श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चपञ्चाशः सर्गः
रावणप्रेरणयाऽकंपने नरणायनिर्याणम् ॥ १ ॥ वानरराक्षससेनयोर्महायुद्धम् ॥ २ ॥
वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः ।
बलाध्यक्षमुवाचेदं कृताञ्जलिमवस्थितम् ॥ १ ॥
शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः ।
अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् ॥ २ ॥
अथाकम्पनयुद्धं पञ्चपञ्चाशे – वज्रदंष्ट्रमित्यादि ॥ बलाध्यक्ष प्रहस्तं ॥ १ – २ ।।
एष शास्ता च गोप्ता च नेता च युधि संमतः ।
भूतिकामश्च मे नित्यं नित्यं च समरप्रियः ३
एप जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम् ।
वानरांश्चापरान्घोरान्हनिष्यति परंतपः ॥ ४ ॥
शास्ता परसैन्यनिग्राहक । गोप्ता स्वबलरक्षकः । नेता नायकः । सेनापतिरित्यर्थः । संमतः प्रसिद्धः ॥ ३-४ ॥
परिगृह्य स तामाज्ञां रावणस्य महाबलः ।
बलं संत्वरयामास तदा लघुपराक्रमः ॥ ५ ॥
परिगृह्येति बलचोदनेन स्वचोदनमर्थसिद्धं मत्वेत्यर्थः ॥ ५ ॥
ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः ।
निष्पेतू रक्षसां मुख्या बलाध्यक्ष प्रचोदिताः ॥ ६ ॥
निष्पेतुः पुरान्निर्ययुः ॥ ६ ॥
रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः ।
मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः ।
राक्षसैः संवृतो भीमैस्तदा निर्यात्यकम्पनः ॥ ७ ॥
मेघाभ: मेघवत् स्थूलः । मेघस्वनमहास्वनः । सप्तम्युपमानपूर्वपदस्येत्यादिना उत्तरपदलोपस्य वैकल्पिकत्वे प्रथमस्वनपदश्रवणं ॥ ७ ॥
न हि कम्पयितुं शक्यः सुरैरपि महामृधे ।
अकम्पनस्ततस्तेषामादित्य इव तेजसा ॥ ८ ॥
तस्य निर्धावमानस्य संरब्धस्य युयुत्सया ।
अकस्माद्दैन्यमागच्छ्रद्धयानां रथवाहिनाम् ॥ ९ ॥
प्रसङ्गादाह – न हीति । हि यस्मात् महामृधे महायुद्धेपि । कम्पयितुं न शक्यते अतो हेतोरकम्पन: अकम्पनशब्दवाच्यः । तेषां रक्षसां मध्ये तेजसा आदित्य इव स्थित इत्यर्थः ॥ ८-९ ॥
व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ।
विवर्णो मुखवर्णश्च गद्गदश्चाभवत्स्वनः ॥ १० ॥
विवर्ण: विपरीतवर्णः ॥ १० ॥
अभवत्सुदिने चापि दुर्दिनं रूक्षमारुतम् ।
ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः ॥ ११ ॥
दुर्दिनं मेघच्छन्नदिनं । मेघच्छन्नेह्नि दुर्दिनं इत्यमरः ।। ११ ॥
स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः ।
तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् ॥ १२ ॥
तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः ।
बभूव सुमहान्नादः क्षोभयन्निव सागरम् ॥ १३ ॥
तेन शब्देन वित्रस्ता वानराणां महाचमूः ।
द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत ॥ १४ ॥
सिंहोपचितस्कन्धः सिंहस्येवोन्नतस्कन्धवान् ।। १२-१४ ॥
तेषां युद्धं महारौद्रं संजज्ञे हरिरक्षसाम् ।
रामरावणयोरर्थे समभित्यक्तजीविनाम् ।। १५ ।।
समभित्यक्तजीविनां तृणीकृतशरीराणामित्यर्थः ॥ १५ ॥
सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसन्निभाः ।
हरयो राक्षसाश्चैव परस्परजिघांसवः ।। १६ ।।
परस्परजिघांसवः आसन्निति शेषः ।। १६ ।।
