श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तसप्ततितमः सर्गः
हनुमता निकुंभहननम् ॥ १ ॥
निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् ।
प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत ॥ १॥
अथ निकुम्भवधः सप्तसप्ततितमे- निकुम्भ इत्यादि ॥ १ ॥
ततः स्रग्दामसन्नद्धं दत्तपञ्चाङ्गुलं शुभम् ।
आददे परिघं वीरो नगेन्द्रशिखरोपमम् ॥ २ ॥
हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् ।
यमदण्डोपमं भीमं रक्षसां भयनाशनम् ॥ ३ ॥
तमाविध्य महातेजाः शक्रध्वजसमं तदा ।
विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः ॥ ४ ॥
तत इत्यादिलोकद्वयमेकान्वयं ॥ स्रग्दामसन्नद्धं स्रक्समूहनिबद्धं । दत्तपश्चाङ्गुलं चन्दनकुङ्कुमादिनार्पितपञ्चाङ्गुलमुद्रामुद्रितं । अथवा क्रियाविशेषणमेतत् । दत्तपञ्चाङ्गुलं यथा तथा आददे । परिक्षिप्त परिणद्धं ॥२-४ ॥
उरोगतेन निष्केण भुजस्थैरङ्गदैरपि ।
कुण्डलाभ्यां च चित्राभ्यां मालया च विचित्रया ॥ ५ ॥
निकुम्भो भूषणैर्भाति तेन स्म परिघेण च ।
यथेन्द्रधनुषा मेघः सविद्युत्स्तनयिनुत्मान् ॥ ६ ॥
उरोगतेनेत्यादिलोकद्वयमेकान्वयं ॥ निष्कः पदकं । भूषणैः हारादिभिः । भाति स्म । लट् स्मे इति भूते लट् । स्तनयि मान् गर्जितवान् । स्तनयिब्रुस्तु गर्जिते मेघे ” स्तनयिनुस्तु गर्जिते मेघे इति रत्नमाला । इन्द्रधनुःस्थाने परिघः । विद्युत्स्थाने भूषणानि । विननादेति पूर्वश्लोकोक्तो विनादः स्तनयित्नुस्थान इति नोपमेयन्यूनता ॥ ५-६ ॥
परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः ।
प्रजज्वाल सघोषश्च विधूम इव पावकः ॥ ७ ॥
वातग्रन्थि: आवहादिसप्तवातस्कन्धः । सघोष: ससिंहनाद इति निकुम्भविशेषणं परिघविशेषणं वा ॥ ७ ॥
नगर्या विटपावत्या गन्धर्वभवनोत्तमैः ।
सह चैवामरावत्या सर्वैश्च भवनैः सह ॥ ८ ॥
सतारग्रहनक्षत्रं सचन्द्रं समहाग्रहम् ।
निकुम्भपरिघाघूर्णं भ्रमतीव नभःस्थलम् ॥ ९ ॥
नगर्येत्यादिश्लोकद्वयमेकान्वयं ।। विटपावत्या अलकया । अत्रापि सहेति शेषः । भवनैः अमरभवनैः । तारा : अश्विन्यादयः । ग्रहाः बुधादयः । नक्षत्राणि अश्विन्यादिभिन्नानि । महाग्रहाः शुक्रादयः । अत्र रात्रित्वात्सूर्यो नोक्तः । निकुम्भपरिघाघूर्ण । अत्र परिघशब्देन तद्वात उपलक्ष्यते । इवशब्दो वाक्यालंकारे ॥ ८-९ ॥
दुरासदश्च संजज्ञे परिघाभरणप्रभः ।
कपीनां स निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ।। १० ।।
परिघेणाभरणैश्च प्रभातीति परिघाभरणप्रभः । यद्वा परिघाभरणान्येव प्रभा यस्य स तथा । कपीनां दुरासदो जज्ञ इति संबन्धः ॥ १० ॥
राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात् ।
हनुमांस्तु विवृत्योरस्तस्थौ प्रमुखतो बली ॥ ११ ॥
राक्षसा इति । प्रबलेषु प्रजङ्घादिषु हतेषु दुर्बलैर्भवद्भिः किमर्थं युद्धाय प्रयत्नः कृत इति निकुम्भः कुप्येदिति राक्षसानां भयं वेदितव्यं । विवृत्य विस्तार्य । प्रमुखतः अग्रे ॥ ११ ॥
