श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चाशीतितमः सर्गः
सीताशोकाकुलतयाविभीषणभाषितमनवधारितवतोरामस्यचोदनया पुनर्विभीषणेन तंप्रति इन्द्रजितं प्रतिनिकुंभिलायां होमसमाप्तौ सर्वदुर्जयत्वरूपब्रह्मवरदानप्रकारस्य ब्रह्मणैवोक्तस्य -होमापरिसमाप्तेस्तद्वधहेतुत्वस्य च निवेदनेन तद्वधायानुजनि योजनप्रार्थना ॥ १ ॥ रामचो -दनया लक्ष्मणेनेन्द्रजिद्वधायविभीषणादिभिःसह निकुंभिलांप्रतिप्रस्थानम् ॥ २ ॥
तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः ।
नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ॥ १ ॥
ततो धैर्यमवष्टभ्य रामः परपुरञ्जयः ।
विभीषणमुपासीनमुवाच कपिसन्निधौ ॥ २ ॥
अथेन्द्रजिद्वधाय लक्ष्मणनिर्गमनं – तस्य तद्वचनमित्यादि ॥ व्यक्तं नोपधारयते । हृदि सम्यङ्निधातुं नाशकदित्यर्थः ॥ १-२ ॥
नैर्ऋताधिपते वाक्यं यदुक्तं ते विभीषण ।
भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥ ३ ॥
ते त्वया ॥ ३ ॥
राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः ।
यत्तत्पुनरिदं वाक्यं बभाषे स विभीषणः ॥ ४ ॥
यत्तत्पुनरिति । यद्वाक्यं पूर्वमुक्तवान् तदिदं पुनर्बभाष इत्यन्वयः ॥ ४ ॥
यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् ।
तत्तथाऽनुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ॥ ५ ॥
तान्यनीकानि सर्वाणि विभक्तानि समन्ततः ।
विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ॥ ६ ॥
भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महायशः ॥ ७ ॥
यथाज्ञप्तमित्याद्युक्ति: रामस्य व्याकुलत्वनिवारणाय ॥ ५-७ ॥
त्वय्यकारणसन्तप्ते सन्तप्तहृदया वयम् ।
त्यज राजन्निमं शोकं मिथ्या सन्तापमागतम् ॥ ८ ॥
सन्तापं सन्तापं च । मिथ्येति शोकसन्तापयोर्विशेषणं । सन्तापः शोककार्यमिति तयोर्भिदा ।। ८ ।।
तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी ।
उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् ॥ ९ ॥
प्राप्तव्या यदि ते सीता हन्तव्याश्च निशाचराः ।
रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः ॥ १० ॥
साध्वयं यातु सौमित्रिर्बलेन महता वृतः ।
निकुम्भिलायां संप्राप्य हन्तुं रावणिमाहवे ॥ ११ ॥
धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः ।
शरैर्हन्तुं महेष्वासो रावणिं समितिंजयः ॥ १२ ॥
उद्यमः उत्साहः ।। ९ – १२ ॥
तेन वीर्येण तपसा वरदानात्स्वयंभुवः ।
अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः ॥ १३ ॥
ब्रह्मशिरः ब्रह्मशिरः संज्ञकमस्त्रं । तुरङ्गमशब्दो रथस्याप्युपलक्षणं । प्राप्तं । होमद्वारेति शेषः ॥ १३ ॥
स एष सह सैन्येन प्राप्तः किल निकुम्भिलाम् ।
यद्युत्तिष्ठेत्कृतं कर्म हतान्सर्वांश्च विद्धि नः ॥ १४ ॥
यदीति । यदि च निकुम्भिलाया उत्तिष्ठेत् यदि कर्म कृतं स्यात् । तदा हतान् विद्धीत्यन्वयः ॥ १४ ॥
निक्कुम्भिलामसंप्राप्तमहुताग्निं च यो रिपुः ।
त्वामाततायिनं हन्यादिन्द्रशत्रोः स ते बघः ॥
वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै ॥ १५ ।।
तर्हि कथं स वध्य इत्यत्राह – निकुम्भिलामित्यादिसार्धश्लोक एकान्वयः । यो रिपुः । अहुताग्निं असमप्तहोमं । निकुम्भिलामसंप्राप्तं निकुम्भिलाख्यन्यप्रोधमूलस्थानमसंप्राप्तं च । तमप्रविष्टन्यग्रोधमित्युत्तरसर्गे वक्ष्यति । आततायिनं शस्त्रपाणिं रिपुवधोद्यतं च त्वां यो हन्यात् हिंस्यात् सः इन्द्रशत्रोस्ते वधो मारक इति सर्वलोकेश्वरेण ब्रह्मणा वरो दत्त इति योजना । वध हतौ इति धातोः पचाद्यचि वध इति रूपं । यद्यप्येतच्छापवचनमिव प्रतिभाति । तथापि निकुम्भिलाप्राप्तिहोमयोर्विघ्नाभावे अवध्य इति पर्यवसानाद्वररूपत्वं द्रष्टव्यं ॥ १५ ॥
इत्येवं विहितो राजन्वधस्तस्यैष धीमतः ।
वधायेन्द्रजितो राम संदिशस्व महाबल ।
हते तस्मिन्हतं विद्धि रावणं ससुहृज्जनम् ॥ १६ ॥
