श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्स्त्रिंशः सर्गः
रावणेनात्मश्लाघनेनरामवधप्रतिज्ञानपूर्वकं सोपालंभंमाल्यवद्विसर्जनम् ॥ १ ॥ तथा मन्त्रिभिस्सहमन्त्रपूर्वकं प्राच्यादिदिक्षु पुररक्षणायसैन्यैःसहप्रहस्तादिप्रेषणेनान्तःपुरप्रवेशः ॥ २ ॥
तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः ।
न मर्षयति दुष्टात्मा कालस्य वशमागतः ।। १ ।।
अथ लङ्कागुप्तिकरणं षट्त्रिंशे – तत्विति ॥ हितमुक्तं हितं यथा भवति तथा उक्तं । न मर्षयति नामर्षयत् ॥ १ ॥
स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः ।
अमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् ।। २ ।।
परिवृत्ताक्षः घूर्णिताक्षः ॥ २ ॥
हितबुद्ध्या यदहितं वचः परुषमुच्यते ।
परपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम ।। ३ ।।
परपक्षं प्रविश्यैव शत्रुषु स्नेहमनुसृत्यैव । हितबुद्ध्या हितमित्ययं ज्ञास्यतीति बुद्ध्या । अहितं परुषं च । यद्वच उक्तं । एतत् मम श्रोत्रं न गतमित्यन्वयः ॥ ३ ॥
मानुषं कृपणं राममेकं शाखामृगाश्रयम् ।
समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् ।। ४ ।।
भवतः परपक्षानुसारश्च न युक्त इत्याह- मानुषमिति ।। मानुषं जात्या हीनबलं । कृपणं प्रकृत्या हीनं । एकं असहायं । शाखामृगाश्रयं क्षुद्रसहायं । पित्रा व्यक्तं निर्धनं । वनालयं राज्यहीनं । रामं केन कथंप्रकारेण । समर्थं प्रबलं । मन्यसे ॥ ४ ॥
रक्षसामीश्वरं मां च देवतानां भयङ्करम् ।
हीनं मां मन्यसे केन ह्यहीनं सर्वविक्रमैः ।। ५ ।।
स्वस्मिन् तद्वैपरीत्यमाह – रक्षसामिति ॥ हीनं दुर्बलं ॥ ५ ॥
वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः ।
त्वयाऽहं परुषाण्युक्तः परप्रोत्साहनेन वा ।। ६ ।।
एवं परप्राबल्यस्वदौर्बल्ययोरभावेपि परुषोक्तौ हेतुमाशङ्कते- वीरद्वेषेणेति । वीरद्वेषेण सजातीयवीरद्वेषेण । रिपोः पक्षपातेन शत्रौ पक्षपातेन ॥ ६ ॥
प्रभवन्तं पदस्थं हि परुषं कोऽभिधास्यति ।
पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः ।। ७ ।।
परप्रोत्साहनेनेत्येतदुपपादयति — प्रभवन्तमिति ॥ प्रभवन्तं प्रभावयुक्तं । पदस्थं परिपक्कबुद्धिं । परप्रोत्साहनाभावे पण्डितस्य पदस्थविषयकपरुषवचनं नोपपद्यत इत्यर्थः ॥ ७ ॥
आनीय च वनात्सीतां पद्महीनामिव श्रियम् ।
किमर्थं प्रतिदास्यामि राघवस्य भयादहम् ।। ८ ।।
वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम् ।
पश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया ।। ९ ।।
अस्तु त्वदुक्तं परमार्थ: तथापि दुर्लभवस्तुविशेषः कथं त्याज्य इत्याह – आनीयेति ।। किंमर्थं केन हेतुना । राघवस्य राघवात् ॥ ८-९ ॥
द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे ।
स कस्माद्रावणो युद्धे भयमाहारयिष्यति ।। १० ।।
द्वन्द्वे द्वन्द्वयुद्धे । युद्धे रामयुद्धे ॥ १० ॥
