श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःषष्टितमः सर्गः
महोदरेणकुंभकर्णंप्रति व्यभिचारप्रदर्शनेनसुकृतदुष्कृतयोः सुखदुःखहेतुत्वनियम -निरसनेन मन्त्रिभिःसहालोचनपूर्वकत्वोक्त्याचसीताहरणस्य न्याय्यत्वसमर्थनम् ॥ १ ॥ तथा रामस्य -युद्धेनदुर्जयत्वसमर्थनेन रावणंप्रति स्वबुद्धिपरिकल्पितकपटोपायप्रदर्शनपूर्वकं तेनैवसीतावशी -करणस्यसुकरस्वोक्तिः ॥ २ ॥
तदुक्तमतिकायस्य बलिनो बाहुशालिनः ।
कुंभकर्णस्य वचनं श्रुत्वोवाच महोदरः ॥ १ ॥
अथ मन्त्रिकृतानयमसहमानो महोदरः कुम्भकर्णं निर्भर्त्सयति तदुक्तमित्यादिना ॥ उक्तं सूचनं विना कण्ठरवेण दर्शितं । अतिकायस्य महाशरीरस्य । प्रतिवचनानर्हत्वद्योतनाय विशेषणानि ॥ १ ॥
कुंभकर्ण कुले जातो धृष्टः प्राकृतदर्शनः ।
अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ॥ २ ॥
मन्त्रिभिः सहाविचार्यैव रावणेनाकार्यं कृतमिति अहमसहाय एव रामादिभिर्योत्स्यामीतिच यदुक्तं कुम्भकर्णेन तदुभयं दूषयितुमाह – कुम्भकर्णेत्यादिना ।। कुले जातोपि प्राकृतदर्शनः क्षुद्रबुद्धिः । केवलं धृष्टः न तु शास्त्रज्ञ इत्यर्थः । अवलिप्तः गर्वितः । त्वं सर्वत्र कार्ये । कृत्यं मन्त्ररूपं । तद्वेदितुं न शक्नोषि ॥ २ ॥
न हि राजा न जानीते कुंभकर्ण नयानयौ ।
त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि ॥ ३ ॥
केवलं वीर्यदर्पेण नानुबन्धो विचारितः । न सवेद नयानया वित्यादिना रावणोद्देशेन कुम्भकर्णोक्तं दूषयति-न हीत्यादिना ॥ राजा नयानयौ न जानीत इति न । जानीत एवेत्यर्थः । किशोर: बालः तस्य भाव: कैशोरकं तस्मात् बाल्यात् । केवलं धृष्टः न तु शास्त्रज्ञानेनेति भावः ।। ३ ।।
स्थानं वृद्धिं च हानिं च देशकालविभागवित् ।
आत्मनश्च परेषां च बुध्यते राक्षसर्षभः ॥ ४ ॥
देशकालविभागवित् विविक्तादिमन्त्रोचिततद्भिन्नयोः देशयोः तथा मन्त्रोचितानुचितयोश्च कालयोर्विभागं वेत्तीति तथोक्तः । राक्षसर्षभः रावणः । आत्मनः शत्रूणां च वृद्धिं हानिं स्थानं समतां च बुध्यते । रावणो देशकालविभागाद्यनभिज्ञ इति त्वयोक्तं न युक्तमिति भावः ॥ ४ ॥
यत्त्वशक्यं बलवता कर्तुं प्राकृतबुद्धिना ।
अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः ॥ ५ ॥
लोके कापुरुषेणापि यत्कर्तुमनर्हं तादृशं कर्म विवेकी रावणः कथं कुर्यादित्यभिप्रेत्याह – यत्त्विति ।। बलवता केवलशौर्यावलम्बिना । प्राकृतबुद्धिना यत्कर्तुं शक्यं तादृशं कर्म बुधः कः कुर्यात् न कोपि कुर्यात् । किमुत रावण इति भावः ॥ ५ ॥
यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान् ।
अनुबोद्धुं स्वभावे तामहि लक्षणमस्ति ते ॥ ६ ॥
धर्माधर्मयोर्हिताहितसाधनत्वं निश्चित्य, शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः इत्यादिना सीताहरणरूपात्पापात्तवायमनर्थः प्राप्त इति यदुक्तं कुम्भकर्णेन तदपि धर्माधर्मयोर्हिता- हितफलनियमाभावान्न संगच्छत इति प्रतिपादयितुमाह – यांस्त्वित्यादिना ॥ पृथगाश्रयान् पृथक्कारणान् भिन्नफलान् । धर्मार्थकामान् ब्रवीषि । तान् स्वभावे अनुबोद्धुं स्वरूपतो ज्ञातुं । लक्षणं लक्ष्यतेनेनेति लक्षणं प्रमाणं । तव नास्तीत्यर्थः । सुखफलदयागादिधर्मानुष्ठानदशायां तात्कालिकशरीरायासजनितदुःखदर्शनात् दुःखजनकपर -द्रव्यापहरणाद्यधर्माचरणसमयेतात्का- लिकसुखदर्शनाच्च । अर्थकामयोरप्येवंदर्शनाच्च कर्मणामनियतफलकत्वान्नियतफलकत्वे न किंचित्प्रमाणमुपलभ्यत इत्यर्थः ॥ ६ ॥
