[highlight_content]

41 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकचत्वारिंशः सर्गः

रामेण रावणकरग्रहणविमोचनेनपुनरागतंसुग्रीवंप्रत्यालिङ्गनपूर्वकं पुनरपितादृशसाहस करणप्रतिषेधनम् ॥ १ ॥ तथालक्ष्मणंप्रति युद्धादिसूचकदुर्निमित्तप्रदर्शनपूर्वकं सुवेलादवतरणेन -सुग्रीवेणसह रणायसेनासंनाहपूर्वकं लङ्कांप्रत्यभियानम् ॥ २ ॥ लङ्कांगतेनरामेण -नीलाङ्गदहनुमतां क्रमेण प्रागादिद्वारनिरोधनचोदनपूर्वकं स्वयंलक्ष्मणेन -सहरावणाधिष्ठितोत्तरद्वारमिरोधनम् ॥ ३ ॥ तथा राजनीत्यनुसारेणसंदेशनिवेदनाय रावणंप्रत्यङ्गदप्रेषणम् ॥ ४ ॥ अङ्गदेनरावणमेत्यराम संदेश निवेदने तन्नियोगेन राक्षसैरङ्गदग्रहणम् ॥ ५ ॥ तदुद्वहनेनैवगगनमुलुतेनाङ्गदेन स्वाङ्गविधूननेनरक्षसामधः पातनपूर्वकं पादाभिघातात्प्रासादभञ्जनेन पुनारामपार्श्वगमनम् ॥ ६ ॥

अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः

सुग्रीवं संपरिष्वज्य तदा वचनमब्रवीत् ।। ।।

अथ लङ्कावरोध एकचत्वारिंशे – अथेति ॥ तस्मिन् सुग्रीवे । निमित्तानि युद्धचिह्नानि । निमित्तं हेतुलक्ष्मणोः इत्यमरः ॥ १ ॥

 

असंमन्त्र्य मया सार्धं तदिदं साहसं कृतम्

एवं साहसकर्माणि न कुर्वन्ति जनेश्वराः ॥ २ ॥

जनेश्वराः राजानः । न कुर्वन्ति अस्मादृशपरिजने विद्यमाने न कुर्वन्तीत्यादरोक्तिः ॥ २ ॥

 

संशये स्थाप्य मां चेदं बलं च सविभीषणम्

कष्टं कृतमिदं वीर साहसं साहसप्रिय ॥ ३ ॥

संशये संशयपदे । त्वत्साहसेऽस्मदादीनां जीवनं दुर्लभमिति भावः ॥ ३ ॥

 

इदानीं मा कृथा वीर एवंविधैमचिन्तितम्

त्वयि किंचित्समापन्ने किं कार्यं सीतया मम ॥४॥

भरतेन महाबाहो लक्ष्मणेन यवीयसा

शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः॥ ५ ॥

इदानीमित्यादि श्लोकद्वयं ॥ इदानीं अद्यप्रभृति । अचिन्तितं अविचारितं । एवंविधं साहसं मा कृथाः । कुत इत्यत्राह – त्वयीति त्वयि किञ्चित्समापन्ने । – वानरेति संबोधनं । प्राप्ते मम सीतया कि कार्यं किं प्रयोजनं । अभिनववत्सवात्सल्येन पूर्ववत्समनमिलषन्त्या वत्सलाया गोरिव नित्यानपायिनीमपि सीतामनादृत्य तदानीमाश्रिते वानरमात्रेऽत्यभिनिवेशं कुर्वतो रामस्य वात्सल्यातिशय उच्यते । सीतया । अर्धो वा एष आत्मनो यत्पत्नी इत्यर्धशरीरभूतया न मे किञ्चित्कार्यं । भरतेन यवीयसेति कनिष्ठत्वमुच्यते । भ्राता स्वा मूर्तिरात्मन: इत्युक्तभरतादिनापि न मे किञ्चित्प्रयोजनं । स्वशरीरेण वा आत्मानं सर्वथा रक्षेद्दारैरपि धनैरपि इत्युक्तशरीरेण वा किं क्रियते ॥ ४-५ ॥

 

