[highlight_content]

वरदराजस्तवव्याख्यानम्

श्रीः

श्रीमते रामानुजाय नमः

वरदराजस्तवम्

श्रीवत्सचिह्नमित्रेभ्यो नम उक्तिमधीमहे ।

यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥

हस्त्यद्रीशस्तोत्रमध्यात्मगर्भम्

पूर्वाचार्यैर्व्याकृतम् विस्तरेण ।

श्रीवत्साङ्कम् लक्ष्मणार्यम् च नत्वा

सङ्क्षिप्याहम् व्याकरोमि स्वशक्त्या ॥

अखिलहेयप्रत्यनीक कल्याणैकतानम् स्वेतरसमस्तवस्तुविलक्षणम् सकलजगत्कारणम् परव्यूहविभवार्चान्तर्यामिरूपेण पञ्चधावस्थितम् चतुर्मुखमहहविर्भागाङ्गीकारार्थम् वेगवतीतीरे काञ्च्याम् पुण्यकोट्याम् सत्यव्रतक्षेत्रे हस्तिशैलशिखरेऽवतीर्णम् अद्यापि पुत्रमित्र क्षेत्र – धनधान्यादिवरप्रदानेन प्रकटितेश्वरभावम् सदा सन्निहितम् वरदराजमधिकृत्य मुमुक्षुभिः सर्वदानुसन्धेयमर्थपञ्चकम् चानुसन्दधत् श्रीवत्साङ्कमिश्रः सकलजगदुज्जीवनार्थम् स्वोज्जीवनार्थम् च स्तोत्रम् प्रवर्तयामास । तत्रापि पञ्चार्थाः प्राप्यम् प्राप्ता प्राप्त्युपायः फलम् विरोधी चेति । तदुक्तम् – *प्राप्यस्य ब्रह्मणो रूपम् प्रातुश्च प्रत्यगात्मनः । प्राप्त्युपायम् फलम् प्राप्तुस्तथा प्राप्तिविरोधि(हा.सम्)* चेति । तत्र ज्ञानानन्दादिगुणम् उभयविभूतिविशिष्टम् ब्रह्मप्राप्यम् । तदेव दयाक्षान्त्यादिगुण योगितया भक्तिप्रपत्तिमुखेन च प्रापकम् । प्राप्ता तु तापत्रयातुरः, प्रत्यगात्मा देहाभिमानी, फलम् च ब्रह्मप्राप्तिः नित्यकैङ्कर्यप्राप्तिश्च । रागद्वेषभगवदपचारा-दयः प्राप्तिविरोधिनः इति । एवम् स्थिते तत्र प्रथमम् हस्तिगिरिमाहात्म्यमनुसन्दधानः प्राप्यदशापन्नम् वरदराजमभिष्टौति – स्वस्तीति –

स्वस्ति हस्तिगिरिमस्तशेखरस्सन्तनोतु मयि सन्ततम् हरिः ।

निस्समाभ्यधिकमभ्यधत्त यम् देवमौपनिषदी सरस्वती ॥ १ ॥

मस्तम् मस्तकम् शेखरः अलङ्कारः मयि इति विषय सप्तमी स्वस्ति कुशलम् सन्तनोत्विति प्रार्थनायाम् लोट् । प्रार्थनाविषयश्च मोक्ष एव । इतरेषाम् पुरुषार्थानामल्पास्थिरत्वेन मुमुक्षुभिरनपेक्षणात् । स्वस्तीति द्वितीयान्तम् त्रिलिङ्गम् पदम् । अव्ययरूपत्वे तु नमः  स्वस्तिस्वाहास्वधालम्वषड्योगाच्च(अष्टा.२.३.१६) इति सूत्रेण चतुर्थी स्यात् । तथा च वेदप्रयोगः स्वस्तिभिरतिदुर्गाणि विश्वा, स्वस्ति नो बृहस्पतिर्दधातु” (तैत्तिरीयारण्यक शान्तिपाठः ।) इति, नृहरिरस्तु नः स्वस्तये इत्यभ्यर्थित मोक्षवितरणशक्ति-मुत्तरार्धेनाह निस्समेति । औपनिषदी उपनिषद्रूपा सरस्वती वाक् यम् देवम् समाभ्यधिकम् रहितम् अभ्यधत्त अभिहितवती । डुधाञ् दानधारणपोषणयोरिति धा धातो लङि रूपम् । न तत्समश्चाभ्यधिकश्च दृश्यते(श्वेता.६.८) “यस्मात्परम् नापरमस्ति किञ्चित् यस्मान्नाणीयो न ज्यायोऽस्ति कश्चिद् महा.८.३) इति श्रुतिः । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्ये लोकत्रयेऽपि अप्रतिमप्रभाव(भ.गी.११.४३) इति स्मृतिः ॥ १ ॥

श्रीनिधिम् निधिमपारमर्थिनामर्थितार्थपरिदानदीक्षितम् ।

सर्वभूतसुहृदम् दयानिधिम् देवराजमधिराजमाश्रये ॥ २ ॥

श्रीनिधिमिति –

श्रियो निधिम् भोग्यम् अथवा श्रीर्निधीयते अस्मिन् इति श्रीनिधिः श्रीनिवासः, उपसर्गे घो: किः(अष्टा.३.३.९२) कर्मण्यधिकरणे च(अष्टा.३.३. ९३) इति क्विप् प्रत्ययः । तथा दयानिधिम् प्रार्थितार्थवितरणे कृतसङ्कल्पम् सर्वैरनुभूयमानमप्यपारम् अनन्तम् निधिम् सर्वभूतानाम् सर्वप्रकारेण सुहृदम् हितप्रवर्तकम् सुहृदम् सर्वभूतानाम्(भ.गी.५.२९) इति गीतावचनम् । देवराज इति सञ्ज्ञा । अधिराजम् राजाधिराजम् । तमीश्वराणाम् परमम् महेश्वरम् तम् देवतानाम् परमम् च दैवतम्(श्वेता. ६.७) इति हि श्रुतिः । आश्रये शरणम् यामि ॥ २ ॥

सम्प्रति गङ्गायाम् दक्षिणे भागे योजनानाम् शतद्वये ।  पञ्चयोजनमात्रेण पूर्वाम्भोधेरतु पश्चिमे | वेगवत्युत्तरे तीरे पुण्यकोट्याम् हरिः स्वयम् । वरदः सर्वभूतानामद्यापि परिदृश्यते तथा वपाहोमे प्रवृत्ते तु प्रातःसवनकालिके धातुरुत्तरवेद्यन्तः प्रादुरासीज्जनार्दनः(ह.मा.१५) इति पुराणप्रसिद्धम् वरदराजसौलभ्यमनुसन्धत्ते नित्यमिति –

नित्यमिन्द्रियपथातिगम् महो योगिनामपि सुदूरगम् धियः ।

अप्यनुश्रवशिरस्सु दुर्ग्रहम् प्रादुरस्ति करिशैलमस्तके ॥ ३ ॥

सर्वदास्मदादीनामिन्द्रियमार्गातिक्रान्तमनेनानुमानाद्यगोचरम् त्वम् च विवक्षितम् । न केवलमस्मदायप्रत्यक्षम् योगिनामपीत्याह – योगिनामपीति । तर्हि वेदान्तगोचरस्यात् इत्याशङ्क्य तत्रापि दुर्निश्चेयमित्याह अपीति शिष्योपाध्यायपरम्परयाधीयमाणोऽनुश्रूयत एव न तु केनचित् क्रियत इति । अनुश्रवो वेदः तच्छिराम्सि वेदान्ताः । तत्र दुर्ग्रहम् इदमित्थमिति ग्रहीतुमशक्यम् तादृशम् वस्तु करिगिरिशिखरे सर्वप्राणिनाम् समक्षम् प्रादुर्भवतीत्यर्थः ॥ ३ ॥

सम्प्रति भगवदुपलम्भस्थानभूतायाः श्रुतेरपि हस्तिगिरेराधिक्यमनुसन्धत्ते समनन्तरश्लोकैः – वल्लिकेति –

वल्लिका श्रुतिमतमल्लिकामयी येन पल्लवितविश्वशाखया ।

स्वश्रिया करिगिरेरनुक्रियाम् वष्टि मृष्टवरदम् तमाश्रये ॥ ४ ॥

ब्रह्मवल्लीभृगुवल्लीतिवत् वल्लीशब्दोऽत्र ब्रह्मप्रतिपादकोपनिषद्वाचकः । श्रुतिमतल्लिकामयी श्रुतिश्रेष्ठा । अत्र मयट्प्रत्ययः स्वार्थिकः । श्रैष्ठ्यम् च ब्रह्मपरत्वात् । एवम्विधा उपनिषत् येन स्वप्रतिपाद्येन वरदराजेन हेतुना पल्लविताः सज्जातपल्लवाः शोभिता इति यावत् । तादृशा विश्वाः सर्वाः शाखास्ववान्तरशाखा यस्याः सा कर्मभागस्योपनिषद्भागस्याप्यवान्तरशाखाः सन्ति । तया स्वश्रिया स्ववैभवेन अत्र भगवत्प्रकाशनमेव वैभवम् । तेन करिगिरेरनुक्रियामनुकारम् साम्यम् वष्टि वाञ्छति । वश कान्ताविति धातुः । करिगिरिर्यथा सर्वेषाम् वरदराजप्रकाशकः पल्लवितवृक्षशाखप्रकाशकश्च तथा अहमपि भवेयमिति वाञ्छति इत्यर्थः । तम् मृष्टम् परिपूर्णम् शुद्धम् वा वरम् ददातीति तम् मुष्टवरदम् समाश्रये । मृजूष् शुद्धाविति धातुः । अथवा येनेति पदस्य पल्लवितपदेनान्वयेन पल्लविता शोभिता विश्वशाखा यस्याः सा तथोक्ता ।

