अनुभूयमानाः चतस्रःभगवद्रामानुजार्चाः
१. भविष्यदाचार्यः–श्रीशठारि–सन्दृष्टः दक्षिणकुरुकापुर्याम्
श्रीरामानुजचतुर्वेदिमङ्गलाग्रहारस्थः
शठारि-नाथ-दृष्टाय मेषार्द्रा-भव्य-मूर्तये।
महाभूतपुरीशाय स्व-पूर्वार्चा-भुवे नमः॥
२. तानुहन्द–तिरुमेनि, श्रीयादवाद्रि यतिराजः उत्सवार्चा–विजयदशमी
द्विपञ्चाशद् वैष्णवाग्रे स्वार्थे सम्पत्सुताय यः।
विजयाश्वयुजेऽर्चाभूद्-यतिराजाय मङ्गलम्॥ – इळैयविल्लिगुरोः
३. तमरुहन्द–तिुरमेनि, श्रीमन्महाभूतपुरस्था उत्सवार्चा – तै पुष्यम्
स्वावतारस्थलेऽर्चाभून्+मकरे गुरुपुष्यके।
यन्मुदे तु यतीन्द्रस् तं वारणाधीशमाश्रये॥ – तिरुमुडि अहैवु
(रामानुजगुरुं भजे)
४. तानान–तिरुमेनि श्रीरङ्गबृन्दावनस्था सुधालिप्ता मूर्तिः
माघशुद्ध-दशम्यां तु मध्यान्हे मन्दवासरे।
योगिराजस् स्व-भोगीश-भावं स्वे भे समभ्यगात्॥
– मिरिलासालग्रामानन्तार्यस्य प्रपन्नामृते
******