श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टपञ्चाशः सर्गः
विभीषणेनरामंप्रति तत्प्रश्नेनरणायाभ्यागच्छतः प्रहस्तस्य याथात्म्यनिवेदनम् ॥ १ ॥ द्विविददुर्मुखजांबवत्तारैः क्रमेण नरान्तकसमुन्नतमहानादकुंभहनुनाम्नां प्रहस्तसचिवानांचतुर्णां हननम् ॥ २ ॥ नीलेन महतायुद्धेन प्रहस्तवधः ॥ ३ ॥
ततः ग्रहस्तं निर्यान्तं दृष्ट्वा भीमपराक्रमम् ।
उवाच सस्मितं रामो विभीषणमरिन्दमः ॥ १ ॥
अथ प्रहस्तवधोष्टपञ्चाशे – ततः प्रहस्तमित्यादि । सस्मितमिति । बलवच्छत्रुदर्शनहर्षेणेतिभावः । तदेव व्यञ्जयति – अरिन्दम इति ॥ १ ॥
क एष सुमहाकायो बलेन महता वृतः ।
[आगच्छति महावेगः किंरूपबलपौरुषः ॥]
आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम् ॥ २ ॥
राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः ॥ ३ ॥
क एष इति । ननु प्रहस्तः पूर्वद्वारान्निर्गतः, रामस्तु उत्तरद्वारि तिष्ठति स्म, कथमस्यानेकयोजनस्थसाक्षात्कारः । उच्यते । आप्तवचनेन प्रत्यक्षतुल्येन महाकाय: कश्चन गच्छतीति विदित्वा एष इत्याह । आचक्ष्व तमिति शेषः ॥ २-३ ।।
एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः ।
लङ्कायां राक्षसेन्द्रस्य त्रिभागवलसंवृतः ॥
वीर्यवानस्त्रविच्छूरः प्रख्यातश्च पराक्रमे ॥ ४ ॥
एष इत्यादिसार्धश्लोक एकान्वयः ॥ तस्य रावणस्य । असह्यतया नामाग्रहणं । संवृतशब्दोऽन्तर्भावितण्यर्थ: । रावणेन लङ्कायां स्वबलस्य तृतीयभागेन संवारित इत्यर्थः । लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृत इति पाठः । रावणस्य सैन्येषु भागत्रयमस्याधीनमिति भावः । वीर्यवान् बलवान् । वीर्यं बले प्रभावे च इत्यमरः । शूर: रणेष्वपरावृत्त । पराक्रमे परपरिभवने । अत्रेतिकरणं बोध्यं ॥ ४ ॥
ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् ।
गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ॥ ५ ॥
ददर्श महती सेना वानराणां बलीयसाम् ।
अतिसंजातरोषाणां प्रहस्तमभिगर्जताम् ॥ ६ ॥
तत इत्यादिश्लोकद्वयं ॥ भीमं भयंकरवेषं ।। ५-६ ॥
खड्गशक्त्यृष्टिबाणाश्च शूलानि मुसलानि च ।
गदाश्च परिघाः प्रासा विविधाच परश्वधाः ॥ ७ ॥
धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् ।
प्रगृहीतान्यशोभन्त वानरानभिधावताम् ॥ ८ ॥
खड्गेत्यादिलोकद्वयं ॥ राक्षसानामिति तृतीयार्थे षष्ठी । राक्षसैरित्यर्थः ॥ ७-८ ॥
जगृहुः पादपांश्चापि पुष्पितान्वानरर्षभाः ।
शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः ॥ ९ ॥
तेषामन्योन्यमासाद्य संग्रामः सुमहानभूत् ।
बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् ॥ १० ॥
बहवो राक्षसा युद्धे बहून्वानरयूथपान् ।
वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ॥ ११ ॥
वानरश्रेष्ठत्वेप्यवानरत्ववारणाय प्लवङ्गमा इत्युक्तं । यद्वा प्लवङ्गमाः युद्धोत्साहेन प्लवगत्या गच्छन्तः । असंज्ञायां खशार्षः ॥ ९–११ ॥
शूलैः प्रमथिताः केचित्केचिच्च परमायुधैः ।
परिघैराहताः केचित्केचिच्छिन्नाः परश्वधैः ॥ १२ ॥
परमायुधैः चक्रैः । चक्रं तु परमायुधं इति निघण्टुः ॥ १२ ।।
निरुच्छ्वासाः कृताः केचित्पतिता धरणीतले ।
विभिन्नहृदयाः केचिदिषुसंधानसंदिताः ॥ १३ ॥
केचिद्विधा कृताः खङ्गैः स्फुरन्तः पतिता भुवि ।
वानरा राक्षसैः शुलैः पार्श्वतश्चावदारिताः ॥ १४ ॥
