जिततन्ता स्तोत्राणि (षट्)
-:प्रथम जिततन्ता:-
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ १ ॥
देवानां दानवानां च सामान्यमधिदैवतम् ।
सर्वदा चरणद्वन्द्वं व्रजामि शरणं तव ॥ २ ॥
एकस्त्वमसि लोकस्य स्रष्टा संहारकस्तथा ।
अध्यक्षश्चानुमन्ता च गुणमाया समावृतः॥ ३ ॥
संसार सागरं घोरमनन्त क्लेशभाजनम् ।
त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः ॥ ४ ॥
न ते रूपं न चाकारो नायुधानि न चास्पदम् ।
तथाऽपि पुरुषाकारो भक्तानां त्वं प्रकाशसे ॥ ५ ॥
नैव किञ्चित् परोक्षन्ते प्रत्यक्षोऽसि न कस्यचित् ।
नैव किञ्चिदसिद्धन्ते न च सिद्धोऽसि कस्यचित् ॥ ६ ॥
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।
योगानां परमां सिद्धिं परमं ते पदं विदुः ॥ ७ ॥
अहं भीतोऽस्मि देवेश संसारेऽस्मिन् भयावहे ।
पाहि मां पुण्डरीकाक्ष न जाने शरणं परम् ॥ ८ ॥
कालेष्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत ।
शरीरे च गतौ चापि वर्तते मे महद्भयम् ॥ ९ ॥
त्वत्पाद कमलादन्यन्न मे जन्मान्तरेष्वपि ।
निमित्तं कुशलस्यास्ति येन गच्छामि सद्गतिम् ॥ १० ॥
विज्ञानं यदिदं प्राप्तं यदिदं स्थानमार्जितम् ।
जन्मान्तरेऽपि मे देव मा भूत्तस्य परिक्षयः ॥ ११ ॥
दुर्गतावपि जातायां त्वद्गतो मे मनोरथः ।
यदि नाशं न विन्देत तावतास्मि कृती सदा ॥ १२ ॥
न कामकलुषं चित्तं मम ते पादयोस्स्थितम् ।
कामये वैष्णवत्वं तु सर्व जन्मसु केवलम् ॥ १३ ॥
इत्येवमनया स्तुत्या स्तुत्वा देवं दिने दिने ।
किङ्करोऽस्मीति चात्मानं देवायैवं निवेदयेत् ॥ १४ ॥
सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत ।
किङ्करोऽस्मि हृषीकेश भूयो भूयोऽस्मि किङ्करः॥ १५॥
यच्चापराधं कृतवानज्ञानात् पुरुषोत्तम ।
मद्भक्त इति देवेश तत् सर्वं क्षन्तुमर्हसि ॥ १६ ॥
अहंकारार्थकामेषु प्रीतिरद्यैव नश्यतु ।
त्वां प्रपन्नस्य मे देव वर्धतां श्रीमति त्वयि ॥ १७ ॥
क्वाहमत्यन्तदुर्बद्धिः क्व चात्महितवीक्षणम् ।
यद्धितं मम देवेश तदाज्ञापय माधव ॥ १८ ॥
सोऽहं ते देवदेवेश नार्चनादौ स्तुतौ न च ।
सामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे ॥ १९ ॥
उपचारापदेशेन कृतानहरहर्मया ।
अपचारानिमान् सर्वान् क्षमस्व पुरुषोत्तम ॥ २० ॥
-: द्वितीयजितन्ता :-