यम् परोक्षमुपदेशतस्त्रयी नेति नेति परपर्युदासतः ।

वक्ति यस्तमपरोक्षमीक्षयत्येष तम् करिगिरिम् समाश्रये ॥ ५ ॥

यमिति – अत्र बृहदारण्यकेपठिता श्रुतिरनुसन्धेया । द्वावेव ब्रह्मणो रूपम् मूर्तम् चामूर्तम् च(बृ.४.३.१) सत्यम् चानृतम् च(छान्.१.२.३) इत्यादिना कृत्स्नम् जगन्मूर्तामूर्तरूपमित्यभिहितम् । तदनन्तरम् तस्य पुरुषस्य रूपम् यथा माहारजतम् वासः यथा पाण्डराविकम् यथेन्द्रगोपो, यथाग्न्यर्चिर्यथा पुण्डरीकम्(बृ.४.३.६) इत्यादिना महारजतवस्त्रपाण्डु-कम्बलसदृशत्वेन तद्रूपमभिहितम् । अनन्तरम् अथात आदेशो नेति नेति न ह्ये तस्माद्(बृ.४.३.६) इति न इत्यन्यत्परमस्ति अथ नामधेयम् सत्यस्य सत्यम्, प्राणा वै सत्यम्, तेषामेष सत्यम्(बृ.२.१.२०) इति पठितम् । अस्यार्थः अथातः अनन्तरम् आदेशः उपदेशः क्रियते । कथमित्याह । नेति नेतीति – इति न इति न उक्तप्रकारमात्रम् ब्रह्म न भवति । मूर्तामूर्तरूपवत्त्वम् दिव्यमङ्गलविग्रहयोगश्चाभिहितम् तावन्मात्रम् न भवति । यतश्च समनन्तरवाक्यम् भूयोगुणजातम् ब्रवीति नेति प्रतिपादितात् एतस्माद् ब्रह्मणोऽन्यत्परम् स्वरूपतो गुणतश्च उत्कृष्टम् नास्ति इदमेव सर्वोत्कृष्टमित्यर्थः । तस्य ब्रह्मणः, सत्यस्य सत्यमिति नामधेयम् नामनिर्वचनमाह – प्राणा वै सत्यम्(बृ.२.१.२०) इत्यादिना । अत्र प्राणशब्देन साहचर्यो जीवाः परामृश्यन्ते । ते तावत् सत्यम् पृथिव्यादिवत् सर्वरूपान्यथा भावरूपपरिणामाभावात् तेषाम् एव सत्यम् तेभ्योऽपि एष परमपुरुषः सत्यः जीवानाम् कर्मानुगुण्येन ज्ञानसङ्कोचविकासौ विद्येते । परमपुरुषस्य तु ते न स्तः । अतः तेभ्योऽपि एषः सत्यम् । अतश्चैवम् वाक्यशेषोदित गुणजा(गण?)नुयोगात् प्रकृतैतानत्वन्मात्रम् हि प्रतिषिध्यते । न तु कृत्स्नगुणजातम् । अत्र सूत्रम् प्रकृतैतावत्वम् हि प्रतिपेधति ततो व्रवीति च भूय(ब्रह्म.३.२.२१) इति । श्लोकार्थस्तु मुमुक्षून् प्रति उपदेशरूपेण प्रवृत्ता श्रुतिः – नेति नेति परपर्युदासेन यम् परोक्षम् वक्ति न तु प्रत्यक्षम् तम् वरदराजम् य एष करिगिरिः प्रत्यक्षेदर्शयति अहम् तम् समाश्रये इति ॥ ५ ॥

एष ईश इति निर्णयम् त्रयी भागधेयरहितेषु नो दिशेत् ।

हस्तिधामनि न निर्णयेत को देवराजमयमीश्वरस्त्विति ॥ ६ ॥

एष इति –

भाग्यरहितेषु जनेषु श्रुतिरेषः विष्णु नारायणादि शब्दवाच्यः सर्वेश्वरम् को दद्यात् । हस्तिगिरिस्थाने तु देवराजम् अयमेव परमेश्वरः इति कः प्राणिनः न निर्णयत । एतदुक्तम् भवति भाग्यरहितैः त्रैवर्णिकैः अनधीतवेदैरपि दिव्याद्भुत निरतिशय जाज्वल्य औज्वल्य सौन्दर्यादिना तत्तत् जनाभिमत विविध वरदानेन च निश्चित इति । अत्र हस्ति शब्देन भामा सत्यभामा भीमो भीमसेन इतिवत् एकदेश उक्तिः ॥ ६ ॥ है इति –

है ! कुदृष्ट्यभिनिविष्टचेतसाम् निर्विशेषसविशेषताश्रयम् ।

सम्शयम् करिगिरिर्नुदत्यसौ तुङ्गमङ्गळगुणास्पदे हरौ ॥ ७ ॥

मायावादिनो हि निर्गुणम् ब्रह्म ब्रुवते । भास्करीयास्तु जीवाद्भिन्नाभिन्नम् सर्वज्ञत्वसर्वशक्तित्वादिगुणकर्मभेदश्च सम्सारदशायामन्तः करणाद्यपाधिकः, मोक्षदशायामभेद: पारमार्थिक इति । यादवप्रकाशीयास्तु जीवाद्भिन्नाभिन्नम् सगुणम् चावस्थाद्वयेऽपि भेदाभेदौ पारमार्थिकाविति । है इत्यव्ययम् प्रसिद्धिसूचकम् । उक्तेषु कुदृष्टिषु कुमतिष्वभिनिविष्टचेतसाम् वादिनाम् निर्गुणत्वसगुणत्वाश्रयम् सम्शयम् करिगिरिः ऊर्जितकल्याणगुणास्पदेः स्वाश्रये हरौ छिनत्ति । एतदुक्तम् भवति – समस्तकल्याणगुणास्पदे वरदराजदर्शनमात्रेण पामराणामपि सम्शयो विशीर्यत इति ॥ ७ ॥

न्यायतर्कमुनिमुख्यभाषितैश्शोधितैस्सह कथञ्चन त्रयी ।

जोषयेद्धरिमनम्हसो जनान् हस्तिधाम सकलम् जनम् स्वयम् ॥ ८ ॥

न्यायतर्केति –

तत्र वेदवाक्यार्थसम्शये सति तन्निर्णयोपायभूता पूर्वोत्तरमीमाम्साशास्त्रप्रतिपादिता युक्तयोऽन्यायाः । तदुक्तम् धर्मे प्रमीयमाणे हि वेदेन करुणात्मना । इतिकर्तव्या भागम् मीमाम्सा पूरयिष्यति इति तर्को न्यायशास्त्रप्रसिद्धः । प्रत्यक्षादिप्रमाणानुग्राहको विचारः । तदुक्तम् – आर्षम् धर्मोपदेशम् च वेदशास्त्राविरोधिना । यस्तु तर्कोऽनुसन्धत्ते स धर्मम् वेद नेतर(मनु.१२.१०६) इति । मुनिमुख्याः परावरतत्त्वसाक्षात्कारिणः पराशरवाल्मीकिप्रभृतयः तेषाम् भाषितानि श्रीविष्णुपुराणश्रीरामायणप्रभृतीनि च वेदोपर्ब्रbruम्हणानि । तदुक्तम्- “इतिहासपुराणाभ्याम् वेदम् समुपवृbruम्हयेत् । विभेत्यल्प श्रुताद्वेदो मामयम्ह प्रतरिष्यति(महा.भा.१.१.२९०) इति । शोधितैः शुद्धैः, अपन्यायास्त्वशोधिताः । तथा केवलशुष्कतर्कोऽपि । अत एव सूत्रकारैरभिहितः तर्काप्रतिष्ठानात्(ब्रह्म.२.१.४-११) इति । तथा राजसतामसकल्पोक्तानि मुनिभाषितानि अशोधितानि सात्त्विककल्पोक्तानि तु शोधितानि । तदुक्तम् – अग्नेशिवस्य माहात्म्यम् तामसेषु प्रकीत्यते । राजसेषु च माहात्म्यमधिकम् ब्रह्मणो विदुः । सङ्कीर्णेषु सरस्वत्या पितॄणाम् च निगद्यते । सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकम् हरेः तेष्वेव योगसम्सिद्ध्या गमिष्यन्ति पराम् गतिम्(म.पु.५३.६७-६९) इति । ततश्च श्रुतिशोधितैः स्खोपकरणभूतैर्न्यायादिभिः पापरहितान् तत एव शुद्धान्तःकरणान् त्रैवर्णिकान् जनान् कथम् च कृच्छ्रेणपरतत्त्वप्रकाशनमूर्तेन हरिम् जोषयेत् सेवयेत्, प्रीणयेदिति वा । जुषि प्रीतिसेवनयोरिति धातुः णिजन्तत्वाद् द्विकर्मकम् । हस्तिगिरिस्थाने तु स्वयमसहायकमेव सकलम् प्राणिमात्रमयत्नेन जोषयेदिति भावः ॥ ८ ॥

