[highlight_content]

39 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनत्रिंशः सर्गः

रात्रौसुग्रीवादिभिःसहसुवेले सुखोषितेनरामेण प्रातलंङ्कावलोकनम् ॥ १ ॥

तां रात्रिमुषितास्तत्र सुवेले हरिपुङ्गवाः
लङ्कायां ददृशुर्वीर वनान्युपवनानि
।। ।।

अथ लङ्कादर्शनमेकोनत्वारिंशे — तामिति ॥ ता रात्रिमित्यत्यन्तसंयोगे द्वितीया । ददृशुः प्रातरिति सिद्धं । वनानि अकृत्रिमाणि । उपवनानि कृत्रिमाणि ॥ १ ॥

 

समसौम्यानि रम्याणि विशालान्यायतानि
दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः
।। ।।

समानि तानि सौम्यानि समसौम्यानि निम्नोन्नतत्वरहितानि स्निग्धानि ेत्यर्थः । अत एव रम्याणि रमणीयानि । विशालानि विपुलानि । आयतानि दीर्घाणि । दृष्टिरम्याणि नयनाकर्षणानि । वनान्युपवनानि ेत्याकृष्यान्वयः ॥ २ ॥

 

म्पकाशोकपुंनागसालतालसमाकुला
तमालवन
संछन्ना नागमालासमावृता ।। ।।

हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश् पुष्पितैः
तिलकैः कर्णिकारैश् पटालैश् समन्ततः
।। ।।

शुशुभे पुष्पिताग्रैश् लतापरिगतैर्द्रुमैः
लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती
।। ।।

विित्रकुसुमोपेतै रक्तकोमलपल्लवैः
शाद्वलैश् तथा नीलैश्ित्राभिर्वनराजिभिः
।। ।।

म्पकेत्यादि श्लोकतुष्टयमेकान्वयं ।। नागमाला नागकेसरमाला । हिन्तालैरित्यादि । उपलक्षितेतिशेषः । दिव्यैः पारिजातादिभिः । अत्राप्युपलक्षितेतिशेषः । विित्रेत्यादि पदद्वयमपि दिव्यद्रुमविशेषणं । शाद्वलैरित्यादावप्युपलक्षणे तृतीया । लङ्काशब्दश्ात्र सुवेलपरः । उत्तरत्र वानरप्रवेशोक्तेः । शुशुभे शोभमाना दृश्यत इत्यन्वयः ॥ ३–६ ॥

 

गन्धाढ्यान्यभिरम्याणि पुष्पाणि फलानि
धारयन्त्यगमास्तत्र भूषणानीव मानवाः
।। ।।

तत्र वनेषु । धारयन्ति अधारयन् । अगमाः वृक्षाः ॥ ७ ॥

 

ैत्ररथसङ्काशं मनोज्ञं नन्दनोपमम्
वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम्
।। ।।

सर्वे ऋतवो यस्मिन् तत्सर्वतुंक । शेषाद्विभाषा ” इति कप्प्रत्ययः । षट्पदायुतं षट्पदैरासमन्ताद्युतं ।॥ ८ ॥

 

नत्यूहकोयष्टिभकैर्नृत्यमानैश् बर्हिभिः
रुतं परभृतानां शुश्रु
वुर्वननिर्झरे ।। ।।

वननिर्झरे नत्यूहैः कोयष्टिभकैः जलकुकुटविशेषैः । नृत्यमानैः नृत्यद्भिः। बर्हिणैश् सहितानां परभृतानां रुतं शुश्रुवुरिति योजना ॥ ९ ॥

 

नित्यमत्तविहङ्गानि भ्रमरारितानि
कोकिलाकुलषण्डानि विहगाभिरुतानि
।। १० ।।

भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि
कोणालकविघुष्टानि सारसाभिरुतानि
।। ११ ।।

विविशुस्ते ततस्तानि वनान्युपवनानि
हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः
।। १२ ।।

