[highlight_content]

94 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्नवतितमः सर्गः

रामेण रावणमूलबलवधः ॥ १ ॥

स प्रविश्य सभां राजा दीनः परमदुःखितः ।

निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन् ॥ १ ॥

अथ मूलबलयुद्धं–स प्रविश्येत्यादि ॥ १ ॥

 

अब्रवीच्च स तान्सर्वान्बलमुख्यान्महाबलः ।

रावणः प्राञ्जलिर्वाक्यं पुत्रव्यसनकर्षितः ॥ २ ॥

सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः ।

निर्यान्तु रथसङ्घैच पादातैश्चोपशोभिताः ॥ ३ ॥

रावणः प्राञ्जलिरिति । अनुनयार्थमञ्जलिकरणं ॥ २-३ ॥

 

एकं रामं परिक्षिप्य समरे हन्तुमर्हथ ।

वर्षन्तः शरवर्षेण प्रावृट्काल इवाम्बुदाः ॥ ४ ॥

परिक्षिप्य आवार्य । शरवर्षेण वृष्ट्वा हन्तुमर्हथेत्यन्वयः ॥ ४ ॥

 

अथ वाऽहं शरैस्तीक्ष्णैर्भिन्नगात्रं महारणे ।

भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः ॥ ५ ॥

इत्येतद्राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः ।

निर्ययुस्ते रथैः शीघ्रैर्नानानीकैः सुसंवृताः ॥ ६ ॥

परिघान्पट्टिशांश्चैव शरखङ्गपरश्वधान् ।

शरीरान्तकरान्सर्वे चिक्षिपुर्वानरान्प्रति ॥ ७ ॥

वानराश्च द्रुमाञ्शैलान्राक्षसान्प्रति चिक्षिपुः ॥ ८ ॥

स रामो यदि हन्तुं न शक्येत तथापि भवतां शरैः भिन्नगात्रः स्यात् तेन तस्य वघः सुकरो मे भवेदित्यभिप्रायेणाह–अथ वेति । इदानीं यूयं तं हन्तुं न शक्ताश्चेदिदानीं तीक्ष्णैः शरैर्भवद्भिर्भिन्नगात्रं वो निहन्तास्मि ॥ ५–८ ॥

 

स संग्रामो महान्भीमः सूर्यस्योदयनं प्रति ।

रक्षसां वानराणां च तुमुलः समपद्यत ॥ ९ ॥

ते गदाभिर्विचित्राभिः प्रासैः खङ्गैः परश्वधैः ।

अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः ॥ १० ॥

एवं प्रवृत्ते संग्रामे ह्युद्भूतं सुमहद्रजः ।

रक्षसां वानराणां च शान्तं शोणितविस्रवैः ॥ ११ ॥

सूर्यस्योदयनं प्रति सूर्योदयमारभ्य अन्योन्यं जघ्नुरित्यत्र शिलावृक्षाणामप्युपलक्षणं । राक्षसेभ्योपहृतानि गदाखड्गादीनि राक्षसानामिव वानराणामपि संभवन्तीति वा तथोक्तमिति ज्ञेयं ॥ ९-११ ।।

 

मातङ्गरथकूलाच वाजिमत्स्या ध्वजद्रुमाः ।

शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः ॥ १२ ॥

शरीराण्येव संघाटा: प्लवाः तान् वहन्तीति शरीरसंघाटवहाः ॥ १२ ॥

 

ततस्ते वानराः सर्वे शोणितौघपरिप्लुताः ।

ध्वजवर्मरथानश्वान्नानाप्रहरणानि च ।

आप्लुत्यालुत्य समरे राक्षसानां बभञ्जिरे ॥ १३ ॥

ततस्ते वानराः सर्वे शोणितौघपरिप्लुता इत्यारभ्य राक्षसानां बभञ्जिर इत्यन्तं सार्घश्लोक एकान्वयः ॥ १३ ॥

 

