श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःसप्ततितमः सर्गः
विभीषणेनेन्द्रजिदस्त्रबद्धमुग्धसेनासमाश्वासनपूर्वकं हनुमतासहोल्कापाणिनासता सेनामध्येऽन्वेषणेनजांबवदन्तिकोपसर्पणम् ॥ १ ॥ विभीषणेनकुशलंपृष्टेनजांबवता तंप्रति मन्दस्वरेणहनुमत्कुशलप्रश्ने हनुमताजांबवन्तंप्रति सप्रणाममात्मनोऽभिमतकरणेनियोजन -प्रार्थना ॥ २ ॥ तेन तंप्रति सराघवहरिसेनासमुज्जीवनाय हिमवद्गिरिसंनिकृष्टमहौषधिपर्वता -न्मृतसंजीवन्यादिदिव्यौषधिसमानयनचोदना ॥ ३ ॥ हनुमताहिमवन्तमेत्य तत्रनानापुण्यस्थाना -वलोकनपूर्वकमोषधिगिरिमेत्य तदोषधिगवेषणम् ॥ ४ ॥ हनुमता स्वावलोकनेनौषधि -भिस्तिरोधाने क्रोधादोषधिगिरेरेवसमुत्पाटनेन वेगालङ्कांप्रत्यागमनम् ॥ ५ ॥ पर्वतपाणौहनुमति संनिकृष्टमात्रेणदिव्यौषधिगन्धाघ्राणनमात्रेणराघवाभ्यांसहविगतमोहै र्विशल्यैश्च वानरगणैस्तदोषधिगन्धमारुतसंस्पर्शमात्रेणसमुज्जीवितैर्हतपूर्ववानरैः सह हर्षासमु -द्धोषणम् ॥ ६ ॥ हनुमता पुनरोषधिगिरेर्हिमवद्गिरिंप्रति प्रापणम् ॥ ७ ॥
तयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरिपुङ्गवानाम् ।
सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किंचित्प्रतिपेदिरे ते ॥ १ ॥
ततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः ।
उवाच शाखामृगराजवीरानाश्वासयन्न प्रतिमैर्वचोभिः ॥ २ ॥
ब्रह्मास्त्रबन्धविमुक्तिश्चतुःसप्ततौ-तयोरित्यादिं सादितयो: अवसादितयोः । किंचिन्न प्रतिपेदिरे । मूढा बभूवुरित्यर्थः ॥ १-२ ॥
मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ ।
स्वयम्भुवो वाक्यमथोद्वहन्तौ यत्सादिताविन्द्रजिदस्त्रजालैः ॥ ३ ॥
[ विभीषणस्तत्र वराद्विधातुरसादितोस्त्रेण निरीक्षमाणः ।
सेनां हरीणां द्रुहिणास्रदूनां स्वस्थं हनूमन्तमुवाच दृष्ट्वा ] ॥ ४ ॥
आर्यपुत्रौ अवशौ विषण्णाविति यत् । अत्र विषादकालो नास्ति विषादहेतुकालो नास्ति । कुतः । स्वयम्भुवो वाक्यम् उद्वहन्तौ मानयन्तौ इन्द्रजिदस्रजालैः सादितौ सादिताविव वर्तमानाविति यत् । ततः । मा भैष्टेत्यर्थः ।। ३–४ ।।
तस्मै तु दत्तं परमास्त्रमेतत्स्वयम्भुवा ब्राह्मममोघवेगम् ।
तन्मानयन्तौ युधि राजपुत्रौ निपातितौ कोत्र विषादकालः ॥ ५ ॥
उक्तमेवार्थं विशयति-तस्मा इति ॥ ५ ॥
ब्राह्ममस्त्रं ततो धीमान्मानयित्वा तु मारुतिः ।
विभीषणवचः श्रुत्वा हनुमांस्तमथाब्रवीत् ॥ ६ ॥
एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम् ।
यो यो धारयते प्राणांस्तं तमाश्वासयावहै ॥ ७ ॥
तावुभौ युगपद्वीरौ हनुमद्राक्षसोत्तमौ ।
उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥ ८ ॥
मानयित्वा मुहूर्तमात्रं ब्रह्मास्त्रपरवशः स्थित्वा ॥ ६ – ८ ॥
भिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः ।
