श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्विंशः सर्गः
लङ्कासमीपंगतैरन्तर्गतराक्षस सेनाक्रोश मसहमानैर्वानरैरुच्चैरुद्घोषणम् ॥ १ ॥ रामेणलक्ष्मणप्रति लङ्कावर्णनम् ॥ २ ॥ तथा सुरक्षितंसेनासंनिवेशनपूर्वकं वानरेभ्योबन्धाच्छु – राक्षसमोक्षणम् ॥ ३ ॥ शुकेन रावणमेत्यतंप्रति वानरकृतस्वबन्धादिनिवेदनपूर्वकं रामपराक्रमप्रशंसनेन तस्मैसीताप्रत्यर्पणस्य रणस्यवा करणचोदना ॥ ४ ॥ तेन शुकंप्रत्यात्मश्लाघनपूर्वकं रामेणस्वस्याजय्यत्वादिप्रलपनम् ॥ ५ ॥
सा वीरसमिती राज्ञा विरराज व्यवस्थिता ।
शशिना शुभिनक्षत्रा पौर्णमासीव शारदी ॥ १ ॥
अथ रावणस्य वानरसेनागमनश्रवणं – सेत्यादि ॥ राज्ञा रामेण । व्यवस्थिता शीतोदकादिकं परिगृह्य स्थिता । वीरसमितिः वीरसङ्घः । सङ्घे सभायां समिति: इत्यमरः । शशिना व्यवस्थिता कृतमर्यादा ॥ १ ॥
प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा ।पीड्यमाना बलौघेन तेन सागरवर्चसा ॥ २ ॥
सागरवर्चसा सागरवदपरिच्छिन्नेनेत्यर्थः ॥ २ ॥
ततः शुश्रुपुराक्रुष्टम् लङ्कायां काननौकसः ।भेरीमृदङ्गसंघुष्टम् तुमुलं रोमहर्षणम् ॥ ३ ॥
ततः सेनानिवेशानन्तरं । निष्कोलाहले सतीत्यर्थ: । आक्रुष्टं सेनाक्रोशं । भावे क्तः । भेरीमृदङ्गसंघुष्टमिति समुच्चयः ॥ ३ ॥
बभूवुस्तेन घोषेण संहृष्टा हरियूथपाः ।अमृष्यमाणास्तं घोषं विनेदुर्घोषवत्तरम् ॥ ४ ॥
घोषवत्तरं राक्षसघोषाधिकघोषवत् । क्रियाविशेषणं ॥ ४ ॥
राक्षसास्तु प्लवङ्गानां शुश्रुवुस्तेऽपि गर्जितम् ।नर्दतामिव दृप्तानाम् मेघानामम्बरे स्वनम् ॥ ५ ॥
दृप्तानां पूर्णानां । आकाशस्यैव शब्दाश्रयत्वादम्बर इत्युक्तं । यद्वा प्लवगसैन्यमुलूकजिताजितं इतिवदम्बरशब्दस्तत्पर्याय नभशशब्दं लक्षयित्वा श्रावणमासमाह ॥ ५ ॥
दृष्ट्वा दाशरथिर्लङ्काम् चित्रध्वजपताकिनीम् ।जगाम मनसा सीतां दूयमानेन चेतसा ॥ ६ ॥
चिह्नयुक्तो ध्वजः । केवलचेला पताकेति भिदा । चेतसा उपलक्षितः मनसा जगाम । सस्मारेत्यर्थः ॥ ६ ॥
अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते ।अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥ ७ ॥
स्मरणप्रकारमाह – अत्रेति ॥ एतच्छ्लोकान्ते प्रकारवचनमितिकरणं द्रष्टव्यं । सा साकेते सकलभोगार्हा । मृगशाबाक्षी । मृगानुसरणसमये । यद्धरिणदर्शनकुतूहलेन मृगशिशुवत्तरलतरं विलोचनयुगलं तदेवाद्यापि मनसि परिवर्तते । तदाह । यद्वा मृगशाबे मारीचमये अक्षिणी यस्या इति विग्रहः ।। ७ ।।
