श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाशीतितमः सर्गः
लक्ष्मणेन्द्रजितोर्वीरवादपुरस्सरंसमरप्रवर्तनम् ॥ १ ॥
विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्च्छितः ।
अब्रवीत्परुषं वाक्यं वेगेनाभ्युत्पपात ह ॥ १ ॥
अथेन्द्रजिल्लक्ष्मणयुद्धं – विभीषणवच इत्यादि । अभ्युत्पपात अभिमुखमुज्जगाम ॥ १ ॥
उद्यतायुधनिस्त्रिंशो रथे सुसमलंकृते ।
कालाश्वयुक्ते महति स्थितः कालान्तकोपमः ॥ २ ॥
महाप्रमाणमुद्यम्य विपुलं वेगवदृढम् ।
धनुर्भीमं परामृश्य शरांश्चामित्रशातनान् ॥ ३ ॥
कीदृग्भूतोभ्युज्जगामेत्यत्राह – उद्यतेत्यादिश्लोकद्वयेन ।। सुसमलंकृते सुष्ठु समन्तात् अलंकृते । महाप्रमाणं महादीर्घं, धनुरुद्यम्य शरान् परामृश्य गृहीत्वा । अभ्युज्जगाम अब्रवीच्चेत्यन्वयः । अमित्रान् शत्रून् शातयन्ति खण्डयन्तीत्यमित्रशातनान् ॥ २-३ ॥
तं ददर्श महेष्वासो रथे सुसमलङ्कृतः ।
अलङ्कृतममित्रघ्नं राघवस्थानुजं बली ।
हनुमत्पृष्ठमासीनमुदयस्थरविप्रभम् ॥ ४ ॥
रथे स्थित इति शेषः । अलंकृतं स्वतेजसा भूषितं । हनुमत्पृष्ठमासीनमित्यनुवादेन हनुमान पूर्वं राक्षसैर्युद्धा इन्द्रजित्यागते लक्ष्मणं स्वपृष्ठभागमारोप्य स्थितवानिति गम्यते । उदयस्थरविप्रभमित्यनेन हनुमतः काञ्चनाकृतित्वं लक्ष्मणस्य रविवर्णत्वं चोक्तं ॥ ४ ॥
उवाचैनं समारब्धः सौमित्रिं सविभीषणम् ।
तांश्च वानरशार्दूलान्पश्यध्वं मे पराक्रमम् ॥ ५ ॥
उवाचैनमिति त्रिपादश्लोक एकान्वयः ॥ एतत् अब्रवीत्परुषं इति पूर्वोक्तस्य विवरणं नभवति । तद्विभीषणमात्रंप्रति । इदं तु सर्वान्प्रति । तच्च परुषं । इदं तु पराक्रमविषयं । समारब्धः संरब्धः ॥ ५ ॥
अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम् ।
मुक्तं वर्षमिवाकाशे वारयिष्यथ संयुगे ॥ ६ ॥
मुक्तं मेघमुक्तं । वारयिष्यथेत्येतत् सापहासोक्तिः ॥ ६ ॥
अद्य वो मामका बाणा महाकार्मुकनिस्सृताः ।
विघमिष्यन्ति गात्राणि तूलराशिमिवानलः ॥ ७ ॥
वः युष्माकं । विधमिष्यन्ति धक्ष्यन्ति ॥ ७ ॥
तीक्ष्णसायक निर्भिन्नाञ्शूलशक्त्यष्टितोमरैः ।
अद्य वो गमयिष्यामि सर्वानेव यमक्षयम् ॥ ८ ॥
तीक्ष्णसायकेति लुप्तविभक्तिकं पदं । तीक्ष्णसायकैरित्यर्थः । शूलशक्त्यष्टितोमरैरित्यत्र शक्तियष्टितोमरैरित्यर्थः । सन्धिरार्षः । तीक्ष्णसायकैः शूलशक्त्यष्टितोमरैश्च निर्भिन्नान् वः युष्मान् । यमक्षयं यमनिलयं । गमयिष्यामीत्यन्वयः ॥ ८ ॥
क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि ।
जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः ॥ ९ ॥
जीमूतस्येति नादमात्रे दृष्टान्तः ॥ ९ ॥
रात्रियुद्धे मया पूर्वं वज्राशनिसमैः शरैः ।
शायितौ स्थो मया भूमौ विसंज्ञौ सपुरस्सरौ ॥ १० ॥