द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित् ।
एष मे सहजो दोषः स्वभावो दुरतिक्रमः ।। ११ ।।
अत्यन्तहितपरं वृद्धं मातामहं कथमेवं परुषमुक्तवानस्मीत्यनुतापेनाह-द्विधेति ॥ राम आगत्य भयं जनयिष्यतीति त्वयोक्तं । न केवलं भयमात्रं । द्विधा भज्येयं शिरश्छेदं प्राप्नुयां । एवमपि न नमेयं । कस्यचित् । न केवलं रामस्य ततोपि शतगुणबलवतोपि द्विधा भङ्गादपि कस्यचिन्नमनमत्यन्तदुःसहमित्यर्थः । तर्हि हीयमानेनसन्धि:कार्य इति नीतिशास्त्रविरोध: स्यात्तत्राह — एष मे सहजो दोष इति । यदि दोषत्वमनुमतं तर्हि स त्याज्य एवेत्याशङ्ख्याह – स्वभाव इति । नहि तिक्तो निम्बो मधुरायत इति भावः ॥ ११ ॥
यदि तावत्समुद्रे तु सेतुर्बद्धो यदृच्छया ।
रामेण विस्मयः कोऽत्र येन ते भयमागतम् ।। १२ ।।
अथ सेतुबन्धेन विस्मयसे चेत् तदपिकाकतालीयं । अतोमाभूत्ते भयमित्याह – यदीति ।। तावत्समुद्रे स्वल्पसमुद्र इत्यर्थः ॥ १२ ॥
स तु तीर्त्वाऽर्णवं रामः सह वानरसेनया ।
प्रतिजानामि ते सत्यं न जीवन्प्रतियास्यति ।। १३ ।।
अर्णवं तीर्त्वा स्थितो राम इत्यर्थः ॥ १३ ॥
एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् ।
व्रीडितो माल्यवान्वाक्यं नोत्तरं प्रत्यपद्यत ।। १४।।
संरब्धं अहंकारयुक्तं । व्रीडित इति । स्वोपदेशवैफल्यादितिभावः ॥ १४ ॥
जयाशिषा च राजानं वर्धयित्वा यथोचितम् ।
माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम् ।। १५ ।।
यथोचितमिति । प्रत्युत्थानादिनेति भावः ॥ १५ ॥
रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च ।
लङ्कायामतुलां गुप्तिं कारयामास राक्षसः ।। १६ ।।
मन्त्रयित्वा कर्तव्यं विचार्य । विमृश्य निश्चिय ॥ १६ ॥
स व्यादिदेश पूर्वस्यां प्रहस्तं द्वारि राक्षसम् ।
दक्षिणस्यां महावीर्यौ महापार्श्वमहोदरौ ।। १७ ।।
पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा ।
व्यादिदेश महामायं बहुभी राक्षसैर्वृतम् ।। १८ ।।
व्यादिदेश रक्षणायेति शेषः ॥ १७-१८ ।।
उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ ।
स्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच ह ।। १९ ।।
भविष्यामीत्यनन्तरमितिकरणं द्रष्टव्यं ॥ १९ ॥
राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम् ।
मध्यमेऽस्थापयद्गुल्मे बहुभिः सह राक्षसैः ।। २० ।।
मध्यमे गुल्म इति गुल्मो नाम नगरमध्यचैत्यस्थानं ॥ २० ॥
एवंविधानं लङ्कायाः कृत्वा राक्षसपुङ्गवः ।
कृतकृत्यमिमात्मानं मन्यते कालचोदितः ।। २१ ।।
विधानं रक्षणसंविधानं ॥ २१ ॥
विसर्जयामास ततः स मन्त्रिणो विधानमाज्ञाप्य पुरस्य पुष्कलम् ।
जयाशिषा मन्त्रगणेन पूजितो विवेश चाऽन्तःपुरमृद्धिमन्महत् ।। २२ ।।
पुष्कलं समग्रं ॥ २२ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्स्त्रिंशः सर्गः ॥ ३६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षट्त्रिंशः सर्गः ॥ ३६ ॥