त्वयि चानागते पूर्वमिति मे निश्चिता मतिः

जानतश्चापि ते वीर्य महेन्द्रवरुणोपम ॥ ६ ॥

हत्वाऽहं रावणं युद्धे सपुत्रबलवाहनम्

अभिषिच्य च लङ्कायां विभीषणमथापि च

भरते राज्यमावेश्य त्यक्ष्ये देहं महाबल ॥ ७

एतदेव प्रपञ्चयति — त्वयीत्यादिना ॥ पूर्वं त्वय्यनागते सति । इति वक्ष्यमाणप्रकारेण मे मतिः निश्चितासीत् । जानतश्चापीति विशेषणेन अस्थाने भयशङ्कित्वोक्त्या वात्सल्यातिशय उक्त: । इतिशब्दार्थमाह-हत्वेति ॥ प्रतिज्ञानिर्वाहार्थमिति भावः । अभिषिच्येति । अन्यथा शरणागतिवैफल्यादिति भावः । भरत इति । अन्यथा कुलधर्मोच्छेदादिति भावः । महाबलेत्यनन्तरमितिकरणस्यान्वयः ॥ ६–७ ॥

 

तमेवंवादिनं रामं सुग्रीवः प्रत्यभाषत

तव भार्यापहर्तारं दृष्ट्वा राघव रावणम्

र्षयामि कथं वीर जानन्पौरुषमात्मनः ॥ ८ ॥

तमेवमित्यादिसार्धश्लोकः ॥ पौरुषं त्वद्दास्यरूपं पुरुषधर्ममित्यर्थः । अतएवहि पूर्वं रावणान्तिके दासोस्मीत्युक्तवान् । जानन्नित्यनेन दासस्य कर्मैवेदं नतु साहसमित्युच्यते ॥ ८ ॥

 

इत्येवंवादिनं वीरमभिनन्द्य स राघवः
लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत्
।। ।।

अथ रामस्योत्साहविशेषं दर्शयति- इत्येष मिति ॥ लक्ष्मिसंपन्नमित्यत्र इको ह्रस्वोऽङयो गालवस्य इति ह्रस्वः । लक्ष्मीरत्र निमित्तदर्शनजः सन्तोषः ॥ ९ ॥

 

परिगृह्योदकं शीतं वनानि फलवन्ति च
बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण
।। ।।

संविभज्य तत्तद्यूथपाधीनं कृत्वा । व्यूह्य गरुडादिरूपेण स्थापयित्वा ॥ १० ॥

 

लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम्
निबर्हणं प्रवीराणामृक्षवानररक्षसाम्
।। ११ ।।

लोकक्षयकरं लोकक्षयसूचकं । भीमं भयंकरं । भयं भयनि मित्तं । न केवलं लोकस्य प्रवीराणां चेत्याह – निबर्हणमिति । विनाशसूचक मित्यर्थः ॥ ११ ॥

 

वाताश्च परुषं वान्ति कम्पते च वसुन्धरा
पर्वताग्राणि वेपन्ते पतन्ति धरणी
रुहाः ।। १२ ।।

तदेव भयनिमित्तं प्रपञ्चयति – वाता इति ॥ पतन्ति अनिमित्तमिति शेषः ॥ १२ ॥

 

मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः
क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः
।। १३ ।।

रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा
ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम्
।। १४ ।।

क्रव्यादसंकाशा: श्येनादि- सदृशसंस्थानाः। परुषाः क्रूरवेषाः । क्रूराः लोकक्षयसूचकाः । मिश्रं जलमिति शेषः ॥ १३-१४ ॥

 

आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम्
दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः
।। १५ ।।

आदित्यमभि आदित्याभिमुखं । दीनाः दीनवेषाः । दीनस्वराः दैन्यसूचकस्वरवन्तः । अतएव घोराः भयंकराः । अप्रशस्ताः हीनाः शिवादयः ॥ १५ ॥

 

रजन्यामप्रकाशश्च सन्तापयति चन्द्रमाः
कृष्णरक्तांशुपर्यन्तो यथा लोकस्य सङ्क्षये

ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः ।। १६ ।।

कृष्णरक्तान्तपर्यन्तः कृष्णान्तो रक्तपर्यन्तश्चेत्यर्थः । ह्रस्वः व्याममात्रः । रूक्षः भयंकरः । अप्रशस्त: अशुभकरः । सुलोहितः रक्तमध्यः । परिवेषः लोकस्य संक्षये यथा तथा । दृश्यत इति शेषः ॥ १६ ॥


आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते

दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते
युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति
।। १७ ।।

