अथ श्रीसुदर्शनशतकम् ।
श्रीमत्सुदर्शनभगवते नमः
रङ्गेशविज्ञप्तिकरामयस्य चकार चक्रेशनुतिम् निवृत्तये ।
समाश्रयेऽहम् वरपूरणीम् यः तम् कूरनारायण नामकम् मुनिम् ॥
अथ ज्वालावर्णनम्
सौदर्शन्युज्जिहाना दिशि विदिशि तिरस्कृत्य सावित्रमर्चिः
बाह्याबाह्यान्धकारक्षतजगदगदङ्कारभूम्ना स्वधाम्ना ।
दोःखर्जूदूरगर्जद्विबुधरिपुवधूकण्ठवैकल्यकल्या
ज्वाला जाज्वल्यमाना वितरतु भवताम् वीप्सयाऽभीप्सितानि ॥ १ ॥
प्रत्युद्यातम् मयूखैर्नभसि दिनकृतः प्राप्तसेवम् प्रभाभिः
भूमौ सौमेरवीभिर्दिवि वरिवसितम् दीप्तिभिर्देवधाम्नाम् ।
भूयस्यै भूतयेः वः स्फुरतु सकलदिग्भ्रान्तसान्द्रस्फुलिङ्गम्
चाक्रम् जाग्रत्प्रतापम् त्रिभुवनविजयव्यग्रमुग्रम् महस्तत् ॥ २ ॥
पूर्णे पूरैस्सुधानां सुमहति लसतस्सोमबिम्बालवाले
बाहाशाखावरुद्धक्षितिगगन दिवश्चक्रराजद्रुमस्य ।
ज्योतिश्छद्मा प्रवालः प्रकटितसुमनस्सम्पदुत्तम्सलक्ष्मीम्
पुष्णन्नाशामुखेषु प्रदिशतु भवताम् सप्रकर्षम् प्रहर्षम् ॥ ३ ॥
आरादारात् सहस्राद्विसरति विमतक्षेपदक्षाद्यदक्षात्
नाभेर्भास्वत्सनाभेर्निजविभवपरिच्छिन्नभूमेश्च नेमेः ।
आम्नायैरेककण्ठैः स्तुतमहिम महो माधवीयस्य हेतेः
तद्वो दिक्ष्वेधदमानम् चतसृषु चतुरः पुष्यतात् पूरुषार्थान् ॥ ४ ॥
श्यामम् धामप्रसृत्या क्वचन भगवतः क्वापि बभ्रुः प्रकृत्या
शुभ्रम् शेषस्यभासा क्वचन मणिरुचा क्वापि तस्यैव रक्तम् ।
नीलम् श्रीनेत्रकान्त्या क्वचिदपि मिथुनस्यादिमस्येव चित्राम्
व्यातन्वानम् वितानश्रियमुपचिनुताच्छर्म वश्चक्रभानम् ॥ ५ ॥
शम्सन्त्युन्मेषमुच्छोषितपरमहसो भास्वतः कैटभारेः
इन्धे सन्ध्येव नक्तञ्चरविलयकरी या जगद्वन्दनीया ।
बन्धूकच्छायबन्धुच्छविघटितघनच्छेदमेदस्विनी सा
राथाङ्गी रश्मिभङ्गी प्रणदतु भवताम् प्रत्यहोत्थानमेनः ॥ ६ ॥
साम्यम् धूम्याप्रवृद्ध्या प्रकटयति नभस्तारकाजालकानि
स्फौलिङ्गीम् यान्ति कान्तिम् दिशति यदुदये मेरुरङ्गारशङ्काम् ।
अग्निर्मग्नार्चिरैक्यम् भजति दिननिशावल्लभौ दुर्लभाभौ
ज्वालावर्ताविवस्तः प्रहरणपतिजम् धाम वस्तद्धिनोतु ॥ ७ ॥
दृष्टेऽधिव्योमचक्रे विकचनवजपासन्निकाशे सकाशं
स्वर्भानुर्भानुरेष स्फुटमिति कलयन्नागतो वेगतोऽस्य ।
निष्टप्तो यैर्निवृत्तो विधुमिव सहसा स्रप्रष्टुमद्यापि नेष्टे
घर्माशुं ते घटन्तामहित विहतये भानवो भास्वरा वः ॥ ८ ॥
देवम् हेमाद्रितुङ्गम् पृथुभुजशिखरम् बिभ्रतीम् मध्यदेशे
नाभिद्वीपाभिरामामर विपिनवतीम् शेषशीर्षासनस्थाम् ।
नेमिम् पर्यायभूमिम् दिनकरकिरणादृष्टसीमः परीत्य
प्रीत्यै वश्चक्रवालाचल इव विलसन्नस्तु दिव्यास्त्ररश्मिः ॥ ९ ॥
एकम् लोकस्य चक्षुर्द्विविधमनुपदत्कर्म नम्रत्रिनेत्रम्
दात्रर्थानाम् चतुर्णाम् गमयदरिगणम् पञ्चताम्षड्गणाढ्यम् ।
सप्तार्चिश्शोषिताष्टापदनवकिरणश्रेणिरज्यद्दशाशाम्
पर्यस्याद्वश्शताङ्गावयवपरिबृढ ज्योतिरीतीस्सहस्रम् ॥ १० ॥
उच्छण्डे यच्छिखण्डे निबिडयति नभः क्रोडमर्कोऽटतिद्याम्
अभ्यस्य प्रौढतापग्लपितवपुरपो बिभ्रतीरभ्रपङ्क्तीः ।
धत्ते शुष्यत्सुधित्सो विधुरपमधुनः क्षौद्रकोशस्य साम्यम्
रक्षन्त्वस्त्रप्रभोस्ते रचितसुचरितव्युष्टयो घृष्टयोः वः ॥ ११ ॥
पद्मौघो दीर्घिकाम्भस्यवनिधरतटे गैरिकाम्बुप्रपातः
सिन्दूरम् कुञ्जराणाम् दिशिदिशि गगने सान्ध्यमेघप्रबन्धः ।
पारावारे प्रवाळो वनभुवि च तथा प्रेक्ष्यमाणः प्रमुग्धैः
साधिष्ठम् वः प्रमोदम् जनयतु दनुज द्वेषिणस्त्वैषराशिः ॥ १२ ॥
भानो भा नो त्वदीया स्फुरति कुमुदिनीमित्र ते कुत्र तेजः
