श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोननवतितमः सर्गः
लक्ष्मणेन्द्रजितोर्महायुद्धम् ॥ १ ॥
ततः शरं दाशरथिः संधायामित्रकर्शनः ।
ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् ॥ १ ॥
तस्य ज्यातलनिर्घोषं सं श्रुत्वा रावणात्मजः ।
विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत ॥ २ ॥
अथ लक्ष्मणेन्द्रजितोः सुमहान्संप्रहारः – ततः शरमित्यादि ॥ १-२ ॥
तं विवर्णमुखं दृष्ट्वा राक्षसं रावणात्मजम् ।
सौमित्रिं युद्धंसंयुक्तं प्रत्युवाच विभीषणः ॥ ३ ॥
सौमित्रिं प्रति उद्दिश्य ।। ३ ।।
निमित्तान्यनुपश्यामि यान्यस्मिन्रावणात्मजे ।
त्वर तेन महाबाहो भग्न एष न संशयः ॥ ४ ॥
ततः संधाय सौमित्रिर्बाणानग्निशिखोपमान् ।
मुमोच निशितांस्तस्मिन्सर्पानिव महाविषान् ॥ ५ ॥
अस्मिन् यानि मुखवैवर्ण्यस्तब्धत्वादीनि निमित्तानि अनुपश्यामि तैरयं भन्न इति जाने । तेन कारणेन त्वर त्वरस्व ॥ ४-५ ॥
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः ।
मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः ।। ६ ।।
उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः ।
ददर्शावस्थितं वीरं वीरो दशरथात्मजम् ॥ ७ ॥
सोभिचक्राम सौमित्रिं रोषात्संरक्तलोचनः ।
अब्रवीच्चैनमासाद्य पुनः स परुषं वचः ॥ ८ ॥
सर्वसंक्षुभितेन्द्रियः संक्षुभितसर्वेन्द्रियः ॥ ६-८ ॥
किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम् ।
निबद्धस्त्वं सह भ्रात्रा यदा भुवि विवेष्टसे ॥ ९ ॥
त्वं भ्रात्रा सह निबद्ध इति यत् प्रथमे तद्युद्धे तस्मिन्युद्धे । मत्पराक्रमं त्वन्निबन्धनरूपं । न स्मरसि किं । यदा यत्र युद्धकाले । विवेष्टसे विवेष्टितवानसि ॥ ९ ॥
युवां खलु महायुद्धे शक्राशनिसमैः शरैः ।
शायितौ प्रथमं भूमौ विसंज्ञौ स पुरस्सरौ ॥ १० ॥
तमेव पराक्रमं विशिष्टि – युवामिति ॥ १० ॥
स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम् ।
गन्तुमिच्छसि यस्मात्वं मां धर्षयितुमिच्छसि ॥ ११ ॥
यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः ।
अद्य ते दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः ।। १२ ।।
इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम् ।
दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः ।। १३ ।।
व्यक्तं नूनमित्यर्थः ॥ ११ – १३ ॥
ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान् ।
क्रोधाद्विगुणसंब्धो निर्बिभेद विभीषणम् ॥ १४ ॥
क्रोधाद्विगुणसंरब्ध इति । लक्ष्मणादिविषयरोषापेक्षया विभीषणविषये द्विगुणं कुपित इत्यर्थः ॥ १४ ॥
तद्दृष्ट्वेन्द्रजिता कर्म कृतं रामानुजस्तदा ।
अचिन्तयित्वा प्रहसन्नैतत्किंचिदिति ब्रुवन्
मुमोच स शरान्घोरान्संगृह्य नरपुङ्गवः ॥ १५ ॥
तद्दृष्ट्वेत्यादिसार्धश्लोक एकान्वयः नैतत्किचिदिति ब्रुवन् एतदकिंचित्करमिति ब्रुवन्नित्यर्थः ॥ १५ ॥
अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि ।
नैवं रणगताः शूराः प्रहरन्ते निशाचर ॥ १६ ॥
लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव ।
नैवं शूरास्तु युध्यन्ते समरे जयकाङ्क्षिणः ॥
इत्येवं तं ब्रुवाणस्तु शरवर्षैरवाकिरत् ॥ १७ ॥
तस्य बाणैः सुविध्वस्तं कवचं हेमभूषितम् ।
व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् ॥ १८ ॥
अभीतवदन इत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ अकिंचित्करत्वमेवाह – नैवमिति ॥ १६-१८ ।।
विधूतवर्मा नाराचैर्बभूव स कृतत्रणः ।
इन्द्रजित्समरे वीर: प्ररूढ इव सानुमान् ॥ १९ ॥
ततः शरसहस्रेण संक्रुद्धो रावणात्मजः ।
बिभेद समरे वीरं लक्ष्मणं भीमविक्रमः ॥ २० ॥
प्ररूढः प्ररूढवृक्षः ॥ १९-२० ।।
