श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चदशः सर्गः
इन्द्रजिता विभीषणभाषणाधिक्षेपेणस्वात्मश्लाघनपूर्वकं कैमुत्येनरामपराजयस्य सुशकत्वोक्तिः ॥ १ ॥ विभीषणेन तद्गर्हणपूर्वकं रामायसोपायनंसीताप्रत्यर्पणेन तत्प्रसादसंपादनचोदना ॥ २ ॥
बृहस्पतेस्तुल्यमतेर्वचस्त न्निशम्य यत्नेन विभीषणस्य ।
ततो महात्मा वचनम् बभाषे तत्रेन्द्रजिन्नैर्ऋतयोधमुख्यः ॥ १ ॥
अथेन्द्रजितो दुर्बुद्धिमुपन्यस्य दूषयति- बृहस्पतेरिति ॥ ततो विभीषणवचनानन्तरं । तत्र राक्षसेषु यत्नेन निशम्य । असह्यतयेति भावः ॥ १ ॥
किम् नाम ते तात कनिष्ठ वाक्य मनर्थकम् चैव सुभीतवच्च ।
अस्मिन् कुले योऽपि भवेन्न जातः सोऽपीदृशम् नैव वदेन्न कुर्यात् ॥ २ ॥
हे तात ते कनिष्ठवाक्यं । अनर्थकं प्रयोजनशून्यं । अनुष्ठा तुरभावादिति भावः । सुभीतवत् सुभीतिमत् । किंनाम कीदृशं जुगुप्सितमित्यर्थः । नामशब्द: कुत्सनद्योतकः नाम प्राकाश्यसंभाव्यक्रोधोपगमकुत्सने इतिवैजयन्ती । तदेवोपपादयति — अस्मिन्निति । आद्योऽपिशब्दः प्रश्ने । अपि ननु । अस्मिन् कुले पौलस्त्यवंशे । यो जातो न भवेत् । अन्यस्मिन् कुले यो जातः सोपि ईदृशं न वदेत् । न कुर्यात् ईदृग्वचनार्थं नानुतिष्ठेत् । ईदृग्वचनं वक्तृश्रोत्रोरुभयोरपि निन्दनीयं । यद्वा हे तात कनिष्ठ । ते वाक्यं किं नाम । जुगुप्सितमित्यर्थः । जुगुप्सितत्वमेवाह-अस्मिन्निति । कुर्यात् नचिन्तयेत् । अत्र करोतिश्चिन्ताक्रियायां वर्तते मुख्यस्य करणार्थस्यासंभवात् सर्वधात्वर्थेषु करोत्यर्थस्य संभवाच्च ॥ २ ॥
सत्त्वेन वीर्येण पराक्रमेण शौर्येण धैर्येण च तेजसा च ।
एकः कुलेऽस्मिन् पुरुषो विमुक्तो विभीषणस्तात कनिष्ठ एषः ॥ ३ ॥
एतद्वाक्यमेतत्स्वभावस्य सदृशमित्याह – सत्त्वेनेति ॥ सत्त्वेन बलेन । वीर्येण प्रभावेन । वीर्यं बले प्रभावे च इत्यमरः । पराक्रमेण उद्योगेन । शौर्योद्योगौ पराक्रमौ इत्यमरः । शौर्येण साहसिक्येन। धैर्येण स्थैर्येण । तेजसा गर्वेण । पराभिभवासहनेनेतियावत् ।। ३ ।।
किम् नाम तौ राक्षसराजपुत्रा वस्माकमेकेन हि राक्षसेन ।
सुप्राकृतेनापि मतौ निहन्तुं शक्यौ कुतो भीषयसे स्म भीरो ॥ ४ ॥
