श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्पञ्चाशस्सर्गः
हनुमताऽकंपनवधः ॥ १ ॥ तेनरामादिभिर्हनुमानमच्छालाघनम् ॥ २ ॥
तद्दृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः ।
क्रोधमाहारयामास युधि तीव्रमकम्पनः ॥ १ ॥
क्रोधमूर्च्छितरूपस्तु धून्वन्परमकार्मुकम् ।
दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमत्रवीत् ॥ २ ॥
तत्रैव तावत्त्वरितं रथं प्रापय सारथे ।
यत्रैते बहवो घ्नन्ति सुबहून्राक्षसान्रणे ॥ ३ ॥
अथाकम्पनवधः षट्पञ्चाशे–तद्दृष्ट्वेत्यादि ॥ १-३ ॥
एतेऽत्र बलवन्तो हि भीमकायाश्च वानराः ।
द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ॥ ४ ॥
एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् ।
एतैः प्रमथितं सर्वें दृश्यते राक्षसं बलम् ॥ ५ ॥
प्रमुखे अग्रे ॥ ४-५ ॥
ततः प्रजवनाश्वेन रथेन रथिनांवरः ।
हरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः ॥ ६ ॥
न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे ।
अकम्पनशरैर्भग्नाः सर्व एव विदुद्रुवुः ॥ ७ ॥
प्रजवनाश्वेन वेगवदश्वेन ॥ ६-७ ।।
तान्मृत्युवशमापन्नानकम्पनवशं गतान् ।
समीक्ष्य हनुमाञ्ञ्ज्ञातीनुपतस्थे महाबलः ॥ ८ ॥
तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः ।
समेत्य समरे वीराः संहृष्टाः पर्यवारयन् ॥ ९ ॥
अवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः ।
बभूवुर्बलवन्तो हि बलवन्तं समाश्रिताः ॥ १० ॥
अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् ।
महेन्द्र इव धाराभिः शरैरभिववर्ष ह ॥ ११ ॥
उपतस्थे अकम्पनसमीपमाजगाम ।। ८-११ ॥
अचिन्तयित्वा बाणौघाञ्शरीरे पतिताञ्शितान् ।
अकम्पनवधार्थाय मनो दध्रे महाबलः ॥ १२ ॥
स प्रसह्य महातेजा हनूमान्मारुतात्मजः ।
अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥ १३ ॥
अकम्पनवधार्थाय अकम्पनवधरूपप्रयोजनाय ।। १२-१३ ॥
तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा ।
बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥ १४ ॥
तस्य हनुमतः ॥ १४ ॥
आत्मानमग्रहरणं ज्ञात्वा क्रोधसमन्वितः ।
शैलमुत्पाटयामास वेगेन हरिपुङ्गवः ॥ १५ ॥
अप्रहरणं अनायुधं ॥ १५ ॥
तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः ।
स विनद्य महानादं भ्रामयामास वीर्यवान् ॥ १६ ॥
महानादं विनद्य महानादं कृत्वेत्यर्थः ।। १६ ।।
ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् ।
पुरा हि नमुचिं संख्ये वज्रेणेव पुरंदरः ।। १७ ॥
अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम् ।
दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ॥ १८ ॥
तत इति । तत्र सः शैलेनेत्यध्याहार्यं । सहनुमान् अकम्पनं पुरन्दरो नमुचिं यथा तथा शैलेन वज्रेणेवाभिदुद्राव ॥ १७-१८ ॥
तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् ।
विशीर्णं पतितं दृष्ट्वा हनुमान्क्रोधमूर्च्छितः ॥ १९ ॥
सोश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः ।
तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ॥ २० ॥
तं गृहीत्वा महास्कन्धं सोश्चकर्णं महाद्युतिः ।
प्रहस्य परया प्रीत्या भ्रामयामास संयुगे ॥ २१ ॥
क्रोधमूर्च्छितः अभूदितिशेषः ।। १९–२१ ॥
प्रधावन्नूरुवेगेन प्रभञ्जंस्तरसा द्रुमान् ।
हनुमान्परमक्रुद्धचरणैर्दारयत्क्षितिम् ॥ २२ ॥
चरणैः चरणन्यासैः । दारयत् अदास्यत् ॥ २२ ।।
गजांश्च सगजारोहान्सरथान्रथिनस्तथा ।
जघान हनुमान्धीमान्राक्षसांश्च पदातिगान् ॥ २३ ॥
तमन्तकमिव क्रुद्धं सेमरे प्राणहारिणम् ।
हनुमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥ २४ ॥
तमापतन्तं संक्रुद्धं राक्षसानां भयावहम् ।
ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च ॥ २५ ॥
स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः ।
निर्विभेद हनूमन्तं महावीर्यमकम्पनः ॥ २६ ॥
पदातितया गच्छन्तीति पदातिगाः तान् ॥ २३-२६ ॥
स तदा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः ।
हनुमान्ददृशे वीरः प्ररूढ इव सानुमान् ॥ २७ ॥
विरराज महाकायो महावीर्यो महामनाः ।
पुष्पिताशोकसंकाशो विधूम इव पावकः ॥ २८ ॥
ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् ।
शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥ २९ ॥
प्ररूढः प्ररूढवृक्षः ॥ २७–२९ ॥
स वृक्षेण हतस्तेन सक्रोधेन महात्मना ।
राक्षसो वानरेन्द्रेण पपात च ममार च ॥ ३० ॥
वानरेन्द्रेण कर्त्रा । तेन वृक्षेणहत इत्यन्वयः ॥ ३० ॥
तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् ।
व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ॥ ३१ ॥
त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः ।
लङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः ॥ ३२ ॥
ते मुक्तकेशाः संभ्रान्ता भग्नमानाः पराजिताः ।
स्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः ॥ ३३ ॥
अन्योन्यं प्रममन्थुस्ते विविशुर्नगरं भयात् ।
पृष्ठतस्ते सुसंमूढा: प्रेक्षमाणा मुहुर्मुहुः ॥ ३४ ॥
तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः ।
समेत्य हरयः सर्वे हनुमन्तमपूजयन् ॥ ३५ ॥
क्षितिकम्पे भूकम्पे ॥ ३१-३५ ॥
सोपि प्रहृष्टस्तान्सर्वान्हरीन्प्रत्यभ्यपूजयत् ।
हनुमान्सत्त्वसंपन्नो यथार्हमनुकूलतः ॥ ३६ ॥
विनेदुश्च यथाप्राणं हरयो जितकाशिनः ।
चकर्षुच पुनस्तत्र सप्राणानपि राक्षसान् ॥ ३७ ॥
स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः ।
महासुरं भीमममित्रनाशनं यथैव विष्णुर्बलिनं चमूमुखे ॥ ३८ ॥
अपूजयन्देवगणास्तदा कपिं स्वयं च रामोतिबलश्च लक्ष्मणः ।
तथैव सुग्रीवमुखाः प्लवङ्गमा विभीषणश्चैव महाबलस्तथा ॥ ३९ ॥
प्रत्यभ्यपूजयत् भवत्साहाय्येनैव मया जितमित्येवमिति भावः ॥ ३६-३९ ॥ चतुर्थ्यामकम्पनवधः ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्पञ्चाशस्सर्गः ॥ ५६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध काण्डव्याख्याने षट्पञ्चाशः सर्गः ॥ ५६ ॥