श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःपञ्चाशः सर्गः
अङ्गदेनवज्रदंष्ट्रवधः ॥ १ ॥
बलस्य च निघातेन अङ्गदस्य जयेन च ।
राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ॥ १ ॥
स विस्फार्य धनुर्घोरं शक्राशनिसमस्वनम् ।
वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ॥ २ ॥
राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः ।
नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे ॥ ३ ॥
अथ वज्रदंष्ट्रवधश्चतुःपञ्चाशे – बलस्य चेत्यादिलोकद्वयमेकान्वयं ॥ १-३ ॥
बानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः ।
आयुध्यन्त शिलाहस्ताः समवेताः समन्ततः ॥ ४ ॥
वानराणामिति । निर्धारणे षष्ठी ॥ ४ ॥
तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् ।
राक्षसाः कपिमुख्येषु पातयांचक्रिरे तदा ॥ ५ ॥
वानराश्चापि रक्षस्सु गिरीन्वृक्षान्महाशिलाः ।
प्रवीराः पातयामासुर्मत्तवारणसन्निभाः ॥ ६ ॥
तत्र कपिमुख्येष्वित्यन्वयः । आयोधने युद्धे ॥ ५-६ ॥
शूराणां युध्यमानानां समरेष्वनिवर्तिनाम् ।
तद्राक्षसगणानां च सुयुद्धं समवर्तत ॥ ७ ॥
तद्राक्षसगणानां चेति । ते च राक्षसगणाश्च तद्राक्षसगणाः तेषां । तच्छब्देन वानरा उच्यन्ते । युध्यमानानां सुयुद्धं समवर्ततेत्यनेन उत्तरोत्तरयुद्धाधिक्यमुच्यते ॥ ७ ॥
प्रभिन्नशिरसः केचिद्भिन्नैः पादैश्च बाहुभिः ।
शस्त्रैरर्पितदेहास्तु रुधिरेण समुक्षिताः ॥ ८ ॥
हरयो राक्षसाश्चैव शेरते गां समाश्रिताः ।
कङ्कध्रबलैराढ्या गोमायुगणसंकुलाः ॥ ९ ॥
पादैश्च बाहुभिरित्युपलक्षणे तृतीया । अर्पितदेहा: आरोपितदेहाः । गां भूमिं । कङ्कः अवटः स च श्येनविशेषः । गृध्रः दूरदर्शी । बलः श्येनविशेषः काकञ्च तैराढ्याः व्याप्ताः ॥ ८-९ ।।
कबन्धानि समुत्पेतुर्भीरूणां भीषणानि वै ॥ १० ॥
कबन्धानीत्य ॥ १० ॥
भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले ।
वानरा राक्षसाचापि निपेतुस्तत्र वै रणे ॥ ११ ॥
पुनः केषांचित्पतनमाह – भुजेति ॥ भुजपाणिशिरस्सु छिन्ना: छिन्नकाया: छिन्नमध्यकायाः ॥ ११ ॥
ततो वानरसैन्येन हन्यमानं निशाचरम् ।
प्राभज्यत बलं सर्वे वज्रदंष्ट्रस्य पश्यतः ॥ १२ ॥
निशाचरं निशाचरसंबन्धि । अण्वृद्ध्यभाव आर्ष: । यद्वा निशायां चरतीति योगमात्रविवक्षा ॥ १२ ॥
राक्षसान्भयवित्रस्तान्हन्यमानान्प्लवङ्गमैः ।
दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान् ॥ १३ ॥
प्रविवेश धनुष्पाणिस्त्रासयन्हरिवाहिनीम् ।
शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः ॥ १४ ॥
भयवित्रस्तान भयहेतुभ्यो वित्रस्तान् ॥ १३–१४ ॥
बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च ।
विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान् ॥ १५ ॥
त्रस्ताः सर्वे हरिगणाः शरैः संकृत्तकन्धराः ।
अङ्गदं संप्रधावन्ति प्रजापतिमिव प्रजाः ॥ १६ ॥
सप्ताष्ठौ नव पञ्च चेति एकैकप्रयोगेणेति शेषः ॥ १५–१६ ॥
ततो हरिगणान्भग्नान्दृष्ट्वा वालिसुतस्तदा ।
क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत ।। १७ ।।
वज्रदंष्ट्रोङ्गदश्चोभौ संगतौ हरिराक्षसौ ।
चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ॥ १८ ॥
ततः शरसहस्रेण वालिपुत्रं महाबलः ।
जघान मर्मदेशेषु मातङ्गमिव तोमरैः ॥ १९ ॥
रुधिरोक्षितसर्वाङ्गो वालिसुनुर्महाबलः ।
चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः ॥ २० ॥
दृष्ट्वा पतन्तं तं वृक्षमसंभ्रान्तश्च राक्षसः ।
चिच्छेद बहुधा सोपि निकृत्तः पतितो भुवि ॥ २१ ॥
तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः ।
