श्री सानुदासमुनि मङ्गळम्
कौतस्कुतुकसिंहाय कल्याणगुणशालिने ।
श्रीमते देवराजार्य-मुनीन्द्र-गुरवे नमः ॥
जीयर् नायनार् तिरुवडिहळे शरणं
हारीत वंशवाराशि-राकाशशिमरीचये ।
देवराजाभिधायास्तु देशिकेन्द्राय मङ्गळम् ॥१॥
श्रुतिक्षमाधरोत्तुङ्गशृङ्गे सङ्गतवाटिके ।
पूर्वाषाढावतीर्णाय तुलामास्यस्तु मङ्गळम् ॥२॥
रामानुजगुरोर्वंश-राजीवसुमसम्पदे ।
खण्डद्वयानुसन्धान-स्फुरदोष्ठाय मङ्गळम् ॥३॥
देवराजदयालब्ध-दर्शनार्थामृताब्धये ।
अष्टाक्षरसदासक्त-चेतसेऽस्तु सुमङ्गळम् ॥४॥
देवराजार्यकरुणालब्ध-भूदारमूर्तये ।
तदङ्घ्रिवरिवस्सैकमानसायास्तु मङ्गळम् ॥५॥
योऽर्पयित्वा यादवाद्रिराजे नित्यं पयस्ततः ।
प्रीतान्मातृपदं प्राप तत् कुलेशाय मङ्गळम् ॥६॥
हारिद्रक्षोद मध्याङ्कैः ऊर्ध्वपुण्ड्रैस्सितैर्मृदा ।
पद्माक्षतुळसीस्रग्भ्यां तुन्नगात्राय मङ्गळम् ॥७॥
मल्ली मरुवकाद्यैर्यः ग्रन्थितां कुसुमैस्स्रजम् ।
प्रार्पयद्यादवेशाय तस्मै ते नित्यमङ्गळम् ॥८॥
आचार्यहृदयस्यार्थाः मनोज्ञवरयोगिने ।
दर्शिताः कुरुकापुर्यां येनास्मै नित्यमङ्गळम् ॥९॥
स्वप्नोपदिष्टमार्गेण डेङ्कणीपुरमन्दिरे ।
तत्रागतेन युक्ताय मङ्गळं वरयोगिना ॥१०॥
आचार्यत्वं च शिष्यत्वं शेषरामानुजांशतः ।
युक्ते वरमुनौ प्राप्तो यस्तस्मै नित्यमङ्गळम् ॥११॥
दण्डोपनीतकाषाय शिखाकरकधारिणे ।
श्रीसानुदासमुनये भैक्षभोज्याय मङ्गळम् ॥१२॥
श्रीश-देवी-रथांशाय शिखाग्राञ्जलिधारिणे ।
श्रीसानुदासमुनये नित्यश्रीर्नित्यमङ्गळम् ॥१३॥
जीयर् नायनार् तिरुवडिहळे शरणम्