अद्भुतम् महदसीमभूमकम् किञ्चिदस्ति किल वस्तुद्भुनिस्तुलम् ।

इत्यघोषि यदिदम् तदग्रतस्तथ्यमेव करिधाम्नि दृश्यते ॥ ९ ॥

अद्भुतमिति –

अणोरणीयान् महतो महीयान्(कठो.२.२०) इत्यादिभिः अद्भुतत्या प्रतीयमानम्, यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा (नारायणसूक्तम्) इत्यादिभिर्महत्तया यः सर्वज्ञः सर्ववित्(मुण्ड.१.१.१), परास्य शक्तिर्विविधैव श्रूयते, स्वाभाविकी ज्ञानवलक्रिया च(श्वेता.६.८) । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह(तैत्ति.२.४) इत्यादिभिः निस्सीममहिमतया तत एव निस्तुलम् निरूपम् एतादृशम् किञ्चिद् विश्वविलक्षणम् यद्वस्त्वस्ति इति श्रुत्या अघोषि सर्वजनसाक्षिकम् च घोषितम् तद्वस्तु सर्वेषाम् पुरतः इदन्तया तथ्यमेव सम्शयविपर्ययानर्हन् साक्षात्क्रियते । अयम् भावः – वेदप्रतिपन्नम् परतत्त्वम् सम्शयविपर्ययार्हमपि भवेत् । प्रत्यक्षप्रतिपन्नम् तु न तथेति । बाह्यानामपि बोद्धानाम् वेदप्रामाण्यम् प्रतिपादयतीति ॥ ९ ॥

हस्तिगिरिमाहात्म्यमनुसन्धत्ते – सम्वदेतेति –

सम्वदेत किल यत्प्रमान्तरैस्तत्प्रमाणमिति ये हि मेनिरे ।

तन्मतेऽपि बत मानताम् गता हस्तिनाऽद्य परवस्तुनि त्रयी ॥ १० ॥

यद् ज्ञानम् ज्ञानान्तरैः सम्वदेत तत्प्रमाणमिति ये वेदबाह्या मेनिरे तन्मतेऽपि परवस्तुसाक्षात्कारतया हस्तिगिरिणा तत्समानविषया त्रयी प्रणताम् गतेति ॥ १० ॥

इत्थम् प्रथमदशकेन हस्तिगिरिमाहात्म्यमुखेन अर्चात्मनावतीर्णम् प्राप्यम् वरदराजमभिष्टुत्य द्वितीयदशकेन कल्याणगुणास्पदम् श्रुतिप्रतिपन्नम् प्राप्यप्रापकभूतम् दिव्यात्मस्वरूपम् व्यूहभेदमवतारम् नाभिष्टौति गुणायत्तमिति –

गुणायत्तम् लोके गुणिषु हि मतम् मङ्गलपदम्

विपर्यस्तम् हस्तिक्षितिधरपते! तत्त्वयि पुनः ।

गुणास्सत्यज्ञानप्रभृतय उत त्वद्गततया

शुभीभूयम् याता इति हि निरणैष्म श्रुतिवशात् ॥ ११ ॥

लोके गुणवत्सु चेतनाचेतनात्मकेषु पदार्थेषु मङ्गलपदप्रयोगः प्रशस्तगुणाधीनः । तथा हि प्रसादोज्ज्वल्यादिगुणयोगात् मणिद्युमणिप्रदीपादिषु मङ्गलपदम् मङ्गलपदप्रयोगः, तथा विज्ञान शौर्यौदार्यादिगुणयोगात् पुरुषेषु । त्वयि तु तद्विपरीतम् त्वत्सम्बन्धाधीनम् गुणेषु मङ्गलपदमित्यर्थः । तदेवाह द्वितीयार्धेन । उत शब्दः श्रुतिप्रसिद्धिसूचकः वैपरीत्यसूचको वा । शुभीभूयम् शुभत्वम्, भुवो भावे(अष्टा.३.१.१०७) इति भावार्थे क्यच् प्रत्ययः । *सत्यस्य सत्यम् ज्योतिषाम् ज्योतिः* *पवित्राणाम् पवित्रम् यो मङ्गलानाम् च मङ्गलम्(वि.स.ना.ध्या.१०) इति श्रुतिस्मृतिवशात् निरणैष्ठेति णीञ्॰ प्रापणे इत्यस्माद्धातोः लङुत्तमपुरुषबहुवचनम् । यद्यपि ब्रह्मस्वरूपस्य तद्गुणानाम् च विश्वविलक्षणतया च परस्पराधीनमपि मङ्गलत्वम् युक्तम् । तथापि गुणप्राधान्यविवक्षया स्तुतिप्रवृत्तिः । इदानीम् सत्यज्ञानादिवाक्यप्रतिपनम् त्रिविधचेतनाचेतनविलक्षणम् ब्रह्मानुसन्धत्ते – भृगुर्वै वारुणिः, वरुणम् पितरमुपससार, अधीहि भगवो ब्रह्मेति, तस्मादेतत् प्रोवाच, यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसम्विशन्ति, तद्विजिज्ञासस्व, तद्ब्रह्म(तैत्ति.३.१) इत्यादिभिर्वाक्यैः जगत्कारणम् ब्रह्म प्रतिपादितम् । तच्च सूक्ष्मचिदचिच्छरीरकम् तत्र कारणत्वप्रयुक्तशक्तितद्दोषव्यावृत्तये सत्यज्ञानादि वाक्यम् प्रवृत्तम् । तत्र सत्यपदम् अविकारि ब्रह्म आह । तेन स्वतो विकारिणी प्रकृतिः तत्सम्सर्गप्रयुक्त विकारा बद्ध चेतना व्यावृत्ताः । ज्ञान पदम् नित्यासङ्कुचितज्ञानम् ब्रह्म आह । तेन कदाचित् सङ्कुचितज्ञाना मुक्ता व्यावृत्ताः । अनन्तपदम् स्वरूपतः स्वभावतश्चापरिच्छिन्नम् ब्रह्म आह । तेन स्वरूपतः स्वभावतश्च परिच्छिन्नम् नित्या व्यावृत्ताः ॥ ११ ॥

ततश्च त्रिविधचेतनाचेतनविलक्षणम् ब्रह्माभिष्टौति – निराबाधमिति –

निराबाधम् नित्यम् निरवधि निरम्हो निरुपमम्

सदा शान्तम् शुद्धम् प्रतिभटमवद्यस्य सततम् ।

परम् ब्रह्माम्नातम् श्रुतिशिरसि यत्तद्वरद! ते

परम् रूपम् साक्षात्तदिदमपदम् वाङ्मनसयोः ॥ १२ ॥

नित्यम् ब्रह्मेत्युक्ते नित्यायाः प्रकृतेः नित्यानाम् चेतनानाम् च ब्रह्मत्वप्रसक्तिः तत्र निराबाधमिति पदेन प्रकृतिः तत्सम्सृष्टाश्चेतना व्यावर्तन्ते । निराबाधम् बाधो नामपूर्वरूपपरिवृत्त्या रूपान्तरप्रकृतिविकार इति यावत् । निर्विकारम्म् प्रकृत्यादिकम् तु सविकारम् । निरहम् पदेन मुक्ताः ते हि मुक्तेः पूर्वम् साम्हसः निरवधिपदेन नित्याः । ते हि स्वरूपतः स्वभावतश्च सावधिकाः, अवशिष्टम् पदजातम् स्वरूपातिशयप्रतिपादनेन स्तुत्यर्थम् निरुपमम् असदृशम् सदा शान्तम् रागद्वेषादिरहितम् शुद्धम् कल्याणैकतानम्; अवद्यस्य प्रतिभटम् हेयप्रत्यनीकम् । हे वरद ! एतादृशम् यत् साक्षात् परम् ब्रह्म वेदान्तेष्वाम्नातम् वाङ्मनसयोरलक्ष्यम् च तदिदम् ते परम् रूपम् दिव्यात्मस्वरूपम् ॥ १२ ॥

शान्तोदितदशा नित्योदितदशेति परमात्मनो दशाद्वयमस्ति । तत्र शान्तोदितदशानामस्वात्ममात्रानुभवदशा इतरा नित्योदितदशा । तत्र प्रथममनुसन्धत्ते प्रशान्तेति –

प्रशान्तानन्तात्मानुभवजमहानन्दमहिम-

प्रसक्तस्तैमित्यानुकृतवितरङ्गार्णवदशम् ।

परम् यत्ते रूपम् स्वसदृशदरिद्रम् वरद! तत्

त्रयी पिस्प्रक्षन्ती परनिरसने श्राम्यति परम् ॥ १३ ॥

प्रशान्तस्य रागादिदोषरहितस्या परिच्छिन्नस्य स्वात्मनो योऽनुभवः तदानुभवजेन महानन्दातिशयेन यत् प्रसक्तम् स्तैमित्यम् निर्भरत्वम् परिपूर्णत्वम् वा । तेनानुकृतौ वितरङ्गार्णवदशा यस्य तथोक्तम् । निश्चलनिस्तरङ्ग महोदधिकल्पमिति यावत् । हे वरद! एतादृशनिस्समम् ते यत् पररूपम् तत्त्रयी पिस्प्रक्षन्ती स्प्रष्टुमिच्छन्ती बोधयितुम् प्रवर्तमाना परम् केवलम् परनिरसने *अद्रेश्यमग्राह्यमगोत्रम्(मुण्ड.१.१.६)* इत्येवमादि परनिरसने श्राम्यति आयस्यति, न तु कार्त्स्न्येन बोधयितुम् शक्नोतीत्यर्थः ॥ १३ ॥

पुनरपि दिव्यात्मस्वरूपम् वरदराजसौलभ्यमनुसन्धत्ते – न वक्तुमिति –

न वक्तुम् न श्रोतुम् न मनितुमथोपासिसिषितुम्

न च द्रष्टुम् स्प्रष्टुम् तदनु न च भोक्तुम् हि सुशकम् ।

परम् यद्वस्तूक्तम् ननु वरद! साक्षात्तदसि भोः!