प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ॥ २२ ॥
समापतन्तं तं दृष्ट्वा रथादाप्लुत्य वीर्यवान् ।
गदापाणिरसंभ्रान्तः पृथिव्यां समतिष्ठत ॥ २३ ॥
हरिमत्तगजौ सिंहमत्तगजौ ॥ १८-२३ ॥
साङ्गदेन गैंदाऽऽक्षिप्ता गत्वा तु रणमूर्धनि ।
स चक्रकूबरं साश्वं प्रममाथ रथं तदा ॥ २४ ॥
ततोऽन्यं गिरिमाक्षिप्य विपुलं द्रुमभूषितम् ।
वज्रदंष्ट्रस्य शिरसि पातयामास सोङ्गदः ॥ २५ ॥
सो वज्रदंष्ट्रधृता गदा । आक्षिप्ता अपहृता सः अङ्गदक्षिप्तशैलः ॥ २४-२५ ॥
अभवच्छोणितोद्गारी वज्रदंष्ट्रः स मूर्च्छितः ।
मुहूर्तमभवन्मूढो गदामालिङ्ग्य निश्वसन् ॥ २६ ॥
स लब्धसंज्ञो गदया वालिपुत्रमवस्थितम् ।
जघान परमक्रुद्धो वक्षोदेशे निशाचरः ॥ २७ ॥
शोणितोद्गारी रक्तोद्गारी । गदां अन्यां । यद्वा जघान परमक्रुद्धो वक्षोदेशे निशाचर इत्यस्यानन्तरं, साङ्गदेन गदाक्षिप्ता गत्वा तु रणमूर्धनीत्यर्धं योज्यं ॥ २६–२७ ॥
गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमवर्तत ।
अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ ॥ २८ ॥
रुधिरोद्गारिणौ तौ तु प्रहारैर्जनितश्रमौ ।
बभूवतुः सुविक्रान्तावङ्गारकबुधाविव ॥ २९ ॥
अवर्तत अवर्तयत् ॥ २८-२९ ॥
ततः परमतेजस्वी अङ्गदः कैपिकुञ्जरः ।
उत्पाट्य वृक्षं स्थितवान्बहुपुष्पफलाञ्चितम् ॥ ३० ॥
जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम् ।
किङ्किणीजालसंछन्नं चर्मणा च परिष्कृतम् ॥
[ वज्रदंष्ट्रोथ जग्राह सोङ्गदोप्यसिचर्मणी ॥ ३१ ॥ ]
ततः परमतेजस्वीत्यादिश्लोकद्वयमेकान्वयं ॥ वृक्षोत्पाटनार्षभचर्मखण्डग्रहणा -दिकमङ्गदस्योच्य- मानमितरस्याप्युपलक्षणं । विचित्रांश्चेरतुर्मार्गानित वक्ष्यमाणयुद्धस्य उभयोरविशेषेण वर्णनात् । अङ्गदेन वृक्षे गृहीते राक्षसोपि वृक्षं जग्राह । अङ्गदेन खड्गादौगृहीतेराक्षसोपि खङ्गादिकं जग्राहेति भावः । आर्षभं चर्म ऋषभचर्मपिनद्धं फलकं । चर्मणा खङ्गकोशेन ॥ ३० – ३१ ॥
विचित्रांश्चेरतुर्मार्गान्रुषितौ कपिराक्षसौ ।
जघ्नतुश्च तदाऽन्योन्यं निर्दयं जयकाङ्क्षिणौ ॥ ३२ ॥
मार्गान् पूर्वोक्तमण्डलादिमार्गान् । निर्दयं जन्नतुरित्यन्वयः ॥ ३२ ॥
व्रणैः सास्त्रैरशोभेतां पुष्पिताविव किंशुकौ ।
युध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ ॥ ३३ ॥
सास्त्रैः सरुधिरैः । अस्रमश्रुणि शोणिते इत्यमरः । अवनीं गतौ अभूतामिति शेषः ॥ ३३ ॥
निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः ।
उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ॥ ३४ ॥
निमेषान्तरमात्रेण निमेषावकाशमात्रेण ॥ ३४ ॥
निर्मलेन सुधौतेन खङ्गेनास्य महच्छिरः ।
जधान वज्रदंष्ट्रस्य वालिसूनुर्महाबलः ॥ ३५ ॥
रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा ।
स रोषपरिवृत्ताक्षं शुभं खड्गहतं शिरः ॥ ३६ ॥
सुधौतेन शाणोल्लिखितेन । अतएव निर्मलेन । अस्य वज्रदंष्ट्रस्येत्यन्वयः । केचित्तु स जग्राहार्षभं चर्मेति पठित्वा सः वज्रदंष्ट्रः खड्गं जग्राह अङ्गदो वृक्षं जग्राहेति व्याख्याय, खङ्गेनास्य महच्छिर इत्यत्र वृक्षे प्रतिहतेङ्गदोपि चर्मासी जग्राहेति अनेनावगम्यत इत्यपि वर्णयन्ति ।। ३५-३६ ।।
वज्रदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः ।
त्रस्ताः प्रत्यपतँलङ्कां वध्यमानाः प्लवङ्गमैः ।
विषण्णवदना दीना ह्रिया किंचिदवाङ्मुखाः ॥ ३७ ॥
निहत्य तं वैज्रधरप्रभावः स वालिसूनुः करिसैन्यमध्ये ।
जगाम हर्षं महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः ॥ ३८ ॥
विषण्णवदना: शुष्कवदनाः तृतीयायां वज्रदंष्ट्रवधः ।। ३७-३८ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुःपञ्चाशःसर्गः ।। ५४ ।।