ताराः स्तारादधीरोऽस्यनल न भवतः स्वैरमैरम्मदार्चिः ।
शम्सन्तीत्थम् नभःस्था यदुदयसमये चक्रराजाम्शवस्ते
युष्माकम् प्रौढताप प्रभवभवगदापक्रमाय क्रमन्ताम् ॥ १३ ॥
जग्ध्वा कर्णेषु दूर्वाङ्कुरमरिसुदृशामक्षिषु स्वर्वधूनाम्
पीत्वा चाम्भश्चरन्त्यस्सवृषमनुगता वल्लवेनादिमेन ।
गावोवश्चक्र भर्तुः परममृतरसम् प्रश्रितानाम् दुहानाः
ऋद्धिम् स्वालोकलुप्तत्रिभुनतमसः सानुबन्धाम् ददन्ताम् ॥ १४ ॥
सेनाम् सेनाम् मघोनो महति रणमुखेऽलम् भयम् लम्भयन्तीः
उत्सेकोष्णालुदोष्णाम् प्रथमदिविषदामावलीर्याऽवलीढे ।
विश्वम् विश्वम्भराद्यम् रथपदधिपतेर्लीलया पालयन्ती
वृद्धिस्सा दीधितीनाम् वृजिनमनुजनुर्मार्जयत्वार्जितम् वः ॥ १५ ॥
तप्ता स्वेनोष्मणेव प्रतिभट वपुषामस्त्रधारा धयन्ती
प्राप्तेव क्षीबभावम् प्रतिदिशमसकृत् तन्वती घूर्णितानि ।
वम्शास्थिस्फोटशब्दं प्रकटयति पटून् यावहन्त्यट्टहासान्
भाः सा वः स्यन्दनाङ्गप्रभुसमुदयिनी स्पन्दताम् चिन्तिताय ॥ १६ ॥
देवैरासेव्यमानो दनुजभटभुजादण्ड दर्पोष्मतप्तैः
आशारोधोऽतिलङ्घी लुठदुडुपटली लक्ष्यडिण्डीरपिण्डः ।
रिङ्गज्वाला तरङ्गत्रुटितरिपुतरु व्रातपातोग्रमार्गः
चाक्रो वश्शोचिरोघश्शमयतु दुरितापह्नवम् दाववह्निम् ॥ १७ ॥
भ्राम्यन्ती संश्रितानाम् भ्रमशमनकरी च्छन्नसूर्यप्रकाशा
सूर्यालोकानुरूपा रिपुहृदयतमस्कारिणी निस्तमस्का ।
धारासम्पातिनी च प्रकटितदहना दीप्तिरस्त्रेशितुर्वः
चित्रा भद्राय विद्रावितविमतजना जायतामायताय ॥ १८ ॥
निन्ये वन्येव काशी दवशिखिजटिलज्योतिषा येन दाहम्
कृत्या वृत्त्या विलिल्ये शलभसुलभया यत्र चित्रप्रभावे ।
रुद्रोऽप्यद्रेर्दुहित्रा सह गहनगुहाम् यद्भयादभ्ययासीत्
दिश्याद्विश्वार्चितो वः स शुभमनिभृतं शौरिहेतिप्रतापः ॥ १९ ॥
उद्यन् बिम्बादुदारान्नयनजलहिमम् मार्जयन् निर्जरीणाम्
अज्ञानध्वान्तमूर्च्छाकरजनिरजनीभञ्जनव्यञ्जिताध्वा ।
न्यक्कुर्वाणो ग्रहाणाम् स्फुरणमपहरन्नर्चिषः पावकीयाः
चक्रेशार्कप्रकाशो दिशतु दश दिशो व्यश्नुवानम् यशो वः ॥ २० ॥
वर्गस्य स्वर्गधाम्नामपि दनुजनुषाम् विग्रहम् निग्रहीतुम्
दातुम् सद्योऽबलानाम् श्रियमतिशयिनीम् पत्र भङ्गानुवृत्या ।
योक्तुम् देदीप्यते या युगपदपि पुरो भूतिमय्या प्रकृत्या
सा वो नुद्यादविद्याम् द्युतिरमृतरसस्यन्दिनी स्यान्दनाङ्गी ॥ २१ ॥
दाहम् दाहम् सपत्नान् समरभुवि लसद्भस्मना वर्त्मना यान्
क्रव्यादप्रेतभूताद्यभिलषितपुषा प्रीतकापालिकेन ।
कङ्कालैः कालधौतम् गिरिमिव कुरुते यः स्वकीर्तेर्विहर्तुम्
घृष्टिस्सान्दृष्टिकम् वः सकलमुपनयत्वायुधाग्रेसरस्य ॥ २२ ॥
दग्धानाम् दानवानाम् सभसितनिचयैरस्थिभिस्सर्वशुभ्राम्
पृथ्वीम् कृत्वापि भूयो नवरुधिरझरीकौतुकम् कौणपेभ्यः ।
कुर्वाणाम् बाष्पपूरैः कुचतटघुसृणक्षालनैस्तद्वधूनाम्
पापम् पापच्यमानम् शमयतु भवताम् शस्त्रराजस्य तेजः ॥ २३ ॥
मागान्मोषम् ललाटानल इति मदनद्वेषिणा ध्यायतेव
स्रष्ट्रा प्रोन्निद्रवासाम्बुजदलपटलप्लोषमुत्पश्यतेव ।
वज्राग्निर्मा स्म नाशम् व्रजदिति चकितेनव शक्रेण बद्धैः
स्तोत्रैरस्त्रेश्वरस्य द्यतु दुरितशतम् द्योतमाना द्युतिर्वः ॥ २४ ॥
॥ इति ज्वालावर्णनम् सम्पूर्णम् ॥
अथ नेमिवर्णनम्
शस्त्रास्त्रम् शात्रवाणाम् शलभकुलमिव ज्वालयो लेलिहाना
घौषैः स्वैः क्षोभयन्ति विघटितभगवद्योगनिद्रान् समुद्रान् ।
व्यूढोरः प्रौढचार त्रुटितपटुरटत्कीकसक्षुण्णदैत्या
नेमिस्सौदर्शनी वः श्रियमतिशयिनीं दाशताशताब्दम् ॥ २५ ॥
