श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां युद्धकाण्डे श्रीरामपट्टाभिषेको नाम एकत्रिंशदुत्तरशततमः सर्गः
भरतेनरामंप्रति हेतूक्तिपूर्वकंराज्यस्वीकारप्रार्थना ॥ १ ॥ तत्प्रार्थनांसफलीकृतवता -रामेण भरतलक्ष्मणाभ्यांसह जटाशोधनमाङ्गलिकाभ्यङ्गस्नानालंकरणादिकरणपूर्वकं भरतप्रेर्यमाणरथारोहणेन पौरनारीनरनिकरैर्मानुषवेषधारिभिर्वानरतन्नारीनिकरैरप्यनुगम्यमानेन राजोपचारैरुपचर्यमाणेनचसताऽयोध्याप्रवेशेन राजवीथी परिक्रमणेनदशरथगृहप्रवेशः ॥ २ ॥ वामदेवादिमहर्षिभिस्सहितेनवसिष्ठेन श्रीसीतयासह श्रीरामभद्रस्य भद्रतररत्नपीठोपवेशन -पूर्वकं नानामणिगणखचितसुवर्णघटपूर्णहनुमदादिसमानीतनदीसमुद्रशुभसलिलैः पट्टाभिषेकः ॥ ३ ॥ रामेण निजराज्याभिषेकोत्सवे ब्राह्मणादिभ्योनानामणिगणादिवितरणम् ॥ ४ ॥ सुग्रीवादीनां यथार्हंसंमानम् ॥ ५ ॥ सीतया हनुमते रामानुमत्यास्वकण्ठस्थहारप्रदानम् ॥ ६ ॥ श्रीरामेण विभीषणसुग्रीवादीनांयथार्हसंमाननेनस्वस्वावासप्रेषणपूर्वकं भरतस्ययौवराज्या -भिषेकः ॥ ७ ॥ श्रीरामेणाश्वमेधादियजनपूर्वकं सुखेनप्रजापरिपालनम् ॥ ८ ॥
शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः ।
बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ १ ॥
एवं पुष्पकं धनदाय प्रेषयित्वा वसिष्ठेन च समागम्य भरतानुज्ञां विना नायोध्या प्रवेष्टव्येति तात्पर्येण नन्दिग्राम एवासनोपविष्टे रामे निविष्टेषु च पौरवर्गेषु सन्निहितासु च मातृषु तादात्विकसूक्ष्मेङ्गितदर्शननिपुणो भरतः स्वहृदयमग्रजाय निवेदयति- शिरस्य जलमित्यादिना ।। शिरस्यञ्जलिमाधायेत्यनेन पूर्वकृता प्रपत्ति: स्मार्यते । अनन्यगतिकत्वसुचिका मुद्रा ह्यञ्जलिः । कैकेय्यानन्दवर्धन इत्यनेन भरतवचने कैकेयीसन्तोषो मुखप्रसादादिनाऽवगम्यत – इति द्योत्यते ॥ १ ॥
पूजिता मामिका माता दत्तं राज्यमिदं मम ।
तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ २ ॥
रामस्य राज्यपरिग्रहे अपरिहार्यं हेतुं दर्शयति – पूजितेति ॥ मामिका मत्संबन्धिनी माता पूजिता । राज्यपरित्यागपूर्वकवनवासाङ्गीकारेण त्वया तोषिता । अनन्तरमिदं राज्यं मम मयि चित्रकूटे दत्तं । तद्राज्यं त्वं यथा येन प्रकारेण । ममाददाः तेन प्रकारेण तुभ्यं ददामि । न्यासरूपेण मयि स्थापितं राज्यं न्यासरूपत्वाप्रहाणेनैव पुनर्ददामीत्यर्थः ॥ २ ॥
धुरमेकाकिना न्यस्तामृषभेण बलीयसा ।
किशोरवद्गुरुं भारं न वोढुमहमुत्सहे ॥ ३ ॥
अयोध्यायां राज्यभोगान् यथाकामं भोक्ष्ये राज्यं त्वमेव परिपालयेत्याकाङ्क्षायामाह – धुरमिति ॥ यद्वा पुनरर्थनपर्यन्तं न्यासधारणे नदोष इत्याशङ्क्याह – धुरमिति ॥ एकाकिना असहायेन । बलीयसा ऋषभेण न्यस्तां धुरं किशोरवत् बालवत्स इव । गुरुं भारं वोढुं नोत्सहे ॥ ३ ॥
वारिवेगेन महता भिन्नः सेतुरिव क्षरन् ।
दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥ ४ ॥
तर्हि कथमेतावत्पर्यन्तं सोढमित्यत आह – वारीति ॥ महता वारिवेगेन भिन्नः अतएव क्षरन् बहिर्निःसरन् जलसेतुरिव इदं राज्यच्छिद्रं छिद्रवद्राज्यं असंवृतं संवरणरहितं सत् दुर्बन्धनं मन्ये । यथा महता वारिवेगेन भिन्नः क्षरन् सेतुर्वारिवेगाहतिनिरोधकतृणपुलशाखा -पुञ्जादिसंबरणं विना न बद्धुं शक्यते । एवं बहुविधच्छिद्रं राज्यमपि मन्त्रगोपनादिराजगुणावरणं विना पालितुं न शक्यमिति भावः ॥ ४ ॥
गतिं खर इवाश्वस्य हंसस्येव च वायसः ।
नान्वेतुमुत्सहे राम तव मार्गमरिन्दम ॥ ५ ॥
अहमिव भवानपि लोकान् गुणैर्वशीकरोत्वित्यत्राह गतिमिति ॥ ५ ॥
यथा चारोपितो वृक्षो जातश्चान्तर्निवेशने ।
महांश्च सुदुरारोहो महास्कन्धप्रशाखवान् ॥ ६ ॥
शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन् ।