केशान्कर्णललाटांश्च नासिकाश्च प्लवङ्गमाः ।

रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि न्यकर्तयन् ॥ १४ ॥

एकैकं राक्षसं सङ्ख्ये शतं वानरपुङ्गवाः ।

अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा ॥ १५ ॥

तथा गदाभिर्गुवीभिः प्रासैः खङ्गैः परश्वधैः ।

निजघ्नुर्वानरान्धोरान्राक्षसाः पर्वतोपमाः ॥ १६ ॥

रक्षसां केशानिति क्रमेणान्वयः । न्यकर्तयन् चिच्छिदुः ॥ १४–१६ ॥

 

राक्षसैर्युध्यमानानां वानराणां महाचमूः ।

शरण्यं शरणं याता रामं दशरथात्मजम् ॥ १७ ॥

ततो रामो महातेजा धनुरादाय वीर्यवान् ।

प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह ॥ १८ ॥

प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे ।

नाभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना ॥ १९ ॥

राक्षसैरिति ॥ वानरसेनाशरणागतिरियं । राक्षसैर्वध्यमानानामित्याकिंचन्यानन्य -गतिकत्वोक्ति: । शरण्यमिति दयाद्युक्तिः । राममिति परत्वोक्तिः । दशरथात्मज इति सौलभ्योक्तिः ॥ १७–१९ ॥

 

कृतान्येव सुघोराणि रामेण रजनीचराः ।

रणे रामस्य ददृशुः कर्माण्यसुकराणि च ॥ २० ॥

कृतान्येव ददृशुः नतु क्रियमाणानीत्यर्थः ॥ २० ॥

 

चालयन्तं महानीकं विधेमन्तं महारथान् ।

ददृशुस्ते न वै रामं वातं वनगतं यथा ॥ २१ ॥

न केवलं हस्तलाघवातिशयेन कर्मणामदर्शनं रणसंचारलाघवातिशयेन कर्तारमपि न ददृशुरित्याह—चालयन्तमिति ॥ यथा चालनविधमनादिकार्यलिङ्गात् वायुरनुमितो भवति तद्वद्रामोप्यनुमितः । नतु प्रत्यक्षित इत्यर्थः ॥ २१ ॥

 

छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम् ।

बलं रामेण ददृशुर्न रामं शीघ्रकारिणम् ॥ २२ ॥

उक्तमर्थं विशदयति — छिन्नमिति । छिन्नं खण्डितं भिन्नं विदारितं । प्रभग्नं शकलीकृतं । शस्त्रपीडितं हृदयार्पितशल्यं ।। २२ ।।

 

प्रहरन्तं शरीरेषु न ते पश्यन्ति राघवम् ।

इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः ॥ २३ ॥

इन्द्रियार्थेषु तिष्ठन्तं इन्द्रियार्थाननुतिष्ठन्तं अनुभवन्तं । तेनानुभवानुमीयमानमपि भूतात्मानं भूतस्य पञ्चभूतात्मकशरीरस्य आत्मानं जीवात्मानं । प्रजाः यथा न पश्यन्ति तथैव शरीरेषु प्रहरन्तं तेन प्रहारेणानुमीयमानमपि राघवं पुरतश्चक्षुषा नाद्राक्षुरित्यर्थ: । यद्वा इन्द्रियार्थेषु प्रत्यक्षतोनुभूयमानेषु गन्धादिगुणेषु निराश्रयगुणावस्थानासंभवात् सौक्ष्म्येणानुवृत्तं भूतात्मानमिव पुष्पाद्यवयवभूतपृथिव्यादिस्वरूपमिवेत्यर्थः ॥ २३ ॥

 

एष हन्ति गजानीकमेष हन्ति महारथान् ।

एष हन्ति शरैस्तीक्ष्णैः पददातीन्वाजिभिः सह ॥ २४ ॥

इति ते राक्षसाः सर्वे रामस्य सदृशान्रणे ।

अन्योन्यं कुपिता जघ्नुः सादृश्याद्राघवस्य ते ॥ २५ ॥

एष हन्तीत्यादिश्लोकद्वयमेकान्वयं ॥ सदृशान् सादृश्येन प्रतीयमानान् । अन्योन्यं सादृश्यादेव हेतोर्जघ्नुश्चेत्यन्वयः ॥ २४-२५ ॥

