श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकत्रिंशः सर्गः
रावणेनमन्त्रिमुखात्ससैन्यरामस्य सुवेलाचलागमनश्रवणान्मन्त्रिभिस्सहालोच्यकर्तव्य निर्धारणेन तद्विसर्जनम् ॥ १ ॥ तथा स्वचोदनया विद्युजिह्वेनमायानिर्मितरामशिरश्शरासनसदृश -शिरश्शरासनप्रदर्शनेन सीताविमोहनम् ॥ २ ॥
ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः ।
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ।। १ ।।
अथ सीतामोहनमेकत्रिंशे । कथासंघटनाय पूर्व सर्गोक्तमनुवदति – तत इति ॥ स्पष्टः ॥ १ ॥
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् ।
जातोद्वेगोऽभवत्किंचित्सचिवानिदमब्रवीत् ।। २ ।।
चाराणां चारेभ्यः । जातोद्वेग जातसंभ्रमः । सचिवान् मन्त्रिण: समीपस्थान् ।। २ ।।
मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः ।
अयं नो मन्त्रकालो हि सम्प्राप्त इव राक्षसाः ।। ३ ।।
तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन्द्रुतम् ।
ततः स मन्त्रयामास सचिवै राक्षसैः सह ।। ४ ।।
हे राक्षसाः अयं नो मन्त्रकाल: संप्राप्तः इति हेतोः मन्त्रिणः समायान्त्विति इदं वाक्यमब्रवीदिति पूर्वेण संबन्धः । यद्वा इदमब्रवीदित्यस्य वाक्यान्तस्थेनेतिशब्देन संबन्धः । राक्षसा इत्युत्तरशेषः । अथवा हे मन्त्रिणः भवन्तः आयान्तु समीपमिति सचिवानब्रवीत् । राक्षसा इति मन्त्रिविशेषणं । सचिवै राक्षसैरित्यनुवादात् । सुसमाहिताः नीतिकुशला इत्यर्थः ॥ ३-४ ॥
मन्त्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम् ।
विसर्जयित्वा सचिवान्प्रविवेश स्वमालयम् ।। ५ ।।
ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम् ।
मायाविदं महामायः प्राविशद्यत्र मैथिली ।। ६ ।।
विद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः ।
मोहयिष्यामहे सीतां मायया जनकात्मजाम् ।। ७ ।।
समनन्तरं रामस्य समीपागमनानन्तरं । यत् क्षमं कर्तुमुचितं तन्मन्त्रयित्वेति योजना ॥ ५-७ ॥
शिरो मायामयं गृह्य राघवस्य निशाचर ।
त्वं मां समुपतिष्ठस्व महच्च सशरं धनुः ।। ८ ।।
गृह्य गृहीत्वा ॥ ८ ॥
एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः ।
[दर्शयामास तां मायां सुप्रयुक्तां स रावणे ।]
तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् ।। ९ ।।
तस्य तस्मिन् ॥ ९ ॥
अशोकवनिकायां तु सीतादर्शनलालसः ।
नैर्ऋतानामधिपतिः संविवेश महाबलः ।। १० ।।
ततो दीनामदैन्यार्हां ददर्श धनदानुजः ।
अधोमुखीं शोकपरामुपविष्टां महीतले ।। ११ ।।
लालसः साभिलाष: ॥ १०-११ ।।
भर्तारमेव ध्यायन्तीमशोकवनिकां गताम् ।
उपास्यमानां घोराभी राक्षसीभिरितस्तः ।। १२ ।।
राक्षसीभिर्वृतां सीतां पूर्णचन्द्रनिभाननाम् ।
उत्पातमेघजालाभिश्चन्द्ररेखामिवावृताम् ।। १३ ।।
भूशणैरुत्तमैः कैश्चिन्मङ्गलार्थमलंकृताम् ।
चरन्तीं मारुतोद्धूतां क्षिप्तां पुष्पलतामिव ।। १४ ।।
हर्षशोकान्तरे मग्नां विषादस्य विलक्षणाम् ।
स्तिमितामिव गाम्भीर्यान्नदीं भागीरथीमिव ।। १५ ।।
उपास्यमानां अनुव्रतां ॥ १२-१५ ।।
उपसृत्य ततः सीतां प्रहर्षन्नाम कीर्तयन् ।
इदं च वचनं धृष्टमुवाच जनकात्मजाम् ।। १६ ।।
प्रहर्ष नाम कीर्तयन् प्रहर्षवात कीर्तयन्निव । नामेत्यपरमार्थे ॥ १६ ॥
सान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे ।
खरहन्ता स ते भर्ता राघवः समरे हतः ।। १७ ।।