जितन्ते पुण्डरीकाक्ष पूर्णषाडुण्यविग्रह ।
परानन्द परब्रह्म नमस्ते परमात्मने ।।१।।
नमस्ते पीतवसन नमः कटकधारिणे ।
नमो नीलालकाबद्ध वेणीसुन्दरविग्रह ।।२।।
स्फुरद्वलय केयूर नूपुराङ्गद भूषणैः ।
शोभनै भूषिताकारकल्याणगुणराशये ।।३।।
करुणापूर्णहृदय शङ्खचक्रगदाधर ।
अमृतानन्दपूर्णाभ्यां लोचनाभ्यां विलोकय ।।४।।
कृशं कृतघ्नं दुष्कर्मकारिणं पापभाजनम् ।
अपराध सहस्राणा माकरं करुणाकर ॥५।।
कृपया मां केवलया गृहाण मधुराऽधिप ।
विषयार्णवमग्नं मा मुर्द्धतु त्वमिहार्हसि ।।६।।
पिता माता सुहृद्बन्धुः भ्राता पुत्रस्त्वमेव हि ।
विद्या धनं च काम्यं च नान्यात्कंचित्त्वया विना ।।७।।
यत्र कुत्र कुले वासः येषु केषु भवोऽस्तु मे।
तव दात्यैकभोगे स्यात्सदा सर्वत्र मे रतिः ।।८।।
मनसा कर्मणा वाचा शिरसा वा कथञ्चन ।
त्वां विना नान्यमुद्दिश्य करिष्ये किंचिदप्यहम् ॥९।।
पाहि पाहि जगन्नाथ कृपया भक्तवत्सल ।
अनाथोऽह मधन्योऽहं मकृतार्थः कथञ्चन ।।१०।।
नृशंसः पापकृत्क्रूरो वञ्चको निष्ठुरस्तथा ।
भवार्णवनिमग्नं मा मनन्यं करुणोदधे ॥११।।
करुणापूर्णदृष्टिभ्यां दीनं मामवलोकय ।
त्वदग्रे पतितं त्यक्तुं तावकं नार्हसि प्रभो ॥१२।।
मयाकृतानि पापानि त्रिविधानि पुनःपुनः ।
त्वत्पादपङ्कजं प्राप्तुं नान्य त्वत्करुणां विना ।।१३।।
साधनानि प्रसिद्धानि यागादीन्यब्जलोचन ।
त्वदाज्ञया प्रयुक्तानि त्वामुद्दिश्य कृतानि वै ।।१४।।
भक्त्यैकलभ्यः पुरुषोत्तमोऽसौ जगत्प्रसूतिस्थितिनाशहेतु: ।
अकिञ्चनोऽनन्यगतिश्शरण्य गृहाण मां क्लेशिन मम्बुजाक्ष ।। १५।।
धर्मार्थकाममोक्षेषु नेच्छा मम कदाचन ।
त्वत्पादपङ्कजास्वादजीवितं दीयतां मम ||१६।।
कामये तावकत्वेन परिचर्यानुवर्तनम् ।
नित्यकिङ्करभावेन परिगृह्णीष्व मां प्रभो ॥१७।।
लोकवैकुण्ठनामानं दिव्यं षाड्गुण्यविग्रहम् ।
अवैष्णवाना मप्राप्यं गुणत्रयविवर्जितम् ।।१८।।
नित्यसिद्धैस्समाकीर्णं तन्मयै: पाञ्चाकालिकै: ।
सभाप्रासादसंयुक्तं वनैश्चोपवनैयुतम् ।।१९।।
वापीकूपतटाकैश्व वृक्षषण्डैस्सुमण्डितम् ।
अप्राकृतंसुरैवन्द्य मयुतार्कसमप्रभम् ।।२०।।
प्रकृष्टसत्व (राशिन्तं) सम्पन्नं कदाद्रक्ष्याभिचक्षुषा ।
क्रीडन्तं रमयासार्धं लीलाभूमिषु केशवम् ॥२१।।
मेघश्यामीवशालाक्षंकदाद्रक्ष्यमिचक्षुषा ।