तस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते ॥ ७ ॥
एषोपमा महाबाहो त्वदर्थं वेत्तुमर्हसि ।
यद्यमान्मनुजेन्द्र त्वं भक्तान्भृत्यान्न शाधि हि ॥ ८ ॥
तर्हि ममैवोपोद्बलेन भवानेव राज्यं परिपालयत्वित्याशङ्क्य तर्हि तातेन भवत्पोषणं विफलं स्यादित्याह- यथा चेत्यादिश्लोकत्रयेण ॥ अन्तर्निवेशने आरोपितः उप्तः वृक्षः महान् जातः सुदुरारोहो महास्कन्धप्रशाखवान् पुष्पितोपि भूत्वा फलानि न प्रदर्शयन् यथा शीर्येत अफलो भवति । यथा च यस्य फलस्य हेतोर्येन रोप्यते सः रोपयिता तस्य वृक्षस्य अर्थं तत्फलं । नानुभवेत् । मनुजेन्द्र भक्तान् भृत्यान् अस्मान्न शाघि यदि । महाबाहो एषोपमा त्वदर्थमुक्तेति वेत्तुमर्हसीति योजना । अत्र वृक्षरामयोरारोपयितृदशरथयोश्च उपमानोपमेयभावः । बीजावापस्य पुत्रेष्ट्यादेश्च महास्कन्धस्य सभ्रातृकत्वस्य च प्रशाखवत्त्वस्य सुग्रीवादिमित्रगणस्य च पुष्पाणां कल्याणगुणानां च राज्याकरणस्य फलाभावस्य च साम्यं द्योत्यते ॥ ६-८ ॥
जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः ।
प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम् ॥ ९ ॥
भवतस्तु राज्यपरिपालने महती शक्तिरित्याह-जगदिति ॥ ९ ॥
तूर्यसङ्घातनिर्घोषैः काञ्चीनपुरनिस्वनैः ।
मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व राघव ॥ १० ॥
सर्वभोगार्हस्त्वमेव भोगान् भुङ्क्ष्वेत्याह- तूर्येति । काञ्चीनूपुरनिस्वनैरित्यनेन प्रबोधकललितनृत्यं गम्यते ॥ १० ॥
यावदावर्तते चक्रं यावती च वसुन्धरा ।
तावत्वमिह सर्वस्य स्वामित्वर्मनुवर्तय ॥ ११ ॥
मध्ये स्वस्य राज्याशानुद्गमं द्योतयन्नाह – यावदिति ॥ चक्रं ज्योतिश्चक्रमिति यावत् । यावती यावत्कालस्थितिः । तावत् तावत्कालम् । सर्वस्य राज्यस्य स्वामित्वमनुवर्तय । स्वामित्वानुवर्तनं हि पालनमेव ॥ ११ ॥
भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः ।
तथेति प्रतिजग्राह निषसादासने शुभे ॥ १२ ॥
निषसादेति । भरत इति शेषः ॥ १२ ॥
ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः ।
सुखहस्ता: सुशीघ्राश्च राघवं पर्युपासत ॥ १३ ॥
श्मश्रुवर्धकाः श्मश्रुवर्तकाः । वर्धनछेदनेथ द्वे आनन्दनसभाजने इत्यमरः । सुशीघ्रा: अभिषेकमुहूर्तातिलङ्घनं विना शीघ्रं कर्तुं समर्था: । उपासत श्मश्रूण्यवर्धन्त । भरतलक्ष्मणापेक्षया श्मशुवर्धकानां बहुवचनं । राघवमिति भरतलक्ष्मणयोः प्रदर्शनार्थं ॥ १३ ॥
पूर्वं तु भरते स्नाते लक्ष्मणे च महाबले ।
सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ १४ ॥
विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः ।
महार्हवर्सनो रामस्तस्थौ तत्र श्रिया ज्वलन् ॥ १५ ॥
पूर्वमित्यादिश्लोकद्वयमेकान्वयं ।। न मे स्नानं बहुमतं तं विना केकयीसुतं इत्युक्त्या प्रथमं स्नानं भरतस्य सुग्रीवस्यापि किष्किन्धानिर्गमनप्रभृतिस्नानाभावादद्य स्नानं । तथा विभीषणस्यापि लङ्कानिर्गमनप्रभृतिस्नानाभावात् । शत्रुघ्नस्य स्नानाश्रवणमधिकर्तृत्वेन तदानीमवसराभावात् । पूर्वं व्रतग्रहणानुक्तेश्च । नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोनघ इति संक्षेपोक्तेरत्रापि शत्रुघ्नस्नानमर्थसिद्धमित्याहुः । जटाशोधनं शुद्धकेशीकरणं । स्नात इति कर्तरिक्त: । नानावर्णपुष्पयुक्तत्वेन चित्रमाल्यत्वं । कुङ्कुमकर्पूरकस्तूर्यादिवस्तुभेदेन चित्रानुलेपनत्वं । महार्हवसनं पीताम्बरं । श्रिया इति अलंकारश्रिया । तत्र सिंहासने ज्वलन् प्रकाशमान: तस्थौ ॥ १४–१५ ॥
प्रतिकर्म च रामस्य कारयामास वीर्यवान् ।
लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ १६ ॥
