[highlight_content]

श्रीपादतीर्थश्लोकाः

श्रीमते रामानुजाय नमः

श्रीमद्रामानुजाार्याणां श्रीपादतीर्थश्लोकाः

१. कृपामूर्तिस्स्वयं श्रीशकृपाकाङ्क्षी जगद्गुरुः।

अस्मान्रामानुजश्श्रीमान्पुनातु स्वाङ्घ्रिवारिभिः॥

२. तमो विवस्वानिव मानसं तमो

यः कालयत्यार्द्रमनाश्रितानाम्।

जगद्गुरोस्तस्य यतीश्वरस्य

पुनातु नः पादसरोरुहोदकम्॥

३. यत्पादस्मरणान्मर्त्या स्त्यजन्ति भवसाध्वसम्।

रामानुजस्य तस्य श्रीपादतीर्थं पुनातु नः॥

४. यन्नामस्मरणान्नॄणां सर्वसिद्धिर्भवेदिह।

पुनातु लक्ष्मणार्यस्य तस्य पादोदकं तु नः॥

५. रामानुजमहीभृ छ्छ्रीपादप्रस्रुतनिर्झरः।

स्नापयन्नात्मनः पापान्पुनातु जगतीतले॥

६. विशिष्टाद्वैतसिद्धान्तदर्शनेन जनेक्षणम्।

उन्मीलितवतस्तस्य पादतीर्थं पुनातु नः॥

७. अकर्मनिष्ठताविष्ट पिशााटनक्षमम्।

रामानुजमुनेस्तस्य पादतीर्थं पुनातु नः॥

८. स्वाङ्घ्रे प्रदर्श्य मूकाय यश्शशंसात्मसद्गतिम्।

तस्य श्रीलक्ष्मणार्यस्य पादतीर्थं पुनातु नः॥

९. वर्णाश्रमाविभेदेन रहस्यार्थप्रदो नृणाम्।

यस्तस्य लक्ष्मणार्यस्य पादतीर्थं पुनातु नः॥

१०. उपादिशज्जनौघाय यस्स्वानन्यार्हशेषताम्।

तस्य रामानुजार्यस्य पादतीर्थं पुनातु नः॥

११. हरे र्निष्कामकैङ्कर्य मादिदेश जनाय यः।

रामानुजमुने स्तस्य पादतीर्थं पुनातु नः॥

१२. पञ्ार्याश्रयाद्योऽभू त्सांप्रदायिक तत्त्ववित्।

तस्य श्रीलक्ष्मणार्यस्य पादतीर्थं पुनातु नः॥

१३. द्वयध्यानप्रशान्ताक्षो यस्तोषयति सज्जनान्।

तस्य श्रीलक्ष्मणार्यस्य पादतीर्थं पुनातु नः॥

१४. द्वादशोर्ध्वाछ्छपुण्ड्राङ्ग श्न्द्रमा इव भाति यः।

रामानुजमुने स्तस्य पादतीर्थं पुनातु नः॥

१५. काषायाम्बरसंवीतो भास्कराभो विराजते।

यस्तस्य लक्ष्मणार्यस्य पादतीर्थं पुनातु नः॥

१६. पवित्राङ्कुरसंवीत पल्लवाङ्गुलिमञ्जुलः।

यस्तस्य लक्ष्मणार्यस्य पादतीर्थं पुनातु नः॥

१७. त्रिदण्डदर्शित श्रीशपारम्यविजयध्वजः।

यस्तस्य लक्ष्मणार्यस्य पादतीर्थं पुनातु नः॥

१८. अक्षमालालसद्वक्षाः कटिबद्धोज्ज्वलाम्बरः।

यस्तस्य लक्ष्मणार्यस्य पादतीर्थं पुनातु नः॥

१९. श्रीनिवासपुर स्सूपन्यस्तवेदार्थसंग्रहः।

यस्तस्य लक्ष्मणार्यस्य पादतीर्थं पुनातु नः॥

२०. य श्श्रीभाष्यसमुद्घुष्टसर्वसत्यत्वसुप्रथः।

रामानुजमुने स्तस्य पादतीर्थं पुनातु नः॥

२१. मृदुमन्दस्मिताभाषी शिष्यानुग्रहतत्परः।

यस्तस्य लक्ष्मणार्यस्य पादतीर्थं पुनातु नः॥

२२. श्रीवैष्णवसमृद्धिं यो वर्धयामास सर्वतः।

रामानुजमुने स्तस्य पादतीर्थं पुनातु नः॥

२३. स्वपाण्यर्पितशालाम्बु तोषितेभगिरिप्रभुः।

यस्तस्य लक्ष्मणार्यस्य पादतीर्थं पुनातु नः॥

२४. त्रयेण गद्यश्रीदण्डतत्त्वानां ज्ञानवर्धकः।

यस्तस्य लक्ष्मणार्यस्य पादतीर्थं पुनातु नः॥

२५. शान्तात्मा करुणापूर्णः पूर्णन्द्रसमप्रभः।

यस्तस्य लक्ष्मणार्यस्य पादतीर्थं पुनातु नः॥

२६. शुभ्रयज्ञोपवीताञ्-त्काञ्नाभतनुद्युतिः।

यस्तस्य लक्ष्मणार्यस्य पादतीर्थं पुनातु नः॥

२७. अबोधयछ्छ्रुतीनां य स्सामञ्जस्यं सुसम्मतम्।

रामानुजमुने स्तस्य पादतीर्थं पुनातु नः॥

२८. अर्ाकृतौ मुकुन्दस्य क्रे प्रावण्यमादरात्।

यस्तस्य लक्ष्मणार्यस्य पादतीर्थं पुनातु नः॥

२९. बद्धाञ्जलिं वशीकारमुद्रां विष्णो रबोधयत्।

यस्तस्य लक्ष्मणार्यस्य पादतीर्थं पुनातु नः॥

३०. यत्पादाश्रयतुछ्छो पुण्यलोकविभूतयः।

नरास्तस्य यतीन्द्रस्य पादतीर्थं पुनातु नः॥

error: Content is protected !!