स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिस्ततस्ततः ॥ ९ ॥
पतितैः पर्वताकारैर्वानरैरभिसङ्कुलाम् ।
शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् ॥ १० ॥
भिन्नलाङ्गूलेत्यादिश्लोकद्वयमेकान्वयम् ॥ स्रवद्भिः मूत्रयद्भिः ॥ ९-१० ॥
सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् ।
गवाक्षं च सुषेणं च वेगदर्शिनमाहुकम् ॥ ११ ॥
मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा ।
एतांश्चान्यस्ततो वीरौ ददृशाते हतान्रणे ॥ १२ ॥
सुग्रीवमित्यादिश्लोकद्वयमेकान्वयं ॥ आहुक इति कश्चिद्यूथपः । गवाक्षं च सुषेणं च वेगदर्शिनमाहुकमिति पाठः । हतान् हतप्रायान् । प्रहृतानिति वा ॥ ११-१२ ।।
सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् ।
अह्नः पञ्चमशेषेण वल्लमेन स्वयम्भुवः ॥ १३ ॥
सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् ।
मार्गते जाम्बवन्तं स हनुमान्सविभीषणः ॥ १४ ॥
स्वभावजरया युक्तं वृद्धं शरशतैश्चितम् ।
प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ।। १५ ।।
दृष्ट्वा तमुपसंगम्य पौलस्त्यो वाक्यमब्रवीत् ।
कच्चिदार्य शरैस्तीक्ष्णैः प्राणा न ध्वंसितास्तव ॥ १६ ॥
वानराणां यूथपवानराणामित्यर्थः । सुग्रीवाङ्गदादिभिः सह पाठात् ॥ अह्नः पञ्चमशेषेण पञ्चमभागेन । प्रातः सङ्गवमध्याह्नापराह्नसायाह्नसंज्ञाः षण्नाडिकात्मका: अन्हः पञ्च भागाः सन्ति । तेषु पञ्चमेन सायाह्नसंज्ञेन नाडीषटेक्तेनेत्यर्थः । स्वयम्भुवो वल्लभेन इन्द्रं जिता । ब्रह्मास्त्रेण वा ॥ १३ – १६ ।।
विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः ।
कृच्छ्रादभ्युद्गिरन्वाक्यमिदं वचनमब्रवीत् ॥ १७ ॥
नैर्ऋतेन्द्र महावीर्य स्वरेण त्वाऽभिलक्षये ।
पीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥ १८ ॥
वाक्यं वाक्योपयोगि स्वरं ॥ १७-१८ ॥
अञ्जना सुप्रजा येन मातरिश्वा च नैर्ऋते ।
हनुमान्वानरश्रेष्ठः प्राणान्धारयते क्वचित् ॥ १९ ॥
धारयत इत्यत्र काकुः । किं धारयत इत्यर्थः ॥ १९ ॥
श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः ।
आर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम् ॥ २० ॥
नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे ।
आर्य संदर्शितः स्नेहो यथा वायुसुते परः ॥ २१ ॥
विभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत् ।
शृणु नैर्ऋतशार्दूल यस्मात्पृच्छामि मारुतिम् ॥ २२ ॥
तस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् ।
हनुमत्युज्झितप्राणे जीवन्तोपि वयं हताः ॥ २३ ॥
धरते मारुतिस्तात मारुतप्रतिमो यदि ।
वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥ २४ ॥