प्रतिकर्म हाराद्यलंकरणं । इक्ष्वाकुकुलवर्धनः शत्रुघ्नः ॥ १६ ॥
प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः ।
आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ।। १७ ।।
आत्मनैव स्वयमेव ॥ १७ ॥
ततो वानरपत्नीनां सर्वासामेव शोभनम् ।
चकार यत्नात्कौसल्या प्रहृष्टा पुत्रलालसा ॥ १८ ॥
ततः शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिः ।
योजयित्वाऽभिचक्राम रथं सर्वाङ्गशोभनम् ॥ १९ ॥
अर्कमण्डलसंकाशं दिव्यं दृष्ट्वा रथोत्तमम् ।
आरुरोह महाबाहू रामः सत्यपराक्रमः ॥ २० ॥
शोभनं प्रतिकर्मेत्यर्थः ॥ १८-२० ॥
सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती ।
स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ ॥ २१ ॥
वराभरणसंपन्ना ययुस्ताः शुभकुण्डलाः ।
सुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः ॥ २२ ॥
दिव्यनिभैः दिव्यवस्त्रसदृशैः वस्त्रैरुपलक्षिताविति शेषः ॥ २१-२२ ॥
अयोध्यायां तु सचिवा राज्ञो दशरथस्य ये ।
पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥ २३ ॥
अयोध्यायामिति । गत्वेति शेषः । मन्त्रयामासुः अभिषेकोपयोगिमङ्गलद्रव्यसंपादनार्थं एवं कर्तव्यमिति मन्त्रयामासुः ॥ २३ ॥
अशोको विजयश्चैव सुमन्त्रश्चैव सङ्गताः ।
मन्त्रयन्त्रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च ॥ २४ ॥
उक्तमर्थं विवृणोति-अशोक इति ॥ मन्त्रयन् अमन्त्रयन् ॥ २४ ॥
सर्वमेवामिषेकार्थं जयार्हस्य महात्मनः ।
कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् ॥ २५ ॥
इति ते मन्त्रिणः सर्वे संदिश्य तु पुरोहितम् ।
नगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥ २६ ॥
सर्वमित्यादिश्लोकद्वयमेकान्वयं ॥ अर्हथेति पूजायां बहुवचनं ॥ २५-२६ ॥
हरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः ।
प्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥ २७ ॥
हरियुक्तं हरितवर्णयुक्ताश्वयुक्तं ॥ २७ ॥
जग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददे ।
लक्ष्मणो व्यजनं तस्य मूर्ध्नि संपर्यवीजयत् ॥ २८ ॥
श्वेतं च बालव्यजनं जग्रोह पुरतः स्थितः ।
अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ॥ २९ ॥
जग्राहेत्यादिश्लोकद्वयमेकान्वयं ॥ रश्मीन् जग्राह सारथ्यमकरोत् । लक्ष्मण इति । पुरतः स्थितो लक्ष्मण: व्यजनं तालवृत्तकं । मूर्ध्नि संपर्यवीजयत् । श्वेतं वालव्यजनं च जग्राह । अहं सर्वं करिष्यामीति त्वरया उभयग्रहणं अपरं चन्द्रसंकाशमित्यत्र जग्राहेत्यनुषज्यते ॥ २८-२९ ॥
ऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद्गणैः ।
स्तूयमानस्य रामस्य शुभुवे मधुरध्वनिः ॥ ३० ॥
ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम् ।
आरुरोह महातेजाः सुग्रीवः प्लवगर्षमः ॥ ३१ ॥
नवनागसहस्राणि ययुरास्थाय वानराः ।
मानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥ ३२ ॥
समरुद्गणैः सवायुगणैः । रामस्य मधुरध्वनिः रावणनिरसनापदानकथनध्वनिः ॥ ३०-३२ ।।
शङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्स्वनैः ।
प्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ।। ३३ ।।
शङ्खशब्दप्रणादैः शङ्खशब्दैः । जनहर्षप्रणादैश्चेत्यर्थः ॥ ३३ ॥
ददृशुस्ते समायान्तं राघवं सपुरस्सरम् ।
विराजमानं वपुषा रथेनातिरथं तदा ॥ ३४ ॥
ते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः ।
अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ।। ३५ ।।
ये नगरं प्रविश्य वसिष्ठं पुरस्कृत्य रामाभिषेकममन्त्रयन् ते सुमन्त्रादयः ॥ ३४-३५ ॥
अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः ।
