श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्षष्टितमः सर्गः
लङ्काप्राकारोल्लङ्घनेनरणायाभ्यागच्छतःकुंभकर्णस्य गिरिसदृशपृथुतरशरीरा -वलोकनमात्रेण नीलनलादिभिर्भयात्पलायनम् ॥ १ ॥ अङ्गदेन नानाप्रकारैः परिसान्वितेस्तैः पुनःप्रत्यावर्तनेन तरुशिलादिपरिग्रहणेन कुंभकर्णंप्रत्यभियानम् ॥ २॥
स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान् ।
निर्ययौ नगरात्तूर्णं कुम्भकर्णो महाबलः ॥ १ ॥
अथ कुम्भकर्णयुद्धप्रवृत्तिः – स इत्यादि ॥ १ ॥
स ननाद महानादं समुद्रमभिनादयन् ।
जनयन्निव निर्धातान्विधमन्निव पर्वतान् ॥ २ ॥
तमवध्यं मघवता यमेन वरुणेन वा ।
प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥ ३ ॥
तांस्तु विप्रद्रुतान्दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत् ।
नलं नीलं गवाक्षं च कुमुदं च महाबलम् ॥ ४ ॥
विधमन् दुहुन् ।। २-४ ।।
आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च ।
क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥ ५ ॥
अभिजनानि प्रशस्तकुलानि ॥ ५ ॥
साधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ ।
नालं युद्धाय वै रक्षो महतीयं विभीषिका ॥ ६ ॥
महतीमुत्थितामेनां राक्षसानां विभीषिकाम् ।
विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ॥ ७ ॥
कृच्छ्रेण तु समाश्वस्य संगम्य च ततस्ततः ।
वृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम् ॥ ८ ॥
विभीषिका भयजनकः कृत्रिमपुरुषवेषः ॥ ६-८ ॥
ते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः ।
निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ॥ ९ ॥
परमक्रुद्धा इति कुञ्जरविशेषणं ॥ ९ ॥
प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलः ।
पादपैः पुष्पिताग्रैश्च हन्यमानो न कंम्पते ।। १० ।।
तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः ।
पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ॥ ११ ॥
प्रांशुभि: उन्नतैः । महाबलः कुम्भकर्णः ॥ १०- ११ ॥
सोपि सैन्यानि संक्रुद्धो वानराणां महौजसाम् ।
ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥ १२ ॥
ममन्थ । ददाहेत्यर्थः ॥ १२ ॥
लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः ।
निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥ १३ ॥
निरस्ताः उत्क्षिप्ताः ॥ १३ ॥
लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् ॥ १४ ॥
लङ्घयन्त इत्यर्धं ।। नावलोकयन् नावालोकयन् । पृष्ठदेशमित्यर्थः ॥ १४ ॥
केचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः ।
वध्यमानास्तु ते वीरा राक्षसेन बलीयसा ॥ १५ ॥
केचित्ते वानरा इति योजना ॥ १५ ॥
सागरं येन ते तीर्णाः पथा तेन प्रदुद्रुवुः ॥ १६ ॥
सागरमित्यर्धं ॥ ते वानराः ॥ १६ ॥
ते स्थलानि तथा निम्नं विषण्णवदना भयात् ।
ऋक्षा वृक्षान्समारूढाः केचित्पर्वतमाश्रिताः ॥ १७ ॥
स्थलानि अतिधावनयोग्यान्देशान् उन्नतप्रदेशान्वा । आश्रिता इत्यन्वयः ॥ १७ ॥
ममज्जुरर्णवे केचिद्गुहाः केचित्समाश्रिताः ।
निषेदुः प्लवगाः केचित्केचिन्नैवावतस्थिरे ॥ १८ ॥
[ केचिद्भूमौ निपतिताः केचित्सुप्ता मृता इव ] ।
तान्समीक्ष्याङ्गदो भग्नान्वानरानिदमब्रवीत् ॥ १९ ॥
निषेदुः भूमौ पतिता इव तस्थुः ।। १८-१९ ॥
अवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः ।
भग्नानां वो न पश्यामि परिगम्य महीमिमाम् ।
स्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ ॥ २० ॥
परिगम्य प्रदक्षिणीकृत्येत्यर्थः । स्थानं न पश्यामीत्यन्वयः ।। २० ॥
निरायुधानां द्रवतामसङ्गगतिपौरुषाः ।
दारा ह्येपहसिष्यन्ति स वै घातस्तु जीविनाम् ॥ २१ ॥