श्रुतेत्यादिलोकद्वयमेकं वाक्यं ॥ २० – २४ ॥
ततो वृद्धसुपागम्य नियमेनाभ्यवादयत् ।
गृह्य जाम्बवतः पादौ हनुमान्मारुतात्मजः ।
[ अहमस्मि हरिश्रेष्ठः शाधि मां यच्चिकीर्षितम् ] ॥ २५ ॥
मारुतात्मज: हनुमान् वृद्धं जाम्बवन्तं उपागम्य । नियमे न श्रोत्रहस्तसंस्पर्शव्यत्यस्तहस्तत्वादिरूपेण सह । जाम्बवतः पादौ गृह्य गृहीत्वा अभ्यवादयत् । स्वनामोच्चारणपूर्वकं युगपत्पादावगृह्णादित्यर्थः ॥ २५ ॥
श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः ।
पुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः ॥ २६ ॥
ततोऽब्रवीन्महातेजा हनुमन्तं स जाम्बवान् ।
आगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि ॥ २७ ॥
वाक्यं हनुमानहमस्मीत्यभिवादनवाक्यं । तथा व्यथितेन्द्रियोपि हनुमतो वाक्यं श्रुत्वा ऋक्षपुङ्गव: जाम्बवान् आत्मानं पुनर्जातं मन्यते स्मेति संबन्धः ।। २६ – २७ ।।
नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा ।
त्वत्पराक्रमकालोयं नान्यं पश्यामि कंचन ॥ २८ ॥
ऋक्षवानरवीराणामनीकानि प्रहर्षय ।
विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥ २९ ॥
विक्रमपर्याप्तः पर्याप्त विक्रमः । विक्रमपूर्ण इति यावत् । अन्यं पराक्रमितारं ॥ २८-२९ ॥
गत्वा परममध्वानमुपर्युपरि सागरम् ।
हिमवन्तं नगश्रेष्ठं हनुमन्गन्तुमर्हसि ॥ ३० ॥
परमं दीर्घं । उपर्युपरिसागरं सागरस्य समीपोपरि प्रदेशे । उपर्यध्यधसः सामीप्ये इति सामीप्ये द्विवचनं । धिगुपर्यादिषु त्रिषु द्वितीया इति द्वितीया ॥ ३० ॥
ततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम् ।
कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ॥ ३१ ॥
तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् ।
सर्वौषधियुतं वीर द्रक्ष्यस्योपधिपर्वतम् ॥ ३२ ॥
ऋषभं ऋषभाख्यं । पर्वतोत्तमं शिखरमित्यर्थः ॥ ३१ – ३२ ॥
तस्य वानरशार्दूल चतस्रो मूर्ध्नि संभवाः ।
द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ॥ ३३ ॥
मृतसञ्जीवनीं चैव विशल्यकरणीमपि ।
सावर्ण्यकरणीं चैव सन्धानकरणीं तथा ॥ ३४ ।।
ताः सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसि ।
आश्वासय हरीन्प्राणैर्योज्य गन्धवहात्मज ॥ ३५ ।।
तस्येत्यादिश्लोकत्रयमेकान्वयं ॥ ओषधयः ओषधीः । दीपयन्त्यः दीपयन्तीः । व्यत्ययेन द्वितीयार्थे प्रथमा । मृतं सञ्जीवयतीति मृतसञ्जीवनी । जीवनानन्तरं संचारक्षमतायै विशल्यं करोतीति विशल्यकरणी । विशल्ये कृते त्वचः सन्धानं करोतीति सन्धानकरणी । ततो व्रणकृतवैवर्ण्यं विहाय प्रदेशान्तरसावर्ण्यं करोतीति सावर्ण्यकरणी ॥ ३३-३५ ॥
श्रुत्वा जाम्बवतो वाक्यं हनुमान्हरिपुङ्गवः ।
आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ॥ ३६ ।।