श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥ ३६ ॥
प्रकृतिभिः पौरजनैः ॥ ३६ ॥
स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः ।
प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ॥ ३७ ॥
तूर्यैः तूर्यवादकैः । स्वस्तिको वाद्यविशेषः । मङ्गलानि प्रव्याहरद्भिः मङ्गलपाठकैः ॥ ३७ ॥
अक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः ।
नरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥ ३८ ॥
अक्षतं जातरूपमिति ॥ हरिद्रया जातरूपमक्षतं । वहद्भिरिति शेषः ॥ ३८ ॥
सख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे ।
वानराणां च तत्कर्म राक्षसानां च तद्बलम् ।।
विभीषणस्य संयोगमाचचक्षे च मन्त्रिणाम् ॥ ३९ ॥
सख्यं चेत्यादिसार्धश्लोकमेकं वाक्यं ।। सख्यं जातमिति शेषः । मन्त्रिणां मन्त्रिभ्यः ॥ ३९ ॥
श्रुत्वा तु विस्मयं जग्मुरयोध्यापुरवासिनः ॥ ४० ॥
द्युतिमानेतदाख्याय रामो वानरसंवृतः ।
हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह ॥ ४१ ॥
श्रुत्वेत्यर्धं । श्रुत्वा सुग्रीवसख्यादिकमिति शेषः ॥ ४०-४१ ।।
ततो ह्यभ्युच्छ्रयन्पौराः पताकास्ते गृहे गृहे ॥ ४२ ॥
अभ्युच्छ्रयन् अभ्युदश्राययन् । उन्नम्य स्थापितवन्तः ॥ ४२ ॥
ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥ ४३ ॥
ऐक्ष्वाकेत्यर्धं । राम इति शेषः ॥ ४३ ॥
अथाब्रवीद्राजसुतो भरतं धर्मिणां वरम् ।
अर्थोपहितया वाचा मधुरं रघुनन्दनः ॥ ४४ ॥
पितुर्भवनमासाद्य प्रविश्य च महात्मनः ।
कौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च ॥ ४५ ॥
अथाब्रवीदित्यादिश्लोकद्वयमेकान्वयं । अथ रघुनन्दनः महात्मनः पितुर्भवनमासाद्य प्रविश्य च कौसल्याप्रभृतीरमिवाद्य च भरतमब्रवीदिति योजना ॥ ४४-४५ ।।
यच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् ।
मुक्तावैडूर्यसंकीर्णं सुग्रीवाय निवेदय ॥ ४६ ॥
तस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः ।
पाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥ ४७ ॥
साशोकवनिकं अन्तःपुरोधानसहितं ।। ४६-४७ ।।
ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च ।
गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ॥ ४८ ॥
उवाच च महातेजाः सुग्रीवं राघवानुजः ।
अभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥ ४९ ॥
सौवर्णान्वानरेन्द्राणां चतुर्णां चतुरो घटान् ।
ददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ॥ ५० ॥
विविशुः । परिचारिका इति शेषः ॥ ४८-५० ॥
यथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् ।
पूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥ ५१ ॥
एवमुक्ता महात्मानो वानरा वारणोपमाः ।
उत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः ॥ ५२ ॥
जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः ।
ऋषभश्चैव कलशाञ्जलपूर्णानथानयन् ॥ ५३ ॥
हे वानराः चतुर्णां सागराम्भसां चतुभिः सागराम्भोभि: पूर्णैर्घटे: उपलक्षिताः प्रत्यूषसमये यथा प्रतीक्षध्वं यथास्मान् प्रतीक्षिष्यध्वे तथा कुरुतेति योजना । सागरजलानयननियोगो नदीजलानयननियोगस्याप्युपलक्षकः ॥ ५१-५३ ॥
नदीशतानां पञ्चानां जलं कुम्भेषु चाहरन् ॥ ५४ ॥
जलपूर्णानथानयन्नित्युक्तमेवार्थं विवृणोति-नदीशतानामिति ॥ ५४ ॥
पूर्वात्समुद्रात्कलशं जलपूर्णमथानयत् ।
सुषेणः सत्वसंपन्नः सर्वरत्नविभूषितम् ॥ ५५ ॥
एवं जाम्बवद्धनुमद्वेगदर्श्यृषभैर्नदीजलानयनमुक्त्वा सुषेणर्षभगवयानलैः सागरजला -नयनं दर्शयति- पूर्वादिति ॥ ५५ ॥
ऋषभो दक्षिणाचूर्णं समुद्राज्जलमाहरत् ।
