भगवरामानुजाचार्यविरचितं
गद्य त्रयम्
श्रीरङ्गगद्यम्
चिदचित्परतत्त्वानां तत्त्वयाथात्म्यवेदिने ।
रामानुजाय मुनये नमो मम गरीयसे ॥
स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं, क्लेशकर्माद्यशेषदोषासंस्पृष्टं, स्वाभाविक-अनवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजस्सौशील्यवात्सल्यमार्दवार्जवसौहार्द-साम्यकारुण्य-माधुर्यगाम्भीर्यौदार्यचातुर्यस्थैर्य-धैर्य शौर्यपराक्रम सत्यकामसत्यसङ्कल्पकृतित्वकृतज्ञताद्यसंख्येय-कल्याणगुणगणौघमहार्णवं, परब्रह्मभूतं, पुरुषोत्तमं, श्रीरंगशायिनं अस्मत्स्वामिनं, प्रबुद्धनित्यनियाम्यनित्यदास्यैकरसात्मस्वभावोऽहं, तदेकानुभव: तदेकप्रिय: परिपूर्णं भगवन्तं विशदतमानुभवेन निरन्तरमनुभूय, तदनुभवजनितानवधिकातिशयप्रीतिकारिताशेषावस्थोचित – अशेषशेषतैकरतिरूपनित्यकिङ्करो भवानि ॥
स्वात्म नित्यनियाम्य नित्यदास्यैकरसात्म स्वभावानुसन्धान पूर्वकभगवदनवधिकातिशय – स्वाम्याद्यखिलगुणगणानुभवजनितानवधिकातिशयप्रीतिकारिताशेषावस्थोचिताशेषशेषतैकरतिरूपनित्यकैङ्कर्य प्राप्त्युपायभक्ति तदुपायसम्यग् ज्ञान – तदुपाय समीचीनक्रियातदनुगुणसात्त्विकता, आस्तिक्यादि समस्तात्मगुण विहीन:, दुरुत्तरानन्त तद्विपर्ययज्ञानक्रियानुगुणानादि-पापवासनामहार्णवान्तर्निमग्न:, तिलतैलवद्दारुवह्निवत् दुर्विवेचत्रिगुणक्षणक्षरणस्वभावाचेतन-प्रकृतिव्याप्तिरूपदुरत्ययभगवन्मायातिरोहितस्वप्रकाश:, अनाद्यविद्यासंचितानन्ताशक्यविस्रंसन-कर्मपाशप्रग्रथित:, अनागतानन्तकालसमीक्षयाप्यदृष्टसन्तारोपाय:, निखिलजन्तुजातशरण्य, श्रीमन्नारायण, तव चरणारविन्दयुगळं शरणमहं प्रपद्ये॥
एवमवस्थितस्यापि – अर्थित्वमात्रेण परमकारुणिको भगवान् स्वानुभवप्रीत्योपनीतैकान्तिक-आत्यन्तिकनित्यकैंकर्यैकरतिरूपनित्यदास्यं दास्यतीति विश्वासपूर्वकं भगवन्तं नित्यकिंकरतां प्रार्थये॥
तवानुभूतिसम्भूत प्रीतिकारित दासताम् । देहि मे कृपया नाथ! न जाने गतिमन्यथा ॥
सर्वावस्थोचिताशेषशेषतैकरति स्तव । भवेयं पुण्डरीकाक्ष ! त्वमे वैवं कुरुष्व माम् ॥
एवम्भूततत्त्वयाथात्म्यावबोधतदिच्छारहितस्यापि एतदुच्चारणमात्रावलम्बनेन उच्यमानार्थ-परमार्थनिष्ठं मे कारय ॥
अपारकरुणाम्बुधे! अनालोचित विशेषाशेष लोकशरण्य! प्रणतार्ति हर! आश्रितवात्सल्यैकमहोदधे! अनवरत विदित निखिलभूत जात याथात्म्य! अशेषचराचरभूत! निखिलनियमननिरत! अशेष चिदचिद्वस्तु शेषिभूत! निखिलजगदाधार! अखिलजगत्स्वामिन्! अस्मत्स्वामिन्! सत्यकाम! सत्यसङ्कल्प! सकलेतरविलक्षण! अर्थिकल्पक! आपत्सख! काकुत्थ्स! श्रीमन्नारायण! पुरुषोत्तम! श्रीरङ्गनाथ! मम नाथ! नमोस्तु ते ॥
॥ इति श्री भगवद्रामानुजविरचिते श्रीरङ्गगद्यम् समाप्तम् ॥