बलोद्धर्षै: बलोत्कर्षैः । आपूर्यत पूर्णाभूत् ॥ ३६ ॥
स पर्वततटाग्रस्थः पीडयन्पर्वतोत्तमम् ।
हनुमान्दृश्यते वीरो द्वितीय इव पर्वतः ।। ३७ ।।
पर्वततटाग्रस्थ: त्रिकूटशिखरस्थः । पर्वतोत्तमं त्रिकूटं ॥ ३७ ॥
हरिपादविनिर्भग्नो निषसाद स पर्वतः ।
न शशाक तदाऽऽत्मानं सोडुं भृशनिपीडितः ॥ ३८ ॥
हरीति । हरिः हनुमान् ॥ ३८ ॥
तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः ।
शृङ्गाणि च व्यशीर्यन्त पीडितय हनूमता ॥ ३९ ॥
तस्य त्रिकूटस्य । नगाः वृक्षाः । हरिवेगात् हनुमतो हिमवदुत्तरप्रदेशस्थौ -षधिपर्वतपर्यन्तगमनोचितशक्त्यास्थानवेगात् । जज्वलुश्च । वेगोद्धर्षजवह्निनेत्यर्थः पीडितस्य पर्वतस्येति शेषः ।। ३९ ।।
तस्मिन्संपीड्यमाने तु मग्नद्रुमशिलातले ।
न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥ ४० ।।
न शेकुरिति । त्रिकूटतटस्य युद्धरङ्गत्वात् । घूर्णमाने कम्पमाने ॥ ४० ॥
सा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा ।
लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा ॥ ४१ ॥
पृथिवीधरसंकाशो निपीड्य धरणीधरम् ।
पृथिवीं क्षोभयामास सार्णवां मारुतात्मजः ॥ ४२ ॥
प्रनृत्तेवाभवत् त्रिकूटाग्रनिर्मितत्वात्तस्याः ॥ ४१-४२ ॥
आरुरोह तदा तस्माद्धरिर्मलयपर्वतम् ।
मेरुमन्दरसंकाशं नानाप्रस्रवणाकुलम् ॥ ४३ ॥
नानाद्रुमलताकीर्णं विकासिकमलोत्पलज् ।
सेवितं देवगन्धर्वैः पष्टियोजनमुच्छ्रितम् ॥ ४४ ॥
विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम् ।
नानामृगगणाकीर्णं बहुकन्दरशोभितम् ॥ ४५ ॥
सर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान् ।
हनुमान्मेघसंकाशो ववृधे मारुतात्मजः ॥ ४६ ॥
आरुरोहेत्यादिश्लोकत्रयमेकान्वयं ॥ मलयपर्वतमित्यत्र लङ्कामलय उच्यते ।। ४३ – ४६ ॥
पद्भ्यां तु शैलमापीड्य बडबामुखवन्मुखम् ।
विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ॥ ४७ ॥
तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् ।
लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ॥ ४८ ॥
त्रासयन् त्रासनार्थं ननाद । लक्षणहेत्वोः – इति शतृप्रत्ययः । स्वागमनपर्यन्तं राक्षसनिर्गमनं मा भूदिति तेषां त्रासनार्थं ननादेति भावः । इवशब्दो वाक्यालंकारे ॥ ४७-४८ ॥
नमस्कृत्वाऽथ रामाय मारुतिर्भीमविक्रमः ।
राघवार्थे परं कर्म समीहत परन्तपः ।। ४९ ।।
नमस्कृत्वाथ रामायेति अयं प्रारीप्सितकर्मसमाप्तये सम्यगिष्टदेवतानमस्कारः ॥ ४९ ॥
स पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुञ्च्य ।
विवृत्य वक्रं बडवामुखाभमापुप्लुवे व्योमनि चण्डवेगः ॥ ५० ।।
स पुच्छमिति पुच्छोद्यमनेनोत्साहातिरेक उक्तः । पृष्ठविनमनेनाकाशगमनानुकूल -प्राणवायुनिरोध उक्तः । श्रवणनिकुञ्चनेन बलोद्दीपनं । मुखव्यादानेनाभिनिवेशः ॥ ५० ॥