आग्रहातिशयेन मयेति द्विरुक्तिः ।। १० ।।
स्मृतिर्न तेऽस्ति वा मन्ये व्यक्तं वा यमसादनम् ।
आशीविषमिव क्रुद्धं यन्मां योद्धुं व्यवस्थितः ॥ ११ ॥
यन्मां योद्धुं व्यवस्थितः अतः स्मृतिर्नास्तीति वा मन्ये । अथवा यमसदनं यमप्रापणं । व्यक्तं प्रत्यक्षं प्रत्यासन्नमिति यावत् । यद्वा सादनं सदनं । स्वार्थेण् प्रत्ययः ॥ ११ ॥
तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मणस्तदा ।
अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् ॥ १२ ॥
अभीतवदनः भयविकृतिशून्यवदनः ॥ १२ ।।
उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया ।
कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान् ॥ १३ ॥
दुर्गम: दुर्लभः । कार्याणां यमप्रापणादीनां । पार: निर्वाहः । उक्तश्च उक्त एव, न कृतः । अतो दुर्बुद्धिरसीत्यर्थः । कस्तर्हि बुद्धिमानित्यत आह् – कार्याणामिति । कार्याणां कर्मणां, आचरणेनेत्यर्थः ॥ १३ ॥
स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित् ।
वचो व्याहृत्य जानीषे कृतार्थोस्मीति दुर्मते ॥ १४ ॥
अर्थस्येति तादर्ध्थसंबन्धे षष्ठी । अर्थस्य वचः प्रयोजनार्थं वचः ॥ १४ ॥
अन्तर्धानगतेनाजौ यस्त्वयाऽऽचरितस्तदा ।
तस्कराचरितो मार्गो नैष वीरनिषेवितः ॥ १५ ॥
दृष्टेप्यस्मत्पराक्रमे कथमित्थं कथ्यत इत्याशङ्क्य मायामयत्वान्न स वीरसंमत इत्याह – अंतर्धानेति ॥ आजौ युद्धे ॥ १५ ॥
यथा बाणपथं प्राप्य स्थितोऽहं तव राक्षस ।
दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे ॥ १६ ॥
एवमुक्तो धनुर्भीमं परामृश्य महाबलः ।
ससर्ज निशितान्चाणानिन्द्रजित्समितिंजयः ॥ १७ ॥
प्रत्यक्षेणापि योद्धुं शक्तोस्मीत्यत आह – यथेति ॥ यथा स्थितोस्मि तथैव, तत्तेजः पूर्वकृतंतेजः । दर्शयस्वेत्यन्वयः ॥ १६-१७ ॥
ते निसृष्टा महावेगाः शराः सर्पविषोपमाः ।
संप्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः ॥ १८ ॥
सर्पविषोपमाः सर्पविषवत् घोराः । पेतुः । भूमाविति शेषः ॥ १८ ॥
शरैर तिमहावेगैर्वेगवान्रावणात्मजः ।
सौमित्रिमिन्द्रजिद्युद्धे विव्याध शुभलक्षणम् ॥ १९ ॥
स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः ।
शुशुभे लक्ष्मणः श्रीमान्विधूम इव पावकः ॥ २० ॥
शरैरिति । अतिविव्याधेत्यन्वयः । व्यवहिताश्च इति व्यवहितप्रयोगः ॥ १९-२० ॥
इन्द्रजित्वात्मनः कर्म प्रसमीक्ष्याधिगम्य च ।
विनद्य सुमहानादमिदं वचनमब्रवीत् ॥ २१ ॥
पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः ।
आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तगाः ॥ २२ ॥
अद्य गोमायुसङ्घाश्च श्येनसङ्घाश्च लक्ष्मण ।
गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया ॥ २३ ॥
[ अद्य यास्यति सौमित्रे कर्णगोचरतां तव ।