वल्गसे जल्पसि । मां निष्ठुरमवद इत्यर्थः ॥ १७ ॥
छिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मया ।
व्यसनेनात्मनः सीते मम भार्या भविष्यसि ।। १८ ।।
मूलं आधारभूतं । सर्वतः कार्येन व्यसनेन निमित्तेन । प्रार्थनां विनेत्यर्थः ॥१८॥
विसृजेमां मतिं मूढे किं मृतेन करिष्यसि ।
भवस्व भद्रे भार्याणां सर्वासामीश्वरी मम ।। १९ ।।
मृतेन रामेण । भवस्वेत्यात्मनेपदमार्षं ॥ १९ ॥
अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि
शृणु भर्तृबधं सीते घोरं वृत्रवधं यथा ।। २० ।।
निवृत्तार्थे एतावत्पर्यन्तं निवृत्तपुरुषार्थे । पण्डितमानिनि । क्यङ्मानिनोश्च इति ह्रस्वत्वं ॥ २० ॥
समायातः समुद्रान्तं मां हन्तुं किल राघवः ।
वानरेन्द्रप्रणीतेन बलेन महता वृतः ।। २१ ।।
समुद्रान्तं समुद्रतीरं । प्रणीतेन आनीतेन ॥ २१ ॥
स निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम् ।
बलेन महता रामो व्रजत्यस्तं दिवाकरे ।। २२ ।।
स रामः समुद्रस्योत्तरं तीरं महता बलेन पीड्य पीडयित्वा । दिवाकरे अस्तं प्रयाति सति निविष्टः ।। २२ ।।
अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम् ।
सुखसंसुप्तमासाद्य चारितं प्रथमं चरैः ।। २३ ।।
कार्त्स्न्येऽथशब्दः । अध्वनि परिश्रान्तं अतएव स्थितं । अर्धरात्रे सुखसंसुप्तं बलं प्रथममासाद्य चारैश्चारितमभूत् ॥ २३ ॥
तत्प्रहस्तप्रणीतेन बलेन महता मम ।
बलमस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः ।। २४ ।।
यत्र बले । रामः सलक्ष्मणोवस्थितः । तदस्य बलं प्रहस्तप्रणीतेन महता बलेन हतं ॥ २४ ॥
पट्टिशान्परिघांश्चक्रान्दण्डान्खड्गांन्महायसान् ।
बाणजालानि शूलानि भास्वरान्कूटमुद्गरान् ।। २५ ।।
यष्टीश्च तोमराञ्शक्तीश्चक्राणि मुसलानि च ।
उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ।। २६ ।।
पट्टिशानित्यादिश्लोकद्वयं ॥ पट्टिशान् असिविशेषान् । परिधान् अर्गलानि । चक्रान् क्षुद्रचक्राणि । महायसान् महायसनिर्मितान् । दण्डविशेषणमेतत् । कूटमुद्गरान् अयः कीलकीलितगदाः । यष्टीः केवलदण्डान् । तोमरान् स्थूलाग्रगदाः । प्रासान् क्षेपणी: । चक्राणि महाचक्राणि । पट्टिशादीनुद्यम्योद्यम्य वानरेषु निपातिताः । त इति शेषः ॥ २५-२६ ॥
अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना ।
असक्तं कृतहस्तेन शिरश्छिन्नं महासिना ।। २७ ।।
प्रमथ्नाति प्रहरतीति प्रमाथिः तेन । कृतहस्तेन शिक्षितहस्तेन कर्त्रा । महासिना करणेन । असक्तं अविलम्बितंयथा भवति तथा । छिन्नमित्यन्वयः ॥ २७ ॥
विभीषणः समुत्पत्य निगृहीतो यदृच्छया ।
दिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह ।। २८ ।।
विभीषणः समुत्पत्य गतोपि निगृहीत इत्यर्थः । प्रव्राजित: पलायितः ॥ २८ ॥
सुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः ।
निरस्तहनुकः शेते हनूमान्राक्षसैर्हतः ।। २९ ।।
श्रीवया उपलक्षित इति शेषः ॥ २९ ॥
जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि ।
पट्टिसैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ।। ३० ।।
जानुभ्यां जानुनोः । निहतः । अथ पट्टिशैश्छिन्न : जाम्बवान् निकृत्तः पादपइवाभूत् ॥ ३० ॥
मैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ ।
निश्वसन्तौ रुदन्तौ च रुधिरेण परिप्लुतौ ।