तेषां प्रविशतां तत्र वानराणां महौजसाम्
पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः
।। १३ ।।

वनरामणीयकाकृष्टास्तत्रविविशुरित्याह-नित्येत्यादिना कामरूपिण इत्यन्तेन श्लोकत्रयेण ।। विहङ्गाः वक्ष्यमाणकोकिलादिव्यतिरिक्ताः । षण्डाः वृक्षसमूहाः। विहङ्गभृङ्गसंारस्य तन्नादस्य वनशोभाहेतुत्वात्तत्संारमुक्त्वा तन्नादमाह – विहगेत्यादिना । विहगानामभिरुतं येषु तानि विगाभिरुतानि । एवमुत्तरत्रापि विग्रहः । कोणालकः खञ्जनः । सारसाभिरुतानीत्यनेन वनादीनां सरःसमीपवर्तित्वमुक्तं । हृष्टाः पुलकिताः । प्रमुदिताः सन्तुष्टाः । वीराः शत्रुवनप्रवेशेपि निर्भया: । कामरूपिणः सूक्ष्मविपुलप्रवेशानुगुणस्थूलसूक्ष्मशरीरवन्तः ।। १०-१३ ।।

 

अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः
सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम्
।। १४ ।।

वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान्
कम्पयन्तश् तां लङ्कां नादै
स्ते नदतां वराः

कुर्वन्तस्ते महावेगा महीं ारणपीडिताम् ।। १५ ।।

अन्येत्वित्यादिसार्धश्लोकद्वयमेकान्वयं ।। १४-१५ ॥


रजश् सहसैवोर्ध्वं जगाम रणो
त्थितम् ।। १६ ।।

रजश्ेत्यर्धमेकं वाक्यं ॥ रणोत्थितं वानरपादाहतिजनितं । रजः ऊर्ध्वं जगाम । उत्थितमित्यर्थः ॥ १६ ॥

 

ऋक्षाः सिंहा वराहाश् महिषा वारणा मृगाः
तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश
।। १७ ।।

अत्र ऋक्षादयो लङ्कावनवासिनः । भीताः दर्शनादेव भीताः । तेन शब्देन वित्रस्ता: विशेषेण त्रस्ताः । दश दिशो जग्मुः । यथायथं जग्मुरित्यर्थः ॥ १७ ॥

 

शिखरं त्रिकूटस्य प्रांशु ैकं दिविस्पृशम्
समन्तात्पुष्प
संछन्नं महारजतसंनिभम् ।। १८ ।।

शतयोजनविस्तीर्णं विमलं ारुदर्शनम्
श्लक्ष्णं श्रीमन्महैव दुष्प्रापं शकुनैरपि

मनसापि दुरारोहं किं पुनः कर्मणा जनैः ।। १९ ।।

एवं त्रिकूटस्य प्रथमशिखरं सुवेलाख्यमुक्त्वा मध्यमशिखरं वर्णयति—शिखरं तदित्यादिना ॥ सार्धश्लोकद्वयमेकान्वयं । तत् प्रसिद्धं । प्रांशु पार्श्ववर्तिशिखरद्वयापेक्षया उन्नतं । एकं अद्वितीयं । मध्यममित्यर्थः । स्पृशतीति स्पृशं । इगुपधलक्षणः कप्रत्ययः । समन्तात्पुष्पसंछन्नं अतएव महारजतसन्निभं पृथुरजत सन्निभं । यद्वा सुवर्णसन्निभमिति स्वरूपोक्तिः । ारुदर्शनं सुन्दरदर्शनं । एवंभूतं शिखरं अदृश्यतेत्यध्याहारः ॥ १८-१९ ॥


निविष्टा तत्र शिखरे लङ्का रावणपालिता

शतयोजनविस्तीर्णा त्रिंशद्योजनमायता ।। २० ।।

निविष्ठेत्यादिश्लोकपञ्कमेकान्वयं ॥ २० ॥

 