 

न ते ददृशिरे रामं दहन्तमरिवाहिनीम् ।

मोहिताः परमास्त्रेण गान्धर्वेण महात्मनः ॥ २६ ॥

राक्षसानां रामादर्शनकारणमाह – न त इति ॥ इदमुपलक्षणं । सादृश्यदर्शनमपि मोहनास्त्रेणेति द्रष्टव्यं । महात्मना महास्वभावेन ॥ २६ ॥

 

ते तु रामसहस्राणि रणे पश्यन्ति राक्षसाः ।

पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे ॥ २७ ॥

अदर्शनवत्सदृशदर्शनवच्चानेकत्वदर्शनं नास्त्रकृतं किंतु भीतिकृतमित्याह – ते त्विति ॥ तुशब्द: पूर्वस्माद्विशेषपरः । मारीचेनाप्युक्तं – अपि रामसहस्राणि भीतः पश्यामि रावण इति ॥ २७ ॥

 

भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः ।

अलातचक्रप्रतिमां ददृशुस्ते न राघवम् ॥ २८ ॥

भ्रमन्तीं रामस्य मण्डलाकारगतिविशेषेष्विति केचित् । निरन्तरज्याकर्षणादिति वयं । अलातचक्रप्रतिमां निर्ज्वालं काष्ठं निरन्तरभ्रमणेनान्तरालाग्रहणाच्चक्रत्वेन प्रतीयमानामिवेत्यर्थः ॥ २८ ॥

 