कथम् विश्वस्मै त्वम् करिगिरिपुरस्तिष्ठस इह? ॥ १४ ॥

इत्थम् हि वैदिकमार्गप्रवृत्तिः – उपनयनानन्तरम् प्रथमम् गुरुमुखादध्ययनम् तदनुकर्मब्रह्ममीमाम्सामुखेन तदुभयनिर्णयः; तदनन्तरम् कर्मसमुचिताया वेदनोपासनशब्दवाच्याया भक्तैरनुष्ठानम्; ततश्च भक्तिप्रकर्षादुपास्यवस्तु स ब्रह्मसाक्षात्कारः; ततः सर्वबन्धमोक्षे नित्यकैङ्कर्यप्राप्या भगवदनुभव इति । न वक्तुम् न प्रवक्तुम् न प्रवचनम् कर्तुमिति यावत् । तथा न श्रोतुम् श्रवणम् कर्तुम् च मनितुम् मननम् कर्तुम् अनन्तरम् प्रेम्णा उपासिसिषितुम् उपासनम् कर्तुम् सन्प्रत्ययान्तेन विवक्षितः । न च द्रष्टुम् साक्षात्कर्तुम् तदनु च भोक्तुम् अनुभवितुम् न सुशकम् श्रवणमननाद्यशक्यम् परम् यद्वस्तु वेदान्तेषूक्तम् । भो वरद! त्वम् साक्षात् असि । ततः किमिति जिज्ञासायाम् सौलभ्यम् साश्चर्यमनुसन्धत्ते – कथमिति । तथा सर्वोत्कृष्टो दुर्लभस्त्वम् करिगिरेः पुरस्तात् विश्वस्मै प्राणिने कथम् तिष्ठसे प्राणिमात्रम् रक्षिष्यामीति स्वाभिप्रायम् प्रकाशयसीत्यर्थः । तिष्ठस इति *प्रकाशनस्थेयाख्ययोश्च(अष्टा.१.३.२३)* इत्यात्मनेपदम् । विश्वस्मै इति *श्लाघह्नुस्थाशपाम् ञीस्यमानः(अष्टा.१.४.३४) इति सम्प्रदानसञ्ज्ञायाम् चतुर्थी ॥ १४ ॥

इत्थम् दिव्यात्मस्वरूपमनुसन्धाय प्रधानगुणाननुसन्धत्ते । स्वरूपवद् गुणाश्च पृथगुपास्या अनुभाव्याश्च प्रकृष्टमिति –

प्रकृष्टम् विज्ञानम् बलमतुलमैश्वर्यमखिलम्

विमर्यादम् वीर्यम् वरद! परमा शक्तिरपि च ।

परम् तेजश्चेति प्रवरगुणषट्कम् प्रथमजम्

गुणानाम् निस्सीम्नाम् गणनविगुणानाम् प्रसवभूः ॥ १५ ॥

चेतनान्तरज्ञानशक्त्यादिव्यावृत्त्यर्थ प्रकृष्टादिपदम् । ज्ञानम् नाम सर्वदा सर्ववस्तु साक्षात्कार: *यः सर्वज्ञः सर्वविद्(मुण्ड.१.१.१) इति हि श्रुतिः | अतुलम् निरुपमम् बलम् नाम अघटितघटनासामर्थ्यम् । एतञ्चामृतमथने सुरसुरासौहार्दम् सदन प्रसिद्धम् । ऐश्वर्यम् नाम कृत्स्नस्य जगतः स्वविधेयत्वकरणम् | “भीषास्मात् वातः पवते, भीषोदेति सूर्यः(तैत्ति.२.८) इति हि श्रुतिः | वीर्यम् नाम कृत्स्नजगद्धारणेऽप्यश्रमत्वम् । एतञ्च गोवर्धनमन्दराचलधारणादिषु प्रसिद्धम् । शक्तिर्नाम कृत्स्नस्य जगतः सृष्ट्यादिसामर्थ्यम् । एतच्चानेकश्रुतिप्रसिद्धम् | तेजो नाम पराभिभवनीय सामर्थ्यम् । एतञ्च खरदूषणादियुद्धे प्रसिद्धम् । इत्येवम् प्रकारम् प्रथमजम् भगवत्स्वरूपानुबन्धितया सहजम् षट्सङ्ख्यापरिमितमतो गुणषट्कम् गणनविगुणानाम् निःसङ्ख्यानाम् प्रसवभूः जन्मभूमिः षड्गुणा एव दयाक्षान्त्यौदार्यगाम्भीर्यादिरूपेण शाखोपशाखया प्रसिद्धा इति भावः । एतदेव गुणषट्कम् भगवच्छब्दप्रवृत्तिनिमित्तमाह भगवान् पराशरः –   *ज्ञानशक्तिबलैश्वर्यवीर्यतेजाम्स्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः*(वि.पु.४.५.७९) इति ॥ १५ ॥

इत्थम् गुणान् अनुसन्धाय गुणाविर्भावतिरोभावप्रयुक्त भेदम् व्यूहमनुसन्धत्ते गुणै इति

गुणैष्षड्भिस्त्वेतैः प्रथमतरमूर्तिस्तव बभौ

ततस्तिस्रस्तेषाम् त्रियुग! युगलैर्हि त्रिभिरभुः ।

व्यवस्था या चैषा ननु वरद! साऽऽविष्कृतिवशात्

भवान् सर्वत्रैव त्वगणितमहामङ्गलगुणः ॥ १६ ॥

हे त्रियुग! त्रीणि युगानि ज्ञानशक्त्यादि युगलानि यस्य त्रियुग षड्गुणेति यावत् । एतैः षड्भिर्गुणैरते प्रथमतर मूर्तिः परवासुदेवाख्या मूर्तिर्बभौ । परमपदनिलयो नित्यमुक्तभोग्यः परवासुदेवस्तु व्यूहबहिर्भूत एव । ततस्तदनन्तरम् तेषाम् गुणानाम् त्रिभिर्युगलैः सङ्कर्षणानिरुद्धप्रद्युम्नाख्यास्तिस्रो मूर्तयः अभुः भान्ति स्म । अभूरिति भादीप्ताविति धातोः लङि प्रथमपुरुषबहुवचनम् । तत्र ज्ञानबलाभ्याम् साङ्कर्षणी मूर्तिः सा शङ्कराधिष्ठात्री सम्हर्त्री, ऐश्वर्यवीर्याभ्याम् प्राद्युम्नी सा चतुर्मुखाधिष्ठात्री स्रष्ट्री, शक्तितेजोभ्याम् अनिरुद्धी सा तु स्वयमेव स्थितिकर्त्री इत्यर्थः । इत्थम् व्यूहभेदमवस्थाय तद्व्यवस्थायाम् कारणमाह – व्यवस्थेति । हे वरद! या व्यूहभेदव्यवस्था सा एषाम् गुणानामाविष्कृतिवशात् कृत्स्नगुणाविर्भावकतिपयगुणतिरोभाववशात् । ननु तर्हि त्रिमूर्तिषु कतिपयगुणतिरोधानम् तदभावादेव स्यादित्यत्राह भवानिति । सर्वत्र परव्यूहविभवार्चान्तर्यामिषु असङ्ख्येयकल्याणगुणगणः तिरोधानम् तु भगवत्सङ्कल्पवशाद्वा प्रयोजनवशाद्वा, न तु कर्मवशात्, नाप्यभावादिति भावः । अयमर्थः श्रीनिवासस्तोत्रेऽस्माभिरनुसम्हितः।

सर्वासु यद्यपि दशासु वृषाद्रिनाथ

सर्वैर्गुणैरपि भवान् परिपूर्ण एव ।

केचित् प्रयोजनवशेन गुणा: प्रथन्ते

व्यूहेषु केचन तथापि तिरोभवन्ति ॥ १६ ॥

सम्प्रति रामकृष्णादिविभवावतारमनुसन्धत्ते – इयमिति –

इयम् वैयूही वै स्थितिरथ किलेच्छाविहृतये

विभूतीनाम् मध्ये सुरनरतिरश्चामवतरन् ।

सजातीयस्तेषामिति तु विभवाख्यामपि भजन्

करीश! त्वम् पूर्णो वरगुणगणैस्तान् स्थगयसि ॥ १७ ॥

इयम् वैयूही व्यूहसम्बन्धिनी स्थितिर्मर्यादा, अथशब्दो विभवावतारकथन प्रारम्भे इच्छाविहाराय परमपदनिलयेषु सर्वज्ञेषु नित्यमुक्तेषु स्वाज्ञानप्रकाशनपितृवचनपरिपालनदौत्यसारथ्यसाधुपरित्राणादि स्वेच्छाविहारो न सम्भवति इति मन्यमान इति भावः । भवद्विभूतिभूतानाम् सुरनरतिरश्चाम् मध्ये अवतरन् हे करीश त्वम् परगुणगणैः पूर्णोऽपि । इतिशब्दः प्रकारवाची । अनेन सुरनरादिप्रकारेण तेषाम् सुरादीनाम् सजातीयः विभवावतारनिमित्ताम् रामकृष्णादिसञ्ज्ञाम् भजन् तास्तु ज्ञानशक्त्यादिगुणान् स्थगयसि । अन्यथा स्वेच्छाविहारो न स्यादिति मत्वेति भावः । वै प्रसिद्धौ ॥ १७ ॥

