श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विपञ्चाशः सर्गः
धूत्राक्षसेनाभिस्सह वानराणांमहायुद्धम् ॥ १ ॥ हनुमता गिरिशृङ्गेणधूम्राक्षहननम् ॥ २ ॥
धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम् ।
विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ॥ १ ॥
तेषां सुतुमुलं युद्धं संजज्ञे हरिरक्षसाम् ।
अन्योन्यं पादपैर्घोरं निघ्नतां शूलमुद्गरैः ॥ २ ॥
अथ धूम्राक्षवधो द्विपञ्चाशे – धूम्राक्षमित्यादि ।। १-२ ॥
घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संहतैः ।
राक्षसैर्वानरा घोरैर्विनिकृत्ताः समन्ततः ॥ ३ ॥
संहतैः संगतैः । राक्षसविशेषणमेतत् ॥ ३ ॥
वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः ।
राक्षसाचापि संक्रुद्धा वानरान्निशितैः शरैः ॥
विव्यधुर्घोरसंकाशैः कङ्कपत्रैरजिह्मगैः ॥ ४ ॥
समीकृताः पातिताः । घोरसंकाशैः घोरकालाभ्यादितुल्यैः । अजिह्मगैः अवक्रगैः । कङ्कपत्रैः कङ्कपत्राण्येव पत्राणि येषां ते कङ्कपत्राः तैः ।। ४ ।।
ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्गरैः ।
विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः ।
अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ॥ ५ ॥
जनितोद्धर्षाः जनितोत्साहाः ॥ ५ ॥
शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः ।
जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ॥ ६ ॥
शूलनिर्भिन्नदेहिनः । कर्मधारयादिनिरार्षः ॥ ६ ॥
ते भीमवेगा हरयो नर्दमानास्ततस्ततः ।
ममन्थू राक्षसान्भीमान्नामानि च बभाषिरे ॥ ७ ॥
तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम् ।
शिलाभिर्विविधाभिश्च बेहुभिश्चैव पादपैः ॥ ८ ॥
राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः ।
ववमू रुधिरं केचिन्मुखै रुधिरभोजनाः ॥ ९ ॥
पार्श्वेषु दारिताः केचित्केचिद्राशीकृता द्रुमैः ।
शिलाभिश्चूर्णिताः केचित्केचिद्दन्तैर्विदारिताः ॥१०॥
ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः ।
रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः ।। ११ ।।
नामानि स्वनामानि ॥ ७-११ ॥
गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम् ।
मथितैर्वाजिभिः कीर्ण सारोह्रैर्वसुधातलम् ॥ १२ ॥
वनौकसां पर्वताग्रैः वानरप्रेरितपर्वताग्रैः । तैर्मथितैः गजेन्द्रैः । सारोहै: साधिष्ठातृभिः । वसुधातलं कीर्णमभूत् ॥ १२ ॥
वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः ।
राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः ॥ १३ ॥
विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः ।
मूढाः शोणितगन्धेन निपेतुर्धरणीतले ॥ १४ ॥
भीमविक्रान्तैः भीमविक्रमैः । वेगितैः संजातवेगैः । वानरैः कर्तृभिः । करजै: नखैः करणैः । आक्रम्याक्रम्य मुखेषु विनिकर्तिताः खण्डिताः । मूढाः मूर्च्छिताः ॥ १३-१४ ॥
अन्ये परमसंक्रुद्धा राक्षसा भीमनिःस्वनाः ।
तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् ॥ १५ ॥
तलैरेवाभिधावन्ति । हस्ततलान्येवायुधस्थाने कृत्वा अभ्यधावन्नित्यर्थः ॥ १५ ॥
वानरैरापतन्तस्ते वेगिता वेगवत्तरैः ।
मुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः ।।
वानरैर्हन्यमानास्ते राक्षसा विप्रदुद्रुवुः ॥ १६ ॥
अवपोथिताः हिंसिताः । व्यथ हिंसायां इति धातुः ।। १६ ।।
सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः ।
क्रोधेन कदनं चक्रे वानराणां युयुत्सताम् ॥ १७ ॥
कदनं हिंसनं ।। १७ ।।