धारा चक्रस्य तारागणकणविततिद्योतितद्युप्रचारा
पारवाराम्बुपूर क्वथनपिशुनितोत्तालपाताल यात्रा ।
गोत्राद्रिस्फोट शब्दप्रकटितवसुधामण्डली चण्डयाना
पन्थानम् वः प्रदिश्यात् प्रशमनकुशला पाप्मनामात्मनीनम् ॥ २६ ॥
यात्रा या त्रातलोका प्रकटित वरुणत्रासमुद्रे समुद्रे
सत्वासत्वासहोष्मा कृतसगरुदगस्पन्ददाना ददाना ।
हानिम् हा निन्दितानाम् जगति परिषदाम् दानवीनाम् नवीनाम्
चक्रे चक्रेशनेमिश्शमुपहरतु सप्रभावप्रभा वः ॥ २७ ॥
यत्रामित्रान् दिधक्षौ प्रविशति बलिनो धाम निस्सीमधाम्नि
ग्रस्तापस्तापशीर्णैः प्रगुणितसिकतो मौक्तिकैश्शौक्तिकेयैः ।
राशिर्वारामपाराम् प्रकटयति पुनर्वैरिदाराश्रुपूरैः
वृद्धिम् निर्याति निर्यापयतु स दुरितान्यस्त्रराजप्रधिर्वः ॥ २८ ॥
कक्ष्यातौल्येन कद्रूतनयफणमणीन् कल्यदीपस्य युञ्जन्
पातालान्तः प्रपाती निखिलमपि तमः स्वेन धाम्ना निगीर्य ।
दैतेयप्रेयसीनाम् वमति हृदि हतप्रेयसाम् भूयसाम् यः
चक्राग्रीयाग्रदेशो दहतु विलसितम् भूयसावम्हसाम् वः ॥ २९ ॥
कृष्णाम्भोदस्य भूषा कृतनयननयव्याहतिर्भार्गवस्य
प्राप्तामावेदयन्ति प्रतिभटसुदृशामुद्भटाम् बाष्पवृष्टिम् ।
निष्टप्ताष्टापदश्रीस्समममरचमूगर्जितैरुज्जिहाना
कीर्तिम् वः केतकीभिः प्रथयतु सदृशीम् चञ्चला चक्रधारा ॥ ३० ॥
वप्राणाम् भेदिनीम् यः परिणतिमखिलश्लाघनीयाम् दधानः
क्षुण्णाम् नक्षत्रमालाम् दिशि दिशि विकिरन् विद्युता तुल्यकक्ष्यः ।
निर्याणेनोत्कटेन प्रकटयति नवम् दानवारिप्रकर्षम्
चक्राधीशस्य भद्रो वशयतु भवताम् स प्रधिश्चित्तवृत्तिम् ॥ ३१ ॥
नाकौकश्शत्रुजत्रुत्रुटनविघटितस्कन्धनीरन्ध्रनिर्यत्
नव्यक्रव्यास्रहव्यग्रसनरसलसज्ज्वालजिह्वालवह्निम् ।
यम् दृष्ट्वा साम्युगीनम् पुनरपि विदधत्याशिषो वीर्यवृद्ध्यै
गीर्वाणा निर्वृणाना वितरतु स जयम् विष्णुहेतिप्रधिर्वः ॥ ३२ ॥
धन्वाध्वन्यस्य धारा सलिलमिव धनम् दुर्गतस्येव दृष्टिः
जात्यन्धस्येव पङ्गोः पदविहृतिरिव प्रीणनी प्रेमभाजाम् ।
पत्युर्मायाक्रियायाम् प्रकटपरिणतिर्विश्वरक्षाक्षमायाम्
मायामायामिनीम् वः त्रुटयतु महति नेमिरस्त्रेश्वरस्य ॥ ३३ ॥
त्राणम् या विष्टपानाम् वितरति च यया कल्प्यते कामपूर्तिः
न स्थातुम् यत्पुरस्तात् प्रभवति कलयाऽप्योषधीनामधीशः ।
उन्मेषो याति यस्या न समयनियतिम् सा श्रियम् वः प्रदेयात्
न्यृत्यद्योतमाना त्रिपुरहरदृशम् नेमिरस्त्रेश्वरस्य ॥ ३४ ॥
नक्षत्रक्षोदभूतिप्रकर विकिरण श्वेतिताशावकाशा
जीर्णैः पर्णैरिवद्याम् जलधरपटलैश्चूर्णितैरूर्णुनावा ।
आजावाजानवाजानत रिपु जनतारण्यमावर्तमाना
नेमिर्वात्येव चाक्रि प्रणुदतु भवताम् सम्हतम् पापतूलम् ॥ ३५ ॥
क्षिप्त्वा नेपथ्यशाटीमिव जलदघटाम् जिष्णुकोदण्डचित्राम्
तारापुञ्जम् प्रसूनाञ्जलिमिव विपुले व्योमरङ्गे विकीर्य ।
निर्वेदग्लानिचिन्ता प्रभृतिपरवशानन्तरा दानवेन्द्रान्
नृत्यन्नानालयाढ्यम् नट इव तनुताम् शर्म चक्रप्रधिर्वः ॥ ३६ ॥
दौर्गत्यप्रौढतापप्रतिभटविभवा वित्तधाराः स्सृजन्ती
गर्जन्ती चीत्क्रियाभिर्ज्वलदनलशिखोद्दामसौदामनीका ।
अव्यात् क्रव्याद्वधूटीनयनजलभरैर्दिक्षु नव्याननाव्यान्
पुष्यन्ती सिन्धुपूरान् रथचरणपतेर्नेमिकादम्बिनी वः ॥ ३७ ॥
सन्दोहम् दानवानामजसमजमिवाssलभ्य जाज्वल्यमाने
वह्नावह्नाय जुह्वत्त्रिदशपरिषदे स्वस्वभागप्रदायी ।
स्तोत्रैर्बह्मादिगीतैर्मुखरपरिसरम् श्लाघ्यशस्त्रप्रयोगम्
प्राप्तस्सङ्ग्रामसत्रम् प्रधिरसुररिपोः प्रार्थितम् प्रस्नुताम् वः ॥ ३८ ॥