रक्तचन्दनशाखाभिः संवृतं काञ्चनं घटम् ॥ ५६ ॥
गवयः पश्चिमात्तोयमाजहार महार्णवात् ।
रत्नकुम्भेन महता शीतं मारुतविक्रमः ॥ ५७ ॥
उत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः ।
आजहार स धर्मात्मानलः सर्वगुणान्वितः ॥ ५८ ॥
ऋषभो दक्षिणादिति । अयं चर्षभः पूर्वस्मादन्यः ॥ ५६-५८ ॥
ततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम् ।
अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह ॥
पुरोहिताय श्रेष्ठाय सुहृभ्यश्च न्यवेदयत् ॥ ५९ ॥
ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह ।
रामं रत्नमये पीठे सहसीतं न्यवेशयत् ॥ ६० ॥
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
कात्यायनः सुयज्ञश्व गौतमो विजयस्तथा ॥ ६१ ॥
अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना ।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ६२ ॥
तत इत्यादिसार्धश्लोक एकान्वयः । तत् प्रसिद्धं । तज्जलं तेषां नदीसागराणां जलं ॥ ५९-६२ ॥
ऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मत्रिभिस्तथा ।
योधैश्चैवाभ्यषिञ्चंस्ते संप्रहृष्टाः सनैगमैः ॥ ६३ ॥
ते वसिष्ठायः ऋत्विगादिभिः सहाभ्यषिञ्चन्निति योजना ।। ६३ ।।
सर्वौषधिरसैर्दिव्यैर्दैवतैर्नभसि स्थितैः ।
चतुर्भिर्लोकपालैश्च सर्वैर्देवैश्व संगतैः ।। ६४ ।।
[ ब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम् ।
अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम् ।। ६५ ।।
तस्यान्ववाये राजानः क्रमाद्येनाभिषेचिताः ।
सभायां हेमक्लृप्तायां शोभितायां मैहाजनैः ॥
रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः ॥ ६६ ॥
नानारत्नमये पीठे कल्पयित्वा यथाविधि ।
किरीटेन ततः पश्चाद्वसिष्ठेन महात्मना ॥
ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः ॥ ६७ ॥ ]
छत्रं तु तस्य जग्राह शत्रुघ्नः पाण्डुरं शुभम् ।
श्वेतं च बालव्यजनं सुग्रीवो वानरेश्वरः ॥
अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ॥ ६८ ।।
सर्वौषधिरसैरित्यत्रापि अभ्यषिञ्चंस्त इत्यनुषज्यते ॥ ६४-६८ ॥
मालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् ।
राघवाय ददौ वायुर्वासवेन प्रचोदितः ॥ ६९ ॥
शतपुष्करां शतपद्म ।। ६९ ।।
सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् ।
मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः ॥ ७० ॥
प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ।
अभिषेके तदर्हस्य तदा रामस्य धीमतः ॥ ७१ ॥
सर्वरत्नैः नवरत्नैः समायुक्तं । मणिरत्नेन मणिश्रेष्ठेन नायकेन मध्ये विराजन्तं । मुक्ताहारं मुक्ताप्रचुरहारं ददौ । वायुरित्यनुषज्यते ॥ ७०-७१ ॥
भूमिः सस्यवती चैव फलवन्तश्च पादपाः ।
गन्धवन्ति च पुष्पाणि बभूव राघवोत्सवे ॥ ७२ ॥
पूर्वं रामविश्लेषे अपि वृक्षाः परिम्लाना इत्युक्तावस्थं वस्तुजातं रामसंश्लेषे तादृगवस्थां विहाय प्रहृष्टतममभूदित्याह-भूमिरिति ॥ ७२ ॥
सहस्रशतमश्वानां धेनूनां च गवां तथा ।
ददौ शतं वृषापूर्वं द्विजेभ्यो मनुजर्षभः ॥ ७३ ॥
त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः ।
नानाभरणवस्त्राणि महार्हाणि च राघवः ॥ ७४ ॥
धेनूनां नवप्रसूतिकानां धेनुः स्यान्नवसूतिका इत्यमरः । पूर्वं हिरण्यदानादेः पूर्वं सुग्रीवादिभ्यः पूर्वं वा ॥ ७३-७४ ॥
अर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् ।
सुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः ॥ ७५ ॥
मणिविग्रहां मणिप्रचुरां ॥ ७५ ॥
वैडूर्यमणिचित्रे च वज्ररत्नविभूषिते ।
बालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ ॥ ७६ ॥