असिना व्यायतौ छिन्नौ मध्ये ह्यरिनिषूदनौ ।। ३१ ।।
व्यायतौ दीर्घशरीरौ । मध्ये कटिस्थाने ॥ ३१ ॥
अनुतिष्ठति मेदिन्यां पनसः पनसो यथा ।। ३२ ।।
अनुतिष्ठति शेते । पनसः पनसफलं । तथा खण्डित इत्यर्थः ॥ ३२ ॥
नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः ।
कुमुदस्तु महातेजा निष्कूजः सायकैः कृतः ।। ३३ ।।
निष्कूजः निश्शब्दः ॥ ३३ ॥
अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः ।
पातितो रुधिरोद्गारी क्षितौ निपतिताऽङ्गदः ।। ३४ ।।
राक्षसैरासाद्य शरैश्छिन्नः निपतिताङ्गदोङ्गदः क्षितौ पतित: ॥ ३४ ॥
हरयो मथिता नागै रथजातैस्तथापरे ।
शायिता मृदिताश्चाश्वैर्वायुवेगैरिवाम्बुदाः ।। ३५ ।।
शायिताः शयानाः । अपरे हरयः वायुवेगैरम्बुदा इव नागै रथजातैश्च मृदिताः ॥ ३५ ॥
प्रहृताश्चापरे त्रस्ता हन्यमाना जघन्यतः ।
अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः ।। ३६ ।।
सागरे पतिताः केचित्केचिद्गगनमाश्रिताः ।
ऋक्षा वृक्षानुपारूढा वानरीं वृत्तिमाश्रिताः ।। ३७ ।।
त्रस्ताः अत एवाभिद्रुताः । जघन्यतः पृष्ठतः । हन्य माना: अपरे हरयः सिंहै: द्विपा इव प्रहृताः ।। ३६ – ३७ ।।
सागरस्य च तीरेषु शैलेषु जवनेषु च ।
पिङ्गलास्ते विरूपाक्षैर्बहुभिर्बहवो हताः ।। ३८ ।।
एवं तव हतो भर्ता ससैन्यो मम सेनया ।
क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः ।। ३९ ।।
पिङ्गलाः वानराः । विरूपाक्षैः वानरैः ॥ ३८-३९ ।
ततः परमदुर्धर्षो रावणो राक्षसाधिपः ।
सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् ।। ४० ।।
राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय ।
येन तद्राघवशिरः सङ्ग्रामात्स्वयमाहृतम् ।। ४१ ।।
राक्षसीं समीपवर्तिनीं कांचित् ॥ ४०-४१ ॥
विद्युज्जिह्वस्ततो गृह्य शिरस्तत्सशरासनम् ।
प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः ।। ४२ ।।
तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम् ।
विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम् ।। ४३ ।।
ततः राक्षसीं प्रत्याज्ञापनवचनश्रवणानन्तरमेव ॥ ४२-४३ ॥
अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः ।
अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु ।। ४४ ।।
पश्चिमामस्थां । मरणमित्यर्थः ॥ ४४ ॥
एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् ।
उप निक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ।। ४५ ।।
उप समीपे । अन्तरधीयत अपागच्छत् ॥ ४५ ॥
रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत् ।
त्रिषु लोकेषु विख्यातं सीतामिदमुवाच ह ।। ४६ ।।
इदं तत्तव रामस्य कार्मुकं ज्यासमन्वितम् ।
इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् ।। ४७ ।।
चिक्षेप आचकर्ष । विद्युजिह्वहस्तादित्यर्थः त्रिषु लोकेषु विख्यातं । वैष्णवत्वादितिभावः ॥ ४६–४७ ॥
स विद्युज्जिह्वेन सहैव तच्छिरो धनुश्च भूमौ विनिकीर्य रावणः ।
विदेहराजस्य सुतां यशस्विनीं ततोऽब्रवीत्तां भव मे वशानुगा ।। ४८ ।।
विद्युजिह्वेत्यत्र तलोप आर्ष: । सहैव युगपदेव । विनिकीर्य शिरोधनुश्च युगपत्सीतायाः पुरतः स्थापयित्वेत्यर्थ: । विद्युजिह्वः शिरः प्रक्षिप्तवान् स्वयं धनुरिति ज्ञेयं । वशानुगेत्यनन्तरमितिकरणं द्रष्टव्यं ॥ ४८ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ ३१ ॥