कर्म चैव हि सर्वेषां कारणानां प्रेयोजकम् ।
श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ॥ ७ ॥
तदेव प्रदर्शयति – कर्म चेत्यादिना ॥ सर्वेषां कारणानां स्वर्गनरकरूपाणां फलानां कर्मैव प्रयोजकं साधकं । जात्येकवचनं । किं तु अत्र कर्मजाते पापीयसामपि कर्मणां श्रेयः फलं भवति ॥ ७ ॥
निश्रेयसफलावेव धर्मार्थावितरावपि ।
अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् ॥ ८ ॥
उक्तमेवार्थं विशदयति – निःश्रेयसेति ॥ धर्मार्थौ धर्मार्थसाधनभूते कर्मणी । इतरौ अधर्मानर्थसाधनभूते कर्मणी च । निःश्रेयसफलौ एतानि चतुर्विधानि निःश्रेयसकराण्येव । किंतु कदाचिदधर्मानर्थयोः प्रत्यवायिकं । अश्रेयइति यावत् । प्रत्यवायोस्मिन् कारणतयास्तीति प्रत्यवायिकं । अत इनिठनौ इति ठन् । प्राप्यत इति प्राप्तिः फलं । कर्मणि क्तिन्प्रत्ययः । एतेनाधर्मानर्थयोः श्रेयस्तदितरच्चोभयं फलं भवतीत्युक्तं ॥ ८ ॥
ऐहलौकिकपारत्रं कर्म पुंभिर्निषेव्यते ।
कर्माण्यपि तु कल्यानि लभते काममास्थितः ॥ ९ ॥
एवं धर्माधर्मयोरव्यवस्थितफलत्वमुक्त्वा कामस्यापि तदाह — ऐहलौकिकेति ॥ ऐहलौकिकं इहलोकोपयोगि । पारत्रं परलोकोपयोगि च कर्म पुंभिर्निषेव्यते । तत्फलं चानुभूयते । तथैव काममास्थितः यथेच्छाचारोपि कल्यानि कर्माणि कल्याणानि कर्मफलानि लभते । अतो विहितमेव शुभप्रदं, निषिद्धं तु तथा न भवतीति नियमो नास्तीत्यर्थः ॥ ९ ॥
तत्र कॢप्तमिदं राज्ञा हृदि कार्यं मतं च नः ।
शत्रौ हि साहसं यत्स्यात्किमिवात्रापनीयताम् ।। १० ।।
धर्मादीनां फलनियमो नास्ति, सर्वं सर्वस्य फलमित्यस्मिन्पक्षे स्थित्वा रावणेन सीताहरणं कृतमस्माभिश्चानुमतमित्याह – तत्र क्लृप्तमिति ॥ तत्र राज्ञा कामसेव्यपि सुखानि लभत इति मते स्थितेन राज्ञा । इदं कार्यं सीताहरणरूपं कार्यं । हृदि क्कृप्तं हृदि चिन्तितं । नः अस्माकमपि । मतं संमतं । शत्रौ शत्रुविषये यत् साहसं स्यात् । अत्र अस्मिन्साहसकर्मणि किमिवापनीयते । न किंचित्क्रियते इत्यर्थ: ॥ १० ॥
एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया ।
तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च ।। ११ ।।
एवं रावणस्याविमृश्यकारित्वपक्षं प्रतिक्षिप्य कुम्भकर्णस्यैकस्यैवाभियानपक्षं निरस्यति – एकस्येत्यादिना ।। एकस्यासहायस्य । अभियाने युद्धाय निर्गमे । यो हेतुः बलपराक्रमरूपः । त्वयाप्रकृतः प्रस्तावितः । तत्रापीत्यपिशब्देन पूर्वं निराकृतः पक्ष: समुच्चीयते । यदनुपपन्नं अयुक्तं । असाधु अहितं च । तद्वक्ष्यामि ॥ ११ ॥
येन पूर्वं जनस्थाने बहवोतिबला हताः ।
राक्षसा राघवं तं त्वं कथमेको जयिष्यसि ॥ १२ ॥
अनुपपत्तिमुपपादयति – येनेति ॥ १२ ॥
ये पुरा निर्जितास्तेन जनस्थाने महौजसः ।
राक्षसांस्तान्पुरे सर्वान्भीतानद्यापि पश्यसि ॥ १३ ॥
असाधुत्वं दर्शयति- ये पुरेति ॥ तान् तज्जातीयानित्यर्थः ॥ १३ ॥