॥ इति नेमिवर्णनम् सम्पूर्णम् ॥
अथ अरवर्णनम्
उत्पातालात कल्पान्यसुरपरिषदामाहवप्रार्थिनीनाम्
अध्वानध्वावबोध क्षपणचणतमः क्षेपदीपोपमानि ।
त्रैलोक्यागार भारोद्वहनसहमणिस्तम्भ सम्पत्सखानि
त्रायन्तामन्तिमायाम् विपदि सपदि वोऽराणी सौदर्शननानि ॥ ३९ ॥
ज्वालाजालप्रवालस्तबकितशिरसो नाभिमावालन्त्यः
सिक्ता रक्ताम्बुपूरैश्शकलितवपुषाम् शास्त्रवानीकिनीनाम् ।
चक्राक्रीडप्ररूढाभुजगशय भुजोपघ्ननिघ्नप्रचाराः
पुष्यन्त्यः कीर्तिपुष्पाण्यरकनकलताः प्रीतये वः प्रथन्ताम् ॥ ४० ॥
ज्वालाजालाब्धिमुद्रम् क्षितिवलयमिवाबिभ्रती नेमिचक्रम्
नागेन्द्रस्येव नाभेः फणपरिषदिव प्रौढरत्नप्रकाशा ।
दत्ताम् वो दिव्यहेतेर्मतिमरविततिः ख्यातसाहस्रसङ्ख्या
सङ्ख्यावत्सङ्घ चित्तश्रवणहरगुणस्यन्दिसन्दर्भगर्भाम् ॥ ४१ ॥
ब्रह्मेशोपक्रमाणाम् बहुविधविमतक्षोदसम्मोदितानाम्
सेवायै देवतानाम् दनुजकुलरिपोः पिण्डिकाद्यङ्ग भाजाम् ।
तत्तद्धामान्तसीमाविभजनविधये मानदण्डायमाना
भूमानम् भूयसा वो दिशतु दशशती भास्वराणामराणाम् ॥ ४२ ॥
ज्वालाकल्लोलमालानिबिडपरिसराम् नेमिवेलाम् दधाने
पूर्वेणाक्रान्तमध्ये भुवनमयहविर्भोजिना पूरुषेण ।
प्रस्फूर्जत्प्राज्यरत्ने रथपदजलधावेधमानैः स्फुलिङ्गैः
भद्रम् वो विद्रुमाणाम् श्रियमरविततिर्विस्तृणाना विधत्ताम् ॥ ४३ ॥
नासीरस्वैरभग्नप्रतिभटरुधिरासारधारावसेकान्
एकान्तस्मेर पद्मप्रकरसहचरच्छायया प्राप्य नाभ्या ।
मुक्तानीवाङ्कुराणि स्फुरदनलशिखादर्शितप्राक्प्रवालानि
अव्याघातेन भव्यम् प्रददतु भवताम् दिव्यहेतेरराणि ॥ ४४ ॥
दावोल्कामण्डलीव द्रुमगणगहने बाडवस्येव वह्नेः
ज्वालावृद्धिर्महाब्धौ प्रवयसि तमसि प्रातरर्कप्रभवे ।
चक्रे या दानवानाम् हयकरटिघटासङ्कटे जाघटीति
प्राज्यम् सा वः प्रेदेयात् पदमरपरिषत् पद्मनाभायुधस्य ॥ ४५ ॥
तापाद्दैत्यप्रतापातपसमुचितात् त्रायमाणम् त्रिलोकीम्
लोलैर्ज्वालाकलापैः प्रकटयदभितश्चीनपट्टाञ्चलानि ।
छत्राकारम् शलाका इव कनककृताश्शौरिदोर्दण्डलग्नम्
भूयासुर्भूषयन्त्यो रथचरणमरस्फूर्तयः कीर्तये वः ॥ ४६ ॥
नाभीशालानिखाताम् नहनसमुचिताम् वैरिलक्ष्मीवशानाम्
सम्यद्वारीहृतानाम् समनुविदधती काञ्चना लानपङ्क्तिम् ।
राज्या च प्राज्यदैत्य व्रजविजयमहोत्तम्भितानाम् भुजानाम्
तुल्या चक्रारमाला तुलयतु भवताम् तूलवच्छत्रुलोकम् ॥ ४७ ॥
आनेमेश्चक्रवालात्त्विष इव वितताः पिण्डीकाचण्डदीप्तेः
दीप्ता दीपा इवाराद्गहनरणतमीगाहिनः पूरुषस्य ।
शाणे रेखायितानाम् रथचरणमये शत्रुशौण्डीर्यहेम्नाम्
रेखाः प्रत्यग्रलग्नाम् इव भुवनमरश्रेणयः प्रीणयन्तु ॥ ४८ ॥
दीप्तैरर्चिः प्ररोहैर्दलवति विधृते बाहुनालेन विष्णोः
उद्यत्प्रद्योतनाभम् प्रथयति पुरुषम् कर्णिकावर्णिकायाम् ।
चूडालम् वेदमौलिम् कलयति कमले चक्रनाम्नोपलक्ष्ये
लक्ष्मीम् स्फारामराणि प्रतिविदधतु वः केसरश्रीकराणी ॥ ४९ ॥
धातुस्यन्दैरमन्दैः कलुषितवपुषो निर्झराम्भः प्रतापान्
अर्चिष्मत्या स्वमूर्त्या रथचरणगिरेर्नेमिनाभितटस्य ।
व्याकुर्वाणाsरपङ्क्तिर्वितरतु विभुताविस्तृतिम् वित्तकोटी
कोटीरच्छत्रपीठीकटककरिघटाचामरस्रग्विणीम् वः ॥ ५० ॥
॥ इति अरवर्णनम् सम्पूर्णम् ॥
अथ नाभिवर्णनम्
ऐकेयेन द्वादशानामशिशिरमहसाम् दर्शयन्ती प्रवृत्तिम्
दत्तः स्वर्लोक लक्ष्म्यास्तिलक इव मुखे पद्मरागद्रवेण ।
देयाद्दैतेयदर्पक्षतिकरणरण प्रीणिताम्भोजनाभिः
नाभिर्नाभित्वमुर्व्यास्सुरपति विभवस्पर्शि सौदर्शनी वः ॥ ५१ ॥
शस्त्रश्यामे शताङ्गक्षितिभृति तरलैरुत्तरङ्गे तुरङ्गै-
