श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षड्विंशः सर्गः
वानरबलावलोकनाय शुकसारणाभ्यांसहोच्चप्रासाद मारूढंरावणंप्रति सारणेन पृथक्पृथङ्गामनिर्देशेनतत्तद्बलपराक्रमवर्णमपूर्वकं नीलाङ्गदादिप्रधानयूथनाथप्रदर्शनम् ॥ १ ॥
तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम् ।
निशम्य रावणो राजा प्रत्यभाषत सारणम् ।। १ ।।
अथ रावणाय सारणेन वानरयूथपतीनां वीर्यादिकथनपूर्वकं तत्प्रदर्शनं षड्विंशे-तदिति अक्वीबं अकातरं । प्रत्यभाषत अनिन्ददित्यर्थः ॥ १ ॥
यदि मामभियुञ्जीरन्देवगन्धर्वदानवाः ।
नैव सीतां प्रदास्यामि सर्वलोकभयादपि ।। २ ।।
अभियुञ्जीरन् युद्ध्येरन् । सर्वलोकभयात् सर्वलोकेभ्यो भयात् ।। २ ।।
त्वं तु सौम्य परित्रस्तो हरिभिर्निर्जितो भृशम् ।
प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे ।
को हि नाम सपत्नो मां समरे जेतुमर्हति ।। ३ ।।
त्वमित्यादिसार्धश्लोकः ॥ सपत्नः शत्रुः ।। ३ ।।
इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः ।
आरुरोह ततः श्रीमान्प्रासादं हिमपाण्डरम् ।
बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया ।। ४ ।।
इत्युक्त्वेत्यादिसार्धश्लोकः ॥ ततः तस्मात्पूर्वस्थानात् । बहुतालसमुत्सेधं अनेकतालवृक्षतुल्यौन्नत्यं । यद्वा वितताङ्गुष्ठमध्यमामितस्तालः । तदाह सज्जनः – प्रादेशतालगोकर्णवितस्त्यश्च यथाक्रमम् । भवन्ति वितताङ्गुष्ठप्रदेशिन्यादिभिः सह इति अत्र द्वितीयो रावणशब्दो रावयतीति व्युत्पत्त्या क्रियानिमित्तकः । दिदृक्षया वानरबलदिदृक्षया ॥ ४ ॥
ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः ।
पश्यमानः समुद्रं च पर्वतांश्च वनानि च ।
ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवङ्गमैः ।। ५ ।।
चराभ्यां चाराभ्यां । क्रोधमूच्छितः क्रोधेन व्याप्तः । पृथिवीदेशं त्रिकूटाधः प्रदेशं ।। ५ ।।
तदपारमसङ्ख्येयं वानराणां महद्बलम् ।
आलोक्य रावणो राजा परिपप्रच्छ सारणम् ।। ६ ।।
अपारं उत्तरावधिरहितं ॥ ६ ॥
एषां वानरमुख्यानां के शूराः के महाबलाः ।
के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः ।। ७ ।।
एषामिति । इयं निर्धारणेषष्ठी ॥ ७ ॥
केषां शृणोति सुग्रीवः के वा यूथपयूथपाः ।
सारणाचक्ष्व तत्त्वेन के प्रधानाः प्लवङ्गमाः ।। ८ ।।
केषामिति । वचनमिति शेषः । प्रधानाः सेनापतयः ॥ ८ ॥
सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः ।
आचचक्षेऽथ मुख्यज्ञो मुख्यांस्तांस्तु वनौकसः ।। ९ ।।
वचनं निशम्येति शेषः ॥ ९ ॥
एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः ।
यूथपानां सहस्राणां शतेन परिवारितः ।। १० ।।
यस्य घोषेण महता सप्राकारा सतोरणा ।
लङ्का प्रवेपते सर्वा सशैलवनकानना ।। ११ ।।
सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः ।
बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः ।। १२ ।।
त्रिभिर्नीलं वर्णयति- एष इत्यादि ॥ य एष इत्यन्वयः। तिष्ठते तिष्ठति ॥ १० – १२ ॥
बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान् ।
लङ्कामभिमुखः क्रोधादभीक्ष्णं च विजृम्भते ।। १३ ।।
अथाङ्गदं वर्णयति- बाहू इत्यादिना स्वेनानीकेन दुर्जय इत्यन्तेन ॥ बाहू प्रगृह्य उत्क्षिप्य । अभि उद्दिश्य मुखं यस्यासावभिमुखः । विजृम्भते जृम्भणं करोति ॥ १३ ॥
गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः ।
स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः ।
यस्य लाङ्गूलशब्देन स्वनन्ती प्रदिशो दश ।। १४ ।।
पद्मकिञ्जल्कसन्निभः पद्मकेसरवत्पीतवर्ण इत्यर्थः । स्फोटयति भूमौ ताडयति । अभिसंरब्धः कुपितः । प्रस्वनन्तीत्यन्वयः ॥ १४ ॥