तं सिंहमिव संक्रुद्धं रामं दशरथात्मजम् ।
सर्पं सुप्तमिवाबुध्य प्रबोधयितुमिच्छसि ॥ १४ ॥
संक्रुद्धं सिंहमिव संक्रुद्धसिंहसदृशं तमबुध्य अबुध्वा । सुप्तं सर्पमिव प्रबोधयितुमिच्छसीत्यन्वयः ॥ १४ ॥
ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम् ।
कस्तं मृत्युमिवासह्यमासादयितुमर्हति ॥ १५ ॥
असह्यं सोढुमशक्यं । अपरिहार्यपराक्रममित्यर्थः । आसादयितुं आसादितुं ॥ १५ ॥
संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने ।
एकस्य गमनं तत्र न हि मे रोचते भृशम् ॥ १६ ॥
यत्र शत्रोः प्रतिसमासने प्रतिमुखस्थितौ इदं सर्वं बलं संशयस्थं भवति । तत्र एकस्य तव गमनं न रोचते ॥ १६ ॥
हीनार्थः सुसमृद्धार्थं को रिपुं प्राकृतं यथा ।
निश्चित्य जीवितत्यागे वशमानेतुमिच्छति ॥ १७ ॥
हीनार्थः हीयमानबल: । कः पुमान् जीवितत्यागे विषये । निश्चित्य निश्चयं कृत्वा । समृद्धार्थं वर्धमानबलं रिपुं प्राकृतं यथा क्षुद्रपुरुषमिव । वशमानेतुमिच्छतीत्यन्वयः । जीवितत्यागे निश्चयोस्ति चेत्तंप्रति युद्धाय याहीत्यर्थः ॥ १७ ॥
यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम ।
कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः ॥ १८ ॥
एवमुक्त्वा तु संरब्धः कुंभकर्णं महोदरः ।
उवाच रक्षसां मध्ये रावणं लोकरावणम् ॥ १९ ॥
यस्य मनुष्येषु सदृशो नास्ति । किंतु देवयोः इन्द्रविवस्वतोः इन्द्रसूर्ययोस्तुल्येन तेन रामेणेति शेषः । योद्धुं कथमाशंससे । वक्तुमेव न शक्यं किमुत कर्तुमिति शेषः ॥ १८-१९ ॥
लब्ध्वा पुनस्त्वं वैदेहीं किमर्थं संप्रजल्पसि ।
यदीच्छसि तदा सीता वशगा ते भविष्यति ॥ २० ॥
दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः ।
रुचिरश्चेत्स्वया बुद्ध्या राक्षसेश्वर तं शृणु ॥ २१ ॥
अहं द्विजिह्वः संह्रादी कुंभकर्णो वितर्दनः ।
पञ्च रामवधायैते निर्यान्तीत्यवघोषय ॥ २२ ॥
लब्ध्वेत्यादिश्लोकद्वयमेकान्वयं ॥ संप्रजल्पसि बहुविधं भाषसे । अद्येति शेषः । यदीच्छसि । वक्ष्यमाणोपायमिति शेषः । तदा तदैव । मे मया । उपस्थानं स्वयमेव समीपागमनं । रुचिरः प्रियः । स्वया बुद्ध्या शृणु । नतु परबुद्धिमनुसरेत्यर्थः ।। २०-२२ ॥
ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः ।
जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः ॥ २३ ॥
उपायै: सीताहरणोपायैः । कृत्यं साध्यं । नास्ति । सिद्धे साधनायोगादिति भावः ॥ २३ ॥
अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः ।
ततस्तदभिपत्स्यामो मनसा यत्समीक्षितम् ॥ २४ ॥
अथ जीवति यदि जीवतीत्यर्थः । ततः तदा । समीक्षितं आलोचितं । यत् तत् अभिपत्स्यामः । करिष्याम इति यावत् ॥ २४ ॥
वयं युद्धादिहेष्यामो रुधिरेण समुक्षिताः ।
विदार्य स्वतनुं बाणै रामनामाङ्कितैः शितैः ॥ २५ ॥
तत्किमित्यत्राह-वयमित्यादि । वयं बाणैः स्वतनुं विदार्य रामेण विदारितां कारयित्वा । रुधिरेण समुक्षिता: रामनामाङ्कितैः शरैः सह युद्धादिद्देष्याम इति योजना । इदं च रामयुद्धं कृतमिति सीतासमाश्वासाय ।। २५ ।।
भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः ।
तव पादौ ग्रहीष्यामस्त्वं नः कामं प्रपूरय ॥ २६ ॥