स्त्वङ्गन्मातङ्गनक्रे कुपितभटमुखच्छायमुग्धप्रवाले ।
अस्तोकम् प्रस्नुवाना प्रतिभटजलधौ पाटवम् वाडवस्य
श्रेयो वस्सम्विधत्ताम् श्रितदुरितहरा श्रीधरास्त्रस्य नाभिः ॥ ५२ ॥
ज्वालाचूडालकालानलचलनसमाडम्बरा साम्परायम्
यासावासाद्य माद्यत्सुरसुभटभुजास्फोटकोलाहलाढ्यम् ।
दैत्यारण्यम् दहन्ती विरचयति यशोभूतिशुभ्राम् धरित्रीम्
सा वश्चक्रस्य नक्रस्यदमृदितगजत्रायिणी नाभिरव्यात् ॥ ५३ ॥
विन्दन्ती सान्ध्यमर्चिर्विदलितवपुषः प्रत्यनीकस्य रक्तैः
स्फायन्नक्षत्रराशिर्दिशिदिशि कणशः कीकशैः कीर्यमाणैः ।
नाकौकः पक्ष्मलाक्षीनवमदहसितच्छायया चन्द्रपादान्
राथाङ्गी विस्तृणाना रचयतु कुशलम् पिण्डिकायामिनी वः ॥ ५४ ॥
निस्सीमम् निस्सृताया भुजधरणिधराघाटतः कैटभारेः
आशाकूलङ्कषर्द्धेरहितबलमहाम्भोधिमासादयन्त्याः ।
चक्रज्वालापगायाश्चलदरलहरीमालिकादन्तुरायाः
बिभ्रत्यावर्तभावम् भ्रमयतु भुवने पिण्डिका वः प्रशस्तिम् ॥ ५५ ॥
पाणौकृत्वाहवाग्रे प्रतिभटविजयोपार्जितां वीरलक्ष्मीम्
आनीतायास्ततोऽस्याः स्वसविधमसुरद्वेषिणा पूरुषेण ।
प्रासादम् वासहेतोर्विरचितमरुणै रश्मिभिस्सूचयन्ती
नाभिर्वो निर्मिमीताम् रथचरणपतेर्निवृतिम् निर्विघाताम् ॥ ५६ ॥
डिण्डीरापाण्डुगण्डैररियुवतिमुखैः पिण्डिका कृष्णहेतेः
उच्चण्डाश्रुप्रवर्षैरुपरततिलकैरुक्तशौण्डीर्यचर्या ।
द्वित्रग्रामाधिपत्यद्रुहिण मदमषीदूषिताक्षक्षमाभृत्
सेवाहेवाकपाकम् शमयतु भवताम् कर्म शर्म प्रतीपम् ॥ ५७ ॥
पर्याप्तामुन्नतिम् या प्रथयति कमलम् या तिरोभाव्य भाति
स्रष्टुस्सृष्टेर्दवीयः कुवलयमहितम् या बिभर्ति स्वरूपम् ।
भूम्ना स्वेनान्तरिक्षम् कबलयति च या सा विचित्रा विधत्ताम्
दैतेयारातिनाभिर्द्रविणपतिपदद्वेषिणीम् सम्पदम् वः ॥ ५८ ॥
वाणी वाङ्गैश्चतुर्भिस्सदसि सुमनसाम् द्योतमानस्वरूपा
बाह्वन्तःस्था मुरारेरभिमतमखिलम् श्रीरिव स्पर्शयन्ती ।
दुर्गेवोग्राकृतिर्या त्रिभुवनजननस्थेमसम्हारधुर्या
मर्यादालङ्घनम् वः क्षपयतु महती हेतिवर्यस्य नाभिः ॥ ५९ ॥
स्रग्भिस्सन्तानजाभिर्मधुरमधुरसस्यन्दसन्दोहिनीभिः
पाटीरैः प्रौढचन्द्रातपचयसुषमालोपनैर्लेपनैश्च ।
धूपैः कालागरूणामपि सुरसुदृशो विस्रमर्चासु यस्याः
गन्धम् रुन्धन्ति सा वश्चिरमसुरभिदो नाभिरव्यादभव्यात् ॥ ६० ॥
अम्हस्सम्ह्रुत्य दग्ध्वा प्रीतिजनि जनितम् प्रौढसम्सारवन्या
दूराध्वन्यानधन्यान्महति विनतिभिर्धामनि स्थापयन्ती ।
विश्रान्तिम् शाश्वतीम् या नयति रमयताम् चक्रराजस्य नाभिः
सम्यन्मोमुह्यमानत्रिदशरिपुदशासाक्षिणी साऽक्षिणी वः ॥ ६१ ॥
॥ इति नाभिवर्णनम् सम्पूर्णम् ॥
अथ अक्षवर्णनम्
श्रुत्वा यन्नामशब्दम् श्रुतिपथकटुकम् देवनक्रीडनेषु
स्वर्वैरिस्वैरवत्यो भयविवशधियः कातरन्यस्तशाराः ।
मन्दाक्षम् यान्त्यमन्दम् प्रतियुवति मुखैर्दर्शितोत्प्रासदर्पैः
अक्षम् सौदर्शनम् तत्क्षपयतु भवतामेधमानां धनायाम् ॥ ६२ ॥
व्यस्तस्कन्धम् विशीर्णप्रसवपरिकरम् प्रत्तपत्रोपमर्दम्
सम्यद्वर्षासु तर्षातुरखगपरिषत्पीतरक्तोदकासु ।
अक्षम् रक्षस्तरूणामशनिवदशनैरापतन्मूर्ध्नि मूर्ध्नि
स्तादस्त्राधीशितुर्वः स्तबकितयशसे द्वेषिणां प्लोषणाय ॥ ६३ ॥
दीक्षाम् सङ्गामसत्रे महति कृतवतो दीप्तिभिस्सम्हताभिः
जिह्वाले सप्तजिह्वे दनुजकुलहविर्जुह्वतो नेमिजुह्वा ।
वैकुण्ठास्त्रस्य कुण्डम् महदिव विलसत्पिण्डिकावेदिमध्ये
दिश्याद्दिव्यर्द्धिदेश्यम् पदमिह भवतामक्षतोन्मेषमक्षम् ॥ ६४ ॥
तुङ्गाद्दोरद्रिशृङ्गाद्दनुजविजयिनः स्पष्टदानोद्यमानाम्