एष वानरराजेन सुर्ग्रीवेणाभिषेचितः ।
यौवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे ।। १५ ।।
अभिषेचितः अभिषिक्तः । आह्वयति आह्वयते । स्पर्धाविषयेऽप्यात्मनेपदाभाव आर्षः ॥ १५ ॥
वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः ।
राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ।। १६ ।।
पराक्रान्तः पराक्रमितुमुद्यतः ।। १६ ।।
एतस्य सा मतिः सर्वा यदृष्टा जनकात्मजा ।
हनूमता वेगवता राघवस्य हितैषिणा ।। १७ ।।
एतस्येति ॥ हनूमता सीता दृष्टेति यत्सा मतिः एतस्य अङ्गदस्य । एतद्बुद्धिमूलं हनुमत: सीतादर्शन मितिभावः । अङ्गदपुरस्कारेण हनुमतः समागमात् ।। १७ ।।
बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् ।
परिगृह्याभियाति त्वां स्वेनानीकेन दुर्जयः ।। १८ ।।
स्वेनानीकेनेति दुर्जयत्वकारणोक्तिः । अतो न पुनरुक्तिः ॥ १८ ॥
अनु वालिसुतस्यापि बलेन महता वृतः ।
वीरस्तिष्ठति संग्रामे सेतुहेतुरयं नलः ।। १९ ।।
अनु वालीति । एतस्योत्तरार्धं वीरस्तिष्ठति संग्राम इति । वालिसुतस्य अनु पश्चात् । सेतुहेतुः सेतुकर्ता । संग्रामे संग्रामनिमित्तं ॥ १९ ॥
ये तु विष्टभ्य गात्राणि क्ष्वेलयन्ति नदन्ति च ।
उत्थाय च विजृम्भन्ते क्रोधेन हरिपुङ्गवाः ।। २० ।।
एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः ।
अष्टौ शतसहस्राणि दशकोटिशतानि च ।। २१ ।।
य एनमनुगच्छन्ति वीराश्चन्दनवासिनः ।
एषैवांशंसते लङ्कां स्वेनानीकेन मर्दितुम् ।। २२ ।।
नलपरिवारानाह—ये त्वित्यादिना मर्दितुमित्यन्तेन ॥ लोकत्रयमेकान्वयं । विष्टभ्य उन्नम्य । क्ष्वेलयन्ति सिंहनादं कुर्वन्ति । नदन्ति गर्जन्ति । उत्थाय आसनादिति शेषः । विजृम्भन्ते कोपेन गात्रविना कुर्वन्ति । य एवंविधा वानराः ये च चन्दनवासिनः चन्दनवनवासिनः । एते एनं नलमनुगच्छन्तीति संबन्धः । चन्दनवानरा इति पाठे मध्यमपदलोपिसमासः । चन्दनवासिनो वानरा इति । एषैवेति सन्धिरार्ष: । आशंसते प्रार्थयते ॥ २० – २२ ।।
श्वेतो रजतसङ्काशश्चपलो भीमविक्रमः ।
बुद्धिमान्वानरो वीरस्त्रिषु लोकेषु विश्रुतः ।। २३ ।।
तूर्णं सुग्रीवमागम्य पुनर्गच्छति सत्वरः ।
विभजन्वानरीं सेनामनीकानि प्रहर्षयन् ।। २४ ।।
अथ द्वाभ्यां श्वेताख्यं वानरं वर्णयति – श्वेत इत्यादि । अन्वर्थनामेत्याह – रजतेति । चपल: युद्धचपलः । अनीकानि पुनर्गच्छतीत्यन्वयः । विभजन् निबिडां सेनां भित्त्वा गच्छन्नित्यर्थः । अत्र चपल इत्यनेन अद्यैव लङ्कां ध्वंसयामीति निवेदनार्थं गत्वा तेन सान्त्वितः पुनर्गच्छतीत्यवगम्यते ॥ २३ – २४ ॥
यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् ।
नाम्ना सङ्कोचनो नाम नानानगयुतो गिरिः ।। २५ ।।
चतुर्भिः कुमुदं वर्णयति – यः पुरेत्यादि । पुरेत्यनेनाद्य सुग्रीवसमीप एव वसतीति गम्यते । पर्येति परितः संचरति । नाम्ना संकोचनो नाम यः प्रसिद्धः तं पर्वतमित्यन्वयः ॥ २५ ॥
तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः ।
योऽसौ शतसहस्राणां सहस्रं परिकर्षति ।। २६ ।।
तत्र गोमतीतीरे । परिकर्षति आनयति ॥ २६ ॥
यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः ।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णाघोरकर्मणः ।। २७ ।।
घोरकर्मणो यस्य लाङ्गूलमाश्रिताः वाला: रोमाणि । दैर्ध्यस्यावधिमाह – बहुव्यामा इति । व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरं इत्यमरः ॥ २७ ॥
अदीनो रोषणश्चण्डः सङ्ग्राममभिकाङ्क्षति ।
एषोप्याशंसते लङ्कां स्वेनानीकेन मर्दितुम् ।। २८ ।।
अदीन इत्यत्र य इत्युपस्कार्यं ॥ २८ ॥
यस्त्वेष सिंहसङ्काशः कपिलो दीर्घलोचनः ।
निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा ।। २९ ।।
विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम् ।
राजन्सततमध्यास्ते रम्भो नामैष यूथपः ।। ३० ।।
शतं शतसहस्राणां त्रिंशच्च हरिपुङ्गवाः ।
यमेते वानराः शूराश्चण्डाश्चण्डपराक्रमाः ।
परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा ।। ३१ ।।
अथ सार्धैस्त्रिभी रम्भं वर्णयति — यस्त्वेष इत्यादि ।। २९ – ३१ ॥
यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः ।
न च संविजते मृत्योर्न च यूद्धाद्विधावति ।। ३२ ।।
प्रकंपते च रोषेण तिर्यक्च पुनरीक्षते ।
पश्यँल्लाङ्गूलमपि च क्ष्वेलते च महाबलः ।। ३३ ।।
महाजवो वीतभयो रम्यं साल्वेयपर्वतम् ।
राजन्सततमध्यास्ते शरभो नाम यूथपः ।। ३४ ।।
एतस्य बलिनः सर्वे विहारा नाम यूथपाः ।
राजञ्शतसहस्राणि चत्वारिंशत्तथैव च ।। ३५ ।।
अथ शरभं वर्णयति – यस्तु कर्णावित्यादि ॥ संविजते बिभेति ॥ ३२-३५ ॥
यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति ।
मध्ये वानरवीराणां सुराणामिव वासवः ।। ३६ ।।
भेरीणामिव संनादो यस्यैष श्रूयते महान् ।
घोरः शाखामृगेन्द्राणां सङ्ग्राममभिकाङ्क्षताम् ।। ३७ ।।
एष पर्वतमध्यास्ते पारियात्रमनुत्तमम् ।
युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः ।। ३८ ।।
अथ पनसं वर्णयति – यस्तु मेघ इत्यादिना ।। ३६-३८ ।।
एनं शतसहस्राणां शतार्धं पर्युपासते ।
यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः ।। ३९ ।।
एनं पनसं । येषां यूथपानां यूथानि च भागशः स्वस्वांशासङ्करेण । एनं पर्युपासत इति संबन्धः ॥ ३९ ॥
यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन् ।
स्थितां तीरे समुद्रस्य द्वितीय इव सागरः ।। ४० ।।
एष दर्दरसङ्काशो विनतो नाम यूथपः ।
पिबंश्चरति पर्णाशां नदीनामुत्तमां नदीम् ।। ४१ ।।
विनतं वर्णयतियस्त्वित्यादि । प्रवल्गन्तीं उत्साहेन लवमानां समुद्रस्य पारे स्थितां । अतएव द्वितीयः सागर इव स्थितामिति शेषः । विनतविशेषणं वा । दर्दरो नाम गङ्गासमीपस्थः पर्वतः । पर्णासां पर्णासाख्यां नदीं ।। ४० – ४१ ॥
षष्टिः शतसहस्राणि बलमस्य प्लवङ्गमाः ।। ४२ ।।
विनतसेनासङ्ख्यामाह – षष्टिरिति ।। षष्टिः शतसहस्राणि प्लवङ्गमाः अस्य विनतस्य बलं सेनेत्यर्थः ॥ ४२ ॥
त्वामाह्वयति युद्धाय क्रोधनो नाम यूथपः ।
विक्रान्ता बलवन्तश्च यथा यूथानि भागशः ।। ४३ ।।
एकेन क्रोधनमाह – त्वामिति ॥ उत्तरार्धे अस्येत्यध्याहार्यं । यथायूथानि यथायूथं । अमभावश्छान्दसः । भागशः भागत्वेन स्थिता वानराः विक्रान्ता बलवन्तश्चेति योजना ॥ ४३ ॥
यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः ।
अवमत्य सदा सर्वान्वानरान्बलदर्पितान् ।। ४४ ।।
गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते ।
एनं शतसहस्राणि सप्ततिः पर्युपासते ।
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ।। ४५ ।।
शेषेण गवयं वर्णयति – यस्त्वित्यादिना । गैरिकं रक्तवर्णधातुविशेषः । धातुर्मनश्शिलाद्यद्रेर्गैरिकं तु विशेषत: इत्यमरः । तद्वर्ण इवाभा यस्येति विग्रहः । गैरिकवर्ण इवाभातीति गैरिकवर्णाभमिति वा । पुष्यति युद्धहर्षादभिवर्धयतीत्यर्थः ॥ ४४-४५ ॥
एते दुष्प्रसहा घोरा बलिनः कामरूपिणः ।
यूथपा यूथपश्रेष्ठा एषां यूथानि भागशः ।। ४६ ।।
उपसंहरति — एत इति ॥ यूथपा : अङ्गदादयः । यूथपश्रेष्ठाः सुग्रीवादयः । एषां यूथपानां यूथानि भागशः पृथक् । विद्यन्त इति शेषः ॥ ४६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षड्विंशः सर्गः ॥ २६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षडिविंशः सर्गः ॥ २६ ॥