अभिरामवरार्यस्य
श्रीसानुदासगुरु प्रपत्तिः
श्रीमान् श्रीसानुदासार्यः श्रीशकिङ्करकेसरी ।
वेदान्तद्वयसारज्ञः सन्निधत्तां सदा हृदि॥
रामानुजार्य पदपङ्कजराजहंस !
रामानुजार्यमत-कार्तिकपूर्णचन्द्र !
रामानुजार्य तनयाश्रित तत्पदाब्ज-
श्रीस्सानुदास ! चरणौ शरणं प्रपद्ये ॥१॥
श्रीदेवराजगुरुवर्यमुखारविन्द-
निस्स्यन्दमानसकलार्थ-मरन्द-चोष्य !
वादप्रमाण-जलदुग्ध-विभागशील !
श्री सानुदास ! चरणौ शरणं प्रपद्ये ॥२॥
श्रीदेवराजगुरुवर्यदयैकलब्ध-
भूधारमूर्ति-परिचाररतान्तरात्मन् ।
मारान्त्यसूक्ति-विवृति प्रतिपादिनस्ते
श्रीसानुदास ! चरणौ शरणं प्रपद्ये ॥३॥
यो मातृशब्दमनुवृत्तमवाप नाम
श्रीशात् ततः प्रतिदिनं पयसोऽर्पणेन ।
पुष्पप्रसाधनकृतेस्सितरोचिषस्ते
श्रीसानुदास ! चरणौ शरणं प्रपद्ये ॥४॥
वाग्भूषणार्य-हृदयाख्य-रहस्ययुग्म
भाव प्रकाशितफणीश्वरभाष्यकार !
श्रीयादवाचलशिखाग्रकृताधिवास !
श्रीसानुदास ! चरणौ शरणं प्रपद्ये ॥५॥
पद्माक्षमाल्य ! तुळसीमणिदाम-यज्ञ-
सूत्राभिजात-हृदयस्थल ! संयमीश !
आपादपद्मपरिलम्बिपिशङ्गवासः !
श्रीसानुदास ! चरणौ शरणं प्रपद्ये ॥६॥
दण्डत्रयोज्ज्वल-पवित्र-चतुर्थदण्डी-
भूतं तृतीयपद-मध्यमशब्दजुष्टम् ।
मन्त्राधिराजमिह हस्तवशं दधान !
श्रीसानुदास ! चरणौ शरणं प्रपद्ये ॥७॥
यः प्रत्यहं कुटज-चम्पक-कुन्द-जाति-
मल्ली मुखैर्मरुवकेन च साधु बद्धाम् ।
मालामदात् यदुगिरीशितुरीदृशस्ते
श्रीसानुदास ! चरणौ शरणं प्रपद्ये ॥८॥
आचार्यमानसरहस्य-समग्र भावं
यो राद्धवान् वरवराय ममेश्वराय !
तस्य प्रमादरहित-प्रमितेस्तवाद्य
श्रीसानुदास ! चरणौ शरणं प्रपद्ये ॥९॥
हारिद्रचूर्णसहितैर्बृहदूर्ध्वपुण्ड्रैः
भूरिप्रसाधितभुजाग्रगळोदराढ्य ! (द्य)
हारीतवंश विलसद्-विमलोच्चतार !
श्रीसानुदास ! चरणौ शरणं प्रपद्ये ॥१०॥
इत्थं यतीन्द्रकुल-यादवशैलनिष्ठ-
श्रीदेवराजवरमातृगुरूत्तमस्य ।
सौम्योपयन्तृ मुनिपौत्रमुनिर्व्यधत्त
नित्यप्रपत्तिनुतिमात्मगुणाभिवृद्ध्यै ॥११॥
कौतस्कुतुकसिंहाय कल्याणगुणशालिने ।
श्रीमते देवराजार्य-मुनीन्द्र-गुरवे नमः ॥
जीयर् नायनार् तिरुवडिहळे शरणं