भगवतः सर्वावस्थास्वपि सर्वगुणानुगत्या न वैषम्यमित्यनुसन्धत्ते – पर इति –

परो वा व्यूहो वा विभव उत वाऽर्चावतरणो

भवान् वाऽन्तर्यामी वरवरद! यो यो भवसि वै ।

स स त्वम् सनैशान् वरगुणगणान् बिभ्रदङ्खिलान्

भजद्भ्यो भास्येवम् सततमितरेभ्यस्त्वितरथा ॥ १८ ॥

उतशब्दो वार्थः । वैशब्दः प्रसिद्धौ | अर्चावताररूपो भवान् वेत्यन्वयः । वरवरद प्रकृष्टवरद । त्वम् अर्चादिषु यो यो भवसि स स त्वम् सन्नैशान् ईश्वरसूचकान ज्ञानशक्त्यादीन् बिभ्रत् भजदद्भयः सेवमानेभ्यः श्रुत्या प्रत्यक्षेण वा एवमेव गुणवानेव भासि । इतरेभ्यः कुदृष्टिभ्यः इतरथा निर्गुणतः केवलम् देवतिर्यगादिरूपैश्च भासीत्यर्थः। तदुक्तम् गीतायाम् – *अवजानन्ति माम् मूढा मानुषी तनुमाश्रितम् । परम् भावमजानन्तो मम भूतमहेश्वरम्(भ.गी.९.११)* इति ॥ १८ ॥

आश्रितरक्षणोपयुक्तान् स्वरूपगुणान् आश्रितभोगोपयुक्तान् विग्रहगुणाम्श्च स्वस्य भोग्यतयानुसन्धत्ते – दयेति –

दयाक्षान्त्यौदार्यम्रदिमसमतासौहृदधृति-

प्रसादप्रेमाज्ञाश्रितसुलभताद्या वरगुणाः ।

तथा सौन्दर्याद्यास्तव वरदराजोत्तमगुणाः

विसीमानोऽसङ्ख्याः प्रणतजनभोगम् प्रसुवते ॥ १९ ॥

परदुःखप्रहाणेच्छा दया, प्रतीकारासमर्थस्याप्यपराधसहत्वम् क्षान्तिः । अर्थितारतम्यम् चानवेक्ष्य दातृत्वमौदार्यम्, आश्रितविरहासहिष्णुत्वम् म्रदिमा, प्राणिनाम् जातिगुणवृत्ताद्यनुरूपेण रक्षणम् समता, सर्वदा परहिते प्रवृत्तिः सौहृदम्, सर्वावस्थास्वपि अप्रकम्यप्यत्वम् धृतिः, सर्वदा सौमुख्यम् प्रसादः, आश्रितेष्वतिशयितप्रीतिः प्रेमा असताम् नियमनम् आज्ञा, सेवा आकर्षानादरेणाश्रितेषु सौलभ्यमाश्रितसुलभता सौशील्यमिति यावत् । परेषामपि दृष्टिचित्तापहारिणी अवयवशोभा सौन्दर्यम्, उभयत्राप्यादिशब्देन माधुर्यगाम्भीर्यलावण्यसौकुमार्यादीनाम् ग्रहणम् । हे वरदराज ! एवमाद्या विसीमानः आद्यन्तसीमाशून्या अथवा मम इमे विषया इमे तु नेति विषयविभागशून्या निस्सङ्ख्या उत्तम गुणाः प्रणतानामुत्तरोत्तरभोगम् जनयन्तीत्यर्थः ॥ १९ ॥

सम्प्रति प्रक्रान्तेषु स्वातन्त्र्यम् सार्वज्ञम् च निन्दास्तुतिद्वारेणानुसन्धत्ते – अनन्येति –

अनन्याधीनत्वम् तव किल जगुर्वैदिकगिरः

पराधीनम् त्वाम् तु प्रणतपरतन्त्रम् मनुमहे! ।

उपालम्भोऽयम् भोः! श्रयति बत सार्वज्ञ्यमपि ते

यतो दोषम् भक्तेष्विह वरद! नैवाकलयसि! ॥ २० ॥

*न तस्येशे कश्चन तस्य नाम महद्यशः, स्वे महिम्नि प्रतिष्ठितः (महा.१.१०)*  *सर्वस्य वशी, सर्वस्येशान (बृह.४.४.२२) इत्याद्या वैदिकगिरः तव अनन्याधीनत्वम् जगुः किल । वयम् तु तादृशम् त्वाम् प्रणतपराधीनम् मनुमहे । किम् च यतः कारणादिह सम्सारमण्डले भक्तेष्वकृत्यकरणकृत्याकरणादिदोषम् न जानासि । अतस्ते अयमुपालम्भः सार्वज्ञम् श्रयति *यः सर्वज्ञः सर्ववित्(मुण्ड.१.१.१) इत्यादिश्रुतिप्रसिद्धिम् च सार्वज्ञम् ॥ २० ॥

इत्थम् प्राप्यप्रापकभूतम् पञ्चावस्थम् परम् ब्रह्मतद्गुणाम्श्चाभिष्टुत्य सम्प्रति विशिष्यार्चावतारणम् वरदराजमभिष्टौति – समनन्तरदशकैः । तत्र दिव्यावयववर्णनम् क्रियते पाणिपादेति –

पाणिपादवदनेक्षणशब्दैरम्बुजान्यपदिशन् वरद! त्वम् ।

बाहुभिस्त्वतिविशालतमालानाञ्जनम् करिगिरेरसि शृङ्गम् ॥ २१ ॥

पाण्यादिवाचकशब्दैरम्बुजजानि तिरस्कुर्वन् बाहुभिस्त्वतिदीर्घतमालान् तिरस्कुर्वन् आत्मनः अञ्जनसम्बन्धी अञ्जनाकारः करिगिरेः शृङ्गोऽसि । अत्र पाण्यादिभिरिति वक्तव्ये शब्दग्रहणम् तद्वाचकशब्दा एवाम्बुजशब्दापदेशका इति सूचनार्थम् । यद्वा पाण्यादिशब्दैरम्बुजानि अपदिशन् ब्रुवन् पाण्यादीनामम्बुजत्वेन वेक्षितत्वात् तद्वाचकाः शब्दा अम्बुजवाचका इति भावः ॥ २१ ॥

केनापि विधिवशेन मध्ये विकलनेत्रः श्रीवत्साङ्कमिश्रः प्राकृतचक्षुषि निरपेक्षोऽपि की भगवद्भाष्यकारानुशासनात् भगवत्सेवानुकूलम् स्वमनोरथमाविष्करोति श्लोकद्वयेन – त्वामुदारमिति –

त्वामुदारभुजमुन्नसमायत्कर्णपाशपरिकर्मसदम्सम् ।

आयताक्षमभिजातकपोलम् पारणीयति वरप्रद! दृङ्मे ॥ २२ ॥

नीलमेघनिभमञ्जनपुञ्जश्यामकुन्तलमनन्तशयम् त्वाम् ।

अब्जपाणिपदमम्बुजनेत्रम् नेत्रसात्कुरु करीश! सदा मे ॥ २३ ॥

हे करीश त्वाम् प्रति पारणीयति, पारणामात्मन इच्छति *सुप आत्मनः क्यच्(अष्टा.३.१.८)* इति क्यच्प्रत्ययान्तात् पारणाशब्दाल्लटि रूपम् । उदारम् भुजम् वदान्यम्, उन्नसम् उन्नतनासिकम् । *उपसर्गाच्च(अष्टा.५.४.११९)* इत नासिकाशब्दस्य नसादेशः आयतः प्रशस्तकर्णः कर्णपाशः, केशपाश इतिवत् । परिकर्मालङ्कारः । आयत-कर्णपाशालङ्कारेण शस्तौ शोभमानौ अम्सौ यस्य, यस्य स तमित्यर्थः । अभिजातम् प्रशस्तम् ॥ २२ ॥

नीलमेघेति –

हे करीश त्वाम् नेत्रसात्कुर्वित्यर्थः । कुन्तलमलकम् । अब्जसदृशपाणिपादम् ॥ २३ ॥

इत्थम् प्रार्थितप्राकृतचक्षुः तन्निरपेक्षो अप्राकृतदिव्येन्द्रियैरनियतविषयैः स्वभोगम् प्रार्थयते – त्वक्चेति

