श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चचत्वारिंशः सर्गः
रामेणान्तरिक्षेऽन्तर्हितेन्द्रजिदन्वेषणायाङ्गदादिवानरदशकनियोजनम् ॥ १ ॥ इन्द्रजिता वृक्षोत्क्षेपेणान्तरिक्षंप्रविष्टानामङ्गदादीनामङ्गेषु शरवर्षणेनतन्निवारणम् ॥ २ ॥ तथा नागास्त्रेण रामलक्ष्मणयोर्बन्धनम् ॥ ३ ॥ अस्त्रबन्धेन भुविशयानौराघवौपरिवार्य हनुमदादिभिः शोकेनावस्थानम् ॥ ४ ॥
स तस्य गतिमन्विच्छन्राजपुत्रः प्रतापवान् ।
दिदेशातिबलो रामो दश वानरयूथपान् ॥ १ ॥
अथ नागपाशबन्धः पञ्चचत्वारिंशे–स तस्येत्यादि ।। गम्यत इति गतिः स्थानं ॥ १ ॥
द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् ।
अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ॥ २ ॥
विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् ।
ऋषभं चर्षभस्कन्धमादिदेश परंतपः ॥ ३ ॥
तानेव दश यूथपान्दर्शयति — द्वावित्यादिना ॥ दायादौ पुत्रौ । दायादौ सुतबान्धवौ इत्यमरः ॥ २-३ ॥
ते संप्रहृष्टा हरयो भीमानुद्यम्य पादपान् ।
आकाशं विविशुः सर्वे मार्गमाणा दिशो दश ॥ ४ ॥
मार्गमाणाः मार्गितुमित्यर्थः ॥ ४ ॥
तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः ।
अस्त्रवित्परमास्त्रैस्तु वारयामास रावणिः ॥ ५ ॥
तं भीमवेगा हरयो नाराचैः क्षतविग्रहाः ।
अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम् ।। ६ ।।
परमास्त्रैरिषुभिः परमास्त्ररूपैरिषुभिः ॥ ५ – ६ ।।
रामलक्ष्मणयोरेव सर्वदेहभिदः शरान् ।
भृशमावेशयामास रावणिः समितिंजयः ॥ ७ ॥
भृशं सर्वदेहमिदः शरान् रामलक्ष्मणयोरेवाधिकरणयोरावेशयामास ॥ ७ ॥
निरन्तरशरीरौ तौ भ्रातरौ रामलक्ष्मणौ ।
क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः ॥ ८ ॥
निरन्तरशरीरौ कृताविति शेषः । शरतां गतैः शरकार्यं भेदनादिकं कुर्वद्भिरित्यर्थः ॥ ८ ॥
तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु ।
तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ॥ ९ ॥
क्षतेन जातो मार्ग: क्षतजमार्ग: । ननु न भूतसङ्घसंस्थानो देहोस्य परमात्मनः । न तस्य प्राकृता मूर्तिर्मासमेदोस्थिसंभवा इत्यादिभिः रामलक्ष्मणयोर्दिव्यविग्रहस्याप्राकृत -त्वस्मरणात्कथं रुधिरोद्गमइति चेदत्राहुः । वस्तुतोऽनयो रुधिराभावेपि मनुष्यभावनानुरोधेन नट इव रुधिराणि दर्शयतः स्म । नन्वेवं निर्बन्धेन मनुष्यभावं भावयतः किं प्रयोजनं । शृणु । सर्वात्मना मनुष्यभावनाननुरोधे जन एवं मन्येत । नायं मर्त्यः किं तु देवः तेन तद्वदस्माकं न शक्यमनुष्ठातुं धर्मानिति । सर्वथामनुष्यभावनायांतुमहाजनानुष्ठानदर्शनेन स्वयमनुष्ठास्यतिलोक इतिरहस्यं । रावणस्य मनुष्यैकवध्यत्वेन तद्भावनेत्यप्याहुः । नागपाशबद्धतयावस्थानंतु धर्मनिरतानामपिकदाचिदापदुपतिष्ठति निवर्ततेचझटितीति लोकानां प्रदर्शनायेति । एवं मोहादिष्वपिद्रष्टव्यं ॥ ९ ॥
ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः ।
रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत् ॥ १० ॥
पर्यन्तरक्ताक्ष इत्यनेन ईषत्कोपवत्त्वं लक्ष्यते ॥ १० ॥
युध्यमानमनालक्ष्यं शक्रोपि त्रिदशेश्वरः ।
द्रष्टुमासादितुं वाऽपि न शक्तः किं पुनर्युवाम् ॥ ११ ॥
अनालक्ष्यं यथा भवति तथा युध्यमानं मां शक्रस्त्रिदशेश्वरोपि द्रष्टुं मायया बलान्तरेण आसादितुंवापि नशक्तः । किं पुनर्युवां मानुषावित्यर्थः ॥ ११ ॥
प्रावृताविषुजालेन राघवौ कङ्कपत्रिणा ।
एष रोषपरीतात्मा नयामि यमसादनम् ॥ १२ ॥
राघवाविति संबोधनं । अत्रापि युवामिति द्वितीयान्ततया विपरिणम्यानुषञ्जनीयम् । कङ्कपत्रिणा कङ्कपत्रवता । एष इत्यव्यवधानद्योतनाय ।। १२ ।।
एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ ।
निर्बिभेद र्शितैर्वाणैः प्रजहर्ष ननाद च ॥ १३ ॥
धर्मज्ञाविति । शब्दवेधप्रयोगासहिष्णू इत्यर्थः ॥ १३ ॥
भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः ।
भूयो भूयः शरान्घोरान्विससर्ज महामृधे ॥ १४ ॥
ततो मर्मसु मर्मज्ञो मज्जयन्निशिताञ्शरान् ।
रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः ॥ १५ ॥