शूलपातादिकार्य दर्शयति – निरुच्छासा इत्यादि । निरुच्छासाः कृताः । इषुसन्धानसंदिताः इषव एव संधानानि बन्धनरज्जव: तैः संदिताः संस्यूताः । स्फुरन्तः लुठन्तः । अवदारिताः भिन्नाः ।। १३-१४ ॥
वानरैचापि संक्रुद्धै राक्षसौघाः समन्ततः ।
पादपैर्गिरिश्रृङ्गैश्च संपिष्टा वसुधातले ॥ १५ ॥
वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् ।
वेमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणाः ॥ १६ ॥
संपिष्टाः चूर्णिताः । वेमुः वमनं चक्रुः ॥ १५ – १६ ।।
आर्तस्वनं च स्वनतां सिंहनादं च नर्दताम् ।
बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ॥ १७ ॥
स्वनतां नर्दुतामित्यत्र कुर्वतामित्यर्थः । तुमुल: निबिडित: । रक्षसां वानराणां च ॥ १७ ॥
वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः ।
विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ॥ १८ ॥
नरान्तकः कुम्भहनुर्महानाद: समुन्नतः ।
एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः ॥ १९ ॥
वीरमार्गं युद्धकौशलं । विवृत्तनयना: भ्रान्तनेत्राः । कर्माणि युद्धकर्माणि । अभीतवत् भयरहितं यथा भवति तथा ।। १८ – १९ ।।
तेषामापततां शीघ्रं निघ्नतां चापि वानरान् ।
द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् ॥ २० ॥
तेषामिति । इयं निर्धारणे षष्ठी एकं मुख्यं ॥ २० ॥
दुर्मुखः पुनरुत्थाय कपिः स विपुलद्रुमम् ।
राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् ॥ २१ ॥
जाम्बवांस्तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम् ।
पातयामास तेजस्वी महानादस्य वक्षसि ॥ २२ ॥
उत्थाय उद्धृत्य । समुन्नताख्यं राक्षसं अपोथयत् अमारयत् । पुथ हिंसायां इति धातुः ॥ २१ – २२ ॥
अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् ।
वृक्षेणाभिहतो मूर्ध्नि प्राणान्संत्याजयद्रणे ॥ २३ ॥
अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः ।
चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ॥ २४ ॥
तत्र प्रहस्तसचिवेषु । सन्त्याजयत् संतत्याज । स्वार्थिको णिच् प्रत्ययः ।। २३ – २४ ।।
आवर्त इव संजज्ञे उभयोः सेनयोस्तदा ।
क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः ॥ २५ ॥
आवर्ते संवर्ते । प्रलय इव स्थिते तस्मिन् युद्धे क्षुभितस्य सागरस्य निस्स्वन इव सेनाया निस्वनः संजज्ञे २५ ।।
महता हि शरौघेण प्रहस्तो युद्धकोविदः ।
अर्दयामास संक्रुद्धो वानरान्परमाहवे ॥ २६ ॥
तेषु प्रहस्तप्रकर्षं प्रतिपादयितुं पुनराह- महतेत्यादि ॥ २६ ॥
वानराणां शरीरैश्च राक्षसानां च मेदिनी ।
बभूव निचिता घोरा पतितैरिव पर्वतैः ॥ २७ ॥
सा मही रुधिरौघेण प्रच्छन्ना संप्रकाशते ।
संछन्ना माधवे मासि पलाशैरिव पुष्पितैः ॥ २८ ॥
निचिता व्याप्ता ।। २७-२८ ॥
हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् ।
शोणितौघमहातोयां यमसागरगामिनीम् ॥ २९ ॥
यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् ।
भिन्नकायशिरोमीनामङ्गावयवशाद्बलाम् ॥ ३० ॥
गृध्रहंसगणाकीर्णी कङ्कसारससेविताम् ।
मेद: फेनसमाकीर्णामार्तस्तनितनिस्वनाम् ।
तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् ॥ ३१ ॥
