[highlight_content]

44 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे तुश्रुत्वारिंशः सर्गः

रात्रियुद्धं ॥ १ ॥ द्वन्द्वयुद्धे अङ्गदनिहतहयसारथिनेन्द्रजिता रथत्यागेनमाययाऽन्तरिक्षे -ऽन्तर्हितेनसता रामलक्ष्मणावयवेषु नागमयशरवर्षणम् ॥ २ ।।

 

युध्यतामेव तेषां तु तदा वानररक्षसाम् ।

रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ॥ १ ॥

अन्योन्यं बद्धवैराणां घोराणां जयमि्छताम् ।

संप्रवृत्तं निशायुद्धं तदा वानररक्षसाम् ॥ २ ॥

अथ रात्रियुद्धप्रवृत्तिश्तुश्त्वारिंशे- युध्यतामेवेत्यादि । युध्यतां युध्यमानेषु । प्राणहारिणी वानराणामिति शेषः ॥ १-२ ॥

 

राक्षसोसीति हरयो हरिवासीति राक्षसाः ।

अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ॥ ३ ॥

जहि दारय ैहीति कथं विद्रवसीति

एवं सुतुमुल: शब्दस्तस्मिंस्तमसि शुश्रुवे ॥ ४ ॥

हरिवासीति राक्षसा इति । दारुणतमस्कत्वेन रक्षसामपि मोहोभूदितिभावः ॥ ३–४ ॥

 

कालाः काञ्नसन्नाहास्तस्मिंतमसि राक्षसाः ।

संप्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ॥ ५ ॥

कालाः नीलाः । काञ्नसन्नाहाः काञ्नकवा: । दीप्तौषधिवना: दीप्ततृणज्योतिर्वनाः ॥ ५ ॥

 

तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमू्छिताः ।

परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् ॥ ६ ॥

परिपेतुः संेरुः ॥ ६ ॥

 

ते हयान्काञ्नापीडान्ध्वजांश्ाग्निशिखोपमान् ।

आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् ॥ ७ ॥

ते वानराः । काञ्नापीडान् सुवर्णशेखरान् ॥ ७ ॥

 

वानरा बलिनो युद्धेऽक्षोभयन्राक्षसीं मूम् ।

कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनो रथान् ।

कर्षुश् ददंशुश् दशनैः क्रोधमू्छिताः ॥ ८ ॥

वानरा इत्यादिसार्धश्लोकः ॥ युद्धेक्षोभयन्नित्यत्र अक्षोभयन्निति पद्छेदः ॥ ८ ॥

 

लक्ष्मणश्ापि रामश् शरैराशीविषोपमैः ।

दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः ॥ ९ ॥

दृश्यादृश्यानि ईषदृश्यानीत्यर्थ: ॥ ९ ॥

 

तुरङ्गखुरविध्वस्तं रथनेमिसमुत्थितम् ।

रुरोध कर्णनेत्राणि युध्यतां धरणीरजः ॥ १० ॥

विध्वस्तं ूर्णितं ॥ १० ॥

 

वर्तमाने महाघोरे संग्रामे रोमहर्षणे ।

रुधिरोदा महाघोरा नद्यस्तत्र प्रसुस्रुवुः ॥ ११ ॥

ततो भेरीमृदङ्गानां पणवानां निस्वनः ।

शङ्खवेणुस्वनोन्मित्रः संबभूवाद्भुतोपमः ॥

[ विमर्दे तुमुले तस्सिन्देवासुररणोपमे ॥ १२ ॥

रुधिरोदाः । असंज्ञायामप्युदकशब्दस्योदादेश आर्षः ॥ ११ – १२ ॥

 

हतानां स्तनमानानां राक्षसानां निस्वनः ।

शस्तानां वानराणां संबभूवातिदारुणः ।। १३ ।।

स्तनमानानां स्तनतां । शस्तानां हिंसितानां ॥ १३ ॥

 