धृतिमान् प्रीतिमान् ॥ ७६ ॥
मणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम् ।
सीतायै प्रददौ रामचन्द्ररश्मिसमप्रभम् ॥ ७७ ॥
सीतायै प्रददौ हनुमते दातव्यमित्याशयेन ददौ ॥ ७७ ॥
अरजे वाससी दिव्ये शुभान्याभरणानि च ।
अवेक्षमाणा वैदेही प्रददौ वायुसूनवे ॥ ७८ ॥
अरजे निर्मले । अकारान्तत्वमार्षं । अवेक्षमाणा भर्तारमिति शेषः । स्त्रियाः स्वातन्त्र्याभावात् भर्त्रनुज्ञां काङ्क्षितवतीति भावः ॥ ७८ ।।
अवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ।
अवैक्षत हरीन्सर्वान्भर्तारं च मुहुर्मुहुः ॥ ७९ ॥
हारं रामदत्तं । सदसि मह्यं हारप्रदानं कस्मैचित् पारितोषिकतया दापयितुमिति निश्चित्य अयं हारः एषु कस्मै देय इत्याशयेना वैक्षतेत्यर्थः ॥ ७९ ॥
तामिङ्गितज्ञः संप्रेक्ष्य बभाषे जनकात्मजाम् ।
प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि ॥
पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि सर्वशः ॥ ८० ॥
ददौ सा वायुपुत्राय तं हारमसितेक्षणा ।
हनुमांस्तेन हारेण शुशुभे वानरर्षभः ॥
चन्द्रांशुचयगौरेण श्वेताश्रेण यथाऽचलः ॥ ८१ ॥
ताभिङ्गितज्ञ इत्यादिसार्धश्लोक एकान्वयः । यस्य यस्मिन् । पौरुषं बलं समुद्रलङ्घनेन । विक्रमो लङ्कादहनेन । बुद्धिः अशोकवनिकाप्रवेशेन । सर्वशः सर्वाणि यस्मिन् सन्तीति यस्य संतुष्टासि तस्मै देहीति योजना । अन्यथा अन्येषां निन्दोक्तिरेव स्यात् ।। ८०-८१ ।।
ततो द्विविदमैन्दाभ्यां नीलाय च परन्तपः ।
सर्वान्कामगुणान्वीक्ष्य प्रददौ वसुधाधिपः ॥ ८२ ॥
सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः ।
वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ॥ ८३ ॥
कामगुणान् काम्यन्त इति कामाः प्रार्थनीयाः गुणाः येषांते तान् आभरणादिवस्तुविशेषान् ।। ८२-८३ ।।
विभीषणोथ सुग्रीवो हनुमाञ्जाम्बवांस्तथा ।
सर्ववानरमुख्याश्च रामेणाक्लिष्टकर्मणा ॥ ८४ ॥
यथार्हं पूजिताः सर्वैः कामै रत्नैश्च पुष्कलैः ।
प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥ ८५ ॥
नत्वा सर्वे महात्मानं ततस्ते प्लवगर्षभाः ।
विसृष्टाः पार्थिवेन्द्रेण किष्किन्धामभ्युपागमन् ॥ ८६ ॥
विभीषणोथेति । अत्र संभावितपरिगणने प्रथमं कीर्तनाल्लब्ध्वा कुलधनमित्य -नुवादाच्च आदावेव विभीषणः संभावित इति बोध्यं ॥ ८४-८६ ॥
सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् ।
[ पूजितश्चैव रामेण किष्किन्धां प्राविशत्पुरीम् ] ॥ ८७ ॥
सुग्रीव इत्यर्धं ।। अत्रापि वचनव्यत्ययेन किष्किन्धामभ्युपागमदित्यनुषज्यते ।। ८७ ।।
[ रामेण सर्वकामैश्च यथार्हं प्रतिपूजितः । ]
लब्ध्वा कुलधनं राजा लङ्कां प्रायाद्विभीषणः ॥ ८८ ॥
लब्ध्वेत्यर्धं । कुलधनं इक्ष्वाकुकुलधनं श्रीरङ्गविमानमिति संप्रदाय: ।। ८८ ।।
स राज्यमखिलं शासन्निहतारिर्महायशाः ।
राघवः परमोदारः शशास परया मुदा ॥ ८९ ॥
उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥ ९० ॥
शासन् दुष्टनिग्रहं कुर्वन् शशास बुभुज इत्यर्थ: । धातूनामनेकार्थत्वात् ॥ ८९-९० ॥
आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन ॥
तुल्यं मया त्वं पितृभिर्घृता या तां यौवराज्ये धुरमुद्वहस्व ॥ ९१ ॥
लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुन्धरां इति पूर्वाभिषेकारम्भे भरतासन्निधाने प्रतिज्ञानात् रामो द्विर्नाभिभाषत इति नियमाल्लक्ष्मणमेव यौवराज्ये नियुङ्क्ते – आतिष्ठेति । पूर्वराजैः मन्वादिभिः अध्युषितां । आतिष्ठ पालयं । पितृभिः पितृपितामहप्रपितामहै: या धृता तां धुरं मया तुल्यं यथा भवति तथा यौवराज्ये स्थित्वा उद्वहस्व ।। ९१ ।।
सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम् ।