असङ्गगतिपौरुषाः अप्रतिबद्धपराक्रमा इति वानरसंबोधनं । निरायुधानां द्रवतां निरायुधेषु द्रवत्सु । यद्वा निरायुधानां द्रवतां दारास्तान् अपहसिष्यन्तीति । सः अपहास : घात: मृतिः ॥ २१ ॥
कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च ।
क्व गच्छथ भयत्रस्ता हरयः प्राकृता यथा ॥ २२ ॥
सर्वे । वयमिति शेषः । विस्तीर्णेषु ज्ञातिपरम्परयां विततेषु । महत्सु प्रशस्तेषु ॥ २२ ॥
अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ॥ २३ ॥
अनार्या इत्यर्धं । यद्यस्मात् भीताः प्रधावत पलायथ । तस्मादनार्या: खलु ॥ २३ ॥
विकत्थनानि वो यानि तदा वै जनसंसदि ।
तानि वः क्व नु यातानि सोदग्राणि महान्ति च ॥ २४ ॥
सोदग्राणि उदग्रतायुक्तानि । महान्ति भूयांसीत्यर्थः ॥ २४ ॥
भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः ।
मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ।। २५ ।।
यस्तु धिक्कृतो जीवति तद्विषये भीरुप्रवादाः । भीरुत्वापवादाः । श्रूयन्ते । सत्पुरुषैः शूरै: । जुष्ट: सेवितः ॥ २५ ॥
शयामहेऽथ निहताः पृथिव्यामल्पजीविताः ।
दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः ॥ २६ ॥
संप्राप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे ।
जीवितं वीरलोकस्य मोक्ष्यामो वसु वानराः ।। २७ ।।
सत्पुरुषजुष्टो मार्ग: क इत्यपेक्षायामाह—शयामह इत्यादि । युद्धमरणं हि सत्पुरुषजुष्टो मार्ग इत्यर्थः । समरान्निवृत्य पलायितानामपि मरणस्यावश्यंभावित्वप्रदर्शनार्थमल्पजीविता इत्युक्तं । समरानिवर्तिनां वीराणां तु मरणजीवनयोरुभयोरपि श्रेयस्करत्वं प्रतिपादयति- दुष्प्रापमिति । निहत्वा निहत्य । जीवितमिति । वीरलोकस्य वीराणां लोको ब्रह्मलोकः तस्य वसु मूल्यभूतं जीवितं मोक्ष्यामः ॥ २६-२७ ।।
न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति ।
दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ॥ २८ ॥
दीप्यमानं ज्वलनमिव राममासाद्य कुम्भकर्णः पतङ्गो यथेति यथेवशब्दयोर्निर्वाहः ॥ २८ ॥
पलायनेन चोद्दिष्टाः प्राणान्रक्षामहे वयम् ।
एकेन बहवो भग्ना यशो नाशं गमिष्यति ॥ २९ ॥
उद्दिष्टाः व्यपदिष्टाः । बहवो वयमनेन कुम्भकर्णेन भग्नाः पलायनेन प्राणान् रक्षामहे यदि ततो यशो नाशं गमिष्यतीति योजना ॥ २९ ॥
एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् ।
द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥ ३० ॥
शूरं पराक्रमवन्तं । कनकाङ्गदं उत्साहातिशयेन प्रकाशितस्वर्णाङ्गदं ॥ ३० ॥
कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा ।
न स्थानकालो गच्छामो दयितं जीवितं हि नः ॥ ३१ ॥
एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः ।
भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥ ३२ ॥
कदनं मर्दनं । दयितमिष्टं ।। ३१ – ३२ ॥
द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः ।
सान्त्वैश्चैवानुमानैश्च ततः सर्वे निवर्तिताः ॥ ३३ ॥
अनुमानैः सालगिरिभेद्नादिदृष्टान्तपुरस्कृतैर्युक्तिविशेषैः ॥ ३३ ॥
प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता ।
आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ॥ ३४ ॥
आज्ञाप्रतीक्षा: सुग्रीवाद्याज्ञाप्रतीक्षाः ॥ ३४ ॥
ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः ।
द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः ॥ ३५ ॥
त्वरिततराभिमुखं त्वरिततरं अभिमुखं चेति क्रियाविशेषणं । अत्र वायुपुत्रस्तु न पलाय्य निवृत्त: । किंतु ऋषभादिभिर्मिलित्वा कुम्भकर्णेन सह युद्धार्थं निवृत्त इति ज्ञेयं ॥ ३५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्षष्टितमः सर्गः ॥ ६६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षट्षष्टितमः सर्गः ॥ ६६ ।।