व्यशीर्यत महादिव्यं कवचं लक्ष्मणस्य च ।
कृतप्रतिकृतान्योन्यं बभूवतुरभिद्रुतौ ॥ २१ ॥
कृते प्रतिकृतं अन्योन्यं यस्मिन् कर्मणि तत्तथोक्तं ॥ २१ ॥
अभीक्ष्णं निश्श्वसन्तौ तौ युध्येतां तुमुलं युधि ।
शरसंकृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ ॥ २२ ॥
युध्येतां अयुध्येतां ॥ २२ ॥
सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः ।
ततक्षतुर्महात्मानौ रणकर्मविशारदौ ॥ २३ ॥
ततक्षतु: अन्योन्यं बभञ्जतुः ॥ २३ ॥
बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ ।
तौ शरौघैस्तदा कीर्णौ निवृत्तकवचध्वजौ ॥
स्रवन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव ॥ २४ ॥
यत्तौ यत्नवन्तौ ॥ २४ ॥
शरवर्षं ततो घोरं मुञ्चतोर्भीमनिस्स्वनम् ।
सासारयोरिवाकाशे नीलयोः कालमेघयोः ॥ २५ ॥
तयोरथ महान्कालो व्यत्ययाद्युध्यमानयोः ।
न च तौ युद्धवैमुख्यं श्रमं वाऽप्युपजग्मतुः ॥ २६ ॥
अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः ।
शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः ॥ २७ ॥
शरवर्षमित्यादिश्लोकद्वयमेकान्वयं ॥ सासारयोः सधारापातयोः । धारासंपात आसार: इत्यमरः ॥ २५–२७ ॥
व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्टु च ।
उभौ तौ तुमुलं घोरं चक्रतुर्नरराक्षसौ ॥ २८ ॥
तयोः पृथक्पृथक्भीमः शुश्रुवे तलनिस्वनः ।
प्रकम्पयञ्जनं घोरो निर्घात इव दारुणः ॥ २९ ॥
स तयोर्भ्राजते शब्दस्तदा समरसक्तयोः ।
सुघोरयोर्निष्टनतोर्गगने मेघयोर्यथा ॥ ३० ॥
व्यपेतदोषं व्यपगतमोहत्वदोषं । अस्यन्तौ वाणान्क्षिपन्तौ ॥ २८-३० ।।
सुवर्णपुङ्खैर्नाराचैर्बलवन्तौ कृतव्रणौ ।
प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ ॥ ३१ ॥
ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधि ।
असृङ्गद्धा विनिष्पत्य विविशुर्धरणीतलम् ॥ ३२ ॥
धृतौ अवहितौ ॥ ३१-३२ ॥
अन्ये सुनिशितैः शस्त्रैराकाशे संजघट्टिरे ।
बभञ्जुश्चिच्छिदुश्वान्ये तयोर्बाणाः सहस्रशः ॥ ३३ ॥
तयोः अन्ये केचन बाणा: आकाशे सुनिशितैः शस्त्रैः संजघट्टिरे संघट्टिताः । अन्ये बाणा: बाणान् सहस्रशः बभञ्जुः । चिच्छिदुश्चेति संबन्धः ॥ ३३ ॥
स बभूव रणो घोरस्तयोर्बाणमयश्चयः ।
अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः ॥ ३४ ॥
तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः ।
सपुष्पाविव निष्पत्रौ वने शाल्मलिकिंशुकौ ॥ ३५ ॥
रणः घोरो बभूव । यस्मिन् तयोर्बाणमयश्चयः सत्रे दीप्ताभ्यामग्निभ्यां सहितः कुशमयश्चय इवासीत् । अग्नी गार्हपत्याहवनीयौ ॥ ३४-३५ ॥
चक्रतुस्तुमुलं घोरं सन्निपातं मुहुर्मुहुः ।
इन्द्रजिलक्ष्मणश्चैव परस्परवधैषिणौ ॥ ३६ ॥
सन्निपातं युद्धं ॥ २६ ॥
लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम् ।
अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रत्यपद्यताम् ॥ ३७ ॥
बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ ।
शुशुभाते महावीर्यौ प्ररूढाविव पर्वतौ ॥ ३८ ॥
प्रत्यपद्यतां प्रपद्येतां ॥ ३७-३८ ।।
तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम् ।
बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः ॥ ३९ ॥
तयोरथ महान्कालो व्यत्ययाद्युध्यमानयोः ।
न च तौ युद्धवैमुख्यं श्रमं वाऽप्युपजग्मतुः ॥ ४० ॥
अथ समरपरिश्रमं निहन्तुं समरमुखेष्वजितस्य लक्ष्मणस्य ।
प्रियहितमुपपादयन्महौजाः समरमुपेत्य विभीषणोऽवतस्थे ॥ ४१ ॥
बभ्राजुः । आर्षं परस्मैपदं ।। ३९-४१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोननवतितमः सर्गः ॥ ८९ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोननवतितमः सर्गः ॥ ८९ ॥