श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टषष्टितमः सर्गः
कुंभकर्णश्रवणमात्रेण पतितमूच्छितेन रावणेन संज्ञाधिगमानन्तरं तंप्रतिशोचनपूर्वकं बहुधा -विलापः ॥ १ ॥
कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना ।
राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ १ ॥
कुम्भकर्णवधश्रवणेन रावणस्य प्रलापः- कुम्भकर्णमित्यादि ॥ अत्र रावणायेत्यत्र यकारो गायत्र्या अष्टादशाक्षरं । सप्तदशसहस्रश्लोका गताः ॥ १ ॥
राजन्स कालसंकाशः संयुक्तः कालकर्मणा ।
विद्राव्य वानरीं सेनां भक्षयित्वा च वानरान् ॥ २ ॥
कालकर्मणा कालस्य मृत्योः कर्मणा । मरणरूपक्रिययेति यावत् । यद्वा काले कर्मणा कालकर्मणा । परिपक्चकर्मणेत्यर्थः ॥ २ ॥
प्रतपित्वा मुहूर्तं च प्रशान्तो रामतेजसा ।
कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् ॥ ३ ॥
निकृत्तकण्ठोरुभुजो विक्षरन्रुधिरं बहु ।
रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः ॥ ४ ॥
कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः ।
लगण्डभूतो विकृतो दावदग्ध इव द्रुमः ॥ ५ ॥
तं श्रुत्वा निहतं सङ्ख्ये कुम्भकर्णं महाबलम् ।
रावणः शोकसंतप्तो मुमोह च पपात च ॥ ६ ॥
पितृव्यं निहतं दृष्ट्वा देवान्तकनरान्तकौ ।
त्रिशिराश्चातिकरायश्च रुरुदुः शोकपीडिताः ॥ ७ ॥
भ्रातरं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ।
महोदरमहापार्श्वो शोकाक्रान्तौ बभूवतुः ॥ ८॥
ततः कृच्छ्रात्समासाद्य संज्ञां राक्षसपुङ्गवः ।
कुम्भकर्णवधाद्दीनो विललाप स रावणः ॥ ९ ॥
हा वीर रिपुदर्पघ्न कुम्भकर्णं महाबल ।
त्वं मां विहाय वै दैवाद्यातोसि यमसादनम् ॥ १० ॥
प्रतपित्वा पराक्रम्य, एतदारभ्य श्लोकत्रयमेकान्वयं ॥ अर्धप्रविष्टेन अर्धेन कबन्धमात्रेण प्रविष्टेन । कायेन समुद्रं रुद्ध्वा । शरीरेण उन्तमाङ्गेन । द्वारं रुद्ध्वा । लगण्डभूतः पिण्डीभूतः । लगण्डोऽजगर इत्येके । विकृत: विकृतशरीरः । रामतेजसा प्रशान्त इत्यन्वयः ॥ ३–१० ॥
मम शल्यमनुद्धृत्य बान्धवानां महाबल ।
शत्रुसैन्यं प्रताप्यैकस्त्वं मां संत्यज्य गच्छसि ॥ ११ ॥
मम बान्धवानां च शल्यं शोकमित्यर्थः ॥ ११ ॥
इदानीं खल्वहं नास्मि यस्य मे दक्षिणो भुजः ।
पतितो यं समाश्रित्य न बिभेमि सुरासुरात् ॥ १२ ॥
कथमेवंविधो वीरो देवदानवदर्पहा ।
कालाग्निरुद्रप्रतिमो रणे रामेण वै हतः ॥ १३ ॥
यस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा ।
स कथं रामबाणार्त: प्रसुप्तोसि महीतले ॥ १४ ॥
एते देवगणाः सार्धमृषिभिर्गगने स्थिताः ।
निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ॥ १५ ॥
सुरासुरात् सुरासुरेभ्यः ।। १२-१५ ।।
ध्रुवमद्यैव संहृष्टा लब्धलक्षाः लवङ्गमाः ।
आरोक्ष्यन्ति हि दुर्गाणि लङ्काद्वाराणि सर्वशः ॥ १६ ॥
राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया ।
कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः ॥ १७ ॥
लब्धलक्षाः लब्धावसराः ।। १६–१७ ॥
यद्यहं भातृहन्तारं न हन्मि युधि राघवम् ।
ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् ॥ १८ ॥
भ्रातृहन्तारं न हन्मि यदि तदा इदं व्यर्थजीवितं श्रेयःनच । नैवेत्यर्थः । किंतु मरणमेव श्रेयो नन्विति संबन्धः ॥ १८ ॥
अद्यैव तं गमिष्यामि देशं यत्रानुजो मम ।
न हि भ्रातृन्समुत्सृज्य क्षणं जीवितुमुत्सहे ॥ १९ ॥
देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम् ।
कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि ॥ २० ॥
तदिदं मामनुप्राप्तं विभीषणवचः शुभम् ।
यदज्ञानान्मया तस्य न गृहीतं महात्मनः ॥ २१ ॥
भ्रातृनिति बहुवचनं पूजार्थ ॥ १९ – २१ ॥
विभीषणवचो यावत्कुम्भकर्णप्रहस्तयोः ।
विनाशोऽयं समुत्पन्नो मां वीडयति दारुणः ॥ २२ ॥
तस्यायं कर्मणः प्राप्तो विपाको मम शोकदः ।
यन्मया धार्मिकः श्रीमान्स निरस्तो विभीषणः ॥२३॥
इति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम् ।
न्यपतदथ दशाननो भृशार्तस्तमनुजमिन्द्ररिपुं हतं विदित्वा ॥ २४ ॥
[ ततस्तु संदीपितकोपबह्निर्निशाचराणां च महाबलश्च ।
तदाऽपतद्भ्रातृविनाशनार्तो मुहुर्मुहुश्चैव विनिश्वसन्बली ॥ २५ ॥]
कुम्भकर्णप्रहस्तयोरयं दारुणो विनाशः यावत् यदा समुत्पन्नः ततआरभ्य विभीषणवचो मां व्रीडयतिपीडयतीत्यर्थः ॥ २२ – २५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टषष्टितमः सर्गः ॥ ६८ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टषष्टितमः सर्गः ॥ ६८ ॥