २० ॥

निष्फलाः फलिनश्ासन्विपुष्पाः पुष्पशालिनः ।

शुष्काः समग्रपत्रास्ते नगाथैव मधुस्रवाः ॥

सर्वतो योजना त्रीणि ग्छतामभवंस्तदा ॥ २१ ॥

तथेति ेत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ योजना योजनानि । सुपां सुलुक् इत्यादिना पूर्वसवर्णादेशः । अत्यन्तसंयोगे द्वितीया । ग्छतां वानराणां फलिनश्ासन्निति क्रमेणान्वयः । इदं ोत्तरदिनकार्यं सौकर्याय ऋषिणा दर्शितं ॥ २० – २१ ॥

 

ततः ग्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि ैव ॥

कामादुपाश्नन्ति सहस्रशस्ते मुदान्विताः स्वर्गजितो यथैव ॥ २२ ॥

ते प्रस्थिताः । स्वर्गजितो यथा स्वर्गिण इव ॥ २२ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तविंशत्युत्तरशततमः सर्गः ॥ १२७ ।।

इति श्रीगोविन्दराजविरिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तविंशत्युत्तरशततमः सर्गः ॥ १२७ ॥

Languages

Related Parts

error: Content is protected !!