॥ प्रार्थनापञ्चकम् ॥
यतीश्वर शृणु श्रीमन् कृपया परया तव । मम विज्ञापनमिदं विलोक्य वरदं गुरुम् ॥ १ ॥
अनादिपापरचिताम् अन्तःकरणनिष्ठिताम् । यतान्द्र विषये सान्द्रां विनिर्वासय वासनाम ॥ २ ॥
अपि प्रार्थयमानानां पुत्रक्षेत्रादिसंपदाम् । कुरु वैराग्यमेवात्र हितकारिन् यतीन्द्र नः ॥ ३ ॥
यथाऽपराधा न स्युर्मे भक्तेषु भगवत्यपि । तथा लक्ष्मणयोगीन्द्र यावद्देहं प्रवर्तय ॥ ४ ॥
आमोक्षं लक्ष्मणार्य त्वत्प्रबन्धपरिशीलनैः । कालक्षेपोऽस्तु नः सद्भिः सहवासमुपेयुषाम् ॥ ५ ॥
इत्येतत् सादरं विद्वान् प्रार्थनापञ्चकं पठन् । प्राप्नुयात्परमां भक्तिं यतिराजपदाब्जयोः ॥
॥ इति प्रार्थनापञ्चकं समाप्तम् ।।