एवं रावणं प्रत्युक्त्वा विभीषणं निर्भर्त्सयति – किंनामेत्यादिना ॥ राक्षसेति हीनसंबोधनमाग्रहकृत्यं । तौ राजपुत्रौ किं नाम न किंचिदपि । अतिदुर्बलावित्यर्थः । कुत इत्यत्राह – अस्माकमेकेनेति । अस्माकं मध्ये सुप्राकृतेन अतिक्षुद्रेणापि । एकेन राक्षसेन एतौ निहन्तुं शक्यौ हि । अतः भीरो कुतोस्मान् भीषयसे स्वयंभीतोऽस्मान् भीषयसे । नास्माकंकिंचिद्भयमितिभावः ॥ ४ ॥
त्रिलोकनाथो ननु देवराजः शक्रो मया भूमितले निविष्टः ।
भयार्दिताश्चापि दिशः प्रपन्नाः सर्वे तदा देवगणाः समग्राः ॥ ५ ॥
भयाभावे पूर्ववृत्तं संवादयति – त्रिलोकेति ॥ नन्वित्यामन्त्रणे । त्रिलोकनाथ इत्यैश्वर्यमुक्तं । देवराजइति सैन्यसामग्री दर्शिता । मया हेतुना । भूमितले निविष्टः स्थितः । निवेशितइत्यर्थ इत्यन्ये ।। ५ ।।
ऐरावतो विस्वरमुन्नदन्स निपातितो भूमितले मया तु ।
विकृष्य दन्तौ तु मया प्रसह्य वित्रासिता देवगणाः समग्राः ॥ ६ ॥
उन्नदन् उद्धृष्यन् । विकृष्य उत्पाट्य । ताभ्यां सर्वे देवगणाः वित्रासिताः हेतुभेदेन देवानां भयान्तरमत्रोक्तमिति न पुनरुक्तिः ॥ ६ ॥
सोऽहम् सुराणामपि दर्पहन्ता दैत्योत्तमानामपि शोकदाता ।
कथम् नरेन्द्रत्मजयोर्न शक्तो मनुष्ययोः प्राकृतयोः सुवीर्यः ॥ ७ ॥
स्ववृत्तप्रदर्शनफलमाह -सोहमिति ॥ मनुष्ययोरिति देवासुरव्यावृत्तिः । प्राकृतयोरिति इन्द्रव्यावृत्तिः । नरेन्द्रात्मजयोरिति बाल्योक्तिः । कथं न शक्तोस्मि अतः कुतो भीषयसे इति पूर्वेणान्वयः ॥ ७ ॥
अथेन्द्रकल्पस्य दुरासदस्य महौजसस्तद्वचनम् निशम्य ।
ततो महार्थम् वचनं बभाषे विभीषणः शस्त्रभृतां वरिष्ठः ॥ ८ ॥
इन्द्रकल्पस्येत्यादिविशेषणत्रयेण पूर्वोक्तस्य यथार्थत्वमुक्तं । शस्त्रभृतां वरिष्ठ इत्यनेनाभीरुत्वमुक्तं । महार्थमित्यनेन वक्ष्यमाणार्थस्येन्द्रजिता दुर्ज्ञेयत्वमुक्तं ॥ ८ ॥
न तात मन्त्रे तव निश्चयोऽस्ति बालस्त्वमद्याप्यविपक्वबुद्धिः ।
तस्मात्त्वया ह्यात्मविनाशनाय वचोऽर्थहीनं बहु विप्रलप्तम् ॥ ९ ॥
न तातेति अनेन निकृष्टवयस्त्वमुक्तं । बालत्वेपि कस्यचित्सुमतिः संभवति सापि नास्तीत्याह–अद्यापीति । अविपकबुद्धिः अपरिणत- बुद्धिः । निश्चयाभावं दर्शयति-तस्मादिति । विप्रलप्तं विप्रलपितं ॥ ९ ॥
पुत्रप्रवादेन तु रावणस्य त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः ।
यस्येदृशं राघवतो विनाशं विशम्य मोहादनुवन्यसे त्वम् ॥ १० ॥