ततः आगमनानन्तरं । रामो लक्ष्मणश्च रिपुः निः शेषं भक्षित इति तव पादौ ग्रहीष्यामः । त्वं संतोषातिशयव्यञ्जनार्थं नः कामं प्रपूरय । अभीष्टं पारितोषिकं देहीत्यर्थः ॥ २६ ॥
ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव ।
हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः ॥ २७ ॥
गजस्कन्धेन गजस्कन्ध गतपुरुषेण ॥ २७ ॥
प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिंदम ।
भोगांश्च परिवारांश्च कामांश्च वसु दापय ॥ २८ ॥
ततो माल्यानि वासांसि वीराणामनुलेपनम् ।
पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब ॥ २९ ॥
नामेत्यलीके । परिवारान् दासदासी: गजाश्वादीन्परिच्छदान्वा । स्याजङ्गमे परीवार: इत्यमरः । कामान् काम्यमानानभीष्टान् । वसु सुवर्णं ॥ २८-२९ ॥
ततोस्मिन्बहुलीभूते कौलीने सर्वतो गते ।
भक्षितः ससुहृद्रामो राक्षसैरिति विश्रुते ॥ ३० ॥
प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय ।
धनधान्यैश्च कामैश्च रत्त्नैश्चैनां प्रलोभय ॥ ३१ ॥
तत इत्यादि लोकद्वयं ॥ कौलीने लोकवादे । स्यात्कौलीनं लोकवादे इत्यमरः । कौलीनमेव विशदयति — भक्षित इति । प्रविश्य । समीपं गत्वेत्यर्थः । आश्वास्य रामात्ययजं शोकं निवार्य । सान्त्वय मयि प्रीतिं कुर्वित्येवं सान्त्ववादं कथयेत्यर्थः । धनैः सुवर्णैः ॥ ३०-३१ ॥
अनयोपधया राजभयशोकानुबन्धया ।
अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति ॥ ३२ ॥
उपधया कपटोपायेन । भयशोकानुबन्धया संपादितसीताभयशोकेनेत्यर्थः । अकामां पूर्वं त्वदनभिलाषिणी ॥ ३२ ॥
रञ्जनीयं हि भर्तारं विनष्टमवगम्य सा ।
नैराश्यात्स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते ॥ ३३ ॥
स्त्रीलघुत्वात् स्त्रीचापलात् ॥ ३३ ॥
सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्शिता ।
त्वय्यधीनं सुखं ज्ञात्वा सर्वथोपगमिष्यति ॥ ३४ ॥
त्वय्यधीनं त्वयि विषये अधीनं परतन्त्रं । उपगमिष्यति । त्वामिति शेषः ॥ ३४ ॥
एतत्सुनीतं मम दर्शनेन रामं हि दृष्ट्वैव भवेदनर्थः ।
इहैव ते सेत्स्यति मोत्सुको भूर्महानयुद्धेन सुखस्य लाभः ॥ ३५ ॥
उक्तमर्थं निगमयति – एतदिति ॥ एतत् मम दर्शनेन बुद्ध्या । सुनीतं निर्णीतं । रामं दृष्ट्वा स्थितस्य तव अनर्थो भवेत् । मोत्सुको भूः मा रणोत्सुको भूः । अयुद्धेन युद्धव्यतिरिक्तासनबलेन । प्रसज्यप्रतिषेधेपि समासस्येष्टत्वात्साधुः ॥ ३५ ॥
अदृष्टसैन्यो ह्यनवाप्तसंशयो रिपूनयुद्धेन जयन्नराधिपः ।
यशश्च पुण्यं च महन्महीपते श्रियं च कीर्तिं च चिरं समश्नुते ॥ ३६ ॥
तदेवायुद्धं स्तौति – अदृष्टेति ॥ अदृष्टसैन्यः अदृष्टशत्रुसैन्यः । अतएवानवाप्तसंशयः अप्राप्तप्राणसंदेहः । अयुद्धेन जयन् युद्धव्यतिरिक्तोपायेन जयन्नित्यर्थ: । महत् पुण्यं पुण्यफलं सुखं । श्रियं श्रीमत्प्रियालाभेन जनितां संपदं । कीर्तिं प्रसादं । विस्तारं वा । कीर्तिः प्रसादे यशसि कर्दमे विस्तृतावपि इति रत्नमाला । महीपते इति संबोधनं । सीतानुरागाभावेन नैराश्याद्रामः स्वयं विनश्यतीति महोदरहृदयम् ॥ ३६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुःषष्टितमः सर्गः ॥ ६४ ॥