नियुज्यमानोपि च यौवराज्ये ततोऽभ्यषिञ्चद्भरतं महात्मा ॥ ९२ ॥
यौवराज्ये नियुज्यमानः यौवराज्यमङ्गीकुरुष्वेति नियम्यमानः । पर्यनुनीयमानः पुनःपुनरनुनयेन पृच्छ्यमानः सन्नपि च सर्वात्मना सर्वप्रकारेणापि यदा योगं संमतिं नोपैति । स्वशेषत्वविरुद्धत्वज्ञानाज्येष्ठे भरते विद्यमाने स्वस्य तदनुचितत्वज्ञानाच्चेति भावः । तदा भरतं अत्यन्तपरतन्त्रं यौवराज्ये अभ्यषिञ्चत् ।। ९२ ।।
पौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् ।
अन्यैश्च विविधैर्यज्ञैरयजत्पार्थिवर्षभः ॥ ९३ ॥
राज्यं दश सहस्राणि प्राप्य वर्षाणि राघवः ।
शताश्वमेधानाजह्रे सदश्वान्भूरिदक्षिणान् ॥ ९४ ॥
आजानुलम्बबाहुः स महास्कन्धः प्रतापवान् ।
लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् ॥ ९५ ॥
पौण्डरीकेति । अत्रोत्तरक्रत्वारम्भोक्तिर्वनवासात्परमग्न्याधानपूर्वकं पूर्वक्रतवोपि रामेण कृता इत्यस्योपलक्षणं ॥ ९३-९५ ।।
राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् ।
ईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः ।। ९६ ॥
चापीति निपातसमुदायोवधारणार्थोऽभिन्नक्रमः । ससुहृज्जातिवान्धव एवेत्यर्थः ॥ ९६ ॥
न पर्यदेवन्विधवा न च व्यालकृतं भयम् ।
न व्याधिजं भयं वाऽपि रामे राज्यं प्रशासति ॥ ९७ ॥
निर्दस्युरभवल्लोको नानर्थः कंचिदस्पृशत् ।
न च स वृद्धा बालानां प्रेतकार्याणि कुर्वते ।। ९८ ॥
न पर्यदेवन्निति । नपर्यदेवयन्नित्यर्थः ।। ९७-९८ ॥
सर्वं मुदितमेवासीत्सर्वो धर्मपरोऽभवत् ।
राममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम् ।। ९९ ॥
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः ।
निरामया विशोकाश्च रामे राज्यं प्रशासति ।। १०० ।।
रामो रामो राम इति प्रजानामभवन्कथाः ।
रामभूतं जगदभूद्रामे राज्यं प्रशासति ॥ १०१ ॥
नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः ।
काले वर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥ १०२ ।।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः ।
स्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः ॥ १०३ ॥
आसन्प्रजा धर्मरता रामे शासति नानृताः ।
सर्वे लक्षणसंपन्नाः सर्वे धर्मपरायणाः ॥ १०४ ॥
दश वर्षसहस्राणि दश वर्षशतानि च ।
भ्रातृभिः सहितः श्रीमान्रामो राज्यमकारयत् ॥ १०५ ॥
राममेवेति । अन्योन्यनिर्मूलनवैरे सत्यपि राममुखं म्लानं भविष्यतीति मत्वा परस्परं नाभ्यहिंसन् । परमधार्मिकं राममेवानुचिन्तयन्तोऽन्योन्यवैरं प्रजहुरित्यर्थः ।। ९९-१०५ ॥
धेन्यं यशस्यमायुष्यं राज्ञां च विजयावहम् ।
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ॥
यः पठेच्छृणुयाल्लोके नरः पापाद्विमुच्यते ॥ १०६ ॥
अथ रामायणपठने फलं दर्शयति- धन्यमित्यादिसार्धश्लोकमेकं वाक्यं ।। ऋषिः वेदः तत्संबन्धि । वेदोपबृंहणमिति यावत् । पुरा अवतारात्पूर्वं । रामोत्तरतापनीयमूलत्वेन पुरातनमितिवार्थ: । यद्वा पुरा सर्वकविभ्य: पूर्वं । न त्ववतारात्पूर्वमित्यर्थः । प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः । चकार चरितं कृत्स्नं विचित्रपदमात्मावान् इति रामे प्राप्तराज्ये सति चकारेत्युपक्रमात् राम: सीतामनुप्राप्य राज्यं पुनरवाप्तवान् इति राज्यप्राप्तिपर्यन्तं भूततया निर्दिश्य ततः परं ब्रह्मलोकं प्रयास्यतीत्येतदन्तं भविष्यत्तयानिर्देशात् कोन्वस्मिन्सांप्रतं लोके’ इत्यादौ सांप्रतशब्दप्रयोगात् रामभूतं जगदभूद्रामे राज्यं प्रशासति इति सकललोकविदितरामविषयप्रश्नानुपपत्तेः सर्वथा परिहृतत्वात् । इतिहासं पुरातनम् इत्यस्य आदिकाव्यत्वात्सङ्गतेरन्येषामपि विरोधाभासानां सुपरिहार्यत्वाच्चार्यमेवार्थ: ॥ १०६ ॥