सा पुरी गोपुरैरुैः पाण्डुराम्बुदसंनिभैः
काञ्नेन सालेन राजतेन शोभिता
।। २१ ।।

सालेन प्राकारेण ॥ २१ ॥

 

प्रासादैश् विमानैश् लङ्का परमभूषिता
घनैरिवातपापाये मध्यमं वैष्णवं पदम्
।। २२ ।।

प्रासादैरिति । प्रासादादिलक्षणं प्रागेव लिखितं । आतपापाये वर्षारम्भसमये । मध्यमं वैष्णवं पदमिति । त्रिविक्रमावतारे त्रिभिः पदैः सर्वलोक्रक्रमणे मध्यमपदेनान्तरिक्षं क्रान्तमिति आकाशं मध्यमं वैष्णवं पदमिति उ्यते ॥ २२ ॥

 

यस्यां स्तम्भसहस्रेण प्रासादः समलङ्कृतः
कैलासशिखराकारो दृश्यते खमिवोल्लिखन्
।। २३ ।।

ैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम्
बलेन रक्षसां नित्यं यः समग्रेण रक्ष्यते ।। २४ ।।

उल्लिखन् व्याप्नुवन् नगरमध्यतुष्पथं ैत्यं तत्र भवश्ैत्यः राक्षसेन्द्रस्य पुरभूषणमित्यन्वयः । यः समग्रेण रक्षसां शतेन नित्यं रक्ष्यते । यश् राक्षसेन्द्रस्य पुरभूषणं बभूव । स्तम्भसहस्रेण समलंकृतः कैलासशिखराकारः खमुल्लिखन्निव स्थितः ैत्यः स प्रासादः यस्यां दृश्यते तादृशी रावणपालितत्वादिविशेषणविशिष्टा तत्र शिखरे निविष्टा लङ्का अदृश्यतेत्यध्याहारेणान्वयः ।। २३-२४ ॥

 

मनोज्ञां काननवतीं पर्वतैरुपशोभिताम्

नानाधातुविित्रैश् उद्यानैरुपशोभिताम् ॥ २५ ॥

एवं वानराणामग्रगतानां लङ्कादर्शनमुक्त्वा रामस्यापि तदर्शनमाह – मनोज्ञामित्यादिश्लोकत्रयमेकान्वयं ॥ पर्वतैः क्रीडाशैलै : । नानाधातुविित्रैरिति पर्वतविशेषणं । उद्यानैः कृत्रिमवनैः ॥ २५ ॥

 

नानाविहगसंघुष्टां नानामृगनिषेविताम्

नानाकाननसंतानां नानाराक्षससेविताम् ॥ २६ ॥

नानाकाननेति पूर्वं काननवत्त्वमुक्तं अत्र तन्नानात्वमितिमिदा ॥ २६ ॥

 

तां समृद्धां समृद्धार्थां लक्ष्मीवाँलक्ष्मणाग्रजः

रावणस्य पुरीं रामो ददर्श सह वानरैः ॥ २७ ॥

समृद्धां उन्नतां । समृद्धार्थां समृद्धद्रव्यां । लक्ष्मीवान् नगरदर्शनजप्रीतिविकसितकान्तिः ।। २७ ।।

 

तां महागृहसंबाधां दृष्ट्वा लक्ष्मणपूर्वजः ।

नगरीममरप्रख्यो विस्मयं प्राप वीर्यवान् ।। २८ ।।

अमरप्रख्यः देवसदृशः ।। २८ ॥

 

तां रत्नपूर्णां बहुसंविधानां प्रासादमालाभिरलङ्कृतां
पुरीं महायन्त्रकवाटमुख्यां
ददर्श रामो महता बलेन ।। २९ ।।

पुनःसंग्रहेणाह- तामिति ॥ रत्नानि श्रेष्ठवस्तूनि । संविधानं रक्षणं ।। २९ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनत्रिंशः सर्गः ॥ ३९

इति श्रीगोविन्दराजविरिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एको- नत्वारिंशः सर्गः ॥ ३९ ॥

Languages

Related Parts

error: Content is protected !!