शत्रुस्तम्बेरमाणाम् शिरसि निपततः स्रस्तमुक्तास्थिपुञ्जे ।
रक्तैरभ्यक्तमूर्तेर्विदलनगलितैर्व्यक्त वीरायितर्द्धेः
हर्यक्षस्यारिभङ्गम् जनयतु जगतामीडितम् क्रीडितम् वः ॥ ६५ ॥
उन्मीलत्पद्मरागम् कटकमिव धृतम् बाहुना यन्मुरारेः
दीप्तान् रश्मीन्दधानम् नयनमिव यदुत्तारकम् विष्टपस्य ।
चक्रेशार्कस्य यद्वापरिधिरभिदधद्दैत्यहत्यामिव द्राक
अक्षम् पक्षे पतित्वा परिघटयतु वस्तद्द्रढिष्ठाम् प्रतिष्ठाम् ॥ ६६ ॥
क्रीडत्प्राक्क्रोडदम्ष्ट्राहति दलितहिरण्याक्षवक्षः कवाट
प्रादुर्भूतप्रभूतक्षतज समुदितारुण्यमुद्रम् समुद्रम् ।
उन्मीलत्किम्शुकाभैरुपहसदमितैरम्शुभिस्सम्शयघ्नीम्
अक्षम् चक्रस्य दत्तामघशतशमनम् दाशुषीम् शेमुषीम् वः ॥ ६७ ॥
पद्मोल्लासप्रदम् यज्जनयति जगतीमेधमानप्रबोधाम्
यस्यच्छायासमाना लसति परिसरे रोहिणी तारकाग्र्या ।
नानाहेत्युन्नतत्वम् प्रकटयति च यत्प्राप्तकृष्णप्रयाणम्
त्रेधा भिन्नस्य धाम्नस्समुदय इव तत्पातु वश्चाक्रमक्षम् ॥ ६८ ॥
शोचिर्भिः पद्मरागद्रवसमसुषमैश्शोभमानावकाशम्
प्रत्यग्राशोकरागप्रतिभटवपुषा भूषितम् पूरुषेण ।
अन्तः स्वच्छन्दमग्नोत्थितभृगुतनयम् क्षत्रियाणाम् क्षतानाम्
आरब्धम् शोणितौघैस्सर इव भवतो दिव्यहेत्यक्षमव्यात् ॥ ६९ ॥
मत्तानामिन्द्रियाणाम् कृतविषयमहाकाननक्रीडनानाम्
सृष्टम् चक्रेश्वरेण ग्रहणधिषणया वारिवद्वारणानाम् ।
गम्भीरम् यन्त्रगर्तम् कमपि कृतधियो मन्वते यत्प्रदेयात्
अस्थूलाम् सम्विदम् वस्त्रिजगदभिमतस्थूललक्षम् तदक्षम् ॥ ७० ॥
प्राणादीन् सन्नियम्य प्रणिहितमनसाम् योगिनामन्तरङ्गे
तुङ्गम् सङ्कोच्य रूपम् विरचितदहराकाशकृच्छ्रासिकेन ।
प्राप्तम् यत्पूरुषेण स्वमहिमसदृशम् धाम कामप्रदम् वः
भूयात् तद्भर्भुवस्वस्त्रयवरिवसितम् पुष्कराक्षायुधाक्षम् ॥ ७१ ॥
विद्धान् वीध्रेण धाम्ना चरणनखभुवा बद्धवासस्य मध्ये
चक्राध्यक्षस्य बिभ्रत्परिहसितजपापुष्प कोशान्प्रकाशान् ।
शुभ्रैरभ्रैरदभ्रैश्शरदि तत इतो व्योम विभ्राजमानम्
प्रातस्त्यादित्यरोचिस्ततमिव भवतः पातु राथाङ्गमक्षम् ॥ ७२ ॥
श्रीवाणीवाङ्मृडान्यो विदधति भजनम् शक्तयो यस्य दिक्षु
प्राह व्यूहम् यदाद्यम् प्रथममपि गुणम् भारती पाञ्चरात्री ।
घोराम् शान्ताम् च मूर्तिम् प्रथयति पुरुषः प्राक्तनः प्रार्थनाभिः
भक्तानाम् यस्य मध्ये दिशतु तदनघामक्षमध्यक्षताम् वः ॥ ७३ ॥
रक्षः पक्षेण रक्षत्क्षतममरगणम् लक्ष्यवैलक्ष्यमाजौ
लक्ष्मीमक्षीयमाणाम् बलमथनभुजे वज्रशिक्षानपेक्षे ।
निक्षिप्य क्षिप्रमध्यक्षयति जगति यद्दक्षताम् दिव्यहेतेः
अक्षामामक्षमाम् तत्क्षपयतु भवतामक्षजिल्लक्षमक्षम् ॥ ७४ ॥
॥ इति अक्षवर्णनम् सम्पूर्णम् ॥
अथ पुरुष वर्णनम्
ज्योतिश्चूटालमौळिस्त्रिनयन वदनष्षोडशोत्तुङ्गबाहुः
प्रत्यालीढेन तिष्ठन्प्रणवशशधराधार षटकोणवर्ती ।
निस्सीमेन स्वधाम्ना निखिलमपि जगत्क्षेमवन्निर्मिमाणः
भूयात् शौदर्शनो वः प्रतिभटपरुषः पूरुषः पौरुषाय ॥ ७५ ॥
वाणी पौराणिकी यम् प्रथयति महितम् प्रेक्षणम् कैटभारेः
शक्तिर्यस्येषुदम्ष्ट्रानखपरशुमुखव्यापिनी तद्विभूत्याम् ।
कर्तुम् यत्तत्वबोधो न निशितमतिभिर्नारदाद्यैश्च शक्यः
दैवीम् वो मानुषीम् च क्षिपतु स विपदम् दुस्तरामस्त्रराजः ॥ ७६ ॥
रूढस्तारालवाले रुचिरदलचयः श्यामलैश्शस्त्रजालैः
ज्वालाभिस्सप्रवालः प्रकटितकुसुमो बद्धसङ्घैः स्फुलिङ्गैः ।
प्राप्तानाम् पादमूलम् प्रकृतिमधुरया च्छायया तापहृद्वः
दत्तामुद्दोः प्रकाण्डः फलमभिलषितम् विष्णुसङ्कल्पवृक्षः ॥ ७७ ॥