दीर्घमुष्णम् च निश्वस्य समुद्वीक्ष्य च लक्ष्मणम् ।उवाच वचनं वीरस्तत्कालहितमात्मनः ॥ ८ ॥
अद्य युद्धयात्रासमये कान्तास्मरणव्यसनमनुचितमिति तन्नियमितवानिति सूचयति दीर्घमुष्णं च निश्वस्येत्यनेन । तत्कालहितं युद्धयात्रासमये हितं । शोकविस्मारकनगरशोभावर्णनरूपं वचनं यद्वा अङ्गदः सह नीलेनेत्यादि वाक्यं तत्कालहितं । तत्साहचर्यादाढ्यं नगरमितिवत् आलिखन्तीमित्यादिकं सर्वं वाक्यजातं तत्काल हितमित्युक्तं ॥ ८ ॥
आलिखन्तीमिवाकाशमुत्थितां पश्य लक्ष्मण ।मनसेव कृतां लङ्काम् नगाग्रे विश्वकर्मणा ॥ ९ ॥
आलिखन्तीं स्पृशन्तीं । उत्थितां उन्नतां । नगाग्रे त्रिकूटशिखरे ॥ ९ ॥
विमानैर्बहुभिर्लङ्का संकीर्णा रचिता पुरा ।विष्णोः पदमिवाकाशं छादितं पाण्डुरैर्घनैः ॥ १० ॥
विष्णोः आदित्यस्य । पदं स्थानं । आकाशमध्यमिति भावः । विमानं अनेकतलप्रासादः ।। १० ।।
पुष्पितैः शोभिता लङ्का वनैश्चैत्ररथोपमैः ।नानापतगसंघुष्टैः फलपुष्पोपगैः शुभैः ॥ ११ ॥
फलभूतानि पुष्पाणि यासां ता: फलपुष्पाः मल्लिकादयः ताभिरुपगम्यन्त इति तथा । अतो न पुष्पितैरित्यनेन पौनरुक्त्यं । सङ्घुष्टं सङ्घोषः । भावे क्तः । नानाविधानि पतङ्गसङ्गुष्टानि येषां तैः ॥ ११ ॥
पश्य मत्तविहङ्गनि प्रलीनभ्रमराणि च ।कोकिलाकुलषण्डानि दोधवीति शिवोऽनिलः ॥ १२ ॥
मत्तविहंगानि । विहंगशब्दोत्र कोकिलपरः । अनेन सदा फलवत्त्वमुक्तं । प्रलीनभ्रमराणि मधुपानपरवशतया निष्पन्दभ्रमराणि । अनेन सदा पुष्पवत्त्वमुक्तं । कोकिलाकुलं षण्डं पुष्पसमूहो येषां तानि कोकिलाकुलषण्डानि । अनेन सदा पल्लवितत्वमुक्तं । कोकिलानां पल्लवप्रियत्वात् । वनानीत्यनुषजनीयं । दोधवीति पुनः पुनः कम्पयति । धूञ् कम्पने इत्यस्माद्यङ्लुक् ॥ १२ ॥
इति दाशरथीरमो लक्ष्मणं समभाषत ।। १३ ।।
इतीत्यर्धमेकं वाक्यं ॥ १३ ॥
बलं च तद्वै विभजञ्छास्त्रदृष्टेन कर्मणा ।शशास कपिसेनाया बलमादाय वीर्यवान् ।। १४ ।।
शास्त्रदृष्टेन नीतिशास्त्रज्ञानेन । कर्मणा प्रयोगेण । बलं सेनां । विभजन् व्यूहयन् । व्यूहहेतोः शशास कपिसेनाया इत्याद्युत्तरशेषः ।। १४ ।।
अङ्गदः सह नीलेन तिष्ठेदुरसि दुर्जयः ॥ १५ ॥
शासनप्रकारमाहकपिसेनाया इत्यादि ॥ अङ्गदो नीलेन सह स्वबलमादाय कपिसेनायाः उरसि उरःस्थाने । तिष्ठेदित्यन्वयः ॥ १५ ॥
तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः ।आश्रित्य दक्षिणं पार्श्वमृषभो वानरर्षभ ॥ १६ ॥