शरीरनाभि सत्वार्चिः शरारं नेमिकार्मुकम् ।

ज्याघोषतलनिर्घोषं तेजोबुद्धि गुणप्रभम् ॥ २९ ॥

दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान् ।

ददृशू रामचक्रं तत्कालचक्रमिव प्रजाः ॥ ३० ॥

अथ तत्र समरसमये मण्डलीकृतकार्मुकं रामं सकलरिपुनिघातिसुदर्शनत्वेन रूपयति – शरीरेत्यादिना ॥ ज्वाला नेम्यरनाभ्यक्षपुरुषाङ्गं सुदर्शनं इत्युक्तरीत्या चक्रं षडङ्गं भवति । तत्र कोदण्डचक्रमध्यस्थत्वाद्दृढत्वाच्च शरीरं नाभित्वेन दर्शयति – शरीरेति । नाभिः चक्रमध्योन्नतप्रदेशः । शरीरमेव नाभिर्यस्य तत्तथोक्तं । सत्त्वं बलमेवार्चिः ज्वाला यस्य तत् सत्त्वार्चि: । वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियां इत्यमरः । सत्त्वस्य परसन्तापहेतुत्वादर्चिष्ट्वेन निरूपणं । शरा एवाराणि चक्रमध्यशलाकाः यस्य तच्छरारं । सुदर्शनस्य सहस्रारत्वाच्छराणामरत्वरूपणेन युगपत्सहस्रशरसंधानं व्यज्यते । नेमिः आधारश्चक्रप्रान्तः । नेमिभूतं मण्डलीकृतकार्मुकं यस्य तत्कार्मुकनेमीत्यर्थः । एतेन मण्डलीकृतदशायामपि नाभिभूतरामशरीरपरिवेषेण धनुषो महोन्नतत्वमुच्यते । सुदर्शनस्य ज्वालामालया निरन्तरघोषवत्त्वाज्यातलघोषं तद्घोषत्वेन रूपयति – ज्याघोषतलनिर्घोषमिति । तलं ज्याघातवारणं तेन तद्घोषो लक्ष्यते । ज्याघोषतलघोषावेव निर्घोषो यस्य तत्तथोक्तं । तेजः पराक्रम एव बुद्धिः अक्षं यस्य तत्तेजोबुद्धि । यथा प्लवगसैन्यमुलूकजिता जितं इत्यत्र उलूकशब्दो लक्षणया कौशिकशब्दं लक्षयित्वा इन्द्रजितमाह तथा बुद्धिशब्दो बुद्धिजनकाक्षलक्षणया अक्षप्रदेशमाह । गुणः शरीरकान्तिः स एव प्रभा यस्य तत्तथोक्तं । दिव्यास्त्राणां गुणः शक्तिः माहात्म्यं वा तदेव पर्यन्तो धारा यस्य तद्दिव्यास्त्रगुणपर्यन्तं । निघ्नन्तं निघ्नत् । लिङ्गव्यत्यय आर्ष: । किंच कालचक्रं ज्योतिश्चक्रमिव स्थितं । विष्णुपुराणे ‘यत्र कालचक्रं प्रतिष्ठितं’ इति प्रयोगात् । रामचक्रं उक्तरीत्या चक्रमिव स्थितं रामं ददृशुः । ननु यदि रामो मोहनास्त्रेण राक्षसान्संहरेत्तदेन्द्रजितोस्य को विशेषः । उच्यते । नात्र गान्धर्वास्त्रेण मोहनं कृतं । अपितु गान्धर्वप्रयोगे सति वेगातिशयेनाज्ञातस्वपरविभेदतया मोहिताः परस्परं जघ्नुः । यत्र रामो दृष्टः तत्क्षणे तत्र तस्यादर्शनाद्राममुद्दिश्य क्षिप्ताः शराः स्वकीयानेव घ्नन्ति । वेगातिशयादेव नानादिक्षु चक्षुःप्रसरे नानात्वेन दर्शनं । अतएव न रामं शीघ्रकारिण मित्युक्ति: । कार्मुककोटेरलातचक्रप्रतिमत्वं रामस्य चक्रत्वरूपणं च प्रयोगशैव्यादेव संगच्छते । अतएव सुग्रीवादयो मायाबलत्वं शङ्केरन्निति परिहरिष्यति— एतदस्रबलमिति । न ते ददृशिर इत्यस्य श्लोकस्यैवं योजना । गान्धर्वास्त्रेण दहन्तं रामं मोहिताः सन्तो न ददृशिरे । मोहोत्र वेगादग्रहणं । गान्धर्वास्त्रं दाहमात्रे हेतुरिति बोध्यं ॥ २९-३० ॥

 

