श्री सानुदास मुनीन्द्र विरचितम्
३. कुरङ्गी पञ्चकम्
श्रीमान् श्री सानुदासार्यः श्रीश-किङ्कर-केसरी ।
वेदान्तद्वय-सारज्ञः सन्निधत्तां सदा हृदि ॥ – अभिरामवरार्यस्य
अयि ! कुरङ्गि ! तपोवन-विभ्रमात्
किमु ! गता नु किरातपुरीमिमाम् ।
अह ! न पश्यसि ? दारय मारय
ग्रस पिबेति शुकानपि जल्पतः ॥१॥
(द्रुतविळम्बितवृत्तं)
अयि ! कुरङ्गि ! तुरङ्गम-विक्रमे !
त्यज वनं जवनं गमनं कुरु ।
इह वसन्ति वनेचरनायकाः
सुरभि-लोहित-रूषित-सायकाः ॥२॥
(द्रुतविळम्बितवृत्तं)
जालैर्दिशः प्रवितताः सलिलं विषाक्तं
खाता मही, हुतभुजा ज्वलिता वनान्ताः ॥
व्याधाः पदान्यनुसरन्ति गृहीतचापाः
कं देशमाश्रयति डिम्भवती कुरङ्गी ॥३॥
(वसन्ततिलकावृत्तं)
अग्रे व्याधः करधृतधनुः, पार्श्वयोर्जालमालाः,
पृष्ठे वह्निर्दहति विपिनं, सन्निधौ सारमेयाः ।
एणी, गर्भादलसगमना, शाबकैः पादलीढा,
चिन्ताक्रान्ता गदति हृदये किं करोमि ! क्व यामि ! ॥४॥
(मन्द्राक्रान्तावृत्तं)
आदाय मांसमखिलं स्तनवर्जमङ्गे
मां मुञ्च वागुरिक ! यामि, कुरु प्रसादम् ।
अद्यापि घास-कबळ-ग्रहणानभिज्ञाः
मन्मार्गवीक्षणपराः शिशवो मदीया: ॥५॥
(वसन्ततिलकावृत्तं)
मध्ये ज्या त्रुटिता ; धनुश्च रभसाद्भग्नं, दवाग्ने रयात्
दग्धं जालमकालमेघसलिलैश्शान्तश्च दावानलः ।
निष्क्रान्ता भषकाश्शशानुसरणा व्याधाः, मृगी स्वार्भकैः
सूताऽऽपत्सरितं ततार कृपया देवस्य लक्ष्मीपतेः ॥६॥
(शार्दूलविक्रीडितवृत्तं)
कौतस्कुतुकसिंहाय कल्याणगुणशालिने ।
श्रीमते देवराजार्यमुनीन्द्रगुरवे नमः ॥ – अभिरामवरार्यस्य
* * * * *