उन्नसञ्चास्वदनंबिम्बोष्टंशोभिताननम् ।।२२।।
विशालवक्षसंश्रीशं कम्बुग्रीवं जगद्गुरुम् ।
अजानुबाहुपरिध मुन्नतांसंमधुद्विषम् ।।२३।।
विशालनिम्ननाभिन्तमापीनजधनंहरिम् ।
करभोसंश्रियः कान्तं कदाद्रक्ष्यामिचक्षुषा ।।२४।।
शङ्कचक्रगदापद्मैरङ्कितं पादपङ्कजम् ।
शरच्चन्द्रशताक्रान्तनस्वराजिविराजितम् ।।२५।।
सुरासुरैर्वन्द्यमान मृषिभिर्वन्दितंसदा ।
कदावा देव मूर्धानं मामकमण्डयिप्यति ।।२६।।
कदागम्भीरयावाचाश्रियायुक्तोजगत्पति: ।
चामरव्यग्रहस्तंमा मेवंकुर्वितिवक्ष्यति ।।२७।।
कदाहं राजराजेन गणनाथेनचोदितः ।
चरेयं भगवत्पादपरिचर्यानुवृत्तिषु ।।२८।।
शान्ताय च विशुद्धाय तेजसपरमात्मने ।
नमो भगवतेविष्णो वासुदेवामितद्युते ।।२९।।
नमस्सर्वगुणातीत षड्गुणायादिवेधसे ।
सत्यज्ञानाननन्तगुणब्रह्मणे परमात्मने ।।३०।।
चतुःपंञ्चनवव्यूहं दशद्वादशमूर्तये ।
नमस्ते वासुदेवाय ब्रह्मणे चतुरात्मने ।।३१।।
नमोऽनन्तायविश्वाव विश्वातीतायचक्रिणे ।
नमस्ते पञ्चकालज्ञ पञ्चकालपरायण ।।३२।।
पञ्चकालैकमनसां त्वमेव गतिरव्ययः ।
परेव्योम्निस्थितं देवं निरवद्यं निरञ्जनम् ।।३३।।
अप्रमेयमजंविष्णु मब्जनाभंसुरेश्वरम् ।
वागतीतंपरंशान्तं शरणंत्वांगतोऽस्म्यहम् ॥३४।।
वर्ये द्वन्द्वातिरिक्तं त्वां कौस्तुभाद्भासि वक्षसम् ।
विश्वरूपं विशालाक्षं कदाद्रक्ष्यामि चक्षुषा ।।३५।।
मोक्षं सालोक्यसारूप्यं प्रार्थये न कदाचन ।
इच्छाम्यहं महाबाहो सायुज्यं तव सुव्रत ॥३६।।
सकलावरणातीत किङ्करोऽस्मि तवानघ ।
पुन:पुन:किङ्करोऽस्मितवाहं पुरुषोत्तम ।।३७।।
आसनाद्यनुयागान्तमर्चनं यन्मया कृतम् ।
भोगहीनं क्रियाहीनं मन्त्रहीनमभक्तिकम् ॥३८।।
तत्सर्वं क्षम्यतां देव दीनं मामात्मसात्कुरु ।
इति स्तोत्रेण देवेशं स्तुत्वा मधुनिषूदनम् ॥३९।।
यागावसानसमये देवदेवस्य चक्रिण: ।
नित्यं किङ्करभावेन स्वात्मानं विनिवेदयेत् ॥४०।।
-: तृतीयजितन्ता :-
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥१।।
विज्ञापनमिदं देव श्रुणु त्वं पुरुषोत्तम ।
नरनारायणाभ्यांच श्वेतद्वीपनिवासिभिः।।२।।
नारदाद्यैर्मुनिगणस्सनकाद्यैश्च योगिभिः ।
ब्रह्मेशाद्यैस्सुरगणैः पञ्चकालपरायणैः ॥३।।
युज्यसे पुण्डरीकाक्ष दिव्यमंत्रमहर्षिभिः ।
पाषण्डधर्मसङ्कीर्णे भगवद्भक्तिवर्जिते ।।४।।