अनीकं दशसाहस्रं रथानां वातरंहसाम् ।

अष्टादश सहस्राणि कुञ्जराणां तरस्विनाम् ॥ ३१ ॥

चतुर्दश सहस्राणि सारोहाणां च वाजिनाम् ।

पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम् ॥ ३२ ॥

दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः ।

हतान्येकेन रामेण रक्षसां कामरूपिणाम् ॥ ३३ ॥

ते हताश्वा हतरथाः शान्ता विमथितध्वजाः ।

अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः ।। ३४ ।।

अनीकमित्यादि ॥ एकेभैकरथा व्यश्वा पत्तिः पञ्चपदातिका । पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरं ॥ सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः इत्युक्तरीत्या दशसंख्यासंख्यातापत्तिः । पत्तितस्त्रिगुणं सेनामुखं । सेनामुखतस्त्रिगुणो गुल्मः । गुल्मतस्त्रिगुणो गणः । गणतस्त्रिगुणा वाहिनी । तत्रिगुणा पृतना । पृतनातस्त्रिगुणा चमूः । एवंच दशोनत्रिशताधिकसप्तसहस्रसंख्यालक्षणा चमूरनीकशब्देनोच्यते । सहस्राण्येव साहस्राणि दश साहस्राण्यस्मिन्सन्तीति दशसाहस्रं । रथानां दशसहस्राण्यनीकानीत्यर्थः । एकोनत्रिंशल्लक्षाधिकसप्तकोटिसंख्यासंख्याता रथा इत्युक्तं भवति । रथाङ्गं ७ कोटि २९ लक्षं । अष्टादश सहस्राणीत्यनेन अनीकमित्येतद्विभक्तिविपरिणामेनानुषज्यते । अष्टादश सहस्राण्यनीकानीत्यर्थः । विंशतिसहस्राधिकद्वादशलक्षोत्तरत्रयोदशकोटिसंख्यासंख्याता -स्तरस्विनः कुञ्जरा इत्यर्थः । गजाङ्गं १३ कोटि १२ लक्ष २०००० सहस्रं । चतुर्दश सहस्राणीत्यत्रापि अनीकमित्येतद्विपरिणाम्यानुषञ्जनीयम् । चतुर्दश सहस्राण्यनीकानीत्यर्थः । षष्टिसहस्राधिकविंशतिलक्षोत्तरदशकोटिसंख्यासंख्याता: सा रोहा वाजिन इत्यर्थः । तुरङ्ग १० कोटि २० लक्ष सहस्रं ६०००० । पूर्णे शतसहस्रे द्वे अनीकानीत्यर्थः । अशीतिलक्षोत्तरपञ्चचत्वारिंशत्कोट्यधिकशतकोटिसंख्यासंख्याता: पदातयो राक्षसा इत्यर्थः । पदाति १४५ कोटि ८० लक्षम् । वातरंहसामित्यादिविशेषण महिम्ना तद्भिन्ना रथगजतुरगपदातयोसंख्येया इति भावः । अत एवैवमनुसंदधते – नागानामयुतं तुरङ्गनियुतं सार्धं रथानां शतं पादातं शतकोटि कर्तनविधावेकः कबन्धो रणे । एवं कोटिकबन्धकर्तनविधौ किंचिद्ध्वनिः किंकिणी यामार्धं परमात्मनो रघुपतेः कोदण्डघण्टारवः इति ॥ कामरूपिणां रक्षसां संबन्धीनि । रथादिचतुरङ्गबलानि एकेन रामेण दिवंसस्याष्टमेभागे पादोनघटिकाचतुष्टये निहतानीत्यन्वयः ।। ३१-३४ ।।

 

हतैर्गजपदात्यश्चैस्तद्बभूव रणाजिरम् ।

आक्रीडमिव रुद्रस्य क्रुद्धस्य सुमहात्मनः ॥ ३५ ॥

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।

साधु साध्विति रामस्य तत्कर्म समपूजयन् ॥ ३६ ॥

हतैरिति । हतगजाद्युपलक्षितं सुमहात्मनो रामस्य तद्रणाजिरं रुद्रस्य आक्रीडं क्रीडास्थानं श्मशानमिव बभूव । आर्षं नपुंसकत्वं । अचिरेण पुरी लङ्का श्मशानसदृशी भवेत्  इति पूर्वोक्तेः ।। ३५-३६ ।।

 

अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम् ।

विभीषणं च धर्मात्मा हनूमन्तं च वानरम् ॥ ३७॥

जाम्बवन्तं हरिश्रेष्ठं मैन्दं द्विविदमेव च ।

एतदस्रबलं दिव्यं मम वा त्र्यम्बकस्य वा ॥ ३८ ॥

अब्रवीचेत्यादिश्लोकद्वयमेकान्वयं ॥ प्रत्यनन्तरं समीपस्थं । क्षणेनानेन रक्षः प्रतिक्षेपजनितां मायावित्वशङ्कां वारयति – एतस्रद्बलमिति । अत्रान्ते इतिकरणं द्रष्टव्यं अस्त्रबलं अस्त्रप्रयोगशक्तिः । न त्वस्त्रमपि गान्धर्वेण च गान्धवै इति रावणादेरपि तत्संभवकथनात् । त्र्यम्बकस्य वा संहारकाले अस्तीति शेषः ।। ३७ – ३८ ॥

 

निहत्य तां राक्षसवाहिनीं तु रामस्तदा शक्रसमो महात्मा ।

अस्त्रेषु शस्त्रेषु जितक्लमश्च संस्तूयते देवगणैः प्रहृष्टैः ॥ ३९ ॥

संस्तूयत इति वर्तमाननिर्देशन स्तुतेरद्याप्यविच्छिन्नत्वमुच्यते ॥ ३९ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्नवतितमः सर्गः ॥ ९४ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुर्नवतितमः सर्गः ॥ ९४ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.