वानरौघसमावृतः कपिसमूहसहितः ॥ १६ ॥
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।तिष्ठेद्वानरवाहिन्याः सव्यं पार्श्वं समाश्रितः ॥ १७ ॥
गन्धहस्ती मत्तगजः ॥ १७ ॥
मूर्ध्नि स्थास्याम्यहं यक्तो लक्ष्मणेन समन्वितः ।। १८ ।।
मूर्ध्नीत्यर्धमेकं वाक्यं ॥ युक्तः सावधानः ॥ १८ ॥
जाम्बवाम्श्च सुषेणश्च वेगदर्शी च वानरः ।ऋक्षमुख्या महात्मानः कुक्षिम् रक्षन्तु ते त्रयः ।। १९ ।।
वानर इति वेगदर्शिविशेषणं । ऋक्षमुख्यपदं वानराणामप्युपलक्षणं । महात्मानः महाबुद्धयः । कुक्षिं कुक्षिस्थानं ॥ १९ ॥
जघनं कपिसेनायाः कपिराजोऽभिरक्षतु ।पश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः ।। २० ।।
जघनं चरमभागं पुच्छमिति यावत् । कपिराजः सुग्रीवः । पश्चार्धमिति । अपरस्यार्धे पश्चभावो वक्तव्यः इत्यपरशब्दस्य पश्चादेशः । अर्धशब्दोंशवाची । पश्चिमां दिशमित्यर्थः ॥ २० ॥
सुविभक्तमहाव्यूहा महावानररक्षिता ।अनीकिनी सा विबभौ यथाद्यौः साभ्रसंप्लवा ।। २१ ।।
सुविभक्तमहाव्यूहा सुष्ठु कृतगरुडव्यूहा । उत्तरत्र शार्दूलवचने गारुडं व्यूहमाश्रित्य इति वक्ष्यमाणत्वात् । साभ्रसंप्लवा समेघसंचारा ॥ २१ ॥
प्रगृह्य गिरिशृङ्गाणि महतश्च महीरुहान् ।आसेदुर्वानरा लङ्काम् मिमर्दयुषवो रणे ।। २२ ।।
आसेदुः आसादितुमुसुक्ताः । विमर्दयिषवः मर्दयितुमिच्छवः । सनि द्वित्वाभाव आर्षः ॥ २२ ॥
शिखरैर्विकिरामैनां लङ्काम् मुष्टिभिरेव वा ।इति स्म दधिरे सर्वे मनांसि हरिसत्तमाः ।। २३ ।।
ततो रामो महातेजाः सुग्रीवमिदमब्रवीत् ।सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ।। २४ ।।रामस्य वचनं श्रुत्वा वानरेन्द्रो महाबलः ।मोचयामास तं दूतं शुकं रामस्य शासनात् ।। २५ ।।
मोचितो रामवाक्येन वानरैश्चाभिपीडितः ।शुकः परमसंत्रस्तो रक्षोधिपमुपागमत् ।। २६ ।।
शिखरैः साधनैः । विकिराम चूर्णयाम । मनांसि दधिरे निश्चयं चक्रुरित्यर्थः ॥ २३ – २६ ॥
रावणः प्रहसन्नेव शुकं वाक्यमुभाषत ।किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे ।कच्चिन्नानेकचित्तानां तेषां त्वं वशमागतः ॥ २७ ॥
सितौ बद्धौ । षिञ् बन्धने इत्यस्माद्धातोर्निष्ठा । तत्र हेतुमाह – लूनपक्षश्च दृश्यस इति । चो हेत्वर्थः । यस्माल्लूनपक्षो दृश्यसे तस्मात् सिताविति संबन्धः । अनेक चित्तानां चचलचित्तानामित्यर्थः । अनेन पुनः पुनर्बन्धविसर्जने ध्वन्येते । तेषां वानराणां वशमागतो न कच्चिदित्यन्वयः ॥ २७ ॥
