श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विंशः सर्गः
रावणचोदनयासागरोत्तरतीरमेत्य रामादिवृत्तान्तावगमनपूर्वकं लङ्कांपुनरागते नशार्दूलनाम्नाचारेणशवणे रामवृत्तान्तनिवेदनम् ॥ १ ॥ रावणप्रेषितेनपक्षिरूपधारिणाशुकनाम्नाराक्षसते नान्तरिक्षस्थेनैवसता सुग्रावे रावणसंदेशनिवेदनम् ॥ २ ॥ गगन मुद्गत्तैर्वानरैर्भूप्रापणपूर्वकंपीडितेनशुकेन स्वप्रार्थित रामनियोगात्तैर्विमोक्षणे पुनरन्तरिक्षमेत्यसुग्रीवंप्रति संदेशप्रार्थनम् ॥ ३ ॥ शुकंप्रतिसुग्रीवेणरावणे रामापराधात्पुत्रमित्रादिभिस्सहमारणप्रतिज्ञानरूपप्रतिसंदेश निवेदनचोदना ॥ ४ ॥ अङ्गदेन शुकेदूतत्व निषेधेनचारत्वसमर्थने वानरैः पुनर्ग्रहणेनबन्धनपूर्वकं तत्पीडनम् ॥५॥ शुकप्रार्थितेनरामेण तेभ्यस्तनिवारणम् ॥ ६॥
ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम् ।ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥ १ ॥
अथ विभीषणनिर्गमनानन्तरं लङ्कावृत्तान्तं प्रस्तौति -तत इत्यादिना ॥ निविष्टां समुद्रतीरस्थां । ध्वजिनीं सेनां । वीर्यवानिति दर्शनसामर्थ्योक्तिः ॥ १ ॥
चारो राक्षसराजस्य रावणस्य दुरात्मनः ।तां दृष्ट्वा सर्वतो व्यग्रं प्रतिगम्य स राक्षसः ।प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ॥ २ ॥
चार इत्यादि सार्धश्लोकः ॥ दुरात्मनः दुर्बुद्धेः । अकाले चारप्रेषितुरित्यर्थः ॥ २ ॥
एष वानरऋक्षौघो लङ्कां समभिवर्तते ।अगाधश्चाप्रमेयश्च द्वितीय इव सागरः ॥ ३ ॥
अगाधः सेनापक्षे दुष्प्रवेश इत्यर्थः । अप्रमेयः अपरिच्छेद्यः ॥ ३ ॥
पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ।उत्तमायुधसंपन्नौ सीतायाः पदमागतौ ॥ ४ ॥
पदं स्थानं प्रति । आगतौ ॥ ४ ॥
एतौ सागरमासाद्य सन्निविष्टौ महाद्युती ॥ ५ ॥
एतावित्यर्धमेकं ॥ ५ ॥
बलमाकाशमावृत्य सर्वतो दशयोजनम् ।तत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि ।तव दूता महाराज क्षिप्रमर्हन्त्यवेक्षितुम् ॥ ६ ॥
बलमिति ॥ पूर्वं सेनासन्निवेशमात्रमुक्तं । अन तद्विस्तार उच्यते । आकाशं अवकाशं । सर्वतः चतुःपार्श्वेषु । दशयोजनपरिमितमवकाशमावृत्य स्थितं तत्त्वभूतमिति मया सामान्यतो ज्ञातं यथार्थभूतं यथा भवति तथाज्ञातुमर्हसीत्यर्थः ॥ ६ ॥
उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यताम् ॥ ७॥
उपप्रदानमित्यर्धमेकं वाक्यं ।। दण्डस्य त्ववकाश एव नास्तीति भावः । अत्र रामविषये ॥ ७ ॥
शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः ।उवाच सहसा व्यग्रः संप्रधार्यार्थमात्मनः ।शुकं नाम तदा रक्षो वाक्यमर्थविदां वरम् ॥ ८ ॥
शार्दूलस्येत्यर्धत्रयमेकान्वयं ॥ अर्थः कर्तव्यार्थः ॥ ८ ॥
सुग्रीवं ब्रूहि गत्वा त्वं राजानं वचनान्मम ।यथासंदेशमक्लीबं श्लक्ष्णया परया गिरा ॥ ९ ॥