आदित्येत्यादिसार्धश्लोकः ॥ लक्ष्म चन्द्रकलङ्क इवेत्यर्थः । तथैव छान्दोग्ये – यदादित्यस्य कृष्णं रूपं इत्यत्र उत्पातकाले तथा दृश्यत इति व्याख्यातं । नक्षत्राणि यथावत् यथाप्रकारेण न दृश्यन्ते । मलिनानि दृश्यन्त इत्यर्थः । उक्तं निमित्तजातं लोकस्य युगान्तं शंसतीवाभिवर्तत इतियोजना ॥ १७ ॥

 

काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च
शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः
।। १८ ।।

[ शैलैः शूलश्च खड्गैश्च विमुक्तैः कपिराक्षसैः ।

भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा ।। १९ ।। ]

नीचैः ह्रस्वं वेदिकास्थानं । परिपतन्ति प्राप्नुवन्ति । शिवा इति । अप्रशस्तमृगजात्युक्तावपि पुनरुक्तिरशुभाधिक्यात् ॥ १८-१९ ॥

 

क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम्
अभियाम जवेनैव सर्वतो हरिभिर्वृताः
।। ।।

इत्येवं तु वदन्वीरो लक्ष्मणं लक्ष्मणाग्रजः
तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः
।। २१ ।।

अभियामेति वर्तमानकाले लोट् ॥ २० – २१ ॥

 

अवतीर्य तु धर्मात्मा तस्माच्छैलात्स राघवः
परैः परमदुर्धर्षं ददर्श बलमात्मनः
।। २२ ।।

तस्मात् सुवेळात् । बलमित्यनेन सर्वे बलं न सुवेलमारुहदिति गम्यते ॥ २२ ॥

 

संनह्य तु स सुग्रीवः कपिराजबलं महत्
कालज्ञो राघवः काले संयुगायाभ्यचोदयत्
।। २३ ।।

राघवः ससुग्रीवः सन् । कपिराजबलं कपिश्रेष्ठानां बलं । सन्नह्य प्रोत्साह्य । काले युद्धकाले । संयुगाय युद्धाय । अभ्यचोदयत् ॥ २३ ॥

 

ततः काले महाबाहुर्बलेन महता वृतः
प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम्
।। २४ ।।

तं विभीषण सुग्रीवौ हनूमाञ्जाम्बवान्नलः
ऋक्षराजस्तथा नीलो लक्ष्मणश्चा
न्वयुस्तदा ।। २५ ।।

काले प्रातःकाले ।। २४-२५ ।।

 

ततः पश्चात्सुमहती पृतनर्क्षवनौकसाम्
प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम्
।। २६ ।।

पृतना सेना ॥ २६ ॥

 

शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहाम्
जगृहुः कुञ्जरप्रख्या वानराः परवारणाः
।। २७ ।।

तौ तु दीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ
रावणस्य पुरीं लङ्कामासेदतुररिन्दमौ
।। २८ ।।

कुञ्जरप्रख्याः गजतुल्या: । परवारणाः शत्रुवारकाः ॥ २७-२८ ॥

 

पताकामालिनीं रम्यामुद्यानवनशोभिताम्
चित्रवप्रां सुदुष्प्रापामु
च्चैः प्राकारतोरणाम् ।। २९ ।।

तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः
यथानिदेशं सम्पीड्य न्यविशन्त वनौकसः
।। ३० ।।

पताकेत्यादिश्लोकद्वयं पताकमालिनीमित्यत्र ङ्यापोः संज्ञाछन्दसोर्बहुलं इति ह्रस्वः । उद्यानं कृत्रिमवनं । चित्रवप्रां चित्रचयां । यथानिवेशं यथास्थानं । राम वचोऽन्यूनं स्वं स्वं स्थानमनतिक्रम्येत्यर्थः । संपीड्य उपरुध्य ।। २९-३० ।।

 

लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम्
रामः सहानुजो धन्वी जुगोप च रुरोध च
।। ३१ ।।

जुगोप परपरिभवादात्मीयं  बलं ररक्षेत्यर्थः । रुरोधेत्यनेन शिखरं तत्रिकूटस्य प्रांशु चैकं दिविस्पृशं इत्युक्तत्रिकूटशिखरारोहणमर्थसिद्धं ॥ ३१ ॥

 

लङ्कामुपनिविष्टश्च रामो दशरथात्मजः
लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम्
।।

उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः ।। ३२ ।।

लङ्कामित्यादिसार्धश्लोक एकान्वयः ॥ लक्ष्मणानुचरो वीर इति पाठः । रावणो यत्र तिष्ठति तदुत्तरद्वारमासाद्य लङ्कामुपनिविष्ट इत्यन्वयः ॥ ३२ ॥


नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम्

रावणाधिष्ठितं भीमं वरुणेनेव सागरम् ।। ।।
सायु
धै राक्षसैर्भीमैरभिगुप्तं समन्ततः
लघूनां त्रासजननं पातालमिव दानवैः
।। ३४ ।।

रामेणैव निरोद्धव्यत्वे हेतुमाहनान्य इत्यादिश्लोकद्वयेन । लघूनां अल्पसाराणां ॥ ३३-३४ ॥

 

विन्यस्तानि च योधानां बहूनि विविधानि च
ददर्शायुधजालानि तथैव कवचानि च
।। ३५ ।।

विन्यस्तानि द्वारोपान्तवेदिकादिष्वितिशेषः ॥ ३५ ॥

 

पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः
अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान्
।। ३६ ।।

अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः
ऋषभेण गवाक्षेण गजेन गवयेन च
।। ३७ ।।

हनूमान्पश्चिमद्वारं ररक्ष बलवान्कपिः
प्रमाथिप्रघसाभ्यां च वीरैरन्यैश्च सङ्गतः
।। ३८ ।।

मैन्देन द्विविदेन चेत्यादिना प्रतिद्वारमधिकयूथपतिगमनस्यात्रोक्तत्वात्पूर्वं रामेण ते नियुक्ता इति ज्ञेयं ॥ ३६ – ३८ ।।

 

मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत
सह सर्वैर्हरिश्रेष्ठैः सुपर्णश्वसनोपमैः
।। ३९ ।।

वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः
निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः
।। ।।

शासनेन तु रामस्य लक्ष्मणः सविभीषणः
द्वारेद्वारे हरीणां तु कोटिंकोटिं न्यवेशयत्
।। ४१ ।।

पश्चिमेन तु रामस्य सुग्रीवः सहजाम्बवान्
अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः
।। ४२ ।।

मध्यम इति । दुर्जयरावणेन्द्रजिदधिष्ठितयोरुत्तरपश्चिमद्वारयोर्मध्ये तदुभयद्वारनिरोधकानां काकाक्षिन्यायेन साहाय्यं कर्तुं सुग्रीवः स्वयमतिष्ठदिति ज्ञेयम् । पश्चिमेन तु रामस्य सुग्रीव : सहजाम्बवान् । अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः इति वक्ष्यमाणत्वात् । सुपर्णः गरुडः ॥ ३९–४२ ॥

 

ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः
गृहीत्वा द्रुमशैलाग्रान्हृष्टा युद्धाय तस्थिरे
।। ।।

वानरशार्दूलाः वानरश्रेष्ठाः शैलाप्रानिति पुंस्त्वमा ॥ ४३ ।।

 

सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः
सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः
।। ४४ ।।

विकृतलाकूला: ऊर्ध्व प्रसारितपुच्छाः । विकृतचित्राङ्गा इत्यत्र विकृतत्वं कोपरक्तमुखनेत्रत्वं । अतएव चित्रं चित्रवर्ण अङ्गं येषां ते तथोक्ता इति विग्रहः । विकृताननाः राक्षसविडम्बनाय कुटिलितमुखाः ॥ ४४ ॥

 

दशनागबलाः केचित्केचिद्दशगुणोत्तराः
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः
।। ४५ ।।

दशगुणोत्तरा: शतनागवला इत्यर्थः ॥ ४५ ॥

 

सन्ति चौघबलाः केचित्केचिच्छतगुणोत्तराः
अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः
।। ४६ ।।

ओघ बला: ओघसङ्ख्याकनागबलाः । शतगुणोत्तराः ओघसङ्ख्याकनागबलेभ्यः शतगुणेन उत्तरा: श्रेष्ठा इत्यर्थः । अप्रमेयबलाः अपरिच्छेद्यबला: ॥ ४६ ।।

 

अद्भुतश्च विचित्रश्च तेषामासीत्समागमः
तत्र वानरसैन्यानां शलभानामिवो
द्यमः ।। ४७ ।।

अद्भुतः आश्चर्यभूतः । विचित्र: वानरगोपुच्छभल्लूकजुष्टतया नानावर्णः । तत्र लङ्कायां तेषां वानरसैन्यानां । समागमः आगमनं । शलभानां शरभाणां अष्टापदमृगाणां । उद्यमः समागम इव आसीत् । तथा भयंकरोऽभूदित्यर्थः । यद्वा यथा शलभानां समागमो युगपद्भवति तथेति युगपत्पतने दृष्टान्तः ॥ ४७ ॥

 

