श्रीकाञ्चीपूर्णमुनिभिरनुगृहीतम्
॥ श्रीदेवराजाष्टकम् ॥
श्रीमत्काञ्चीमुनिं वन्दे कमलापतिनन्दनम् । वरदांघ्रिसदासङ्गरसायनपरायणम् ॥ देवराजदयापात्रं श्रीकाञ्चीपूर्णमुत्तमम् । रामानुजमुनेर्मान्यं वन्देऽहं सज्जनाश्रयम् ॥
नमस्ते हस्तिशैलेश! श्रीमन्नम्बुजलोचन! । शरणं त्वां प्रपन्नोऽस्मि प्रणतार्तिहराच्युत! ॥ १ ॥
समस्तप्राणिसन्त्राणप्रवीणकरुणोल्बणाः । विलसन्तु कटाक्षास्ते मय्यस्मिन् जगतां पते! ॥ २ ॥
निन्दिताचारकरणं निवृत्तं कृत्यकर्मणः । पापीयांसममर्यादं पाहि मां वरदप्रभो! ॥ ३ ॥
संसारमरुकान्तारे दुर्व्याधिव्याघ्रभीषणे । विषयक्षुद्रगुल्माढ्ये तृषापादपशालिनि ॥ ४ ॥
पुत्रदारगृहक्षेत्रमृगतृष्णाम्बुपुष्कले । कृत्याकृत्यविवेकान्धं परिभ्रान्तमितस्ततः ॥ ५ ॥
अजस्रं जाततृष्णार्तमवसन्नाङ्गमक्षमम् । क्षीणशक्तिबलारोग्यं केवलं क्लेशसंश्रयम् ॥ ६ ॥
सन्तप्तं विविधैर्दुःखैर्दुर्वचैरेवमादिभिः । देवराज! दयासिन्धो! देवदेव! जगत्पते! ॥ ७ ॥
त्वदीक्षणसुधासिन्धुवीचिविक्षेपशीकरैः । कारुण्यमारुतानीतैः शीतलैरभिषिञ्च माम् ॥ ८ ॥
|| इति श्रीदेवराजाष्टकं समाप्तम् ||