स वृक्षपण्डांस्तरसाऽऽजहार शैलाञ्शिलाः प्राकृतवानरांश्च ।
बाहूरुवेगोद्धतसंप्रणुन्नास्ते क्षीणवेगाः सलिले निपेतुः ॥ ५१ ॥
प्राकृतवानरान् त्रिकूटवननित्यवासिनः । आजहार उज्जहार । अस्यैवानुवादो बाह्निति । बाहूरुवेगोद्धतसंप्रणुन्ना: बाहूर्वोर्वेगेन उद्धता: उन्मूलिता: संप्रणुन्नाः प्रेरिताः । क्षीणवेगा: क्रमेण क्षीण वेगाः सन्तः ॥ ५१ ॥
स तौ प्रसार्योरगभोगकल्पौ भुजौ भुजङ्गारिनिकाशवीर्यः ।
जगाम मेरुं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः ॥ ५२ ॥
स सागरं घूर्णितवीचिमालं तदा भृशं भ्रामितसर्वसत्त्वम् ।
समीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ॥ ५३ ॥
मेरुं कैलासपार्श्ववर्तिनं । अस्ति ह्यन्यो हिमवदन्तर्वर्ती मेरुः । यद्वा मेरुं मेरूपलक्षितदिशि स्थितं नगराजं हिमवन्तं । यद्वा मेरुमुद्दिश्य जगाम । उत्तरांदिशमुद्दिश्य जगामेत्यर्थः । यद्वा मेरुं मेरुसदृशं । प्रकर्षन् कम्पयन् ॥ ५२-५३ ॥
स पर्वतान्वृक्षगणान्सरांसि नदीस्तटाकानि पुरोत्तमानि ।
स्फीताञ्जनान्तानपि संप्रवीक्ष्य जगाम वेगात्पितृतुल्यवेगः ॥ ५४ ॥
जनान्तान् जनपदान् ॥ ५४ ॥
आदित्यपथमाश्रित्य जगाम स गतक्लमः ।
हनुमांस्त्वरितो वीरः पितृतुल्यपराक्रमः ।। ५५ ।।
जवेन महता युक्तो मारुतिर्मारुतो यथा ।
जगाम हरिशार्दूलो दिशः शब्देन पूरयन् ॥ ५६ ॥
पूर्वमुपर्युपरिसागरमित्युक्त्या आदित्यपथं आकाशं ॥ ५५-५६ ॥
स्मरञ्जाम्बवतो वाक्यं मारुतिर्वातरंहसा ।
ददर्श सहसा चापि हिमवन्तं महाकपिः ॥ ५७ ॥
नानाप्रस्रवणोपेतं बहुकन्दरनिर्झरम् ।
श्वेताभ्रचयसंकाशैः शिखरैश्चारुदर्शनैः ॥
शोभितं विविधैर्वृक्षैरगमत्पर्वतोत्तमम् ॥ ५८ ॥
स तं समासाद्य महानगेन्द्रमतिप्रवृद्धोत्तमघोरशृङ्गम् ।
ददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि ॥ ५९ ॥
स्मरन् जाम्बवत इति जाम्बवद्वाक्यस्मरणं औषधिपर्वतमतीत्य वेगातिशयेनान्यत्र गमननिवृत्त्यर्थं । वातरंहसा । उपलक्षित इति शेषः ॥ ५७–५९ ॥
स ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम् ।
हयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वतकिङ्करांश्च ॥ ६० ॥
दृष्टानामाश्रमाणां नामान्यनुक्रामति स ब्रह्मकोशमित्यादिना ॥ ब्रह्मणश्चतुर्मुखस्य कोशो गृहं । कोशोस्त्री कुङ्मलेर्थौघे गुह्यदेशेण्डशीर्षयोः । गृहे देहे पुस्तकौघपेट्यामसिपिधानके इति रत्नमाला । रजतालयं कैलासं । शक्रस्य इन्द्रस्य । स्थानं आश्रमस्थानं । रुद्रशराः प्रमोक्ष्यन्ते लीलार्थं यस्मिन् तद्रुद्रशरप्रमोक्षं स्थानं । हयाननं हयग्रीवाराधनस्थानं । ब्रह्मशिरः रुद्रनिकृत्तब्रह्मशिरः प्रक्षेपस्थानं । वैवस्वतकिङ्करान् विवस्वत्संबन्धिकिङ्करान् । ग्रामण्यादीन् मासान्तपरिचारकान् विश्रमार्थमत्र स्थितान् ॥ ६० ॥