परिपूर्णमिवाकाशं सञ्चन्नेव च मेदिनी
लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः
।। ४८ ।।

परिपूर्णमिति अत्र इवशब्दद्वयमपि वाक्यालङ्कारे । उपनिविष्ठैः पृथिवी पूर्णा संपतद्भिः आगच्छद्भिस्तु । आकाशं पूर्णं । भूमाववकाशाभावादिति भावः ॥ ४८ ॥

 

शतं शतसहस्राणां पृथगृक्षवनौकसाम्
लङ्का द्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः
।। ४९ ।।

शतसहस्राणां । ऋक्षवनौकसां शतं पूर्वनियुक्तेभ्योतिरिक्तं लंकाद्वाराण्युपाजगाम । अन्ये वानराः समन्ततः युद्धार्थमुपाजग्मुरित्यन्वयः ॥ ४९ ॥

 

आवृतः स गिरिः सर्वैस्तैः समन्तात्प्लवङ्गमैः ।। ।।

आवृत इत्यर्धमेकं वाक्यं ॥ स गिरिः त्रिकूटः ॥ ५० ॥


अयुतानां सहस्रं च पुरीं तामभ्यवर्तत
।। ५१ ।।

अयुतानामित्यर्धं ॥ अयुतानां सहस्रं च तां पुरीमभ्यवर्ततेत्यनेन पूर्वोक्तस्य द्वारावरणस्थानन्तरं अयुतानां सहस्रं च पुरीं तां पर्यवारयदित्युच्यते ॥ ५१ ॥

 

वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः
संवृता सर्वतो लङ्का दुष्प्रवेशापि वायुना ।। ५२ ।।

दुष्प्रवेशा बभूवेत्यन्वयः ॥ ५२ ॥

 

राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः
वानरैर्मेघसङ्काशैः शक्रतुल्यपराक्रमैः
।। ५३ ।।

अभिनिपीडिता: उपरुद्धाः । राक्षसाः । विस्मयं आश्चर्यं जग्मुः ॥ ५३ ॥

 

महाञ्शब्दोऽभवत्तत्र बलौघस्याभिवर्ततः
सागरस्येव भिन्नस्य यथा स्यात्सलिलस्वनः
।। ५४ ।।

तत्र त्रिकूटशिखरे । भिन्नस्य भिन्नमर्यादस्य । सागरस्येव अभिवर्ततः अभिवर्तमानस्य बलौघस्य । सलिलखनो यथा स्यात् तथा महाञ्छब्दो बभूवेति योजना । अतो न यथाशब्दवैयर्थ्य ॥ ५४ ॥

 

तेन शब्देन महता सप्राकारा सतोरणा
लङ्का प्रचलिता सर्वा सशैलवनकानना
।। ५५ ।।

सशैलवनकाननेत्यत्र वनं उद्यानं ॥ ५५ ॥

 

रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी
बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः
।। ५६ ।।

सुग्रीवेणेति रक्ष्यसाहित्यमुच्यते ॥ ५६ ॥

 

राघवः संनिवेश्यैव सैन्यं स्वं रक्षसां वधे
संमन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः

आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् ।। ५७ ।।
विभीषणस्यानुमते राजधर्ममनुस्मरन्

अङ्गदं वालितनयं समाहूयेदमब्रवीत्
।। ५८ ।।

राघव इत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ वधे विषये । आनन्तर्य अनन्तरकर्तव्यं । अभिप्रेप्सुः प्राप्तुमिच्छुः । संमन्य दूत: प्रेषणीय इति विचार्य । निश्चित्य अङ्गद एव प्रेषणीय इति निर्धार्य । क्रमयोगार्थतत्त्ववित् क्रमयुक्ता योगाः सामाद्युपायाः तेषामर्थः फलं तस्य तत्त्वं याथार्थ्यं वेत्तीति तथोक्तः । राजधर्ममनुस्मरन् युयुत्सया शत्रुपुरं प्रत्यागता राजानः युद्धार्थ दूतमुखेन प्रथममाह्वयन्तीत्येवं रूपं राजधर्ममनुस्मरन् । विभीषणस्यानुमते अनुमतौ सत्यां । अङ्गदं समाहूयेदमब्रवीदिति संबन्धः ॥ ५७-५८ ॥

 

गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात्कपे
लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः
।। ५९ ।।