न केवलं स्वाज्ञानस्य स्वविनाश एव फलं किंतु पितृविनाशोपीत्याह – पुत्रेति ॥ हे इन्द्रजित् त्वं पुत्रप्रवादेन पुत्रप्रसिद्ध्या । इत्थंभावे तृतीया । मित्रस्य मुखमिव मुखं यस्य सः तथोक्तः । मित्रवद्भासमान इत्यर्थः । शत्रुरसि । शत्रुत्वमेवोपपादयति — यस्येति । त्वं यस्य रावणस्य ईदृशं पुत्रमित्र विनाशपर्यन्तं । राघवतो रामात् । विनाशं मन्मुखाच्छ्रुत्वा । मोहादनुमन्यसे तस्य रावणस्य त्वं शत्रुरसीत्यर्थः । मोहादित्यनेन मित्रमुखत्वमुपपादितं । अनुमन्यस इत्यनेन शत्रुत्वं ॥ १० ॥
त्वमेव वध्यश्च सुदुर्मतिश्च स चापि वध्यो य इहानयत्त्वाम् ।
बालं दृढं साहसिकं च योऽद्य प्रावेशयन्मन्त्रकृतां समीपम् ॥ ११ ॥
एवमनुमोदनस्य दण्डमाह – त्वमेवेति ॥ त्वमेव वध्यः दण्ड्यः किमित्यर्थः । किंतु यस्त्वां इह सभायां । आनयत् प्रावेशयच्च । स एव वध्यः ॥ ११ ॥
मूढः प्रगल्भोऽविनयोपपन्नस्तीक्ष्णस्वभावोऽल्पमतिर्दुरात्मा ।
मूर्खस्त्वमत्यन्तसुदुर्मतिश्च त्वमिन्द्रजिद्बालतया ब्रवीषि ॥ १२ ॥
सुदुर्मतिश्चेति चशब्ददर्शितान् दोषानाह—मूढः इति ।। मूढः कृत्याकृत्यविवेकशून्यः । प्रगल्भः धृष्टः । पण्डितंमन्य इति यावत् । अविनयोपपन्नः अशिक्षित इत्यर्थः । तीक्ष्णस्वभावः क्रूरप्रकृतिः। दुरात्मा दुष्टान्तःकरणः । मूर्खः अविमृश्यकारी । अत्यन्तसुदुर्मतिः । ग्रहस्तो दुर्मतिः महापार्श्वादिः सुदुर्मतिः त्वमत्यन्तसुदुर्मतिरित्यर्थः । त्वमेवंभूतोसि अतस्त्वं बालतया ब्रवीषि इति संबन्धः ॥ १२ ॥
को ब्रह्मदण्डप्रतिमप्रकाशा नर्चिष्मतः कालनिकाशरूपान् ।
सहेत बाणान्यमदण्डकल्पा न्समक्षमुक्तान्युधि राघवेण ॥ १३ ॥
दुर्मतित्वे हेतुमाह – क इति ॥ ब्रह्मदण्डप्रतिमप्रकाशान् ब्रह्मदण्डसदृशप्रभान् । ब्रह्मदण्डो नाम युगान्तसमुत्थितोग्निवर्णो धूमकेतुरित्येके ब्रह्मशाप इत्यन्ये । अर्चिष्मतः ज्वालावतः । अर्चिर्हेति: शिखा स्त्रियां इत्यमरः । कालनिकाशरूपान् अन्तकसदृशरूपान् । समक्षमुक्तान् समीपे मुक्तान् ॥ १३ ॥
धनानि रत्नानि सुभूषणानि वासांसि दिव्यानि मणीम्श्च चित्रान् ।
सीताम् च रामाय निवेद्य देवीं वसेम राजन्निह वीतशोकाः ॥ १४ ॥
कृतस्याकृत्यस्य प्रायश्चित्तं राजानं प्रत्याह- धनानीति ॥ रत्नानि श्रेष्ठवस्तूनि । रत्नं स्वजातिश्रेष्ठेपि इत्यमरः । धनानि द्रव्याणि ॥ १४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चदशः सर्गः ॥ १५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चदशः सर्गः ॥ १५ ॥