विभीषणवचः श्रुत्वा राघवो वाक्यमब्रवीत् ॥ १७ ॥
जानामि तस्य रौद्रस्य मायां सत्यपराक्रम ।
स हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलः ।
करोत्यसंज्ञान्सङ्ग्रामे देवान्सवरुणानपि ॥ १८ ॥
इत्येवमित्यादिसार्धश्लोक एकान्वयः ॥ इत्येवंप्रकारेण । एष: होमविघ्नकारी तस्य इन्द्रजितः वधः मारकः । विहितः ब्रह्मणा क्लृप्तः । तस्मात् तस्य इन्द्रजितो वधाय संदिशस्व । अस्मासु कंचिदिति शेषः ॥ १६-१८ ॥
तस्यान्तरिक्षे चरतो रथस्थस्य महायशः ।
न गतिर्ज्ञायते तस्य सूर्यस्येवाभ्रसंप्लवे ॥ १९ ॥
राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः ।
लक्ष्मणं कीर्तिसंपन्नमिदं वचनमब्रवीत् ॥ २० ॥
तस्य प्रसिद्धस्येति सूर्यविशेषणं द्वितीयं तस्येति पदं । अभ्रसंप्लवे मेघावरणे ॥ १९-२० ॥
यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः ।
हनुमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण ॥ २१ ॥
जाम्बवेनर्क्षपतिना सहसैन्येन संवृतः ।
जहि तं राक्षससुतं मायाबलविशारदम् ॥ २२ ॥
अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः ।
अभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति ॥ २३ ॥
राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः ।
जग्राह कार्मुकश्रेष्ठमत्यद्भुतपराक्रमः ॥ २४ ॥
सन्नद्धः कवची खड्गी सशरो हेमचापधृत् ।
रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ॥ २५ ॥
अद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम् ।
लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ॥ २६ ॥
अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः ।
विधमिष्यन्ति भित्वा तं महाचापगुणच्युताः ॥ २७ ॥
यद्वानरेन्द्रस्येत्यादिश्लोकत्रयमेकान्वयं ॥ जाम्बवेन जाम्बवता । सहसैन्येन सैन्यसहितेन । वोपसर्जनस्य इति विकल्पेन सभावाभावः । संवृतः । त्वमिति शेषः ॥ २१-२७ ॥
स एवमुक्त्वा द्युतिमान्वचनं भ्रातुरग्रतः ।
स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ ॥ २८ ॥
सोभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम् ।
निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥ २९ ॥
विभीषणेन सहितो राजपुत्रः प्रतापवान् ।
कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ॥ ३० ॥
वानराणां सहस्रैस्तु हनुमान्बहुभिर्वृतः ।
विभीषणश्च सामात्यस्तदा लक्ष्मणमन्वगात् ॥ ३१ ॥
महता हरिसैन्येन सवेगमभिसंवृतः ।
ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ॥ ३२ ॥
स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः ।
राक्षसेन्द्रबलं दूरादपश्यद्व्यूहमास्थितम् ॥ ३३ ॥
असत्यपि कर्तृभेदे क्रियाभेदमाश्रित्य स इति द्विरुक्तिः। स एवमुक्त्वा स यथाविति निर्वाहः । वस्तुतस्तु स लक्ष्मणः । सः तादृशवीरवेषविशिष्ट एवेत्यर्थः । यद्वा सरावणिवधाकाङ्क्षीत्येकं पदं । रावणिना सहवर्तन्त इति सरावणयः निकुम्भिलास्था राक्षसाः । तेषां वधाकाङ्क्षीत्यर्थः ॥ २८- ३३ ॥
स तं प्राप्य धनुष्पाणिर्मायायोगमरिन्दमः ।
तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ॥ ३४ ॥
विभीषणेन सहितो राजपुत्रः प्रतापवान् ।
अङ्गदेन च वीरेण तथाऽनिलसुतेन च ॥ ३५ ॥
स तं प्राप्येत्यादिश्लोकद्वयमेकान्वयं ॥ ब्रह्मविधानेन निकुम्भिलामसंप्राप्तमित्यादिनोक्त -ब्रह्मवरदानप्रकारेण । मायायोगं मायारूपोपायं । तं इन्द्रजितं विजेतुं प्राप्य तस्थौ । मायायागमिति पाठे मायायागं जेतुं नाशयितुं । तं देशं प्राप्य तस्थावित्यन्वयः ॥ ३४-३५ ।।
विविधममलशस्त्रभास्वरं तद्ध्वजगहनं विपुलं महारथैश्च ।
प्रतिभयतममप्रमेयवेगं तिमिरमिव द्विषतां बलं विवेश ।। ३६ ॥
प्रतिभयतमं अतिशयेन भयंकरं ॥ ३६ ॥
इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चाशीतितमः सर्गः ॥ ८५ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चाशीतितमः सर्गः ।। ८५ ।।