हे सौम्य गतव्यथः गतश्रमः सन् । लङ्कां पुरीं तत्प्राकारं लङ्घयित्वा भयं त्यक्त्वा दशग्रीवं मद्वचनात् ब्रूहि मयोक्तमितिब्रूहीत्यर्थः। कपे इत्यनेन लङ्घनसामर्थ्यं द्योतयति ।। ५९ ॥

 

भ्रष्टश्रीक गतैश्वर्य मुमूर्षो नष्टचेतनः
ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा
।। ।।

भ्रष्टश्रीक भ्रष्टप्रायद्रविण । गतैश्वर्य गतप्रायनियन्तृत्व । संपदि भ्रष्टायामपि लोके नियन्तृत्वं संभवति । तदपिनास्तीत्यर्थः । तदुभयाभावेपि जीवनाशा संभवति सापिनास्तीत्याह-मुमूर्षो इति । तदानीमपि ज्ञानं संभवति तदपि नास्तीत्याह-नष्टचेतनेति ॥ ६० ।।

 

नागानामथ यक्षाणां राज्ञां च रजनीचर
यच्च पापं कृतं मोहादवलिप्तेन राक्षस

तस्य पापस्य संप्राप्ता व्युष्टिरद्य दुरासदा ।। ६१ ।।

नूनमद्य गतो दर्पः स्वयम्भूवरदानजः
यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः

दण्डं धारयमाणस्तु लङ्का
द्वारे व्यवस्थितः ।। ६२ ।।

नागानां सर्पाणां । अवलिप्तेन गर्वितेन त्वया । ऋषिप्रमुखानां यत्पापं कृतं यो द्रोहः कृतः । तस्य कारणभूतः स्वयंभूवरदानजो दर्पो गतः गतप्राय इत्यन्वयः । तत्र हेतुमाह — यस्येति । दण्ड धरः नियन्ता । अहं यस्य ते दण्डं धारयमाणः करिष्यमाण इत्यर्थः ॥ ६१-६२ ।।

 

पदवीं देवतानां च महर्षीणां च राक्षस
राजर्षीणां च सर्वेणां गमिष्यसि मया हतः
।। ६३ ।।

एवंविधस्य नियमने तव किं भविष्यतीत्यत्राह- पद्वीमिति ॥ पदवीं तेषुकृतं परिभवं तमपि गमिष्यसीत्यर्थः । यद्वा पदवीं लोकं । युद्धे स्थितः सन् तेषां लोकं गमिष्यसि । युद्धे स्थित्वा सर्वपापविशुद्धः सन् गतिं गमिष्यसि । ततस्तूर्णमागच्छेति भावः ॥ ६३ ॥

 

बलेन येन वै सीतां मायया राक्षसाधम
मामतिक्रामयित्वा त्वं हृतवांस्त
न्निदर्शय ।। ६४ ।।

मायया मारीचमायया । मां अतिक्रामयित्वा अपवाह्य । ल्यबभाव आर्षः । येन बलेन यद्बलमवलम्ब्य । सीतां हृतवानसि तद्बलं निदर्शयेत्यन्वयः ॥ ६४ ॥

 

अराक्षसमिमं लोकं कर्ताऽस्मि निशितैः शरैः
न चेच्छरणमभ्येषि मामुपादाय मैथिलीम्
।। ६५ ।।

मैथिलीमुपादाय समर्प्य मां शरणं नाभ्येषि चेदिमं लोकमराक्षसं कर्तास्मि । शरणागतौ तु सर्वं क्षमिष्य इति भावः । मैथिलीमुपादायेत्यनेन स्वर्णस्तेये स्वर्णप्रत्यर्पणमन्तरेण प्रायश्चित्तानधिकारवत्सीताप्रत्यर्पणाभावे शरणागतौ तु नाधिकार इत्युक्तं । रावणेन शरणागतौ कृतायां विभीषणाय कोसलराज्यं दास्यामीत्यभिप्रायः ॥ ६५ ।।

 

धर्मात्मा रक्षसां श्रेष्ठः सम्प्राप्तोऽयं विभीषणः
लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम्
।। ६६ ।।

शरणागत्यकरणे स्वकर्तव्यमाह – धर्मात्मेति ॥ यद्वा शरणागतौ प्राणत्राणं करिष्यामि न तु राज्यं दास्यामीत्यभिप्रायेणाह – धर्मात्मेति ॥ धर्मात्मा धर्मबुद्धिः । रक्षसां श्रेष्ठः राक्षसनायकइत्यर्थः । अयं विभीषणः । संप्राप्तः मां प्रपन्नः । तस्माल्लंकैश्वर्यमयं प्राप्नोति उत्तरक्षणे प्राप्स्यतीत्यर्थः । श्रीमान् तदनुगुणानुकूल्यवान् । एवं क्रियाभेदादयंशब्दद्वयोपपत्तिः ॥ ६६ ॥

