श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्यशीतितमः ॥ ८२ ॥
इन्द्रजिता मायासीताच्छेदनानन्तरं हनुमतावानरान्प्रति सीतानिधनाद्युद्धस्यवैफल्यो -क्त्त्या प्रतिनिवर्तनपूर्वकं तैस्सह रामसमीपगमनम् ॥ १ ॥ अत्रान्तरेलब्धावकाशेनेन्द्रजिता निकुंभिलामेत्ययागारंभः ॥ २ ॥
श्रुत्वा तु भीमनिर्ह्रादं शक्राशनिसमवनम् ।
वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः ॥ १ ॥
तानुवाच ततः सर्वान्हनुमान्मारुतात्मजः ।
विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतः पृथक् ॥ २ ॥
अथेन्द्रजितो निकुम्भिलायां होमारम्भः – श्रुत्वेत्यादि । शक्राशनिसमस्वनं शक्राशनिस्वनसममित्यर्थः ॥ १-२ ॥
कस्माद्विषण्णवदना विद्रवध्वे प्लवङ्गमाः ।
त्यक्तयुद्धसमुत्साहाः शूरत्वं क्वनु वो गतम् ॥ ३ ॥
विद्रवध्वे विद्रवथ । आत्मनेपदमार्षं ॥ ३ ॥
पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे ।
शरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ॥ ४ ॥
एवमुक्ताः सुसंहृष्टा वायुपुत्रेण वानराः ।
शैलशृङ्गाण्यगांश्चैव जगृहुर्हृष्टमानसाः ॥ ५ ॥
अभिपेतुश्च गर्जन्तो राक्षसान्वानरर्षभाः ।
परिवार्य हनूमन्तमन्वयुश्च महाहवे ॥ ६ ॥
स तैर्वानरमुख्यैश्च हनुमान्सर्वतो वृतः ।
हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ॥ ७ ॥
स राक्षसानां कदनं चकार सुमहाकपिः ।
वृतो वानरसैन्येन कालान्तकयमोपमः ॥ ८ ॥
स तु कोपेन चाविष्टः शोकेन च महाकपिः ।
हनुमात्रावणिरथेऽपातयन्महतीं शिलाम् ॥ ९ ॥
तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा ।
विधेयाश्वसमायुक्तः सुपूरमपवाहितः ।। १० ।।
अनुव्रजध्वं अनुव्रजत । पदव्यत्ययआर्षः ॥ ४-१० ।।
तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम् ।
विवेश धरणीं भित्वा सा शिला व्यर्थमुद्यता ॥ ११ ॥
पातितायां शिलायां तु रक्षसां व्यथिता चमूः ।
निपतन्त्या च शिलया राक्षसा मथिता भृशम् ॥ १२ ॥
तमभ्यधावञ्छतशो नदन्तः काननौकसः ॥ १३ ॥
व्यर्थमुद्यता व्यर्थं प्रयुक्ता ।। ११-१३ ॥
ते द्रुमांश्च महावीर्या गिरिशृङ्गाणि चोद्यताः ।
क्षिपन्तीन्द्रजितः संख्ये वानरा भीमविक्रमाः ॥ १४ ॥
वृक्षशैलमहावर्षं विसृजन्तः प्लवङ्गमाः ।
शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वरैः ॥ १५ ॥
वानरैस्तैर्महावीर्यैर्घोररूपा निशाचराः ।
वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणाजिरे ॥ १६ ॥
स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित् ।
प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ ॥ १७ ॥
स शरौघानवसृजन्स्वसैन्येनाभिसंवृतः ।
जघान कपिशार्दूलान्स बहून्दृष्टविक्रमः ॥ १८ ॥
इन्द्रजितः इन्द्रजितं प्रति ॥ १४-१८ ॥
शूलैरशनिभिः खङ्गैः पट्टिशैः कूटमुद्गरैः ।
ते चाप्यनुचरास्तस्य वानराञ्जघ्नुरोजसा ॥ १९ ॥
सस्कन्धविटपैः सालैः शिलाभिश्च महाबलः ।
हनुमान्कदनं चक्रे रक्षसां भीमकर्मणाम् ॥ २० ॥
शूलैरशनिभिरिति अशनेरायुधत्वं शक्तिविशेषात् ॥ १९-२० ॥
स निवार्य परानीकमब्रवीत्तान्वनौकसः ।
हनुमान्सन्निवर्तध्वं न नः साध्यमिदं बलम् ॥ २१ ॥
त्यक्त्वा प्राणान्विवेष्टन्तो रामप्रियचिकीर्षवः ।
यन्निमित्तं हि युध्यामो हता सा जनकात्मजा ॥ २२ ॥
इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च ।
तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम् ॥ २३ ॥
इत्युक्त्वा वानरश्रेष्ठो वारयन्सर्ववानरान् ।
शनैः शनैरसंत्रस्तः सबलः सन्न्यवर्तत ॥ २४ ॥
न साध्यं साधयितुमयोग्यं । प्रयोजनाभावादितिभावः । तदेवाह—त्यक्त्वेति ॥ २१-२४ ॥
ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र रौघवः ।
स होतुकामो दुष्टात्मा गतश्चैत्यनिकुम्भिलाम् ॥ २५ ॥
चैत्यनिकुम्भिलां चैत्ये विद्यमानं निकुम्भिलाख्यदेवतायतनमित्यर्थः ॥ २५ ॥
निकुम्भिलामधिष्ठाय पावकं जुह्वेन्द्रजित् ॥ २६ ॥
यज्ञभूम्यां तु विधिवत्पावकस्तेन रक्षसा ।
हूयमानः प्रजज्वाल मांसशोणितभुक्तदा ॥ २७ ॥
निकुम्भिलामित्यर्धं । जुहव जुहाव ॥ २६-२७ ॥
सोर्चिः पिनदो ददृशे होमशोणिततर्पितः ।
सन्ध्यागत इवादित्यः सुतीव्रोऽग्निः समुत्थितः ।। २८ ।।
होमशोणितं शोणितहोमः ॥ २८ ॥
अथेन्द्रजिद्राक्षसभूतये तु जुहाव हव्यं विधिना विधानवित् ।
दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः ॥ २९ ॥
नयानयज्ञाः शास्त्रीयाशास्त्रीयविदः ।। २९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्यशीतितमः ॥ ८२ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्व्यशीतितमः सर्गः ॥ ८२ ॥