परिघोपमबाहुस्तु परिघं भास्करप्रभम् ।
बली बलवतस्तस्य पातयामास वक्षसि ॥ १२ ॥
परिघोपमबाहुः निकुम्भः ॥ १२ ॥
स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः ।
विशीर्यमाणः सहसा उल्काशतमिवाम्बरे ॥ १३ ॥
व्यूढे विशाले । उल्काशतमिव बभाविति ॥ १३ ॥
स तु तेन प्रहारेण विचचाल महाकपिः ।
परिघेण समाधूतो यथा भूमिचलेऽचलः ॥ १४ ॥
भूमिचले भूकम्पे ॥ १४ ॥
स तदाऽभिहतस्तेन हनुमान्प्लवगोत्तमः ।
मुष्टिं संवर्तयामास बलेनातिमहाबलः ॥ १५ ॥
तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान् ।
अभिचिक्षेप वेगेन वेगवान्वायुविक्रमः ॥ १६ ॥
ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम् ।
मुष्टिना तेन संजज्ञे ज्वाला विद्युदिवोत्थिता ॥ १७ ॥
स तु तेन प्रहारेण निकुम्भो विचचाल ह ।
स्वस्थश्चापि निजग्राह हनुमन्तं महाबलम् ॥ १८ ॥
संवर्तयामास । चकारेत्यर्थः ॥ १५-१८ ।।
विचुक्रुशुस्तदा संख्ये भीमं लङ्कानिवासिनः ।
निकुम्भेनोद्यतं दृष्ट्वा हनुमन्तं महाबलम् ॥ १९ ॥
स तदा ह्रियमाणोपि कुम्भकर्णात्मजेन ह ।
आजघानानिलसुतो वज्रकल्पेन मुष्टिना ॥ २० ॥
भीमं विचुक्रुशुः । हनुमद्ग्रहणहर्षादिति भावः । उद्यतं गृहीतं ॥ १९ – २० ।।
आत्मानं मोचयित्वाऽथ क्षितावभ्यवपद्यत ।
हनुमानुन्ममाथाशु निकुम्भं मारुतात्मजः ॥ २१ ॥
क्षितावभ्यवपद्यत स्थितः ॥ २१ ॥
निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष ह ।
उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान् ॥ २२ ॥
निक्षिप्य भूमौ पातयित्वा । परमायत्तः अतिप्रयासयुक्तः । उत्पत्य ऊर्ध्वमुद्गत्य । उरसि वेगेन पपात ॥ २२ ॥
परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम् ।
उत्पाटयामास शिरो भैरवं नदतो महत् ॥ २३ ॥
[ अथ देवास्सगन्धर्वा विद्याधरमहोरगाः ।
आकाशचारिणस्सर्वे अप्सरोभिः सहामराः ॥ २४ ॥
हनूमन्तं महाबाहुं वायुपुत्रमरिंदमम् ।
प्रशंसन्तः परैर्वाक्यैः प्रसूनैरभ्यपूजयन् ] ॥ २५ ॥
बाहुभ्यां शिरोधरां परिगृह्य परिवर्त्य । शिर उत्पाटयामास ॥ २३–२५ ॥
अथ विनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम् ।
दशरथसुतराक्षसेन्द्रसून्वोर्भृशतरमागतरोषयोः सुभीमम् ॥ २६ ॥
उत्तरसर्गद्वयार्थं संग्रहेण दर्शयति — अथेति ॥ विनदति निकुम्भे पवनसुतेन सादिते सति । दशरथसुतराक्षसेन्द्रसून्वोः । राममकराक्षयोः । युद्धं बभूव । पुष्पिता प्रावृत्तं । उत्तरत्र भुजङ्गप्रयातं ॥ २६ ॥
व्यपेते तु जीवे निकुम्भस्य हृष्टा विनेदुः प्लवङ्गा दिशः सस्वनुश्च ।
चचालेव चोर्वी पफालेव च द्यौर्भयं राक्षसानां बलं चाविवेश ॥ २७ ॥
दिश: सस्वनुः प्रतिध्वनिं चक्रुः । पफालेव पुस्फोटेव । बलं कर्म । भयं कर्तृ ॥ २७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तसप्ततितमः सर्गः ॥ ७७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तसप्ततितमः सर्गः ॥ ७७ ।।