 

न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया
शक्यं मूर्खसहायेन पापेनाविजितात्मना
।। ६७ ।।

एवं विभीषणस्य राज्ययोग्यतामुक्त्वा रावणस्य तद्भावमाह —न हीति ॥ अधर्मेण धर्मरहितेन । अतएव पापेन पापिष्ठेन । अतएवाविदितात्मना अस्वाधीनमनस्केन । मूर्खसहायेन त्वया न शक्यमित्यन्वयः ॥ ६७ ॥

 

युध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस
मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि
।। ६८ ।।

द्वा विशसि लोकांस्त्रीन्पक्षिभूतो मनोजवः
मम चक्षुष्पथं प्राप्य न जीवन्प्रतियास्यसि
।। ६९ ।।

सीतामादाय शरणमागतोसि चेद्विभीषणाय राज्यं दत्त्वा त्वत्प्राणान् रक्षामि अन्यथा युध्यस्वेत्याह- युध्यस्वेति ।। शान्तः मृतः । पूत इति । युद्धे अपरावृत्त्या मृते: सर्वपापप्रायश्चित्तत्वादिति भावः ॥ ६८ – ६९ ॥

 

ब्रवीमि त्वां हितं वाक्यं क्रियताम् और्ध्वदैहिकम्
सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम्
।। ।।

क्रियतामौर्ध्वदैहिकमिति अराक्षसकरणेन श्राद्धकर्त्रभावात्स्वयमेव जीवच्छ्राद्धं कुर्वित्यर्थः । सुदृष्टेति । म्रियमाणा हि चापलेन पुत्रकलत्रादिमुखदर्शनं कुर्वन्ति तद्वदिति भावः । मयि स्थितं मदायत्तं । अवश्यं त्वां नाशयामीत्यर्थः ॥ ७० ॥

 

इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा
जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट्
।। ७१ ।।

मूर्तिमान् कर चरणादिसंस्थानवान् । हव्यवाट् अग्निः ॥ ७१ ॥

 

सोऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम्
ददर्शासीनमव्यग्रं रावणं सचिवैः सह
।। ७२ ।।

ततस्तस्याविदूरेण निपत्य हरिपुङ्गवः
दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः
।। ७३ ।।

अतिपत्य प्राप्य । अव्यग्रं ददर्शेत्यन्वयः । श्रीमानित्यनेन हर्षवत्त्वमुच्यते ॥ ७२–७३ ।।

 

तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम्
सामात्यं श्रावयामास निवेद्यात्मानमात्मना
।। ७४ ।।

उत्तमं पथ्यं । सामात्यं रावणमिति शेषः । आत्मना स्वयं । आत्मानं निवेद्य । आत्मनो वालिपुत्रत्वादिनिवेदनपूर्वकं रामवचनं कथयामासेत्यर्थः ॥ ७४ ।।

 

दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः
वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः
।। ७५ ।।

यदि ते श्रोत्रमागतः । मां श्रुतवानसि किमित्यर्थः ॥ ७५ ।।

 

आह त्वां राघवो रामः कौसल्यानन्दवर्धनः
निष्पत्य प्रतियुध्यस्व नृशंसं पुरु
षो भव ।। ७६ ।।

राघव इत्यादिना छद्मना न योत्स्यत इत्युक्तं । कौसल्यानन्दवर्धन इत्यनेन बहुतपःप्रभावजनिततया धार्मिकत्वमुक्तं । निष्पत्य पुरान्निर्गत्य । पुरुषो भव शूरो भवेत्यर्थः । पुरुषाधमेति पाठे पुरोपरोघेण्यनिर्गमने नूनं पुरुषाधम एवासीति भावः ॥ ७६ ।।

 

हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम्
निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि
।। ७७ ।।

हन्तेति अहमिति शेष: । निरुद्विमा: निर्भयाः ॥ ७७ ॥

 

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्
शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम्
।। ७८ ।।

विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि
न चेत्सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि
।। ७९ ।।

उद्धरिष्यामि उन्मूलयिष्यामि । कण्टकं बाधकमित्यर्थ: ।। ७८–७९ ।।

 

इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे
अमर्षवशमापन्नो निशाचरगणेश्वरः
।। ।।