वज्रालयं वैश्रवणालयं च सूर्यप्रभं सूर्यनिबन्धनं च ।
ब्रह्मासनं शङ्करकार्मुकं च ददर्श नाभि च वसुन्धरायाः ॥ ६१ ॥
[ विघ्नेश्वरं तत्र सनन्दिकेशं स्कन्दं वृतं देवगणैर्ददर्श ।
उमां सुदुर्गामथ कन्यकाभिर्विलासयन्तीं ददृशेऽग्र्यवीर्यः ] ॥ ६२ ॥
वज्रालयमिति । इन्द्राय ब्रह्मणा वज्रप्रदानस्थानं । सूर्यप्रभमिति वैश्रवणालयविशेषणं । सूर्यनिबन्धनं छायादेवीप्रीतये विश्वकर्मणा शाणारोपणाय सूर्यनिबन्धनस्थानं । ब्रह्मासनं देवगणसंदर्शनाय कृतं ब्रह्मणः सिंहासनं । ब्रह्मणामृषीणामासनं स्थानं वा । शङ्करकार्मुकं तत्स्थानमित्यर्थः । नाभिं पातालप्रवेशरन्धं ॥ ६१–६२ ।।
कैलासमग्र्यं हिमवच्छिलां च तथर्षभं काञ्चनशैलमग्र्यम् ।
संदीप्तसर्वौषधिसंप्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ।। ६३ ।।
ब्रह्मादिस्थानेषु रजतालयमिति परिगणितमपि जाम्बवदुपदिष्टप्रकारेण दर्शनाय पुनराह- कैलासमिति हिमवच्छिला नाम कैलासपार्श्वे कश्चिच्छिलाविशेषः । ऋषभं ऋषभाख्यमौषधिपर्वतं । काञ्चनशैलं पूर्वं मेरुमित्युक्तं । संदीप्तसर्वौषधिसंप्रदीप्तं संदीप्ताभिः रात्रौ ज्वलन्तीभिः सर्वाभिः ओषधीभिः तृणज्योतिर्भिः संप्रदीप्तं सम्यक्प्रकाशमानं । सर्वौषधिपर्वतेन्द्रं मृतसञ्जीवन्यादिसर्वौषधियुक्तपर्वतेन्द्रं । ददर्श ॥ ६३ ।।
स तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः ।
आवृत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयं चकार ।। ६४ ॥
वासवदूतः वायुः वासवादेशेन मेघप्रेरकत्वात् । अतएवाभिषेकसमये इन्द्रेण प्रेरितो हारं रामायोपाहरत् । विचयं अन्वेषणं ॥ ६४ ॥
स योजनसहस्राणि समतीत्य महाकपिः ।
दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥ ६५ ॥
अतीत्य अतीत्यापीत्यर्थः । अनेन श्रमरहितत्वमुक्तं ॥ ६५ ॥
महौषध्यस्ततः सर्वास्तस्मिन्पर्वतसत्तमे ।
विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥ ६६ ॥
ततः तस्य हनुमतः । अदर्शनं ।। ६६ ।।
स ता महात्मा हनुमानपश्यंश्चुकोप कोपाच्च भृशं ननाद ।
अमृष्यमाणोऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम् ।। ६७ ।।
ताः ओषधीः ॥ ६७ ॥
किमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः ।
पश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ॥ ६८ ॥
राघवे कृतानुकम्पो नासीति यत् एतत् एवं सुविनिश्चितं यदि तर्हि आत्मानमथो विकीर्णं पश्येति संबन्धः ॥ एतच्छ्लोकानन्तरमित्युक्त्वेत्यध्याहार्यं ॥ ६८ ॥
स तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम् ।
विकीर्णकूटज्वलिताग्रसानुं प्रगृह्य वेगात्सहसोन्ममाथ ॥ ६९ ॥
स तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान्ससुरासुरेन्द्रान् ।
संस्तूयमानः खचरैरनेकैर्जगाम वेगाद्गरुडोग्रवेगः ॥ ७० ॥
सनागं सगजं । उन्ममाथ उत्पाटयामास ॥ ६९-७० ।।
स भास्कराध्वानमनुप्रपन्नस्तं भास्कराभं शिखरं प्रगृह्य ।
बभौ तदा भास्करसन्निकाशो रवेः समीपे प्रतिभास्कराभः ॥ ७१ ॥
भास्काराध्वानं अन्तरिक्षं । भास्कराभशिखरग्रहणात् स्वयं भास्करसन्निकाशत्वाच्च सूर्यसमीपस्थः प्रतिसूर्य । इव बभावित्यर्थः ॥ ७१ ॥
स तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु ।
सहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन ॥ ७२ ॥
सहस्रधारेण । अर्पितेन हस्तेर्पितेन । सपावकेन अग्निज्वालावता । चक्रेण विष्णुरिव रराज ७२ ।।
तं वानराः प्रेक्ष्य विनेदुरुच्चैः स तानपि प्रेक्ष्य मुदा ननाद ।
तेषां समुद्धुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ॥ ७३ ॥
तं वानरा इत्यनेन दूरादेव गन्धाघ्राणेन सर्वे जीविता इति गम्यते ॥ ७३ ॥
ततो महात्मा निपपात तस्मिञ्शैलोत्तमे वानरसैन्यमध्ये ।
हर्युत्तमेभ्यः शिरसाऽभिवाद्य विभीषणं तत्र स सस्वजे च ॥ ७४ ॥
तावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम् ।
बभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ॥ ७५ ॥
शैलोत्तमे त्रिकूटशिखरे ७४–७५ ॥
सर्वे विशल्या विरुजः क्षणेन हरिप्रवीरा निहताश्च ये स्युः ।
गन्धेन तासां प्रवरौषधीनां सुप्ता निशान्तेष्विव संप्रबुद्धाः ॥ ७६ ॥
विशल्यकरण्या विशल्या: । सन्धानकरण्या विरुजः । ये पूर्वं निहतास्तेपि सुप्ता निशान्तेष्विव संप्रबुद्धाः । अनेन सावर्ण्यसिद्धिरप्युक्ता ॥ ७६ ॥
यदाप्रभृति लङ्कायां युध्यन्ते कपिराक्षसाः ।
तदाप्रभृति मानार्थमाज्ञया रावणस्य च ॥ ७७ ॥
ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः ।
हताहतास्तु क्षिप्यन्ते सर्व एव तु सागरे ॥ ७८ ॥
ततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवीर्यः ।
निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ।। ७९ ।।
तर्हि निहता राक्षसाः किं न प्रबुद्धा इत्यत्राह — यदाप्रभृतीति ॥ मानार्थं हतानां राक्षसानां इयत्तया अपरिज्ञानार्थं । मृतशरीरसंख्याप्रतिपत्त्यर्थंवा । पूर्वयोजनायामर्थशब्दो निवृत्तिपरः । अर्थोभिधेयरैवस्तुप्रयोजननिवृत्तिषु इत्यमरः । परैः परिच्छिद्य ज्ञानं मा भूदित्येवमर्थमिति भावः । हताहताः मुमूर्षावस्था: । किं पुनर्मृता इति भावः । क्तेन नञ्विशिष्टेनानञ् इति कर्मधारयः । यद्वा यदा यदा ये ये हताः तदा तदा ते ते क्षिप्ता इत्यर्थः ।। ७७–७९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःसप्ततितमः सर्गः ॥ ७४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुःसप्ततितमः सर्गः ॥ ७४ ॥