धाम्नामैरम्मदानाम् निचयमिव चिरस्थायिनाम् द्वादशानाम्
मार्तण्डानाम् समूढम् मह इव बहुलम् रत्नभासामिवर्द्धिम् ।
अर्चिस्सङ्घातमेकीकृतमिव शिखिनाम् वाडवाग्रेसराणाम्
शङ्कन्ते यस्य रूपम् स भवतु भवताम् तेजसे चक्रराजः ॥ ७८ ॥
उग्रम् पश्याक्षमुद्यद्भ्रुकुटि समकुटम् कुण्डलि स्पष्टदम्ष्ट्रम्
चण्डास्त्रैर्बाहुदण्डैर्लसदनल समक्षौमलक्ष्योरुकाण्डम् ।
प्रत्यालीढस्थपादम् प्रथयतु भवताम् पालनव्यग्रमग्रे
चक्रेशोऽकालकालेरित भटविकटाटोपलोपाय रूपम् ॥ ७९ ॥
चक्रम् कुन्तम् कृपाणम् परशुहुतवहावङ्कुशम् दण्डशक्ती
शङ्कोदण्डपाशौ हलमुसलगदावज्रशूलाम्श्च हेतिन् ।
दोर्भिस्सव्यापसव्यैः दधदतुलबलस्तम्भितारातिदर्पैः
व्यूहस्तेजोभिमानी नरकविजयिनो जृम्भताम् सम्पदे वः ॥ ८० ॥
पीतम् केशे रिपोरप्यसृजि रथपदे सम्श्रितेऽप्युत्कटाक्षम्
चन्द्राधःकारि यन्त्रे वपुषि च दलने मण्डले च स्वराङ्कम् ।
हस्ते वक्त्रे च हेतिस्तबकितमसमम् लोचने मोचने च
स्तादस्तोकाय धाम्ने सुरवरपरिषत्सेवितम् दैवतम् वः ॥ ८१ ॥
चित्राकारैः स्वचारैर्मितसकलजगज्जाकरूकप्रतापः
मन्त्रम् तन्त्रानुरूपम् मनसि कलयतो मानयन्नात्मगुह्यान् ।
पञ्चाङ्गस्फूर्तिनिर्वर्तितरिपुविजयो धाम षण्णाम् गुणानाम्
लक्ष्मीम् राजासनस्थो वितरतु भवताम् पूरुषश्चक्रवर्ती ॥ ८२ ॥
अक्षावृत्ताभ्रमालान्यरविवरलुठच्चन्द्रचण्डद्युतीनि
ज्वालाजालावलीढ स्फुटदुडुपटलीपाण्डुदिङ्मण्डलानि ।
चक्रान्ताक्रान्त चक्राचलचलितमही चक्रवालार्तशेषाणि
अस्त्रग्रामाग्रिमस्य प्रददतु भवताम् प्रार्थितम् प्रस्थितानि ॥ ८३ ॥
शूलम् त्यक्तात्मशीलम् सृणिरणुकघृणिः पट्टिसः स्पष्टसादः
शक्तिश्शालीनशक्तिः कुलिशमकुशलम् कुण्ठधारः कुठारः ।
दण्डश्चण्डत्वशून्यो भवति तनु धनुर्यत्पुरस्तात्स वः स्तात्
ग्रस्ताशेषास्त्रगर्वो रथचरणपतिः कर्मणे शार्मणाय ॥ ८४ ॥
क्षुण्णाजानेयबृन्दम् क्षुभितरथगणम् सन्न सान्नाह्य यूथम्
क्ष्वेला सम्रम्भहेलाकलकल विगलत्पूर्वगीर्वाणगर्वम् ।
कुर्वाणस्साम्परायम् रथचरणपतिः स्थेयसीम् वः प्रशस्तिम्
दुग्धाम् दुग्धाब्धिभासम् भयविवश शुनासीर नासीरवर्ति ॥ ८५ ॥
द्रुह्यद्दोश्शालिमालिप्रहरणरभसोत्तानिते वैनतेय
विद्राति द्राक्प्रयुक्तः प्रथनभुवि परावर्तमानेन भर्त्रा ।
निर्जित्य प्रत्यनीकम् निरवधिकचरद्धास्तिकाश्वीयरथ्यम्
पथ्यम् विश्वस्य दाश्वान् प्रथयतु भवतो हेतिरिन्द्रानुजस्य ॥ ८६ ॥
नन्दिन्यानन्दशून्ये गलति गणपतौ व्याकूले बाहुलेये
चण्डे चाकित्यकुण्ठे प्रमथपरिषदि प्राप्तवत्याम् प्रमाथम् ।
उच्छिद्याजौ बलिष्ठम् वलिजभुजवनम् यो ददावादिभिक्षोः
भिक्षाम् तत्प्राणरूपाम् स भवदकुशलम् कृष्णहेतिः क्षिणोतु ॥ ८७ ॥
रक्तौघाभ्यक्तमुक्ताफललुलितललद्वीचिवृद्धौ महाब्धौ
सन्ध्यासम्बद्धताराजलधरशबलाकाशनीकाशकान्तौ ।
गम्भीराम्भमम्भश्चरमसुरकुलम् वेदविघ्नम् विनिघ्नन्
निर्विघ्नम् वः प्रसूताम् व्यपगतविपदम् सम्पदम् चक्रराजः ॥ ८८ ॥
काशीविप्लोष चैद्यक्षपणधरणिजध्वम्स सूर्यापिधान
ग्राहद्वेधात्व मालित्रुटनमुखकथावस्तु सत्कीर्तिगाथाः ।
गीयन्ते किन्नरीभिः कनकगिरिगुहागेहिनीभिर्यदीयाः
देयाद्दैतेय वैरी स सकलभुवन श्लाघनीयाम् श्रियम् वः ॥ ८९ ॥
नानावर्णान् विवृण्वन्विरचित भुवनानुग्रहान् विग्रहान् यः
चक्रेष्वष्टासु मृष्टासुरवरतरुणी कण्ठकस्तूरिकेषु ।
आतारादर्णमालावधिषु वसति यः पूरुषो वस्स देयात्
व्यध्वैरुद्धूतसत्त्वैरुपहितमबहिर्ध्वान्तमध्वान्तवर्ती ॥ ९० ॥