भेदप्रयोगमुपदर्शयति—सुग्रीवमिति ॥ मम वचनाब्रूहि मयोक्तमिति ब्रूहि । अक्लीबं सधाष्टर्थमित्यर्थः । श्लेक्ष्णयापारुष्यरहितया । परया श्राव्यया ॥ ९ ॥
त्वं वै महाराज कुलप्रसूतो महाबलश्चर्क्षरजस्सुतश्च ।न कश्चिदर्थस्तव नास्त्यनर्थस्तथा हि मे भ्रातृसमो हरीश ॥ १० ॥
वचनमेवाह—त्वमिति ॥ वचनगाम्भीर्यव्यञ्जनाय गुरुवृत्तारम्भः । हे महाराज त्वं कुलप्रसूतः । सूर्यपुत्रत्वादिति भावः । तेन निष्कारणवैरं त्वया कर्तुमनुचि तमिति व्यज्यते । महाबल: अल्पबलं राममवलम्बितुं नार्हसीत्यर्थः । ऋक्षरजस्सुत: ब्रह्मपौत्रत्वेन मम बन्धुभूतोसीत्यर्थः । तव नास्ति । अनवलम्बने अनर्थश्च नास्ति । अफलं वैरं तव नोचितमिति भावः । वालिसंबन्धेन भ्रातृसमत्वान्मयैव प्रणयं कुर्वित्यभिप्रायेणाह – तथा हीति ॥ १० ॥
अहं यद्यहरं भार्या राजपुत्रस्य धीमतः ।किं तत्र तव सुग्रीव किष्किन्धां प्रतिगम्यताम् ॥ ११ ॥
सीतापहरणमेव त्वत्कृतो महाननर्थ इत्यत्राह – अहमिति । राजपुत्रस्य तवेति पदाभ्यां नरवानरयोः कः संबन्ध इत्युक्तं । धीमत इति सुग्रीवविशेषणं । तत्र हरणविषये । किं का हानिरित्यर्थः ॥ ११ ॥
न हीयं हरिभिर्लङ्का शक्या प्राप्तुं कथंचन ।देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः ॥ १२ ॥
आरब्धस्यान्तगमनमिति न्यायेन प्रक्रान्तं कार्यं कथं त्यज्यतामित्यत्राह – नहीति ॥ उक्तमर्थं कैमुतिकन्यायेन द्रढयति – देवैरिति । अत्र नरग्रहणात् पूर्वार्धे हरिपदं नरोपलक्षकं बोध्यं । त्वमेवामुमर्थमालोचयेतिभावः । इयं लङ्का प्राप्तुं न शक्येत्युत्तरार्धेनुषज्यते ॥ १२ ॥
स तथा राक्षसेन्द्रेण संदिष्टो रजनीचरः ।शुको विहङ्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥ १३ ॥
अम्बरमाप्लुत्य आजगामेति शेषः ॥ १३ ॥
स गत्वा दूरमध्वानमुपर्युपरिसागरम् ।संस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत् ।सर्वमुक्तं यथादिष्टं रावणेन दुरात्मना ॥ १४ ॥
उपर्युपरिसागरं सागरस्याव्यवहितोपरि प्रदेशे उपर्यध्यधसः सामीप्ये इति द्विवचनं । आम्रेडितान्तत्वात् उभसर्वतसोः इति द्वितीया ॥ १४ ॥
तं प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः ।प्रापद्यन्त दिवं क्षिप्रं लोप्तुं हन्तुं च मुष्टिभिः ॥ १५ ॥
प्रापयन्तं श्रावयन्तं । प्रापद्यन्त पर्यवारयन् ॥ १५ ॥
स तैः प्लवङ्गैः प्रसभं निगृहीतो निशाचरः ।गगनाद्भूतले चाशु परिगृह्य निपातितः ॥ १६ ॥वानरैः पीड्यमानस्तु शुको वचनमब्रवीत् ।न दूतान्घ्नन्ति काकुत्स्थ वार्यन्तां साधु वानराः ॥ १७ ॥
निगृहीतः बद्धः ॥ १६–१७ ॥
यस्तु हित्वा मतं भर्तुः स्वमतं संप्रभाषते ।अनुक्तवादी दूतः सन्स दूतो वधमर्हति ॥ १८ ॥
दूतोप्ययुक्तकारी वध्य एवेत्याशङ्क्य नाहं तथा अयुक्तकारीत्याशयेनाह—यस्त्विति ॥ १८ ॥