आपन्नः प्राप्तः । बभूव ॥ ८० ॥

 

ततः स रोषताम्राक्षः शशास सचिवांस्तदा
गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत्
।। ८१ ।।

रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः
जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः
।। ८२ ।।

दुर्मेधाः दुर्बुद्धिः । न दूतो वध्य इति शास्त्रानभिज्ञ इत्यर्थः । असकृच्छशासेत्यन्वयः । यद्वा दुर्मेधा इत्यङ्गदमेवाह ॥ ८१-८२

 

ग्राहयामास तारेयः स्वयमात्मानमात्मवान्
बलं दर्शयितुं वीरो यातुधानगणे तदा
।। ८३ ।।

स तान्बाहुद्वये सक्तानादाय पतगानिव
प्रासादं शैलसङ्काशमुत्पापाताङ्गदस्तदा
।। ८४ ।।

तेऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः
भुमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः
।। ८५ ।।

ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम्

ददर्श राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् ।। ८६ ।।

यातुधानगणे विषये स्वबलं दर्शयितुं । आत्मवान् धृतिमान् । स्वयं आत्मानं ग्राहयामास ग्रहीतुमनुमेने ॥ ८३ – ८६ ।।


तत्पफाल
दाक्रान्तं दशग्रीवस्य पश्यतः

पुरा हिमवतः श्रृङ्गं वज्रिणेव विदारितम् ।। ८७ ।।

पफाल व्यशीर्यत ॥ ८७ ।।

 

भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः
विनद्य सुमहानादमुत्पपात विहायस
म् ।। ८८ ।।

व्यथयन्राक्षसान्सर्वान्हर्षयंश्चापि वानरान् ।

स वानराणां मध्ये तु रामपार्श्वमुपागतः ।। ८९ ।।

विश्राव्य विशेषेण श्रावयित्वा ॥ ८८ – ८९ ॥

 

रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात्
विनाशं चात्मनः पश्यन्निश्वासपरमोऽभवत्
।। ।।

प्रासादधर्षणात् प्रासादभञ्जनात् । पश्यन् तर्कयन् । निश्वासपरम: अधिकनिश्वासः ।। ९० ।।

 

रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवङ्गमैः
वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत
।। ९१ ।।

राम इति अङ्गदागमनं दृष्ट्वेति शेषः ॥ ९१ ॥

 

सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः
बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः
।। ९२ ।।

संवृतः बभूवेति शेषः । उत्तरश्लोकेनैकवाक्यत्वे हरिकपिशब्दयोः पौनरुक्त्यं स्यात् ।। ९२ ॥

 

चतुर्द्वाराणि सर्वाणि सुग्रीववचनात्कपिः
पर्य
क्रामत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ।। ।।

न्यूनताव्यावृत्यर्थं सर्वाणीत्युक्तं । कपिः सुषेण: । पर्यक्रामत परितश्चचार । नक्षत्राणि नक्षत्रनिरूपितराशीनित्यर्थः ॥ ९३ ॥

 

तेषामक्षौहिणिशतं समवेक्ष्य व नौकसाम्
लङ्कामुपनिविष्टानां सागरं चातिवर्तताम्
।। ९४ ।।

राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथापरे
अपरे समरोद्धर्षाद्धर्षमेव
प्रपेदिरे ।। ९५ ।।

अक्षौहिणिशतमित्यत्र ङयापोः संज्ञाछन्दसोर्बहुलं इति ह्रस्वः । अनेकाक्षौहिणीमित्यर्थः । सागरंचाभिवर्ततां सागरसमीपे वर्तमानानामित्यर्थः । राक्षसाः धीरा इति शेषः । अपरे अधीरा इत्यर्थः । उद्धर्षात् गर्वात् ।। ९४ – ९५ ॥

 

कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम्
ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम्
।। ९६ ।।

हरिभिर्व्याप्तं प्राकारपरिखान्तरं प्राकारपरिखयोरन्तरालं । वानरीकृतं वानरप्रचुरतया कृतं । अपरमिव प्राकारं ददृशुरित्यर्थ: ।। ९६ ।।

 

हाहकारं प्रकुर्वन्ति राक्षसा भयमोहिताः ।। ९७ ।।

तस्मिन्महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम्
प्रगृह्य रक्षांसि महायुधानि
युगान्तवाता इव संविचेरुः ।। ९८ ।।

हाहेत्यर्धं ।। ९७-९८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकचत्वारिंशः सर्गः ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकचत्वारिंशः सर्गः ॥ ४१ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.