तर्जनं यमदूतानां सर्वभूतभयावहम् ] ॥ २४ ॥
क्षत्रबन्धुं सदाऽनार्यं रामः परमदुर्मतिः ।
भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति मया हतम् ॥ २५ ॥
अधिगम्य फलवत्त्वेन दृष्ट्वा ॥ २१-२५ ॥
विशस्तकवचं भूमौ व्यपविद्धशरासनम् ।
हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया ॥ २६ ॥
इति ब्रुवाणं संरब्धं परुषं रावणात्मजम् ।
हेतुमद्वाक्यमत्यर्थं लक्ष्मणः प्रत्युवाच ह ॥ २७ ॥
विशस्तेति । विशस्तं भिन्नं कवचं यस्य तं त्वां रामो द्रक्ष्यतीत्यनुषङ्गेण योजना ॥ २६-२७ ॥
वाग्बलं त्यज दुर्बुद्धे क्रूरकर्मासि राक्षस ।
अथ कस्माद्वदस्येतत्संपादय सुकर्मणा ॥ २८ ॥
अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस ।
कुरु तत्कर्म येनाहं श्रद्दध्यां तव कत्थनम् ॥ २९ ॥
अनुक्त्वा परुषं वाक्यं किंचिदप्यनवक्षिपन् ।
अविकत्थन्वधिष्यामि त्वां पश्य पुरुषाधम ॥ ३० ॥
इत्युक्त्वा पञ्च नाराचानाकर्णापूरिताञ्शितान् ।
निजधान महावेगाँल्लक्ष्मणो राक्षसोरसि ॥ ३१ ॥
अथ इदानीं ॥ २८-३१ ॥
सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः ।
नैर्ऋतोरस्यभासन्त सवितू रश्मयो यथा ॥ ३२ ॥
स शरैराहतस्तेन सरोषो रावणात्मजः ।
सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम् ॥ ३३ ॥
सुपत्रवाजिताः सुपत्रैः संजातवेगाः ॥ ३२-३३ ।।
स बभूव तदा भीमो नरराक्षससिंहयोः ।
विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः ॥ ३४ ॥
विमर्दः संघर्षः ॥ ३४ ॥
उभौ हि बलसंपन्नावुभौ विक्रमशालिनौ ।
उभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ ।
उभौ परमदुर्जेयावतुल्यबलतेजसौ ॥ ३५ ॥
उभौ हीत्यादिसार्धश्लोक एकान्वयः ॥ सुविक्रान्तौ सुष्ठुपराक्रमौ ॥ ३५ ॥
युयुधाते तदा वीरौ ग्रहाविव नभोगतौ ॥ ३६ ॥
युयुधाते इत्याद्यर्थं ॥ ३६ ॥
बलवृत्राविवाभीतौ युधि तौ दुष्प्रधर्षणौ ।
युयुधाते महात्मानौ तदा केसरिणाविव ॥ २७ ॥
बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ ।
नरराक्षससिंहौ तौ प्रहृष्टावभ्ययुध्यताम् ॥ ३८ ॥
बलशब्दो बलशत्र्विन्द्रपरः । नामैकदेशे नामग्रहणात् ।। ३७-३८ ।।
सुसंप्रहृष्टौ नरराक्षसोत्तमौ जयैषिणौ मार्गणचापधारिणौ ।
परस्परं तौ प्रववर्षतुर्भृशं शरौघवर्षेण बलाहकाविव ॥ ३९ ॥
अभिप्रवृद्धौ युधि युद्धकोविदौ शरासिचण्डौ शितशस्त्रधारिणौ ।
अभीक्ष्णमाविव्यधतुर्महाबलौ महाहवे शम्बरवासवाविव ।। ४० ।।
शरौघः मेघपक्षे जलौघः । शरशब्दो हि जलवाची । शरधिरिति समुद्रपर्यायात् ॥ ३९-४० ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाशीतितमः सर्गः ॥ ८८ ।।
इति श्रीगोविन्द राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टाशीतितमः सर्गः ॥ ८८ ॥