हतैर्वानिरवीरैश् शक्तिशूलपरश्वधैः ।

निहतैः पर्वताग्रैश् राक्षसैः कामरूपिभिः ॥ १४ ॥

शस्त्रपुष्पोपहारा तत्रासीद्युद्धमेदिनी ।

दुर्ज्ञेया दुर्निवेशा शोणितास्रावकर्दमा ॥ १५ ॥

हतैरित्यादिश्लोकद्वयमेकान्वयं ।। निहतैरिति राक्षसविशेषणं । पर्वताग्रैः वानरप्रेरितैः । उपलक्षणेतृतीया । शस्त्राण्येव पुष्पोपहारा: पुष्पबलयो यस्यां सा । तत्र तदा । दुर्ज्ञेया कृ्छ्रज्ञेया । प्रतियोधिनः दुर्निवेशा दुष्प्रवेशा ॥ १४-१५ ।।

 

सा बभूव निशा घोरा हरिराक्षसहारिणी ।

कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ॥ १६ ॥

कालरात्रिः भीमरथिरात्रिः । रात्रिर्भीमरथिर्नाम सर्वप्राणिभयावहा इत्युक्तेः । शक्तिर्वा । सती कालरात्रिश् भैरवी गणनायिका इत्युक्तेः ॥ १६ ॥

 

ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे ।

राममेवाभ्यवर्तन्त संसृष्टाः शरवृष्टिभिः ॥ १७ ॥

संसृष्टाः संमिलिताः ॥ १७ ॥

 

तेषामापततां शब्दः क्रुद्धानामभिगर्जताम् ।

उद्वर्त इव सप्तानां समुद्राणां प्रशुश्रुवे ॥ १८ ॥

उद्वर्ते अभिवृद्धौ । प्रलये वा ॥ १८ ॥

 

तेषां रामः शरैष्षड्भिष्पट् जघान निशारान् ।

निमेषान्तरमात्रेण शितैरग्निशिखोपमैः ॥ १९ ॥

तेषां राक्षसानां मध्ये । षट् निशारान् । अग्निशिखोपमैः शितैः शरैः जघान ॥ १९ ॥

 

यमशत्रुश् दुर्धर्षो महापार्श्वमहोदरौ ।

वज्रदंष्ट्रो महाकायस्तौ ोभौ शुकसारणौ ॥ २० ॥

ते तु रामेण बाणौघैः सर्वे मर्मसु ताडिताः ।

युद्धादपसृतास्तत्र सावशेषायुषोऽभवन् ॥ २१ ॥

के ते षडित्यपेक्षायामाह-यमेति ॥ दुर्धर्षः धर्षितुमशक्य: । यमशत्रुः । महोदरमहापार्श्वौ । महाकाय: वज्रदंष्ट्रः । तौ उत्तरद्वाररक्षकत्वेन पूर्वोक्तौ । उभौ शुकसारणौ ेति षट् । अत्र महाकाय इति वज्रदंष्ट्रविशेषणं । अपसृताः पलायिता: । सावशेषायुषः आयुःशेषयुक्ता इति जीवने हेतुः ।। २० – २१ ।।

 

तैत्र काञ्ित्राङ्गैः शरैरग्निशिखोपमैः ।

दिशश्कार विमलाः प्रदिशश् महाबलः ।

[ रामनामाङ्कितैर्बाणैर्व्याप्तं तद्रणमण्डलम् ] ।। २२ ॥

महाबलः रामः ॥ २२ ॥

 

ये त्वन्ये राक्षसा भीमा रामस्याभिमुखे स्थिताः ।

तेऽपि नष्टाः समासाद्य पतङ्गा इव पावकम् ॥ २३॥

सुवर्णपुङ्खैर्विशिखैः संपतद्भिः सहस्रशः ।

बभूव रजनी ित्रा खद्योतैरिव शारदी ॥ २४ ॥

पावकं समासाद्येत्यन्वयः ॥ २३ – २४ ॥

 

राक्षसानां निनदैर्हरीणां ापि निस्वनैः ।

सा बभूव निशा घोरा भूयो घोरतरा तदा ॥ २५ ॥

पूर्वमेव घोरा सा भूयः विशिष्य घोरतरा बभूव ॥ २५ ॥

 

तेन शब्देन महता प्रवृद्धेन समन्ततः ।

त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवालः ॥ २६ ॥

प्रव्याहरदिव प्रतिव्याहरदिवेत्यर्थः ॥ २६ ॥

 

गोलाङ्गूला महाकायास्तमसा तुल्यवर्सः ।

संपरिष्वज्य बाहुभ्यां भक्षयन्रजनीरान् ॥ २७ ॥

भक्षयन् अभक्षयन् ।। २७ ।।

 

अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः ।

रावणिं निजघानाशु सारथिं हयानपि ॥ २८ ॥

पूर्वप्रसक्तस्याङ्गदेन्द्रजितोर्द्वन्द्वयुद्धस्य शेषं वक्तुमुपक्रमते – अङ्गदस्त्वित्यादिना ॥ २८ ॥

 

वर्तमाने तदा घोरे संग्रामे भृशदारुणे ।

इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः ॥

अङ्गदेन मेहाकायस्तत्रैवान्तरधीयत ॥ २९ ॥

तत्रैव तस्मिन्देश एव ॥ २९ ॥

 

तत्कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः ।

तुष्टुवुः पूजनार्हस्य तौ ोभौ रामलक्ष्मणौ ॥ ३० ॥

पूजनार्हस्य स्तुत्यर्हस्य ॥ ३० ॥

 

प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि ।

[ अदृश्यः सर्वभूतानां योऽभवद्युधि दुर्जयः । ]

तेन ते तं महात्मानं तुष्टा दृष्ट्वा प्रधर्पितम् ॥ ३१ ॥

ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः ।

साधुसाध्विति नेदुश् दृष्ट्वा शत्रुं प्रधर्षितम् ॥ ३२ ॥

इन्द्रजित्तु तदा तेन निर्जितो भीमकर्मणा ।

संयुगे वालिपुत्रेण क्रोधं क्रे सुदारुणम् ॥ ३३ ॥

ते तानि । लिङ्गव्यत्यय आर्ष: । महात्मानं महाधैर्यं । तेन अङ्गदेन । प्रधर्षितं पराजितं । दृष्ट्वा तुष्टाः ॥ ३१ – ३३ ॥

 

एतस्मिन्नन्तरे रामो वानरान्वाक्यमब्रवीत् ॥ ३४ ॥

एतस्मिन्नित्यर्धं ॥ ३४ ॥

 

सर्वे भवन्तस्तिष्ठन्तु कपिराजेन संगताः ॥ ३५ ॥

स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ।

भवतामर्थसिद्ध्यर्थं कालेन स समागतः ।

अद्यैव क्षमितव्यं मे भवन्तो विगतज्वराः ॥ ३६॥

सर्व इत्यर्धं ॥ ३५ – ३६ ॥

 

सोन्तर्धानगतः पापो रावणी रणकर्कशः ।

[ ब्रह्मदत्तवरो वीरो रावणिः क्रोधमू्छितः । ]

अदृश्यो निशितान्वाणान्मुमोाशनिवर्सः ॥ ३७ ॥

अन्तर्धानगतः अन्तर्धानविद्यां प्राप्तः ॥ ३७ ॥

 

स रामं लक्ष्मणं ैव घोरैर्नागमयैः शरैः ।

बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः ॥ ३८ ॥

सर्वगात्रेषु सर्वावयवेषु ॥ ३८ ॥

 

मायया संवृतस्तत्र मोहयन्राघवौ युधि ।

अदृश्यः सर्वभूतानां कूटयोधी निशारः ।

बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ ॥ ३९ ॥

तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः ।

सहसा निहतौ वीरौ तदा प्रेक्षन्त वानराः ॥ ४० ॥

मायया संवृतः मायया युक्तः । अतएव अदृश्य: । कूटयोधी कपटयोधी । राघवौ रघुकुलोद्भवौ रामलक्ष्मणौ । शरबन्धेन शररूपबन्धकेन । बबन्ध । वेष्टनदंशनादिना नागमयत्वं । वेदनादिना शरमयत्वं ।। ३९–४०।।

 

प्रकाशरूपस्तु यदा न शक्तस्तौ बाधितुं राक्षसराजपुत्रः ॥

मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ महात्मा ॥ ४१ ॥

मायाप्रयोगः किमर्थस्तत्राह-प्रकाशेति ॥ समुपाजगाम उपक्रमे । बबन्ध । महात्मा महाबुद्धिः ॥ ४१ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे तुश्रुत्वारिंशः सर्गः ॥ ४४ ॥

इति श्रीगोविन्दराजविरिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने तुश्त्वारिंशः सर्गः ॥ ४४ ॥

Languages

Related Parts

error: Content is protected !!