श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिचत्वारिंशः सर्गः
वानरराक्षसानांद्वन्द्वयुद्धम् ।। १ ॥
युध्यतां तु ततस्तेषां वानराणां महात्मनाम् ।
रक्षसां संबभूवाथ बलकोपः सुदारुणः ॥ १ ॥
अथ द्वन्द्वयुद्धं वर्णयति त्रिचत्वारिंशे – युध्यतां वित्यादि ।। वानराणां युध्यतां वानरेषु युध्यमानेषु । बलकोपः सेनायाः कोपः । बलेत्यविभक्तिकनिर्देश: ।। १ ॥
ते हयैः काञ्चनापीडैर्ध्वजैश्वाग्निशिखोपमैः ।
रथैश्चादित्यसंकाशैः कवचैथ मनोरमैः ॥ २ ॥
निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश ।
राक्षसा भीमकर्माणो रावणस्य जयैषिणः ॥ ३ ॥
वानराणामपि चमूर्बृहती जयमिच्छताम् ।
अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् ।। ४ ।।
एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम् ।
रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ॥ ५ ॥
अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः ।
अयुध्यत महातेजास्त्र्यम्बकेण यथाऽन्तकः ॥ ६ ॥
ते हयैरित्यादिश्लोकद्वयमेकान्वयं ॥ काञ्चनापीडै: स्वर्णमयशेखरैः । हयैरित्याद्युपलक्षणे तृतीया । राक्षसव्याघ्राः राक्षसश्रेष्ठाः । राक्षसश्रेष्ठवेपि जात्यन्तरत्वं संभवतीति राक्षसा इत्युक्तं ॥ २ – ६ ।।
प्रजङ्घेन च संपातिर्नित्यं दुर्मर्षणो रणे ।
जम्बुमालिनमारब्धो हनुमानपि वानरः ॥ ७ ॥
संगतः सुमहाक्रोधो राक्षसो रावणानुजः ।
समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः ॥ ८ ॥
तपनेन गजः सार्धं राक्षसेन महाबलः ।
निकुम्भेन महातेजा नीलोपि समयुध्यत ॥ ९ ॥
वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः ।
संगतः समरे श्रीमान्विरूपाक्षेण लक्ष्मणः ॥ १० ॥
दुर्मर्षण: दुःसह: । प्रजङ्घो राक्षसः । संपाति: विभीषणसचिवः । आरब्धः हन्तुमिति शेषः ।। ७-१० ।।
अग्निकेतुश्च दुर्घर्षो रश्मिकेतुश्च राक्षसः ।
सुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः ॥ ११ ॥
अनिकेतुरिति । सुप्तध्नयज्ञकोपौ चेति वापाठः ।। ११ ।।
वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः ।
राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ॥ १२ ॥
राक्षसाभ्यां वज्रमुष्टवशनिप्रभाभ्यां कपिमुख्यौ मैन्दद्विविदौ । अनेन परस्परसंगतिरुक्ता ॥ १२ ॥
वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः ।
समरे तीक्ष्णवेगेन नलेन समयुध्यत ॥ १३ ॥
धर्मस्य पुत्रो बलवान्सुषेण इति विश्रुतः ।
स विद्युन्मालिना सार्धमयुध्यत महाकपिः ॥ १४ ॥
रणदुर्धरः रणे दुनिग्रहः ॥ १३–१४ ॥
वानराचापरे भीमा राक्षसैरपरैः सह ।
द्वन्दं सैमीयुर्वहुधा युद्धाय बहुभिः सह ॥ १५ ॥
द्वन्द्वं द्वन्द्वत्वं । बहुधा युद्धाय शस्त्रास्त्रबाहुचरणप्रभृ तिभिर्युद्धाय । बहुभिरितिराक्षसविशेषणाद्वानराश्चेयत्रापि बहव इति विशेषणं विज्ञेयं ॥ १५ ॥
तत्रासीत्सुमहद्युद्धं तुमुलं रोमहर्षणम् ।
रक्षसां वानराणां च वीराणां जयमिच्छताम् ॥ १६ ॥
तुमुलं व्याकुलं ॥ १६ ॥
हरिराक्षसदेहेभ्यः प्रभूताः केशशाद्वलाः ।
शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः ॥ १७ ॥
केशशाद्बला: केशै: शाद्बलवत्यः । संघाटः काष्ठसंचयः ।। १७ ।।
आजघानेन्द्रजित्क्रुद्धो वज्रेणेव शतक्रतुः ।
अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ॥ १८ ॥
तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम् ।
जघान समरे श्रीमानङ्गदो वेगवान्कपिः ॥ १९ ॥
संपातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः ।
निजघानाश्वकर्णेन प्रजङ्गं रणमूर्धनि ॥ २० ॥
आजघान ताडयामास ।। १८-२० ।।
जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः ।
बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ॥ २१ ॥
रथशक्त्या रथ एव सदा वर्तमानया शक्त्या ॥ २१ ॥
तस्य तं रथमास्थाय हनूमान्मारुतात्मजः ।
प्रममाथ तलेनाशु सह तेनैव रक्षसा ॥ २२ ॥
आस्थाय आरुह्य ॥ २२ ॥
नदन्प्रतपंनो घोरो नलं सोप्यन्वधावत ॥ २३ ॥
नदन्नित्यर्धमेकं वाक्यं ।। २३ ।।
नलः प्रतपनस्याशु पातयामास चक्षुषी ।
भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा ॥ २४ ॥
रक्षसा प्रतपनेन । भिन्नगात्र इत्यस्य पूर्वेणान्वयः ।। २४ ॥
ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः ।
सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च ॥ २५ ॥
[प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम् ।
निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः ॥ २६ ॥ ]
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः ।
सुप्तघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः ॥ २७ ॥
सप्तपर्णेन सप्तपर्णवृक्षेण ।। २५–२७ ।।
तेषां चतुर्णां रामस्तु शिरांसि निशितैः शरैः ।
क्रुद्धचतुर्भिचिच्छेद घोरैरग्निशिखोपमैः ॥ २८ ॥
अग्निशिखोपमै: अग्निज्वालोपमैः ॥ २८ ॥
वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे ।
पपात सरथः साश्वः पुराट्ट इव भूतले ॥ २९ ॥
निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम् ।
निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ॥ ३० ॥
पुराट्ट पुरवलभिः ॥ २९-३० ॥
पुनः शरशतेनाथ क्षिग्रहस्तो निशाचरः ।
बिभेद समरे नीलं निकुम्भः प्रजहास च ॥ ३१ ॥
क्षिप्रहस्तः क्षित्रकारिहस्तः । निकुम्भ: प्रजहास चेति पाठः सम्यक् ॥ ३१ ॥
तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे ।
शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः ॥ ३२ ॥
वज्राशनिसमस्पर्शो द्विविदोप्यशनिप्रभम् ।
जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् ॥ ३३ ॥
द्विविदं वानरेन्द्रं तु नगयोधिनमाहवे ।
शरैरशनिसंकाशैः स विव्याधाशनिप्रभः ॥ ३४ ॥
स शरैरैतिविद्धाङ्गो द्विविदः क्रोधमूच्छितः ।
सालेन सरथं साश्वं निजधानाशनिप्रभम् ॥ ३५ ॥
विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः ।
सुषेणं ताडयामास ननाद च मुहुर्मुहुः ॥ ३६॥
तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः ।
गिरिशृङ्गेण महता रथमाशु न्यपातयत् ॥ ३७ ॥
शिरश्चिच्छेद सारथेरित्यनन्तरं वज्राशनिसमस्पर्श इति श्लोकः । ततो द्विविदं वानरेन्द्रं त्विति श्लोकः ॥ ३२ – ३७ ॥
लाघवेन तु संयुक्तो विद्युन्माली निशाचरः ।
अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः ॥ ३८ ॥
अपक्रम्य अवप्लुत्य ॥ ३८ ॥
ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः ।
शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ॥ ३९ ॥
तमापतन्तं गदया विद्युन्माली निशाचरः ।
वक्षस्यभिजघानाशु सुषेणं हरिसत्तमम् ॥ ४० ॥
अभिद्रवत् अभ्यद्रवत् ॥ ३९-४० ।।
गदाप्रहारं तं घोरमचिन्त्य लवगोत्तमः ।
तां शिलां पातयामास तस्योरसि महामृधे ॥ ४१ ॥
शिलाप्रहाराभिहतो विद्युन्माली निशाचरः ।
निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ॥ ४२ ॥
अचिन्त्य अचिन्तयित्वा ॥ ४१ – ४२ ॥
एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः ।
द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः ॥ ४३ ॥
दिवौकसैरित्यकारान्तत्वमार्षं ॥ ४३ ॥
भैग्नैः खङ्गैर्गदाभिश्च शक्तितोमैरपट्टिशैः ।
अपविद्धैश्च भिन्नैश्च रथैः सांग्रामिकैर्हयैः ॥ ४४ ॥
निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः ।
चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः ।
बभूवायोधनं घोरं गोमायुगणसंकुलम् ।। ४५ ॥
भग्नैरित्यादि सार्धश्लोकद्वयमेकान्वयं ॥ अपविद्धैरिति रथविशेषणं । भिन्नैरिति हयविशेषणं । सांग्रामिकै: संग्रामे साधुभिः । अक्षं चक्ररन्ध्रं । युगदण्डः अश्वबन्धनदण्डः ।। ४४ – ४५ ॥
कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम् ।
विमर्दे तुमुले तस्सिन्देवासुररणोपमे ॥ ४६ ॥
कबन्धानि शिरोहीनशरीराणि । विमर्दे युद्धे ॥ ४६ ॥
विदार्यमाणा हरिपुङ्गवैस्तदा निशाचराः शोणितदिग्धगात्राः ।।
पुनः सुयुद्धं तरसा समास्थिता दिवाकरस्यास्तमयाभिकाङ्क्षिणः ॥ ४७ ॥
दिवाकरस्येति । रात्रौ राक्षसानां बलाधिक्यादितिभावः ॥ ४७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिचत्वारिंशः सर्गः ॥ ४३ ॥