कलौ जातोऽस्मि देवेश सर्वधर्मबहिष्कृते ।
कथं त्वामसमाचारः पापप्रसवभूरहम् ॥५।।
अर्चयामि दयासिंधो पाहि मां शरणागतम् ।
तापत्रयदवाग्नौ मां दह्यमानं सदा विभो ।।६।।
त्राहि मां पुण्डरीकाक्ष केवलं कृपया तव ।
जन्ममृत्युजराव्याधि दु:खसंतप्तदेहिनम् ॥७।।
पालयाशु दृशा देव तव कारुण्यगर्भया ।
इन्द्रियाणि मया जेतुमशक्य पुरुषोत्तम ।।८।।
शरीरं मम देवेश व्याधिभिः परिपीडितम् ।
मनो मेपुण्डरीकाक्ष विषयानेवधावति।।९।।
वाणीममहृषीकेशमिथ्यापारुष्यदूषिता ।
एवंसाधनहीनोऽहं किङ्करिष्यामि केशव ।।१०।।
रक्षमां कृपयाकृष्ण भवाब्धौपतितंसदा ।
अपराधशतंचैव सहस्रमयुतं तथा ॥ ११ ।।
अर्बुदंचाप्यसङ्खयेयं करुणाब्धे क्षमखमे ।
यच्चापराधं कृतवानज्ञानात्पुरुषोत्तम ।।१२।।
मद्भक्तइति देवेश तत्सर्वं क्षन्तुमर्हसि ।
अज्ञत्वादप्यशक्तत्वा दालस्याद्दुष्टभावनात् ।।१३।।
कृतापराधं कृपणं क्षन्तुमर्हसि मांविभो ।
अपराधसहस्राणि क्रियन्तेऽहर्निशंमया ।।१४।।
तानि सर्वाणि मे देव क्षमख मधुसूदन ।
यजन्मनः प्रभृति मोहवशंगतेन नानाऽपराधशत माचरितं मया ते ।
अन्तर्बहिश्च सकलं तव पश्यतो मे क्षन्तुं त्वं मर्हसिहरे करुणावशेन ।। १५।।
कर्मणा मनसा वाचा या चेष्टा मम नित्यशः ।
केशवाराधने सा स्या जन्मजन्मान्तरेष्वपि ।।१६।।
-: चतुर्थ जितन्ता :-
जितन्ते पुण्डरीकाक्ष नमस्त विश्वभावन ।
नवस्ते वासुदेवाय शान्तानन्त चिदात्मने ।।१।।
अध्यक्षाय स्वतन्त्राय निरपेक्षाय शासते ।
अच्युतायाविकाराय तेजसांनिधये नमः ।।२।।
प्रधानपुरुषेशाय नमस्तेपुरुषोत्तम ।
क्लेशकर्माद्यसंस्पृष्ट पूर्णषाड्गुण्यमूर्तये ।।३।।
त्रिभिर्ज्ञानबलैश्वर्यवीर्यशक्त्यन्तरात्मने ।
त्रियुगाय नमस्तेऽस्तु नमस्ते चतुरात्मने ।।४।।
चतुःपञ्चनवव्यूह दशद्वादशमूर्तये ।
अनेकमूर्तये तुभ्य ममूर्तायैकमूर्तये ।।५।।
नारायण नमस्तेस्तु पुण्डरीकायतेक्षण ।
सुभ्रललाटसुनस सुस्मिताधरपल्लव ॥ ६ ।।
पीनवृत्तायतभुज श्रीवत्सकृतलक्षण ।
तनुमध्य विशालाक्ष पद्मनाभ नमोऽस्तु ते ।।७।।
विलास विक्रमाक्रान्त त्रैलोक्यचरणाम्बुज ।
नमस्तेपीतवसन स्फुरन्मकरकुण्डल ।।८।।
स्फुरत्किरीटकेयूर हारकौस्तुभभूषण ।
पञ्चायुध नमस्तेऽस्तु नमस्ते पाञ्चकालिक ॥९।।
पञ्चकालपरैकान्तियोगक्षेममहाप्रभो ।
नित्यज्ञानबलैश्वर्य भोगोपकरणाच्युत ॥ १० ।।