ततः स भयसंविग्नस्तदा राज्ञाभिचोदितः ।वचनं प्रत्युवाचेदं राक्षसाधिपमुत्तमम् ॥ २८ ॥
संविग्नः संभ्रान्तः । तथापि चोदितः मत्संदेशस्य किमुत्तरं सुग्रीवेण दत्तं वदेति चोदित इत्यर्थः ॥ २८ ॥
सागरस्योत्तरे तीरे ब्रुवंस्ते ते वचनं तथा ।यथासंदेशमक्लिष्टम् सान्त्वयं श्लक्ष्णया गिरा ॥ २९ ॥
सान्त्वयं असान्त्वयं । सुग्रीवमितिशेषः ॥ २९ ॥
क्रुद्धैस्तेरहमुत्प्लुत्य दृष्टमात्रैः प्लवङ्गमैः ।गृहितोऽस्म्यपि चारब्धो हन्तुम् लोप्तुम् च मुष्टिभिः ॥ ३० ॥
लोप्तुं विनाशयितुं ॥ ३० ॥
नैव सम्भाषितुम् शक्याः सम्प्रश्नोऽत्र न विद्यते ।प्रकृत्या कोपनास्तीक्षिणा वानरा राक्षसाधिप ॥ ३१ ।।
अत्र वानरेषु । विषये सप्तमी । तीक्ष्णा: क्रूराः । उक्तेरेवावकाशो नास्ति । प्रत्युक्तेः का कथेति भावः । रावणप्रसादार्थं मध्ये राक्षसाधिपेतिसंबुद्धिः । त्वत्तोप्येतेऽतिशयिता इति ज्ञापनार्थं वा ॥ ३१ ॥
स च हन्ता विराधस्य कबन्धस्य खरस्य च ।सुग्रीवसहितो रामः सीतायाः पदमागतः ॥ ३२ ।।
वक्ष्यमाणयोः सीताप्रदानयुद्धयोर्मध्ये सीताप्रदानस्यः साधिष्ठत्वं दर्शयितुं रामपराक्रमं वर्णयति-सं चेति ॥ तद्व्याहतपराक्रमस्य भूयः संदर्शनादस्मानेवश्यं हनिष्यत्येवेति भावः ॥ ३२ ॥
स कृत्वा सागरे सेतुं तीर्त्वा च लवणोदधिम् ।एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः ॥ ३३ ।।
निर्धूय तृणीकृत्य । एष इत्यतिसन्निहितत्वमुच्यते ॥ ३३ ॥
ऋक्षवानरसंघानामनीकानि सहस्रशः ।गिरिमेघनिकाशानां छादयन्ति वसुन्धराम् ॥ ३४ ।।
सङ्घानामनीकानीत्यनेन सङ्घारब्धत्वोक्त्या महानीकत्वं सूचितं ॥ ३४ ॥
राक्षसानां बलौघस्य वानरेन्द्रबलस्य च ।नैतयोर्विद्यते सन्धिर्देवदानवयोरिव ॥ ३५ ।।
इदानीं तव वचनावकाशाभावेपि पुनः प्रकारान्तरेण गच्छेत्याशङ्क्याह– राक्षसानामिति ॥ संधिः योगमात्रं ॥ ३५ ॥
पुरा प्राकारमायान्ति क्षिप्रमेकतरं कुरु ।सीतां वास्मै प्रयच्छाशु सुयुद्धम् वा प्रदीयताम् ॥ ३६ ।।
शुकस्य वचनम् श्रुत्वा रावणो वाक्यमब्रवीत् ।रोषसंरक्तनयनो निर्दहन्निव चक्षुषा ॥ ३७ ।।
संप्रति कर्तव्यमुपदिशति – पुरेति ॥ पुरा आयान्ति आयास्यन्ति । यावत्पुरानिपातयोर्लट् इति भविष्यदर्थे लट् । एकतरमित्युक्तंविशयति—सीतामिति ॥ ३६-३७ ॥
