श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तनवतितमः सर्गः
सुग्रीवेण विरूपाक्षवधः ॥ १ ॥
तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः ।
बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा ॥ १ ॥
अथ विरूपाक्षवधः – तथा तैरित्यादि ॥ १ ॥
रावणस्याप्रसह्यं तं शरसंपातमेकतः ।
न शेकुः सहितुं दीप्तं पतङ्गो ज्वलनं यथा ॥ २ ॥
तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः ।
पावकार्चिःसमाविष्टा दह्यमाना यथा गजाः ॥३॥
प्लवङ्गानामनीकानि महाभ्राणीव मारुतः ।
स ययौ समरे तस्मिन्विधमन्रावणः शरैः ॥ ४ ॥
कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् ।
आससाद ततो युद्धे राघवं त्वरितस्तदा ॥ ५ ॥
एकत: एकस्य अद्वितीयस्य ॥ २-५ ॥
सुग्रीवस्तान्कपीन्दृष्ट्वा भग्नान्विद्रवतो रणे ।
गुल्मे सुषेणं निक्षिप्य चक्रे युद्धेऽद्भुतं मनः ॥ ६ ॥
आत्मनः सदृशं वीरः स तं निक्षिप्य वानरम् ।
सुग्रीवोऽभिमुखः शत्रुं प्रतस्थे पादपायुधः ॥ ७ ॥
अद्भुतमिति क्रियाविशेषणं ॥ ६-७ ॥
पार्श्वतः पृष्ठतचास्य सर्वे यूथाधिपाः स्वयम् ।
अनुजह्नुर्महाशैलान्विविधांश्च महाद्रुमान् ॥ ८ ॥
स नर्दन्युधि सुग्रीवः स्वरेण महता महान् ।
पातयन्विविधांवान्याञ्जगामोत्तमराक्षसान् ॥ ९ ॥
महाद्रुमान् उत्पाठ्येति शेषः । उत्पाट्य अस्य पार्श्वतः पृष्ठतश्चानुजह्नुरिति संबन्धः । यथा महाराजे युद्धाय गच्छति । तदाऽऽयुधानि भृत्या आहरन्ति ॥ तथा वानरराजे युद्धाय निष्क्रामति तदायुधभूतान् शैलवृक्षादीन् समये दातुं वानरा आजह्नुरिति भावः ॥ ८-९ ॥
ममन्थ च महाकायो राक्षसान्वानरेश्वरः ।
युगान्तसमये वायुः प्रवृद्धानगमानिव ॥ १० ॥
राक्षसानामनीकेषु शैलवर्षं ववर्ष ह ।
अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने ॥ ११ ॥
कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः ।
विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः ॥ १२ ॥
अगमान वृक्षान् । पलाशी द्रुद्रुमागमा: इत्यमरः ॥ १०-१२ ॥
अथ संक्षीयमाणेषु राक्षसेषु समन्ततः ।
सुग्रीवेण प्रभग्नेषु पतत्सु निनदत्सु च ॥ १३ ॥
विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः ।
रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ॥ १४ ॥
स तं द्विरदमारुह्य विरूपाक्षो महारथः ।
विनदन्भीमनिर्ह्रादं वानरानभ्यधावत ॥ १५ ॥
सुग्रीवे स शरान्धोरान्विससर्ज चमूमुखे ।
स्थापयामास चोद्विग्रान्राक्षसान्संप्रहर्षयन् ॥ १६ ॥
स तु विद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा ।
चुक्रोध स महाक्रोधो वधे चास्य मनो दधे ॥ १७ ॥
संक्षीयमाणेषु हिंस्यमानेषु । क्षि हिंसायां इति धातुः ॥ १३-१७ ।।
ततः पादपमुद्धृत्य शूरः संप्रधनो हरिः ।
अभिपत्य जघानास्य प्रमुखे तु महागजम् ॥ १८ ॥
संप्रधनः । बहुलग्रहणात् कर्तरि ल्युट् । प्रहर्तेत्यर्थः । प्रमुखे मुखे ॥ १८ ॥
स तु प्रहाराभिहतः सुग्रीवेण महागजः ।
अपासर्पद्धनुर्मात्रं निषसाद ननाद च ॥ १९ ॥
धनुर्मात्रं धनुःप्रमाणं । प्रमाणे द्वयसच्दघ्नञ्मात्रच: इत्यादिना मात्रच्प्रत्ययः ॥ १९ ॥
गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान् ।
राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् ॥ २० ॥
आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः ।
भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ॥ २१ ॥
स हि तैस्याभिसंक्रुद्धः मगृह्य विपुलां शिलाम् ।
विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् २२ ।।
गजात्त्विति श्लोकद्वयमेकं वाक्यं ॥ व्यवस्थितं निश्चलतया स्थितं ॥ २० – २२ ॥
स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुङ्गवः ।
अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा ॥ २३ ॥
तेन खड्गप्रहारेण रक्षसा बलिना हतः ।
मुहूर्तमेभवद्वीरो विसंज्ञ इव वानरः ॥ २४ ॥
स तदा सहसोत्पत्य राक्षसस्य महाहवे ।
मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि ॥ २५ ॥
अपक्रम्य शिलापातपरिहारार्थमन्यतोपसृत्य प्राहरत् । सुग्रीवमिति शेषः ॥ २३ – २५ ॥
मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः ।
तेन खड्नेन संक्रुद्धः सुग्रीवस्य चमूमुखे ।
कवचं पातयामास पद्भ्यामभिहतोपतत् ॥ २६ ॥
स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् ।
तलप्रहारमशनेः समानं भीमनिस्स्वनम् ॥ २७ ॥
मुष्टिप्रहारेत्यादिसार्धश्लोक एकान्वयः ॥ कवचमिति अनेन सुग्रीवस्यापि कवचधारणमस्तीति गम्यते । पद्भ्यामिति । अभिहतः सन् पद्भ्यामपतदित्यन्वयः ॥ २६-२७ ॥
तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम् ।
नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् ॥ २८ ॥
नैपुण्यात् शिक्षापाटवात् ॥ २८ ॥
ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः ।
मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा ।
स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ॥ २९ ॥
ततस्त्विति सार्धश्लोकमेकं वाक्यं ॥ अन्तरं अवकाशं ॥ २९ ॥
ततो न्यपातयत्क्रोधाच्छ्ङ्खदेशे महत्तलम् ॥ ३० ॥
तव इत्यर्धं ॥ शङ्खदेशे ललाटास्थिप्रदेशे । शङ्खो निधौ ललाटास्थि इत्यमरः ॥ ३० ॥
महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ।
पपात रुधिरक्लिन्नः शोणितं च समुद्रमन् ।
स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव ॥ ३१ ॥
महेन्द्राशनीत्यादि सार्धश्लोकमेकं वाक्यं ॥ स्रोतोभ्यः नासादिनवद्वारेभ्यः ॥ ३१ ॥
विवृत्तनयनं क्रोधात्सफेनं रुधिराप्लुतम् ।
ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् ॥ ३२ ॥
विरूपाक्षतरं नेत्रोद्रमनेनात्यन्तविकटाक्षं ॥ ३२ ॥
स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम् ।
करुणं च विनर्दन्तं ददृशुः कपयो रिपुम् ।। ३३ ।।
स्फुरन्तं ऊर्ध्वमुत्पतन्तं । परिवर्तन्तं परिवर्तमानं ।। ३३ ।।
तथा तु तौ संयति संप्रयुक्तौ तरस्विनौ वानरराक्षसानाम् ।
बलार्णवौ सस्वनतुः सुभीमं महार्णवौ द्वाविव भिन्नवेलौ ॥ ३४ ॥
भिन्नवेलौ विदीर्णवेलौ ॥ ३४ ॥
विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन ।
बलं समस्तं कपिराक्षसानामुन्मत्तगङ्गाप्रतिमं बभूव ॥ ३५ ॥
उन्मत्तगङ्गा उद्वेलगङ्गा ॥ ३५ ॥
इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तनवतितमः सर्गः ॥ ९७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तनवतितमः सर्गः ॥ ९७ ॥