त्वक्च दृक्च निपिपासति जिह्वा विह्वला श्रवणवत्परवृत्तौ ।

नासिका त्वयि करीश! तथेति प्राप्नुयाम् कथमिमाम् स्विदवस्थाम् ॥ २४ ॥

त्वयीति विषयसप्तमी । त्वक् च दृक् च निपिपासति पातुमिच्छति रसनेद्रियव्यापारमिच्छतीत्यर्थः । तथा रसनेन्द्रियम् श्रोत्रेन्द्रियवत् इतरेन्द्रियवृत्तौ व्याकुला भवति नासिका च तथा इतरेन्द्रियप्रवृत्तौ व्याकुला भवतीत्यर्थः । एवम् प्रत्येकम् प्रार्थितमर्थम् समुञ्चित्य प्रार्थयते प्राप्नुयामिति । इतिशब्दः प्रकारवाची एवम् प्रकारामिमाम् दशाम् कथम्स्वित्प्राप्नुयामित्यर्थः । मुक्तपुरुषाणामैच्छिकेन्द्रिय नियमाभावः श्रीगीतायामुक्तः *सर्वेन्द्रियगुणाभासम् सर्वेन्द्रियविवर्जितम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्त्य तिष्ठति(भ.गी.१३.१३-१४) इति ॥ २४ ॥

इतः परम् दिव्यभूषणान्यनुसन्धत्ते – आधिराज्यमिति -आधिराज्यमधिकम् भुवनानामीश! ते पिशुनयन् किल मौलिः । चूलिकामणिसहस्रमरीचेर्हस्तिभूषण! भवत्युदयाद्रिः ॥ २५ ॥ चतुर्दभुवनानामाधिराज्यम् चूलिकामणिः मौलिशिखामणिः स एव सूर्यः ॥ २५ ॥

अस्मदादीनाम् तु नित्यनैमित्तिकानुष्ठानाङ्गतया श्रीवैष्णवलाञ्छनतया मोक्षार्थम् चोर्ध्वपुण्ड्रधारणम् । भगवतस्तु किमर्थमिति विचिन्त्योत्प्रेक्षते – ऊर्ध्वमिति

उद्धरत्युपरिभक्तजनानित्यूर्ध्वताश्रयणसूचितशक्तिम् ।

ऊर्ध्वपुण्ड्रतिलकम् बहुमानात्किम् बिभर्षि वरद! स्वललाटे ॥ २६ ॥

भक्तजनान् सम्सारसागरादुपरि उद्धरतीति ऊर्ध्वताश्रयणेन सूचितवाच्यवाचकभावमूर्ध्वपुण्ड्ररूपम् तिलकम् भक्तजनोद्धरणबहुमानात् किम् स्वललाटे बिभर्षीत्यर्थः । अत्रोर्ध्वपुण्ड्रस्य तिर्यक्पुण्ड्रवैलक्षणत्वम् च विवक्षितम् ।

कर्णिका तव करीश! किमेषा कर्णभूषणमुताम्सविभूषा ।

अम्सलम्ब्यलकभूषणमाहो! मानसस्य मम वा परिकर्म ॥ २७ ॥

कर्णिकेति – कर्णिका कर्णभूषणम् | *कर्ण ललाटात् कनलङ्कारे(अष्टा.४.३.६५)* इति कन्प्रत्ययः । परिकर्मालङ्कारः । मम मानसेलङ्कारतया सदा परिस्फुरतीति भावः । उत यद्वा आहो अथवा ॥ २७ ॥

पारिजातविटपानभितो या पुष्पसम्पदुदियात्करिनाथ! ।

ताम् विडम्बयति तावकबाहुष्वातता तु कटकाङ्गदलक्ष्मीः ॥ २८ ॥

पारिजातेति –

विटपान् *अभितः परितः समया(वार्तिक,१४४२.४३) इति षष्ठ्यर्थे द्वितीया । पुष्पसम्पत् समृद्धिः विडम्बयति अनुकरोति । कटकम् करभुषणम् । अङ्गदम् बाहुमध्यभूषणम् । आतता विस्तृता ॥ २८ ॥

मथ्यमानचलफेनिलसिन्धुप्रोत्थितिक्षणदशाम् गमितौ ते ।

वक्षसि स्फुरितमौक्तिकहारे कौस्तुभश्च कमला च करीश! ॥ २९ ॥

मथ्यमानेति –

चलम् चञ्चलम् । फेनिलम् फेतवत् *फेनादिलञ्च(अष्टा.५.२.९९)* इति मत्त्वर्थे इलच्प्रत्ययः । प्रोत्थितक्षणदशाम् उभौ सिन्धू प्रोत्थितक्षणदशाम् तत्कालावस्थाम् गमितौ प्रापितौ । अनेन वक्षसो मथनदशायाम् फेनिलसमुद्रसाम्यम् विवक्षितम् ॥ २९ ॥

अञ्जनक्षितिभृतो यदि नामोपत्यका वरद! हेममयी स्यात् ।

तादृशी तव विभाति तु लक्ष्मीराम्बरी बत विडम्बितविद्युत् ॥ ३० ॥

अञ्जनेति –

अञ्जनमयपर्वतस्य उपत्यकानितम्बभूमिः अनुकूलविद्युत् आम्बरी पीताम्बर सम्बन्धिनी ॥ ३० ॥

इतः परम्  इमानि दिव्य भूषणान्यतिलङ्घ्य दिव्यावयवाननुसन्धत्ते । तत्र वक्त्रम् सूर्यत्वेन, अलकान् रात्रित्वेन रूपयति – परभागमिति –

परभागमियाद्रवेस्तमिस्रा वरदाद्य त्वयि तन्निशामयामः ।

गमिता तव वक्त्रचित्रभानोः परभागम् ननु कौन्तली तमिस्रा ॥ ३१ ॥

तमिस्रा तमः प्रचुरा रात्रिः, रवेः परभागम् पश्चाद्भागम्, इयात् प्राप्नुयादिति । हे वरद त्वयि तन्निशामयामः पश्यामः । रविः पुरतः स्फुरति, रात्रिस्तु पश्चादिति लोकप्रसिद्धम् । तदेवोपपादयति – गमितेति । वक्त्रमेवाश्चर्यभानुः । तस्य सम्बन्धिनी पश्चाद्भागम् । गमिता प्रापिता । अथवा रवेरिति हेतौ पञ्चमी । रवेर्हेतोस्तमिस्रापरभागम् वर्णोत्कर्षम् प्राप्नुयादिति यदलौकिकम् तत् त्वयि पश्यामः । कथमिति चेत् वक्त्रचित्रभानोर्हेतोः कौन्तली तमिस्रा वर्णोत्कर्षम् प्रापिता । अत एवात्र चित्रभानुपदप्रयोगः ॥ ३१ ॥

सम्प्रति ललाटफलकमष्टमीचन्द्रत्वेन वर्णयति – उभयोरिति –

उभयोरपि पक्षयोस्तिथिर्या विषमीभावनिरासदाऽष्टमीति ।

उपमानजसम्पदे हि सेन्दोर्वरदाभूद्भवतो ललाटलक्ष्म्या ॥ ३२ ॥

शुक्लकृष्णपक्षयोरपि इन्दोर्विषमीभावनिरासदाष्टमी पक्षद्वयेऽपि अष्टम्यामेकरूपोऽर्धचन्द्रः, इतरतिथिषु क्षयवृद्धिभ्याम् विषमीभवति । तस्माद्विषमीभावनिरासदाष्टमीति प्रसिद्धा या तिथिः सा स्वसम्बन्धिन इन्दोर्हि भवतो ललाटलक्ष्म्या भवतो उपमानजनितवैभवायाभूत् । लौकिक प्रकारेण भूवर्णने प्रवृत्तः स्तोता स्वयमेव स्ववचनम् निषेधति ॥ ३२ ॥

अलकालिचिकीर्षया किलात्ता सुपरीचिक्षिषया ललाटपट्टे ।

सुमषी निकषीकृता भ्रुवौ ते वरद! स्यादकृतत्वतस्तु नैवम् ॥ ३३ ॥

अलकेति –

परीक्षितुमिच्छा परिचिक्षिषया । अलकपङ्क्तिकरणे इयम् मषी योग्या न वेति धात्रा उपात्ता स्वीकृता । ललाटपट्टे निकषीकृता लिखिता सुमषी भ्रुवौ स्यात् । सम्भावनायाम् लिङ् । उद्देशस्यैकत्वादेकवचनम् । अकृतकत्वादेवम् नासम्भावितमित्यर्थः। सर्वेश्वर-विग्रहस्याकृतकत्वम् *इच्छागृहीताभिमतोरुदेहः(वि.पु.६.५.८४) इत्यादिपुराणप्रसिद्धम् ॥ ३३ ॥

भगवन्नेत्रे कर्णान्तायते । तत्रोपपत्तिम् वर्णयति – श्रवसश्चेति –

श्रवसश्च दृशश्च शब्दरूपग्रहणे ते न हि जीववद्व्यवस्था ।

उभयोरखिलेक्षणक्षमत्वाद्वरदातः! श्रवणाश्रये दृशौ ते ॥ ३४ ॥

जीवानाम् पञ्चेन्द्रियाणि शब्दादिपञ्चविषयेषु व्यवस्थितानि । भगवतस्तु नैवम् । अतो व्यवस्थाभावाच्चक्षुश्श्रोत्रे परममैत्र्या  परस्परसम्श्लिष्टेति भावः । अव्यवस्थायाम् हेतुमाह – उभयोरिति । ते हि न व्यवस्था । ते दृशावित्युभयत्रान्वयात् युष्मच्छब्दस्यापुनरुक्तिः ॥ ३४ ॥