नमस्तेब्रह्मरुद्रादि लोकयात्रापरिच्छद ।
जन्मप्रभृति दासोऽस्मि शिष्योऽस्मि तनयोऽस्मि ते ।। ११ ।।
त्वंच स्वामी गुरुर्माता पिताच मम माधव ।
अपित्वां भगवन् ब्रह्मन् शर्वश्शक्रो महर्षयः ।।१२।।
द्रष्टुं यष्टुमपिस्तोतुं नहिस्मर्तुमनीशते ।
तापत्रयमहाग्राह भीषणे भवसागरे ।। १३ ।।
मज्जतां नाथ नौरेषा प्रणतिस्त्वत्पदार्पिता ।
अनाथाय जगन्नाथ शरण्य शरणार्थिने ।।१४ ।।
प्रसीद सीदमे मह्यं नमस्ते भक्तवत्सल |
मन्त्रहीनं क्रियाहीनं भक्तिहीनं यदर्चनम् ॥ १५ ।।
तत्क्षन्तव्यं प्रपन्नानामपराधसहोह्यसि ।
अज्ञानाद्यदिवा ज्ञनादशुभं यत्कृतं मया ॥१६।।
क्षन्तव्यं तदशेषेण दास्येनच गृहाण मां ।
सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत ।
किंकरोस्मि हृषीकेश भूयोभूयोऽस्मिकिङ्करः ।।१७ ।।
-: पञ्चमजितन्ता :-
जितन्ते पुण्डरीकाक्ष नमस्तेविश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥१।।
नमस्ते वासुदेवाय शन्तानन्तजितात्मने ।
अजिताय नमस्तुभ्यं घाड्गुण्यनिधये नमः ।।२।।
महाविभूतिसंस्थाय नमस्ते पुरुषोत्तम ।
सहस्रशिरसेतुभ्यं सहस्रचरणायते ।।३।।
सहस्रबाहवे तुभ्यं सहस्रनयनायते ।
अमूर्ताय नमस्तुभ्यमेकमूर्ताय ते नमः ॥ ४ ।।
अनेकमूर्तये तुभ्यमक्षरायचते नमः ।
व्यापिने वेदवेद्याय नमस्ते परमात्मने ।।५।।
चिन्मात्ररूपिणे तुभ्यं नमस्त्रय्यन्तमूर्तये ।
अणिष्ठाय स्थविष्ठाय माहिष्ठायच ते नमः ॥ ६ ।।
नेदिष्टाय यविष्ठाय सर्वान्तर्यामिणे नमः ।
वर्षिष्ठाय जविष्ठाय कनिष्ठायच ते नमः ।। ७ ।।
पञ्चात्मने नमस्तुभ्यं सर्वान्तर्यामिणेनमः ।
कल्पनाक्रोडरूपाय सृष्टिस्थित्यन्तहेतवे ।। ८ ।।
नमस्ते गुणरूपाय गुणरूपादिवर्तिने ।
व्यस्तायच समस्ताय समस्तव्यस्तरूपिणे ।। ९ ।।
आदिमध्यान्तशून्याय (स) तत्त्वस्थाय नमो नमः ।
प्रणवप्रतिपाद्याय नमः प्रणवरूपिणे ।। १० ।।
लोकयात्राप्रसिध्द्यर्थं स्रष्टृब्रह्मादिरूपिणे ।
नमस्तुभ्यं नृसिंह्मादिमूर्तिभेदाय विष्णवे ।।११।।
विपाकैः कर्मभिः क्षोभैरस्पृष्टवपुषे नमः।
नमोब्रह्मण्यदेवाय तेजसां निधये नमः ।।१२।।
नित्यसाधारणानेक लोकरक्षापरिच्छिदे ।
सच्चिदानन्दरूपाय वरेण्याय नमोनमः ।।१३।।
यजमानाय यज्ञाय यष्टव्याय नमोनमः ।
इज्याफलनमस्तुभ्यं नमइज्यादिशीलिने ।।१४ ।।