द्वात्रिम्शत् षोडशाष्टप्रभृतिपृथुभुजस्फूर्तिभिर्मूर्तिभेदैः
कालाद्ये चक्रषटके प्रकटित विभवः पञ्चकृत्यानुरूपम् ।
अर्थानामर्थितानामहरहरखिलम् निर्विलम्बैर्विलम्बैः
कुर्वाणो भक्तवर्गम् कुशलिनमवतादायुधग्रामणीर्वः ॥ ९१ ॥
कोणैरर्णैस्सरोजैरपि कपिशगुणैष्षड्भिरुद्भिन्नशोभे
श्रीवाणीपूर्विकाभिर्दधति विकसतश्शक्तिभिः केशवादीन् ।
तारान्ते भूपुरादौ रथचरणगदाशार्ङ्गखड्गाङ्किताशे
यन्त्रे तन्त्रोदिते वः स्फुरतु कृतपदम् लक्ष्म लक्ष्मीसखस्य ॥ ९२ ॥
दम्ष्ट्राकान्त्या कडारे कपटकिटितनोः कैटभारेरधस्तात्
ऊर्ध्वम् हासेन विद्धे नरहरिवपुषो मण्डलेवासवीये ।
प्राक्प्रत्यक्सान्ध्यसान्द्रच्छविभरभरिते व्योम्नि विद्योतमानः
दैतेयोत्पातशम्सी रविरिव रहयत्वस्त्रराजो रुजम् वः ॥ ९३ ॥
कोणे क्वापि स्थितोऽपि त्रिभुवनविततश्चन्द्रधामाऽपि रूक्षः
रुक्मच्छायोऽपि कृष्णाकृतिरनलमयोऽप्याश्रितत्राणकारी ।
धारासारोऽपि दीप्तो दिनकर रुचिरोप्युल्लसत्तारकश्रीः
चक्रेशश्चित्रभूमा वितरतु विमतत्रासनम् शासनम् वः ॥ ९४ ॥
शुक्लश्शक्र! स्तवस्ते सह दहन! कलाम् काल तेऽयम् न कालः
किम् वो रक्षांसि! रक्षा तव फलतु पते! यादसाम् पादसेवा ।
वायो! हृद्योऽसि भर्तुस्त्यज धनद! मदम् सेव्यताम् त्र्यम्बकेति
प्राहुर्यद्यन्त्रपालास्स दनुजविजयी हन्तु तन्द्रालुताम् वः ॥ ९५ ॥
गायत्र्यर्णारचक्रे प्रथममनुसखस्मेरपत्रारविन्दे
बिम्बं वह्नेस्त्रिकोणं वहति जयिजयाद्यष्टशक्तौ निषण्णा ।
शोकं वोऽशोकमूले पदसविधलसद्भीमभीमाक्षभीमा
पुम्सो दिव्यास्त्रधामा पुरुषहरिमयी मूर्तिरस्यत्वपूर्वो ॥ ९६ ॥
पाश्चात्याशोकपुष्पप्रकरनिपतितैः प्राप्तरागम् परागैः
सन्ध्यारोचिस्सगन्धैः स्वपदशशधरम् प्रेक्ष्य तारानुषक्तम् ।
पद्मानाबद्धकोशानिव सुरनिवहैरञ्जलीन् कल्प्यमानान्
चक्राधीशोऽभिनन्दन् प्रदिशतु सदृशीमुत्तमश्लोकताम् वः ॥ ९७ ॥
रक्ताशोकस्य वेदस्य च विहितपदम् प्राप्तशाखस्यमूले
चक्रैरस्त्रैस्तदाद्यैरपि महितचतुर्द्विश्चतुर्बाहुदण्डम् ।
आसीनम् भासमानम् स्थितमपि भयतस्त्रायताम् तत्त्वमेकम्
पश्चात् पूर्वत्रभागे स्फुट नरहरितामानुषम् जानुषाद्वः ॥ ९८ ॥
प्राणे दत्तप्रयाणे मुषितदिशि दृशि त्वक्तसारे शरीरे
मत्याम् व्यामोहवत्याम् सतमसि मनसि व्याहते व्याहृते च ।
चक्रान्तर्वर्ति मृत्युप्रतिभयमुभयाकारचित्रम् पवित्रम्
तेजस्तत्तिष्ठताम् वस्त्रिदशकुलधनम् त्रीक्षणम् तीक्ष्णदम्ष्ट्रम् ॥ ९९ ॥
यस्मिन् विन्यस्यभारम् विजयिनि जगताम् जङ्गमस्थावराणाम्
लक्ष्मीनारायणाख्यम् मिथुनमनुभवत्यत्युदारान् विहारान् ।
आरोग्यम् भूतिमायुः कृतमिह बहुना यद्यदास्थापदम् वः
तत्तत्सद्यः समस्तम् दिशतु स पुरुषो दिव्यहेत्यक्षवर्ती ॥ १०० ॥
पुरुष वर्णनम् सम्पूर्णम्
पद्यानाम् तत्त्वविद्याद्युमणि गिरिश वीध्यसङ्गसङ्ख्याधराणाम्
अर्चिष्यङ्गेषु नेम्यादिषु च परमतः पुम्सि षड्विम्शतेश्च ।
सङ्घैस्सौदर्शनम् यः पठति कृतमिदम् कूरनारायणेन स्तोत्रम्
निर्विष्टभोगो भजति स परमाम् चक्रसायुज्यलक्ष्मीम् ॥ १०१ ॥
॥ इति श्रीकूरनारायणमुनिप्रणीतम् सुदर्शनशतकम् समाप्तम् ॥
सद्धर्मामृतवर्षिणी हृदि सताम् स्वानन्दसन्देशिनी
नित्यम् नृत्यति यस्य वक्त्रकमले वाणी शुभा मञ्जुला ।
सोऽयम् श्रीयुतदेवनायकमुनिर्देशे शुभे भारते
धर्माचार्यवरोऽनिशम् विजयते कल्याणकल्पद्रुमः ॥ १॥
शाण्डिल्यवंशकलशाम्बुधिपूर्णचन्द्रम्
श्रीवानशैलयतिराट्पदपद्मभृङ्गम् ।
श्रीवेङ्कटेशवरणाम्बुजसक्तचित्तम्
श्रीदेवनायकगुरुम् शरणम् प्रपद्ये ॥ २॥
—————————