यदि मां प्रतियुद्ध्येरन्देवगन्धर्वदानवाः ।नैव सीतां प्रयच्छामि सर्वलोकभयादपि ॥ ३८ ।।
सर्वलोकभयात् सर्वलोकेभ्यो भयात् ॥ ३८ ॥
कदा नामाभिधानन्ति राघवं मामकाः शराः ।वसन्ते पुष्पितम् मत्ता भ्रमरा इव पादपम् ॥ ३९ ।।
स्वमनोरथं दर्शयति – कदेत्यादिना ॥ ३९ ॥
कदा तूणीशयैर्दीप्तैगणशः कार्मुकच्युतैः ।शरैरादीपयाम्येन मुल्काभिरिव कुञ्जरम् ॥ ४० ।।
तूणीशयै: चिरात्समराभावेन केवलतूणीरस्थैः । गणश: सङ्घशः । उल्काभिः निर्गतज्वालाकाष्ठैः । ताभिः कुञ्जरमभिद्रावयन्तीति प्रसिद्धिः ॥ ४० ॥
तच्चास्य बलमादास्ये बलेन महता वृतः ।ज्योतिषामिव सर्वेषाम् प्रभामुद्यन्दिवाकरः ॥ ४१ ।।
सागरस्येव मे वेगो मारुतस्येव मे गतिः ।न हि दाशरथिर्वेद तेन मां योद्धुमिच्छति ॥ ४२ ।।
न मे तूणीशयान्बाणान्सविषानिव पन्नगान् ।रामः पश्यति संग्रामे तेन मां योद्धुमिच्छति ॥ ४३ ।।
तत् बलं स च हन्ता विराधस्य इत्यादिना भवदु क्तबलं । आदास्ये तिरस्करोमीत्यर्थः ॥ ४१ – ४३ ॥
न जानाति पुरा वीर्यम् मम युद्धे स राघवः ।। ४४ ।।
न जानातीत्यर्धं ॥ पुरा न जानाति इतःपरं ज्ञास्यतीत्यर्थः ॥ ४४ ॥
मम चापमयीं वीणां शरकोणैः प्रवादिताम् ।ज्याशब्दतुमुलां घोरामार्तगीतमहास्वनाम् ।। ४५ ।।
नाराचतलसन्नादां तां ममाहितवाहिनीम् ।अवगाह्य महारङ्गम् वादयिष्याम्यहं रणे ।। ४६ ।।
अथ रूपकव्याजेन युद्धस्यात्मनो विनोदनकरत्वमाह – ममेत्यादिना ॥ ममाहितवाहिनीमेव महारङ्गं विपुलनृत्तशालां । अवगाह्य प्रविश्य । शरैरेव कोणैः वीणावादनदण्डैः । प्रवादितां शब्दितां । ज्याशब्द एव तुमुल: तुमुलस्वनो यस्यास्तां । आर्त भीतमहास्वनां आर्तभीतशब्देन तत्स्वनो लक्ष्यते । एवं नाराचतलशब्देनापि तत्स्वनः । आर्तभीतानां वन एव महास्वनो यस्यास्तां । नाराचतलस्वन एव सन्नादो यस्यास्तां । घोरां अन्यैर्वादयितुमशक्यां । मम चापमयीं वीणामिति व्यस्तरूपकं । रणे रणस्थजने । शृण्वतीति शेष: । वीणाया मन्द्रमध्यतारभेदेन स्वरत्रयसंभवादत्रापि स्वरत्रयमुक्तं ॥ ४५ – ४६ ॥
न वासवेनापि स हस्रचक्षुषा यथाऽस्मि शक्यो वरुणेन वा स्वयम् ।यमेव वा धर्षयितुम् शराग्निना महाहवे वैश्रवणेन वा पुनः ॥ ४७ ।।
न वासवेनेति सहस्रचक्षुष्ट्वं गर्वहेतुत्वेनोक्तं । दिग्विजये वरुणपुत्रैरेव युद्धकरणात् स्वयमित्युक्तं । वासवादिभिः शराग्निना यथा धर्षयितुं न शक्योस्मीति योजना ॥ ४७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुर्विंशः सर्गः ॥ २४ ॥