यतिराजमङ्गलम्
१. रामानुजमुनि र्जीया द्रामप्रियपिता गुरुः।
इन्द्रनीलममूल्यं यो यादवाद्रौ व्यदर्शयत्॥
२. ओं नमो नारायणाये त्यनुसन्धानतत्परः।
शेषोऽभूद्यो यतीन्द्राय तस्मै स्यान्नित्यमङ्गलम्॥
३. कलिना तामसे लोके तमोनिर्वापणाय यः।
जातो रामानुजब्रध्नः तस्मै स्यान्नित्यमङ्गलम्॥
४. अहिशैलनिवासाय श्रीनिवासाय शार्ङ्गिणे।
शङ्खचक्रप्रदात्रे स्याद्यतिराजाय मङ्गलम्॥
५. शठारिमुनिवर्यस्य सूक्तिमाधुर्य मादरात्।
आस्वाद्य तुष्टचित्ताय यतिराजाय मङ्गलम्॥
६. सङ्कल्पं यामुनार्यस्य जगदुद्धरणाय यः।
पूरयामास तस्मै स्या द्यतिराजाय मङ्गलम्॥
७. गोष्ठीपूर्णा द्रहस्यं तत्कृछ्छ्रा द्ज्ञात्वोच्चगोपुरे।
उच्चै र्जगाद यस्तस्मै मङ्गलं करुणाब्धये॥
८. श्रीभाष्यं व्याससूत्राणां विष्णुभक्तिविवर्धकम्।
अनुजग्राह यस्तस्मै भाष्यकाराय मङ्गलम्॥
९. गद्यत्रयमनल्पार्थं तापत्रयनिबर्हणम्।
योऽन्वग्रही त्सदा तस्मै यतीशायास्तु मङ्गलम्॥
१०. गीतायथार्थवक्ताय मिति गीता मनीषिभिः।
यस्य कीर्ति स्सदा तस्मै भाष्यकाराय मङ्गलम्॥