अथ श्रीयतिराजमङ्गलानुशानम्
श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वनः ।
कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥ (१) वरवरमुनेः
शेषो वा सैन्यनाथो वा श्रीपति वेति सात्विकैः ।
वितर्क्याय महाप्राज्ञैः यतिराजाय मङ्गलम् ।। (२) अनन्ताल्वारु-कृतिः
नाथपद्माक्षरामार्यपादपङ्कज सेविने ।
सेव्याय सर्वयमिनां यतिराजाय मङ्गळम् ॥ (३)
श्रीकाञ्चीपूर्णमिश्रोक्त रहस्यार्थविदे सदा ।
देवराजप्रियायास्तु यतिराजाय मङ्गळम् ॥ (४) आचार्याणाम्
सन्यासं कुर्वते काञ्च्यां अनन्तसरसीतटे ।
वरदे न्यस्तभाराय भाष्यकाराय मङ्गळम् ॥ (५)
श्रीपराङ्कुशपादाब्ज सुरभीकृत मौलये ।
श्रीवत्सचिह्ननाथाय यतिराजाय मङ्गळम् ॥ (६) वरवरमुनेः
श्रीरङ्गराजकैङ्कर्य-दिव्यसाम्राज्यरक्षणे ।
विशिष्टाद्वैतदीक्षाय यतिराजाय मङ्गळम् ॥ (७)
गत्वा तु शारदापीठं वृत्तिं बोधायनस्य च ।
अवलोक्यागतायास्तु भाष्यकाराय मङ्गळम् ॥ (८)
परमाणुमृषावादिवादिसंहारकारिणे ।
तस्मै भगवते श्रीमद्भाष्यकाराय मङ्गळम् ॥ (९)
शङ्करादिकुदृष्टीनां बाह्यानां निधनाय च ।
श्रीभाष्यं कुर्वते तस्मै यतिराजाय मङ्गळम् ॥ (१०) वरवरमुनेः
श्रीमत्कुरङ्गपूर्णाय श्रीभाष्यं वदते स्वयम् ।
पित्रे संपत्सुतस्यापि यतिराजाय मङ्गळम् ॥ (११)
द्रमिडोपनिषद्व्याख्यां कालयेति कृपाबलात् ।
शासते कुरुकेशं तं यतिराजाय मङ्गळम् ॥ (१२) आचार्याणां
यो मन्त्ररत्नं व्यवृणोत् गद्यत्रयसूक्तिभिः ।
तस्मै प्रसन्नधुर्याय यतिराजाय मङ्गळम् ।। (१३) वरवरमुनेः
कृत्वा यदुगिरीशस्य यौवराज्यं श्रियःपतेः ।
संपत्सुतस्य ताताय यतिराजाय मङ्गळम् ।। (१४)
द्विपञ्चाळद्वैषाग्रे स्वार्थे संपत्सुताय च ।
अर्चारूपर्ग्रहीतेऽस्याद्य यतिराजाय मङ्गळम् ।। (१५)
दत्वा वृषगिरीशस्य शङ्खचक्रे रमापतेः ।
परमप्रीतियुक्ताय यतिराजाय मङ्गळम् ।। (१६)
गोदा वाङ्मनसप्रोक्तमत-कैङ्कर्यकारिणे ।
गोदाग्रजाय मुनये यतिराजाय मङ्गळम् ।। (१७) वरवरमुनेः
श्रीरङ्गाधीश्वराभीष्ट-दिक्पवनेषु सन्ततम् ।
व्यामुग्धमानसायास्तु यतिराजाय मङ्गळम् ।। (१८)
यात्राव्याजेन जगतीम् अपुनात् यस्स्व पादतः ।
पवित्रमूर्तये तस्मै यतिराजाय मङ्गळम् ।। (१९) आचार्याणां
कूरेशकुरुकानाथदाशरथ्यादिदेशिकाः ।
यच्छिष्या भान्ति ते तस्मै यतिराजाय मङ्गळम् ॥ (२०)
यस्यैश्वर्यं च माता च नित्याचार्यश्रियः पतिः ।
वरं पाराङ्कुशीवात्स्यात् यतिराजाय मङ्गळम् ॥ (२१) वरवरमुनेः
प्राचीनानां च वाक्यानां फलाय तपसां नृणाम् ।
जगज्जीवातवे भूयात् यतिराजाय मङ्गळम् ॥ (२२)
मिथोऽनपेक्ष-मोक्षैकदानदक्षरजोङ्घ्रये ।
करुणावक्ष्मलाक्षाय यतिराजाय मङ्गळम् ॥ (२३)
यद्वचः श्रीदया वापि वेनाक्षरमयं भवेत् ।
सार्वज्ञशालिने तस्मै यतिराजाय मङ्गळम् ॥ (२४)
यत्पादसेविनः पुंसः ज्ञानभक्तिविरक्तयः ।
भूषयन्ति स्वयं तस्मै यतिराजाय मङ्गळम् ॥ (२५)
सालग्रामगुरुस्राव्यप्राप्त -स्वपादूतीर्थमन्त्रिणे ।
प्रसन्नगायत्रीशाय यतिराजाय मङ्गळम् ॥ (२६)
प्रकृष्टगुणपूर्णाय प्राप्याय स्वाङ्घिसेविनाम् ।
प्रपन्नसार्थवाहाय यतिराजाय मङ्गळम् ॥ (२७) वरवरमुनिः
लक्ष्मणो बलभद्रश्च तिन्त्रिणी पार्थसद्रथः।
यो भूतभव्यावताराय यतिराजाय मङ्गळम् ॥ (२८) आचार्याणां
शेषांशेनावतीर्णाय श्रीरामानुजयोगिने ।
गुरूणां गुरवे भूयान्नित्यश्रूः नित्यमङ्गलम् ।। (२९) अभिरामवरस्य
मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः ।
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ (३०) वरवरमुनिः
इति श्रीयतिराजमङ्गलानुशानं समाप्तम्