श्रीवत्सचिह्नमिश्रादिभिरनुगृहीतमिति प्रथितं
॥ धाटीपञ्चकम् ॥
पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनि:
बौद्धध्वान्तनिरासवासरपतिः जैनेभकण्ठीरवः । मायावादिभुजङ्गभङ्गगरुडस्त्रैविद्यचूडामणिः
श्रीरङ्गेशजयध्वजो विजयते रामानुजोsयं मुनिः ॥ १ ॥
पाषण्डषण्डगिरिखण्डनवज्रदण्डाः प्रच्छन्नबौद्धमकरालयमन्थदण्डाः । वेदान्तसारसुखदर्शनदीपदण्डाः रामानुजस्य विलसन्ति मुनेस्त्रिदण्डाः ॥ २ ॥
चारित्रोद्धारदण्डं चतुरनयपथालङ्क्रियाकेतुदण्डं
सद्विद्यादीपदण्डं सकलकलिकथासंहते: कालदण्डम् । त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डं
धत्ते रामानुजार्य: प्रतिकथकशिरो वज्रदण्डं त्रिदण्डम् ॥ ३ ॥
त्रय्या माङ्गल्यसूत्रं त्रियुगपदयुगारोहणालम्बसूत्रं
सद्विद्यादीपसूत्रं सकलकलिकथासंहतेः कालसूत्रम् । प्रज्ञासूत्रं बुधानां प्रशमधनमनःपद्मिनीनालसूत्रं
रक्षासूत्रं मुनीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम् ॥ ४ ॥
पाषण्डसागरमहावडवामुखाग्निः श्रीरङ्गराजचरणाम्बुजमूलदासः । श्रीविष्णुलोकमणिमण्डपमार्गदायी रामानुजो विजयते यतिराजराजः ॥ ५ ॥
॥ इति धाटीपश्चकं समाप्तम् ॥