शुकस्य वचनं श्रुत्वा रामस्तु परिदेवितम् ।उवाच मा वधिष्ठेति घ्नतः शाखामृगर्षमान् ॥ १९ ॥
परिदेवितं परिदेवनरूपं वचनं । मा वधिष्ठेति प्रत्येकोक्त्यभिप्रायेणैकवचनं । वधिष्ठेतीत्यत्र आर्ष: सन्धिः ॥ १९ ॥
स च पत्रलघुर्भूत्वा हरिभिर्दर्शिते भये ।अन्तरिक्षस्थितो भूत्वा पुनर्वचनमब्रवीत् ॥ २० ॥
पत्रलघुः लघुपत्रः । वानरैः प्रायेण लूनपक्ष इत्यर्थः । भये दर्शिते दर्शितेपि ॥ २० ॥
सुग्रीव सत्त्वसंपन्न महाबलपराक्रम ।किं मया खलु वक्तव्यो रावणो लोकरावणः ॥ २१ ॥
स्ववाक्यश्रवणाय सुग्रीवं प्रशंसति – सुग्रीवेति ।। लोकरावण इत्यनेन प्रति वचनानादाने मां हनिष्यतीति भावः ॥ २१ ॥
स एवमुक्तः प्लवगाधिपस्तदा प्लवङ्गमानामृषभो महाबलः ।उवाच वाक्यं रजनीचरस्य चारं शुकं तूर्णमदीनसत्त्वः ॥ २२ ॥
स एवमिति । लोके कश्चिदधिपतिरपि तज्जातीयो न भवति । तद्व्यावर्तनाय प्लवङ्गमानामृषभ इत्युक्तं । महाबलः तृणीकृतरावणइत्यर्थः । अदीनसत्त्वः अदीनमनस्कः । अत्र वंशस्थोपेन्द्रवजेन्द्रवज्रायोगादुपजातिवृत्तभेद: ॥ २२ ॥
न मेऽसि मित्रं न तथाऽनुकम्प्यो न चोपकर्ताऽसि न मे प्रियोसि ।अरिश्व रामस्य सहानुबन्धः से मेसि वालीव वधार्ह वध्यः ॥ २३ ॥
भ्रातृसमोसीत्यस्योत्तरमाह- न मेसीति ॥ मे मित्रं नासीत्यर्थः । अनुकम्प्य: दयनीयश्च नासि । मे उपकर्ता च नासि । मे प्रियोपि नासि । अतः कथं भ्रातृसमोसीति भावः । प्रत्युत मित्रशत्रुत्वाच्छत्रुरेवासीत्याह – अरिश्चेति । ननु नोपकर्तृत्वादिना मित्रं किन्तु सख्युर्वालिनो भ्रातृत्वादित्यत आह – स मेसीति । नः अरिभूतस्त्वमपि वालीव मे वध्योसि । अरिमित्रस्याप्यरित्वादिति भावः । इदमेव मनसि कृत्वोक्तं वधार्हेति । अनेन अहं यद्यहरं भार्यामित्येतद्दत्तोत्तरं ॥ २३ ॥
निहन्म्यहं त्वां ससुतं सबन्धुं सज्ञातिवर्गं रजनीचरेश ।लङ्कां च सर्वां महता बलेन क्षिप्रं करिष्यामि समेत्य भस्म ॥ २४ ॥
न हीयं हरिभिर्लङ्केत्यस्योत्तरमाह – निहन्मीति ।। ज्ञातिवर्ग: कुम्भकर्णादिः । विभीषणस्तु न ज्ञातिरिति भावः । सुतादयः किमर्थं हन्तव्या इत्यपेक्षायां राजापराधादित्याह- रजनीचरेशेति । बलेन सेनया ॥ २४ ॥
न मोक्ष्यसे रावण राघवस्य सुरैः सहेन्द्रैरपि मूढ गुप्तः ।अन्तर्हितः सूर्यपथं गतो वा तथैव पातालमनुप्रविष्टः ।[गिरीशपादांबुजसंगतो वा हतोसि रामेण सहानुजस्त्वम्] ।। २५ ॥
मयि लङ्कास्थे खल्वेवं करिष्यसि । स्थलान्तरं गमिष्यामीति शङ्कायामाह – न मोक्ष्यस इति ॥ राघवस्य राघवात् । पञ्चम्यर्थे षष्ठी । मूढेति संबुद्धिः । सूर्यपथं सूर्यद्वारं । गतः सन् अन्तर्हितोपि न मोक्ष्यसे ॥ २५ ॥
तस्य ते त्रिषु लोकेषु न पिशाचं न राक्षसम् ।त्रातारमनुपश्यामि न गन्धर्वे न चासुरम् ॥ २६ ॥
