श्रीः
श्रीभाष्यकार–प्रपत्तिः
श्रीमते रामानुजाय नमः
श्रीवैष्णवागमपयोदधि पूर्णचन्द्र
श्रीशाङ्घ्रिपद्म मकरन्दरसज्ञभृङ्ग।
गोविन्दवर्यकरसारसपूजितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (१)
श्रीशैलपूर्णमुखदेशिकलब्धबोध
तुर्याश्रमप्रथित मौनिकुल प्रदीप।
भट्टार्यवर्यकरनीरजपूजितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (२)
काञ्चीपुरीवरदराजकृपैकपात्र
रङ्गेश पूर्णकरुणा परिणामरूप।
वेदान्तदेशिककराम्बुज पूजितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (३)
श्रीयादवाद्रि पतिपादसरोजहंस
श्रीभूतपट्टणरमेश कटाक्ष धन्य।
शेषावतार कलिवैरिकरार्चितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये॥ (४)
श्रीवेङ्कटाचलपति प्रियलक्ष्मणार्य
सर्वज्ञभव्य यतिशेखर सार्वभौम।
वीक्षा वनेशहितकृष्णवनार्चितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (५)
पाषण्डजालतरुपावक सम्यमीन्द्र
जैनेभपञ्चमुखबौद्धतमो दिनेश।
लोकार्यहस्तसरसीरुह पूजितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (६)
चार्वाकशैलपतिवज्र कृपासमुद्र
काणाददानव सुदर्शन मौनिचन्द्र।
श्रीवेङ्कटेशकरपङ्कज पूजितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (७)
मिथ्याकथा कुमतिशीलभुजङ्ग तार्थ्य
कापालिकाम्बुधरमारुत वीतराग।
मन्नाथ केशवगुरूत्तमपूजितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (८)
त्रय्यन्तदेशिकपते वकुळाभिराम
पादारविन्द रससारस सारसाक्ष।
श्रीमत् शठारि मुनिवल्लभ पूजितौ ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (९)
काषायरम्यकमनीय शिखोपवीत
दण्डत्रयोज्ज्वल करोल्लसितोर्ध्वपुण्ड्र।
उद्यद्दिनेश रुचिशोभित पाहि मां ते
श्रीभाष्यकारचरणौ शरणं प्रपद्ये ॥ (१० )
इति श्री–भाष्यकारप्रपत्तिः समाप्ता