तेषां विनर्दतां शब्दः संयुगेऽतितरस्विनाम् ।
शुश्रुवे सुमहान्क्रोधादन्योन्यमभिगर्जताम् ॥ १७ ॥
विनर्दतां सिंहनादं कुर्वतां । अभिगर्जतां आभिमुख्येन गर्जनं कुर्वतां ॥ १७ ॥
रजश्चारुणवर्णाभं सुभीममभवद्भृशम् ।
उद्भूतं हरिरक्षोभिः संरुरोध दिशो दश ॥ १८ ॥
अरुणवर्णेन रक्तिम्ना आभातीत्यरुणवर्णाभं ॥ १८ ॥
अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना ।
संवृतानि च भूतानि ददृशुर्न रणाजिरे ॥ १९ ॥
कौशेयोद्धूतपाण्डुना उद्घूतकौशेयपाण्डुना । आहिताग्न्यादित्वात् परनिपात: । रजसो रक्तत्वपाण्डुत्वे भूभेदादिति ज्ञेयं । संवृतानि छन्नानि । भूतानि वस्तूनि । न ददृशुः । वानरा राक्षसाश्चेति शेषः ॥ १९ ॥
न ध्वजा न पताका वा चर्म वा तुरगोपि वा ।
आयुधं स्यन्दनं वाऽपि ददृशे तेन रेणुना ।। २० ।।
उक्तं विवृणोति न ध्वजा इति ॥ वर्मादिष्वपि नञनुवर्तनीयः ॥ २० ॥
शब्दश्च सुमहांस्तेषां र्नर्दतामभिधावताम् ।
श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे ॥ २१ ॥
परस्परादर्शनादिजन्यं शब्दान्तरमाहशब्दश्चेति ॥ रूपाणि पदार्थान्तराणि ॥ २१ ।।
हरीनेव सुसंक्रुद्धा हरयो जघ्नुराहवे ।
राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा ॥ २२ ॥
अदर्शनफलमाह–हरीनिति ॥ २२ ॥
परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाः ।
रुधिरार्द्रा तदा चक्रुर्महीं पङ्कानुलेपनाम् ॥ २३ ॥
प्रथमं रक्तार्द्रां अथच रणक्षोदेन पङ्क्लिमित्यर्थः । पकानुलेपनां पङ्कानुलिप्तां । कर्मणि ल्युट् ।। २३ ।।
ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः ।
शरीरशवसंकीर्णा बभूव च वसुंधरा ॥ २४ ॥
शरीरशवसंकीर्णा शवभूतशरीरसंकीर्णा ॥ २४ ॥
द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः ।
हरयो राक्षसाश्चैव जघ्नुरन्योन्यमोजसा ॥ २५ ॥
द्रुमशैला वानरीयाः । शक्त्यादयो राक्षसीयाः ॥ २५ ॥
बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमाः ।
हरयो भीमकर्माणो राक्षसाखघ्नुराहवे ॥ २६ ॥
बाहुभिः परिघाकारैरित्यस्योत्तरार्धः, हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहव इति ॥ २६ ॥
राक्षसास्त्वपि संक्रुद्धाः प्रासतोमरपाणयः ।
कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः ॥ २७ ॥
राक्षसास्त्वपीति ॥ शस्त्रैः उक्तप्रासादिभिः ॥ २७ ॥
अकम्पनः सुसंक्रुद्धो राक्षसानां चमूपतिः ।
संहर्षयति तान्सर्वान्राक्षसान्भीमविक्रमान् ॥ २८ ॥
संहर्षयति उत्साहयति ॥ २८ ॥
हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः ।
विदारयन्त्यमिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः ॥ २९ ॥
एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ।
मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम् ॥ ३० ॥
अभिक्रम्य अभिमुखीभूय । आच्छिद्य अपहृत्य ।। २९ – ३० ॥
ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखे ।
कदनं सुमहच्चक्रुर्लीलया हरियूथपाः ।
ममन्थू राक्षसान्सर्वे वानरा गणशो भृशम् ॥ ३१ ॥
ते त्वित्यादिसार्धश्लोकः ॥ लीलया अनायासेन ॥ ३१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥ ५५ ।।