पुत्रकामस्तु पुत्रान्वै धनकामो धनानि च ।
लभते मनुजो लोके श्रुत्वा रामाभिषेचनम् ॥ १०७ ।।
महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति ।
राघवेण यथा माता सुमित्रा लक्ष्मणेन च ॥ १०८ ॥
भरतेनेव कैकेयी जीवपुत्रास्तथा स्त्रियः ।
[ भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः ] ॥ १०९ ॥
श्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति ।
रामस्य विजयं चैव सर्वमक्लिष्टकर्मणः ॥ ११० ॥
पुत्रकामस्त्वित्यादिसार्धश्लोकद्वयमेकं वाक्यं ।। रामाभिषेचनं रामामिषेकावधिकं । अधितिष्ठति आक्रम्यं तिष्ठतीत्यर्थः । माता कौसल्या । जीवपुत्राः भवन्तीति शेषः ।। १०७-११० ॥
शृणोति य इदं काव्यमार्षं वाल्मीकिना कृतम् ।
श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ ॥ १११ ॥
समागमं प्रवासान्ते लभते चापि बान्धवैः ।
प्रार्थितांश्च वरान्सर्वान्प्राप्नुयादिह राघवात् ॥ ११२ ॥
शृणोति य इत्यादिश्लोकद्वयमेकान्वयं ॥ दुर्गाणि दारिद्र्यादीनि ।। १११-११२ ॥
श्रवणेन सुराः सर्वे प्रीयन्ते संप्रशृण्वताम् ।
विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै ॥ ११३ ॥
विजयेत महीं राजा प्रवासी स्वस्तिमान्व्रजेत् ।
स्त्रियो रजस्वलाः श्रुत्वा पुत्रान्सूपुरनुत्तमान् ॥ ११४ ॥
पूजयंश्च पठंश्चेममितिहासं पुरातनम् ।
सर्वपापात्प्रमुच्येत दीर्घमायुरवाप्नुयात् ॥ ११५ ॥
विनायकाः विघ्नकरा ग्रहाः ॥ ११३-११५ ॥
प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात् ।
ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः ॥ ११६ ॥
रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा ।
प्रीयते सततं रामः स हि विष्णुः सनातनः ॥ ११७ ॥
आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः ।
[ साक्षाद्रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते ] ॥ ११८॥
कुटुम्बवृद्धिं धनधान्यवृद्धिं स्त्रियश्च मुख्याः सुखमुत्तमं च ॥
श्रुत्वा शुभं काव्यमिदं महार्थं प्राप्नोति सर्वां भुवि चार्थसिद्धिम् ॥ ११९ ॥
ब्राह्मणवत् क्षत्रियस्यापि पाठप्राप्तौ नियममाह — प्रणम्येति । वैश्यादीनां कैमुतिकसिद्धं ब्राह्मणात् प्रणमनपूर्वकं श्रवणं ।। ११६-११९ ॥
आयुष्यमारोग्यकरं यशस्यं सौभ्रातृकं बुद्धिकरं सुखं च ।।
श्रोतव्यमेतन्नियमेन सद्भिराख्यानमोजस्करमृद्धिकामैः ॥ १२० ॥
[ वस्त्रेण दिव्येन धनेन चैव धान्येन भूम्याभरणेन वेश्मना ।।
संतर्पयेद्वाचकमर्थजालैर्न चेत्फलं विन्दति वित्तशाठ्यकृत् ॥ १२१ ॥ ]
एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः ।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ १२२ ॥
देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात्तथा ।
रामायणस्य श्रवणात्तुष्यन्ति पितरस्तथा ॥ १२३ ॥
सौभ्रातृकं सौभ्रातृकरं सुखं सुखकरं ॥ १२०-१२३ ॥
भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम् ।
लेखयन्तीह च नरास्तेषां वासस्त्रिविष्टपे ॥ १२४ ॥
संहितातुल्यत्वात् संहितेति व्यपदेशः ॥ १२४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां युद्धकाण्डे श्रीरामपट्टाभिषेको नाम एकत्रिंशदुत्तरशततमः सर्गः ॥ १३१ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकत्रिंशदुत्तरशततमः सर्गः ॥ १३१ ॥
इत्थं श्रीमच्छठारेश्चरणसरसिजद्वन्द्वसेवातिरेकादुद्भूतोद्दामबोधः कुशिकसुतकुला -पाम्पतेरोषधीशः ।
श्रीमान्गोविन्दराजो वरदगुरुसुतो भावनाचार्यवर्यप्रेम्णैव प्रेर्यमाणो व्यतनुत विपुलां युद्धकाण्डस्यटीकाम् ॥ १ ॥
इति युद्धकाण्डः समाप्तः ॥ ६ ॥