त्रिदशेश्वरेपि । त्रातुमनीश्वरे का वार्ता क्षुद्राणामित्याह – तस्येति ॥ तस्य रामशरविद्धस्य ॥ २६ ॥
अवधीर्यज्जरावृद्धमक्षमं किं जटायुषम् ॥ २७ ॥
यदि रामसहाये स्थितोसि तर्हि ते जटायुषोवस्था स्यादित्यत्राह – अवधीरिति अर्धमेकं वाक्यं । जरया वृद्धं अत एवाक्षमं असमर्थं । जटायुषमवधीरिति यत्तत्र ते किं वीर्यमिति शेषः । तादृश इति भावः ॥ २७ ॥
किं नु ते रामसान्निध्ये सकाशे लक्ष्मणस्य वा ।हृता सीता विशालाक्षी यां त्वं गृह्य न बुध्यसे २८
भार्याहरणकाले किमप्यकुर्वनरामः किमिदानीं करिष्यतीत्यत्राह — किंन्विति ॥ ते त्वया । सन्निधिरेव सान्निध्यं । विशालाक्षीत्यनेन सीताहरणं राम स्यात्यन्तासह्यमित्युच्यते । गृह्य गृहीत्वा । न बुध्यसे भाव्यनर्थमिति शेषः ॥ २८ ॥
महाबलं महात्मानं दुर्घर्षममरैरपि ।न बुध्यसे रघुश्रेष्ठं यस्ते प्राणान्हरिष्यति ॥ २९ ॥
न बुध्यस इत्युक्तं विवृणोति – महाबलमिति ॥ महात्मानं महाबुद्धिं ॥ २९ ॥
ततोऽब्रवीद्वालिसुतस्त्वङ्गदो हरिसत्तमः ।नायं दूतो महाराज चारिकः प्रतिभाति मे ॥ ३० ॥
हरिसत्तमः इङ्गितप्रेक्षणादिज्ञ इति यावत् । चारिकः चारः । स्वार्थे ठक् । दूतो हि न वध्य: चारस्तु वध्य एवेति भावः ॥ ३० ॥
तुलितं हि बलं सर्वमैनेनात्रैव तिष्ठता ।गृह्यतां मा गमल्लङ्कामेतद्धि मम रोचते ॥ ३१ ॥
तुलितं तुलया मितं । परिच्छिद्य ज्ञातमिति यावत् ॥ ३१ ॥
ततो राज्ञा समादिष्टाः समुत्प्लुत्य वलीमुखाः ।जगृहुच बबन्धुश्च विलपन्तमनाथवत् ॥ ३२ ॥
राज्ञा सुग्रीवेण ॥ ३२ ॥
शुकस्तु वानरैश्चण्डैस्तत्र तैः संप्रपीडितः ।व्याक्रोशत महात्मानं रामं दशरथात्मजम् ।लुप्येते मे बलात्पक्षौ भिद्येते च तथाऽक्षिणी ॥ ३३ ॥
शुकस्त्वित्यादि सार्धश्लोक एकान्वयः ॥ चण्डैः अत्यन्तकोपनैः । पितृसंबन्धकीर्तने दया भवेदिति दशरथात्मजमित्युक्तं । पक्षौ पूर्वलुप्तशेषौ ॥ ३३ ॥
यां च रात्रि मरिष्यामि जाये रात्रिं च यामहम् ।एतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम् ।सर्वे तदुपपद्येथा जह्यां चेद्यदि जीवितम् ॥ ३४ ॥
यामित्यादिसार्धश्लोक एकान्वयः ॥ रात्रिशब्दोऽहोरात्रवचनः । यां च रात्रि यस्मिंश्च दिवसे । मरिष्यामि । यस्मिंश्च जाये अजाये अनित्यमागमशासनं इत्यडभावः । जातोस्मि । एतस्मिन्नन्तरे जननमरणयोर्मध्यकाले मया यदशुभं कृतं तत्सर्वं निरपराधस्य मे घातयिता त्वं उपपद्येथाः प्राप्नुहि । चेदिति प्रसिद्ध्यर्थमव्ययं ॥ ३४ ॥
नाघातयत्तदा रामः श्रुत्वा तत्परिदेवनम् ।वानरानब्रवीद्रामो मुच्यतां दूत आगतः ॥ ३५ ॥
नाघातयत् वधान्यवर्तयत् । मुच्यतां बन्धनान्मुच्यतां । निर्यापणं तु दक्षिणकूले ॥ ३५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे विंशः सर्गः ॥ २० ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने विंशः सर्गः ॥२०॥