सम्प्रति दृशम् नदीत्वेन रूपयन् वर्णयति – करुणारसेति –

करुणारसवाहिवीक्षणोर्मेर्वरद! प्रेममयप्रवाहभाजः ।

तततीरवनावली भ्रुवौ दृक्चलसिन्धोस्तव नासिकैःव सेतुः ॥ ३५ ॥

करुणारसवाहिनी वीक्षणमेव ऊर्मिर्यस्य तत् । तथोक्तम् । भक्ष्येषु प्रेमप्राचुर्यमेव प्रवाहः भ्रुवावेव विस्तृततीरवनावली । उभयत्रापि द्विवचनम् । दृशावेव चलसिन्धुः, नासिकैव सेतुरित्यर्थः ॥ ३५ ॥

चक्षुर्व्यापारम् वर्णयति – विभवमिति –

विभवम् विवृणोति विस्तृणीते रुचमाविष्कुरुते कृपामपाराम् ।

अभिवर्षति हर्षमार्द्रभावम् तनुते ते वरदैष दृष्टिपातः ॥ ३६ ॥

विभवमैश्वर्यम् वर्धयति, रुचम् द्रष्टृणाम् कान्तिम् तथा भक्तेषु हर्षम् आर्द्रभावम् द्रष्टृणाम् चित्तदृष्टिभावम् ॥ ३६ ॥

अरुणाधरपल्लवे लसन्ती वरदासौ द्विजचन्द्रचन्द्रिका ते ।

अधिविद्रुममस्तनिस्तलालीरुचमाविष्कुरुते हि पुष्कराक्ष! ॥ ३७ ॥

अरुणेति –

द्विजा दन्ताः, त एव चन्द्राः, अधिविद्रुमम् विद्रुमे, सप्तम्यर्थेऽव्ययीभावः । अस्तानाम् पर्यस्तानाम्, निस्तुलानाम् वृत्तानाम् मुक्तानामित्यर्थाल्लभ्यन्ते । तेषामालिः पङ्कितः, तस्या रुचम् कान्तिम् ॥ ३७ ॥

स्मितनिर्झरिका विनिष्पतन्ती तव वक्षः स्थलभूतले विकीर्णा ।

वरद! प्रबिभर्ति हारलक्ष्मीमपि मुक्तावलिका नदीव तज्जा ॥ ३८ ॥

स्मितेति –

स्मितमेव निर्झरिका, धाराप्रवाहः उन्नतप्रदेशात् विनिष्पतन्ती विकीर्णा प्रकीर्ण हारशोभाम् बिभर्ति । अपि च सहजालङ्कारभूता मुक्तावलिका तज्जा विशीर्णनिर्झरजा नदीव शोभत इत्यर्थः ॥ ३८ ॥

परिमण्डितरासमण्डलाभिर्वरदाघ्रातमभीष्टगोपिकाभिः ।

अनुवर्तितदातनप्रहर्षादिव फुल्लम् हि कपोलयोर्युगम् ते ॥ ३९ ॥

परिमण्डितेति –

रासो नाम अनेकपात्राश्रयो मण्डलाकारो नृत्तविशेषः । असङ्ख्याभी रासमण्डलाभिः आघ्रातम् पूर्वघ्रातम् तदानीम् रासक्रीडासमये भवतस्तदातनः अनुवृत्त इदानीमप्यनुवृत्तः । तदातनश्चासौ प्रहर्षश्चेति विशेषणसमासः । तस्मात् फुल्लम् विकसितम् । इयमुत्प्रेक्षा ॥ ३९ ॥

मुखमुन्नसमायताक्षमुद्यत्स्मितदन्तम् रुचिराधरम् नतभ्रु ।

लसदम्सविलम्बिकर्णपाशम् मयि ते निश्चलमस्तु हस्तिनाथ! ॥ ४० ॥

मुखमिति –

उद्यत्स्मितमेषाम् ते उद्यत्स्मितास्तादृशादन्ता यस्येति पुनर्बहुव्रीहिः । निश्चलम् स्थिरम् ॥ ४० ॥

पद्मायाः प्रणयरसात्समासजन्त्याः

स्वम् बाहुम् सुबहुमतो भुजेन तेन ।

काम् नामान्वभवदहो! दशाम् तदात्वे

कण्ठस्ते करिगिरिनाथ! कम्बुकान्तः ॥ ४१ ॥

पद्माया इति –

स्वम् बाहुम् भगवतस्तेन भुजेन समासजन्त्याः कर्णपर्यन्तम् सम्सक्तम् कुर्वन्त्या पद्मायाः सुबहुमतस्तत्कण्ठः, तदात्वे तस्मिन् काले काम् दशामन्वभवत् सा दशा त्वदेकवेद्येति भावः । अत्रामृतमथनसमये प्रथमसम्श्लेषोऽभिप्रेत इति पूर्वाचार्याः ॥ ४१ ॥

सायामा धृतपरिणद्धयोऽब्धयो वा

तादृश्यः स्फुटमथवा दिशश्चतस्रः ।

चत्वारो वरद! वरप्रदास्त्वदीया

भासन्ते भुजपरिघास्तमालनीलाः ॥ ४२ ॥

सेति –

आयामो दैर्घ्यम् तेन सह वर्तन्त इति सायामाः । परिणद्धिः परिणाहो विशालता, सन्नाहो वा । धृता परिणद्धिर्येषाम् ते तथोक्ताः । तादृश्यः आयामपरिणाहवत्यः भुजपरिघाः परिघा इव भुजा: समुद्रोपमानेन माम्सलत्वादिरूपमानेनदैर्घ्यम् विवक्षितम् । अथवेति पदद्वयम् । अथेति पक्षान्तरपरिग्रहे । उभयत्र वाशब्दः इवार्थः ॥ ४२ ॥

आश्लेषे वरद! भुजास्तवेन्दिरायाः

गोपीनामभिमतरासबन्धने वा ।

बन्धे वा मुदमधिकाम् यशोदयाऽऽहो!

सम्प्राप्तास्तव नवनीतमोषदोषात् ॥ ४३ ॥

आश्लेषेति –

रासबन्धने रासक्रीडायाम् अन्योन्यभुजबन्धने मोष चौर्यम् स एव दोषोऽपराध अहोशब्दो वाशब्दद्वयमपि वितर्के । इतरबन्धनवच्चौर्यनिमित्तबन्धनमपि भक्तवात्सल्यात् भगवतोऽभिमतमिति भावः ॥ ४३ ॥

सालीया इव विटपास्सपल्लवाग्राः

कल्लोला इव जलधेस्सविद्रुमाग्राः ।

भोगीन्द्रा इव च फणामणीद्धवक्त्रा

भासन्ते वरद! भुजास्तवारुणाग्राः ॥ ४४ ॥

सालीयेति –

सालवृक्षसम्बन्धिनः सालीयाः फणासु मणयः तैरिद्धम् दीप्तम् वक्त्रम् येषाम् ते तथोक्ताः ॥ ४४ ॥

अम्भोधेस्स्वयमभिमन्थनम् चकर्थ

क्षोणीध्रम् पुनरबिभ्रश्च सप्तरात्रम् ।

सप्तानाम् विवलयसि स्म कण्ठमुक्ष्णाम्

अम्लाना वरद! तथाऽपि पाणयस्ते ॥ ४५ ॥

अम्भोधे इति –

चकर्थेति कर्तुः परोक्षतया लिट्प्रयोगः मध्यमपुरुषैकवचनम् । अबिभ इति भृञ् भरण इत्यस्माद्धातोर्लङ् मध्यमैकवचनम् । पूर्वमसुरा एव सप्तर्षभा जाताः । तत्र नग्नजिद्राजा सप्तर्षभान् एकस्मिन् स्तम्भे बध्नाति तस्मै स्वकन्याम् सत्याख्यम् दास्यामीति शपथम् कृतवान् । तदनुसन्धत्ते – सप्तानामुष्णानाम् कण्ठम् विवलयसि विवर्तयसि विवृत्य बध्नासीति यावत् । स्मशब्दः सन्निहितत्वात् भूतार्थत्वम् । कण्ठमिति जात्येकवचनम् । सप्तरात्रमिति सप्तानाम् रात्रीणाम् समाहारः । सङ्ख्यापूर्वाद्रात्रिशब्दात् समासान्तोऽच्प्रत्ययः ॥ ४५ ॥

पाणीनाम् सहजमरुणत्वम् तत्र निमित्तमुत्प्रेक्षते – रिङ्खात इति –

रिङ्खातो व्रजसदनाङ्गणेषु किम् ते

गोयष्टिग्रहणवशान्नु गोपगोष्ठ्याम् ।

आलम्बाद्धयनयसूत्रतोत्रयोर्वा

पाणीनाम् वरद! तवारुणत्वमासीत् ॥ ४६ ॥

रिङ्खा नाम जानुपाणिभ्याम् चङ्क्रमणम् गोयष्टिर्गोप्रचारयष्टिः । हयनायेति – रथ्यानाम् हयानाम् नयनार्थम् सूत्रम् तोत्रम् अश्वप्रेरणयष्टिः ॥ ४६ ॥

सर्वज्ञास्समुचितशक्तयस्सदैव

त्वत्सेवानियमजुषस्त्वदेकभोगाः ।

हेतीनामधिपतयस्सदा किमेतान्

शोभार्थम् वरद! बिभर्षि? हर्षतो वा ॥ ४७ ॥

सर्वज्ञा इति –

त्वत्सेवेति । त्वदसाधारण इत्यर्थः । त्वदेकभोगा इति त्वद्दर्शनैकभोगा इत्यर्थः । हेतीनाम् आयुधानाम् शोभार्थम् अलङ्कारार्थम् हर्षतः सदा सेवाजनितहर्षात् श्रीपञ्चायुधानाम् आभरणत्वम् युद्धोपकरणत्वमस्तीति मन्तव्यम् ॥ ४७ ॥