अञ्जनोपरिप्रदेशस्य धूसरत्यसंभवात् भिन्नेत्युक्तं ॥ १४-१५ ॥
बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि ।
निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम् ॥ १६ ॥
निमेषान्तरमात्रेण निमेषावकाशमात्रेण क्षणमात्रेणेत्यर्थः ॥ १६ ॥
ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ ।
ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ ॥ १७ ॥
तौ संप्रचलितौ वीरौ मर्मभेदेन कर्शितौ ।
निपेततुर्महेष्वासौ जगत्यां जगतीपती ॥ १८ ॥
शरशल्याचितौ शराग्रप्रोतौ कृतौ । रज्जुमुक्तौ मुक्तरज्जू । अतएव प्रकम्पितौ महेन्द्रस्य ध्वजाविव कृतौ । जगत्यां भूमौ । जगतीपती भूपती ॥ १७ – १८ ॥
तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ ।
शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ ॥ १९ ॥
वीराः शेरतेऽस्मिन्निति वीरशयनं रणभूमिः । शरतल्पं वा । शरवेष्टितसर्वाङ्गौ शरभूतसर्पवेष्टितसर्वाङ्गौ आर्तौ मनःपीडावन्तौ । परमपीडितौ शारीरकपीडावन्तौ । अभूतामिति शेषः ॥ १९ ॥
न ह्यविद्धं तयोर्गात्रे बभूवाङ्गुलमन्तरम् ।
नानिर्भिन्नं न चास्तब्धमाकराग्रादजिह्मगैः ॥ २० ॥
अङ्गुलं अङ्गुलिप्रमाणं । अथवा अङ्गुलिरङ्गुल इति त्रिकाण्डीस्मरणात् । अङ्गुलिप्रमाणवाच्यङ्गुलशब्दोकारान्तोप्यस्ति । तयोर्गात्रमङ्गुलमानेप्यवकाशे अविद्धं नाभूदिति भावः । यद्वा तयोर्गात्रं आङ्गुलं अङ्गुलसंबन्ध्यप्यन्तरमवकाशः । आकराग्रात्कराग्रपर्यन्तं । अजिह्मगैः सर्परूपशरैः । अविद्धं न बभूव । अस्तब्धं अनिश्चलं च न बभूव । अनिर्भिन्नं च न बभूव ॥ २० ॥
तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा ।
असृक्स्रुस्रुवतुस्तीव्रं जलं प्रस्रषणाविव ॥ २१ ॥
तीव्रं अत्यन्तं । प्रस्रवणौ गिरिविशेषौ ॥ २१ ॥
पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः ।
क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः ॥ २२ ॥
इन्द्रजित्वं निर्वक्ति-येनेति ॥ २२ ॥
रुक्मपुङ्खैः प्रसन्नाग्रैरधोगतिभिराशुगैः ।
नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि ।
विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा ॥ २३ ॥
नागास्त्रप्रयोगानन्तरं केवलशरैरपि विव्याधेत्याह- रुक्मपुङ्खैरित्यादिना ॥ प्रसन्नाग्रैः उन्मृष्टाप्रैरित्यर्थः। प्रहर्तुराकाशस्थत्वेनाधोगतिभिः । आशुगैः वक्ष्यमाणविशेषभिन्नैः । नाराचैः ऋजुवृत्ताग्रैः । अर्धनाराचैः मध्ये भिन्ननाराचतुल्यैः । भल्लैः परश्वधाग्रैः । अञ्जलिकैः अञ्जलिसदृशाग्रैः । वत्सदन्तैः वत्सदन्तसदृशाग्रैः । सिंहदंष्ठैः सिंहृदंष्ट्रासदृशाग्रैः । क्षुरैः क्षुरागैः । अत्रेन्द्रजिदित्यध्याहार्यं ॥ २३ ॥
स वीरशयने शिश्ये विज्यमादाय कार्मुकम् ।
भिन्नमुष्टिपरीणाहं त्रिणतं रत्नभूषितम् ॥ २४ ॥
भिन्नमुष्टिपरीणाहं शिथिलमुष्टिबन्धं । तृणतन्त्रिषु स्थानेषु पार्श्वयोर्मध्ये च नतं । रुक्मभूषितं रुक्मपट्टबन्धं । विज्यं शरसंधानप्रसङ्गाभावाद्विगतज्यं । कार्मुकं धनुः । आदाय अवलम्ब्य । वीरशरणभूमौ शिश्ये ॥ २४ ॥
बाणपातान्तरे रामं पतितं पुरुषर्षभम् ।
स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत् ॥ २५ ॥
बाणपातान्तरे शरतल्पे ॥ २५ ॥
रामं कमलपत्राक्षं शरबन्धपरिक्षतम् ।
शुशोच भ्रातरं दृष्ट्वा पतितं धरणीतले ॥ २६ ॥
हरयश्चापि तं दृष्ट्वा सन्तापं परमं गताः ।
[ शोकार्ताश्चुक्रुशुर्घोरमश्रुपूरितलोचनाः ] ॥ २७ ॥
शरबन्धपरिक्षतं । बन्धः क्षतश्चेति द्वयमत्र शरकार्यमुच्यते ॥ २६ – २७ ।।
बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः संपरिवार्य तस्थुः ॥
समागता वायुसुतप्रमुख्या विषादमार्ताः परमं च जग्मुः ॥ २८ ॥
बद्धाविति । आदौ नागपाशबद्धौ । अथ शयानौ तु तौ वीरौ संपरिवार्य वायुसुतादयो वानरास्तस्थुः । विषादं दुःखं । जग्मुश्चेत्यन्वयः ॥ २८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे युद्धकाण्डव्याख्याने रत्नकिरीटाख्याने पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