अपरिच्छिन्नवानरवधो वृत्त इति द्योतयितुं युद्धभूमिं नदीत्वेन वर्णयति – इतेत्यादिना ॥ उभयसेनाग्रयोर्हतवीराणामोघः समूह एव वप्रं तटं यस्यास्तां । भन्नायुधान्येव महाद्रुमाः भग्नाः तीरमहाद्रुमा यस्यास्तां । शोणितौघा एवं महातोयानि कलुषजलानि यस्यास्तां । यमसागरगामिनीं युद्धभूमौ यमो जीवग्रहणाय सन्निधत्त इति प्रसिद्धिः । तद्रूपसागरगामिनीम् । यकृत्प्लीहशब्दौ हृदयस्य दक्षिणवामभागस्थमांसविशेषपरौ । अत्राणां शैवलत्वनिरूपणं स्तम्बमयत्वात् । भिन्नकायशिरसोमनत्वनिरूपणं स्फुरितवत्त्वात् । अङ्गावयवाः करचरणाद्यङ्गानामवयवाः । अङ्गुलय इत्यर्थः । त एव शाद्बलानि शाद्बलभूजन्यतृणानि यस्यास्तां । कङ्कः धवलवर्ण: श्येनः । सारसो हंसविशेषः । मेदः रुधिरमण्डलं । आर्तानां स्तनितः शब्द इति यावत् । तदेव निम्नोन्नतपतनजनितस्वनो यस्यास्तां । यद्यपि रुधिरप्रवाहस्यापि स्वत एव घोषोस्ति तथापि रूपकत्वायैवमुक्तं । कापुरुषाः भीरवः तैः दुस्तारां । वृद्धिरार्षी । युद्धभूमिमयीमिति स्वार्थे मयट् । व्यस्तरूपकं । प्रावर्तयन्नित्यध्याहार्थं । यद्वा तेरुरिति वक्ष्यमाणमत्राप्यनुषज्यते । अत्र सावयवरूपकालंकारः ।। २९-३१ ॥
नदीमिव घनापाये हंससारससेविताम् ।
राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् ॥ ३२ ॥
उपमानमुखेनापि तत्तरणं दर्शयति- नदीमिति ॥ घनापाये वर्षान्ते । तां पूर्वत्र रूपकेण दर्शितां । केचित्तु अत्रोत्तरश्लोकस्थनदीपदवैयर्थ्यभयेन युद्धभूमिमयीं नदीं प्रवर्तयित्वेत्यध्याहरन्ति ॥ ३२ ॥
यथा पद्मर जोध्वस्तां नलिनीं गजयूथपाः ॥ ३३ ॥
उक्तानां रक्षोवानराणामुपमामाह – यथेति ॥ पद्मरजोभिः ध्वस्तां वर्णान्तरं प्राप्तां । नलिनीं सरसीं यथा गजयूथपास्तरन्ति । तीर्त्वा रक्ततनवो भवन्तीति यावत् । तथा अरुणशरीरा उत्तेरुरित्यर्थः ॥ ३३ ॥
ततः सृजन्तं बाणौघान्प्रहस्तं स्यन्दने स्थितम् ।
ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान् ॥ ३४ ॥
स्यन्दने रथे । स्थितं । बाणौघान् सृजन्तं मुध्यन्तं । तरसा वेगेन । प्लवङ्गमान् विनिघ्नन्तं प्रहस्तं ददर्श ॥ ३४ ॥
उद्धूत इव वायुः खे महदभ्रबलं बलात् ।
समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः ।
रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे ॥ ३५ ॥
स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे ।
नीलाय व्यसृजद्बाणान्प्रहस्तो वाहिनीपतिः ॥ ३६ ॥
उद्धूत इत्यादिसार्धश्लोकमेकं वाक्यं ॥ खे स्वदेशभूते । उद्धृतः उल्बणः । वायुः अभ्रबलं अभ्रजालमिव । युद्धे बलादभिद्रुतं आभिमुख्येनायान्तं नीलं समीक्ष्य रथेन नीलमेवाभिदुद्रुवे इति योजना ॥ ३५-३६ ॥
ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः ।
महीं जग्मुर्महावेगा रुषिता इव पन्नगाः ॥ ३७ ॥
रुषिताः पन्नगा इव स्थिताः समाहिताः ऋजव: नीलं विनिर्भिद्य महीं जग्मुः विविशुरित्यर्थः ॥ ३७ ॥
नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः ।
स तं परमदुर्धर्षमापतन्तं महाकपिः ।
प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ॥ ३८ ॥
स तेनाभिहतः क्रुद्धो नदन्राक्षसपुङ्गवः ।
ववर्ष शरवर्षाणि प्लवङ्गानां चमूपतौ ॥ ३९ ॥
नील इत्यादि सार्धश्लोकः ॥ ३८-३९ ॥
तस्य बाणगणान्घोरान्राक्षसस्य महाबलः ।
अपारयन्वारयितुं प्रत्यगृह्णान्निमीलितः ॥ ४० ॥
अपारयन् अशक्नुवन् ॥ ४० ॥
यथैव गोवृषो वर्षे शारदं शीघ्रमागतम् ।
एवमेव प्रहस्तस्य शरवर्षं दुरासदम् ।।
निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ॥ ४१ ॥
रोषितः शरवर्षेण सालेन महता महान् ।
प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् ॥ ४२ ॥
ततः स चापमुद्गृह्य प्रहस्तस्य महाबलः ।
बभञ्ज तरसा नीलो ननाद च पुनः पुनः ॥ ४३ ॥
विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः ।
प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ॥ ४४ ॥
यथैवेत्यादिसार्धश्लोकः ॥ यथैवेत्यत्र एवकारोत्यन्तायोगव्यवच्छेदार्थकः । शारदमित्यनेन शरपातस्य क्षयित्वं व्यनक्ति ॥ ४१-४४ ॥
तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ ।
स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ ॥ ४५ ॥
उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् ।
सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ॥ ४६ ॥
विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ ।
काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ ॥ ४७ ॥
तावुभावित्यादिश्लोकत्रयमेकं वाक्यं ॥ प्रभिन्नौ मत्तौ । सिंहशार्दूलसदृशाविति बले साम्यं । विक्रान्तविजयौ सर्वत्र प्राप्तविजयौ । काङ्क्षमाणौ अभूतामिति शेषः ॥ ४५-४७ ।।
आजधान तदा नीलं ललाटे मुसलेन सः ।
प्रहस्तः परमायत्तस्तस्य सुस्राव शोणितम् ॥ ४८ ॥
ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् ।
प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः ॥ ४९ ॥
परमायत्तः । परमोद्युक्त: ।। ४८-४९ ।।
तमचिन्त्य प्रहारं स प्रगृह्य मुसलं महत् ।
अभिदुद्राव बलिनं बलान्नीलं प्लवङ्गमम् ।। ५० ।।
तमुग्रवेगं संरब्धमापतन्तं महाकपिः ।
ततः संप्रेक्ष्य जग्राह महावेगो महाशिलाम् ॥ ५१ ॥
तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः ।
प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् ॥ ५२ ॥
सा तेन कपिमुख्येन विमुक्ता महती शिला ।
बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ॥ ५३ ॥
स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः ।
पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥ ५४ ॥
अचिन्त्य अचिन्तयित्वा ॥ ५०-५४ ॥
प्रभिन्नशिरसस्तस्य बहु सुस्राव शोणितम् ।
शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ॥ ५५ ॥
हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम् ।
रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह ॥ ५६ ।।
प्रभिन्नशिरसः प्रभिन्नाच्छिरसः । शरीरादपीति समुच्चयः । प्रस्रवणं निर्झरः ॥ ५५-५६ ॥
न शेकुः समरे स्थातुं निहते वाहिनीपतौ ।
सेतुबन्धं समासाद्य विकीर्णं सलिलं यथा ॥ ५७ ॥
विकीर्णं भग्नं ॥ ५७ ॥
हते तस्मिंश्चमूमुख्ये राक्षसास्ते निरुद्यमाः ।
रक्षः पतिगृहं गत्वा ध्यानमूकत्वमास्थिताः ।
प्राप्ताः शोकार्णवं तीव्रं निःसंज्ञा इव तेऽभवन् ॥ ५८ ॥
हत इत्यादि सार्धश्लोकः ॥ ध्यानमूकत्वं ध्यानेन वाग्व्यापारशून्यत्वं । तीव्रं घोरं । शोकार्णवं प्राप्ताः शोकार्णवे मना इत्यर्थः ॥ ५८ ।।
ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा ।
समेत्य रामेण सलक्ष्मणेन च प्रहृष्टरूपस्तु बभूव यूथपः ॥ ५९ ।।
स्वकृतेन कर्मणा रिपुवधेन प्रहृष्टरूप: अतिशयेन प्रहृष्टः । प्रशंसायां रूपप् । पञ्चम्यां प्रहस्तवधः ॥ ५९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥ ५८ ॥