प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाः ।
मुद्गरैराहताः केचित्पतिता धरणीतले ॥ १८ ॥
परिघैर्मथिताः केचिद्भिन्दिपालैर्विदारिताः ।
पट्टिशैराहताः केचिद्विह्वलन्तो गतासवः ॥ १९ ॥
केचिद्विनिहताः शूलै रुधिरार्द्रा वनौकसः ।
केचिद्विद्राविता नष्टाः सबलै राक्षसैर्युधि ॥ २० ॥
विभिन्नहृदयाः केचिदेकपार्श्वेन दारिताः ।
विदारितास्त्रिशूलैश्च केचिदान्त्रैर्विनिस्सृताः ॥ २१ ॥
तत्सुभीमं महायुद्धं हरिराक्षससंकुलम् ।
प्रबभौ शब्दबहुलं शिलापादपसंकुलम् ॥ २२ ॥
प्रासैरित्यादिचतुःश्लोकी ॥ विह्वलन्तः विवशा: । गतासवः अभवन्निति शेषः । आन्त्रैर्विनिःसृताः विनिःसृतान्त्रा इत्यर्थः ॥ १८ – २२ ॥
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् ।
मन्दस्तनितसंगीतं युद्धगान्धर्वमाबभौ ॥ २३ ॥
तन्त्री वीणा । आर्षो ह्रस्वः । तया मधुरं रम्यं । हिक्का । विरम्य विम्यर कण्ठात्पवनोद्गमः । मन्दस्तनितं अशक्त्या मन्दभाषणं । तदेव संगीतं सम्यग्गानं यस्मिन् तत् तथोक्तं । युद्धगान्धर्वं युद्धसंगीतं । संगीतं नृत्तगीतवाद्यं ।। २३ ।।
धूम्राक्षस्तु धनुष्पाणिर्वानरान्रणमूर्धनि ।
हसन्विद्रावयामास दिशस्तु शरवृष्टिभिः ॥ २४ ॥
दिशः दिशः प्रति ॥ २४ ॥
धूम्राक्षेणादिंतं सैन्यं व्यथितं दृश्य मारुतिः ।
अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम् ॥ २५ ॥
व्यथितं दुःखितं । दृश्य दृष्ट्वा । मारुतिः हनुमान् ॥ २५ ॥
क्रोधाद्विगुणताम्राक्षः पितृतुल्यपराक्रमः ।
शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ॥ २६ ॥
आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य संभ्रमात् ।
रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ॥ २७ ॥
पिता वायुः ।। २६-२७ ।।
सा प्रमध्य रथं तस्य निपपात शिला भुवि ।
सचक्रकूबरं सार्श्व सध्वजं सशरासनम् ॥ २८ ॥
स भङ्क्त्वा तु रथं तस्य हनुमान्मारुतात्मजः ।
रक्षसां कदनं चक्रे सस्कन्धविटपैर्दुमैः ॥ २९ ॥
विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः ।
द्रुमैः प्रव्यथिताश्चान्ये निपेतुर्धरणीतले ॥ ३० ॥
विद्राव्य राक्षसं सैन्यं हनुमान्मारुतात्मजः ।
गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ॥ ३१ ॥
कूबर: युगंधरः । कूबरस्तु युगंधरः । इत्यमरः ।। २८-३१ ॥
तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् ।
विनर्दमानः सहसा हनुमन्तमभिद्रवत् ॥ ३२ ॥
अभिद्रवत् अभ्यद्रवत् । आगमशासनस्यानित्यत्वादडभावः ॥ ३२ ॥
ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम् ।
पातयामास धूम्राक्षो मस्तके तु हनूमतः ॥ ३३ ॥
बहुकण्टकां बहुकीलां ॥ ३३ ॥
ताडितः स तया तत्र गदया भीमरूपया ॥ ३४ ॥
स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् ।
धूम्राक्षस्य शिरोमध्ये गरमपातयत् ॥ ३५ ॥
ताडितः आसीदिति शेष: ।। ३४-३५ ॥
स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ।
पपात सहसा भूमौ विकीर्ण इव पर्वतः ॥ ३६ ॥
धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः ।
त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवङ्गमैः ॥ ३७ ॥
विह्वलितानि विवशीकृतानि ॥ ३६–३७ ॥
स तु पवनसुतो निहत्य शत्रुं क्षतजवहाः सरितश्च सन्निकीर्य ।
रिपुवधजनितश्रमो महात्मा मुदमगमत्कपिभिश्च पूज्यमानः ॥ ३८ ॥
वहन्तीति वहा: क्षतजस्यवहाः क्षतजवहाः । सन्निकीर्य उत्सार्येत्यर्थः । द्वितीयायां धूम्राक्षवधः ॥ ३८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥ ५२ ॥