नमःपरमहंसाय नमःस्सत्त्वगुणायच ।
स्थितायपरमव्योम्नि भूयोभूयो नमोनमः ।। १५ ।।
संसारविषयावर्तसंकुलेच महाभरे ।
अपारे दुस्तरेऽगाधे पतितं कर्मभिस्वकैः ॥१६ ।।
अनाथमतिगम्भीरं दययापरयाहरे ।
मामुद्धर दयासिन्धो सिन्धोरस्मात्सुदुस्तरात् ।।१७ ।।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् ।
तत्सर्व क्षम्यतां देव दीनं मामात्मसात्कुरु ।। १८ ।।
नाहं हितं नजानामि त्वां व्रजाम्येव केवलं ।
बुध्वैवंनयगेविन्द मुक्त्युपायेन वर्त्मना ।।१९।।
त्वमेव वेत्सि श्रेयोमे नेदमेतदितीतिच ।
बुद्धियोगंच मे देहि येनत्वानुपयाम्यहम् ।।२०।।
-: षष्ठीजितन्ता :-
जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ।।१।।
श्रीमद्वारवतीनाथ वर्धतां विजयी भवान् ।
दिव्यं त्वदीयमैश्वर्यं निर्मर्याद विजृम्भितम् ।।२।।
देवीभूषायुधैर्नित्यै र्मुक्तैर्मोक्षैकलक्षणैः ।
सत्वोत्तरै स्तवदीयैश्च सङ्गस्थाभि रस स्तव ।।३।।
प्राकारगोपुरवर प्रासादमणिमण्टपाः ।
शालिमुद्गतिलादीनां शाला शैलकुलोज्वला ॥४।।
रत्नकाञ्चनकौशेय क्षौमक्रमुकशालिकाः ।
शय्या गृहाणि पर्यङ्कवर्यास्स्थूलासनानि च।।५।।
कनत्कनकभृङ्गार पतद्ग्रहकलाचिकाः ।
छत्रचामरमुख्याश्च सन्तु नित्याःपरिच्छदाः।।६।।
अस्तु निस्तुलमव्यग्रं नित्यमभ्यर्चनं तव ।
पक्षेपक्षे विज़ृम्भन्तां मासिमासि महोत्सवाः ।।७।।
मणिकाञ्चनचित्राणि भूषणान्यम्बराणि च ।
काश्मीरसार कस्तूरिकर्पूराद्यनुलेपनम् ।।८।।
कोमलानि च दामानि कौसुमैस्सौरभोद्गमैः ।
धूपाःकर्पूरदीपाश्च सन्तु नित्याः परिच्छदाः ।।९।।
नृत्तगीतयुतंवाद्यं नित्य मत्र विवर्धताम् ।
श्रोत्रेषु न स्सुधाधाराः कल्पन्तां काहलस्वनाः ।।१०।।
कन्दमूल फलोदग्रं कालेकाले चतुर्विधम् ।
सूपापूप घृतक्षीर शर्करासहितंहविः ।।११।।
घनसार शिरोदग्रं क्रमुकाष्टदळान्वितम् ।
विमलानिचताम्बूलदळानि स्वीकुरुप्रभो।।१२।।
प्रीतिभीति युतोभूयानित्यंपरिजनस्तव ।
भक्तिमन्तोपभुञ्जन्तु पौराजानपदैस्सह ।।१३।।
धरणीधनरत्नानि वितरन्तु चिरन्तव ।
कैङ्कर्यमखिलंसर्वे कुर्वंतुक्षोणिपालकाः ।।१४।।
प्रेमदिग्धदृशस्मेरं प्रेक्षमाणास्त्वदाननम् ।
महान्तस्सन्ततं सन्तोमङ्गळानि प्रयुञ्जताम् ॥ १५।।
पापमेवमवन्नित्यं पालयन् कुशलीभवान् ॥
जितन्तास्तोत्रं सम्पूर्णम् .
-:*:-