किम् धातुर्गगनविधानमातृकाऽभूत्

वक्षस्ते वरद! वरेण्य! यत्र नाम ।

पद्माया मुखमथ कौस्तुभश्च जातौ

चन्द्रार्कावुडुनिकरायते तु हारः ॥ ४८ ॥

किमिति –

मातृका प्रथमप्रकृतिः । धाता हि गगनम् (निर्मिमाणः) भगवद्वक्षो विलोक्य तत्सदृशतया निर्मितवान् इत्यर्थः । मुखम् कौस्तुभश्च चन्द्रार्को इत्यन्वयः । हारो नक्षत्रसमूहवदाचरतीति उडुनिकरायत इति ॥ ४८ ॥

लोके यन्महद्द्रव्याधिकरणम् तन्महद्दृष्टम् सर्वेश्वरे तु तन्न दृष्टमिति लोकदृष्ट्याक्षिप्य स्वयमेव समाधत्ते – अण्डानामिति –

अण्डानाम् त्वदुदरमामनन्ति सन्तः

स्थानम् तद्वरद! कथम् नु कार्श्यमस्य ।

माहात्म्यम् स्वत इह येषु नूनमेषाम्

ऋद्धिस्स्यान्महिमकरी न हीतरेषाम् ॥ ४९ ॥

ब्रह्माण्डानाम् त्वदुदरस्थानामधिकरणम् यद्यस्मात् कारणात् आमनन्ति सन्तः पौराणिकाः तस्मादनेकमहद्द्रव्याश्रयस्य तस्य कथम् कार्श्यम् विरुद्धमित्यर्थः । समाधत्ते – येषु पदार्थेषु स्वतो माहात्म्यम् महत्त्वम् येषाम् पदार्थानाम् ऋद्धिः समृद्धिराश्रय महिमकरी महत्वकरी स्यात् । स्वतो माहात्म्यरहितानाम् सर्वेश्वराधीन माहात्म्यानाम् इतरेषाम् ऋद्धिर्नाश्रय महिमकरी अतोऽचिन्त्यमहिमा सर्वेश्वरो वरप्रद इति भावः । अत्र पदार्थानाम् स्वतो माहात्म्यम् इत्युक्तिः । नूनम् स्वतो माहात्म्यमित्युक्तिर्लौकिकदृष्ट्या सर्वेश्वरव्यतिरेकेण स्वतः माहात्म्यासम्भवात् । एवम् वाऽन्वयः येषु पदार्थषु स्वतो माहात्म्यम् एषाम् स्वतो माहात्म्यवताम् स्वतो माहात्म्यशून्यानाम् स्वसम्बन्धीनि ऋद्धिर्महिमकरी न स्यादिति स्वतो माहात्म्यवतो भगवदुब्जस्य स्वतो माहात्म्यरहितानामण्डानाम् कार्श्येऽप्यधिकरणत्वम् युक्तमिति भावः ॥ ४९ ॥

सम्प्रति नाभिमावर्तत्वेन तमेवावर्तम् पुनः पद्मत्वेन निरूप्य देहकान्तिमपि लक्ष्मीत्वेन निरूप्य तत्पद्मसदृशलक्ष्मी वेश्मतया वर्णयति – दिव्यविग्रहस्य नदीत्वेन रूपणमप्यर्थसिद्धम् – सौन्दर्येति –

सौन्दर्यामृतरसवाहवेगजस्स्यात्

आवर्तस्तव किल पद्मनाभ! नाभिः ।

तत्पद्मम् वरद! विभाति कान्तिमय्या

लक्ष्म्यास्ते सकलवपुर्जुषो नु सद्म ॥ ५० ॥

सौन्दर्यमेवामृतरसः तस्य वाह: प्रवाहः तस्य वेगज इत्यर्थः । तच्छब्देनावर्तः परामृश्यते । आवर्तशब्दस्य पुल्लिङ्गत्वेऽपि विधेयपद्मविवक्षया नपुम्सकलिङ्गत्वम् । तत् पद्मम् सत् सकलदेहभाजः कान्तिमय्या लक्ष्म्याः कान्तिस्वरूपाया लक्ष्म्याः सद्म भवनम् अनुसद्मेति पदच्छेदः । आवर्तत्वेन रूपिताया नाभे: पद्मत्वेन रूपणादिदम् रूपितरूपकम् । तदुक्तम् कविभिः *मुखपङ्कजरङ्गेऽस्मिन् भ्रूलतानर्तकी तव(काव्यादर्श.२.९३) इति। अत्र मयट्प्रत्ययः स्वार्थिकः, अथवा तत्पद्मम् नाभिस्थम् प्रसिद्धम् पद्मम् । अत एव पद्मनाभेति सम्बोधनम् । अस्मिन् व्याख्याने रूपितनिरूपणम् न विवक्षितम् ॥ ५० ॥

वलित्रयम् दामकृतकिणरेखात्वेन वर्णयति – य इति –

या दामोदर इति नामदा तवासीत्

सा दामा किल किणकारणी बभूव ।

तन्नूनम् वरद! वलित्रयच्छलेन

त्वन्मध्यप्रथमविभूषणी बभूव ॥ ५१ ॥

दाम रज्जुः किणकारिणी नवनीतमोषणे पुनः पुनः बन्धनात् शुष्कानेकव्रणकारिणी तत्किणकरणच्छलेन व्याजेन प्रथमविभूषणम् सहजविभूषणम् ॥ ५१ ॥

यादृग्बीजाध्युषितभुवि यद्वस्तु हस्तीश! जातम्

तत्तादृक्षम् फलति हि फलम् त्वय्यपीक्षामहे तत् ।

यस्मादण्डाध्युषित उदरे तावके जायमानम्

पद्मम् पद्मानन! किल फलत्यण्डषण्डानखण्डान् ॥ ५२ ॥

यादृगिति –

यादृशेन यज्जातीयेन बीजेनाध्युषितायाम् भुवि यद्वस्त्वङ्कुरादिकम् जातम् तत् तादृक्षम् तज्जातीयम् फलम् फलमिति यत् तत् त्वय्यपीक्षामहे तदेव दर्शयति यस्मादिति अखण्डान् सम्पूर्णान् उदरे जातमित्यधिकरणत्वमात्रम् विवक्षितम् *विवक्षातः कारकाणि भवन्ति(महाभाष्य) इति न्यायात् । तथाप्यपादाने पर्यवस्यति ॥ ५२ ॥

तत्त्वनिर्णयम् कुर्वन् पुनरपि नाभिपद्मम् वर्णयति- अज्ञ इति –

अज्ञे यज्ञेश्वर! किल जने क्वाप्यदर्शम् विमर्शम्

विश्वाधीशः कतम इति तन्निर्णयम् वर्णयामः ।

व्यावक्रोशी नृषु समुदिता यानुपाश्रित्य तेऽपि

ब्रह्माद्यास्ते वरद! जनितास्तुन्दकन्दारविन्दे ॥ ५३ ॥

हे यज्ञेश्वर यज्ञस्वामिन् तद्यज्ञस्समाराधितस्सन् तद्यज्ञफलप्रदेति भावः । अज्ञे क्वापि जने विश्वस्वामी विश्वकारणम् । चतुर्वर्गप्रदश्च क इति विचारमदर्शम् दृष्टवानासम् । एतदुक्तम् भवति – *कारणम् तु ध्येयः(अ.शि.३)* इत्यादिभिर्वाक्यैः कारणध्यानान्मोक्षप्राप्तिः श्रुता । तच्च कारणम् किमिति जिज्ञासायाम् *सदेव सोम्येदमग्र आसीत्(छान्. ६.२.१)*, *ब्रह्म वा इदमग्र आसीत्(बृह.१.४.१)* इत्यादिभिर्वाक्यैः सामान्येन सन्मात्रम् प्रज्ञैव कारणतया प्रतिपन्नम् । पुनर्विशेषजिज्ञासायाम् *हिरण्यगर्भः समवर्तताग्रे, (तैत्ति.सम्.४.२.८)* *भूतस्य जातः पतिरेक आसीत्,(तैत्ति.सम्.४.१.८)* *न सन् न चासच्छिव एव केवलः(श्वेता.४.१८)* *इन्द्रो मायाभिः पुरुरूपमीयते(ऋग्वेद.४७.१८)* इत्यादिभिः वाक्यैः तत्त्वम् विप्लुतम् । अतः किम् तत्त्वमिति । अज्ञे जने विमर्शदर्शमिति समीचीनन्यायमुखेन श्रुतितात्पर्यनिर्णयक्षमा । वयम् तन्निर्णयम् वर्णयामः । एतदुक्तम् भवति – *एको ह वै नारायण आसीत्, न ब्रह्मा नेमे द्यावापृथिवी(महो.१.१) इत्यादिभिर्वाक्यैः ब्रह्मशिवादिकृत्स्नवस्तुविलयेन नारायणस्यैकस्य अवस्थानम् श्रुतेः । *विष्णोः सकाशादुद्भूतम् जगत् तत्रैव च स्थितम् । स्थितिसम्यमकर्तासौ जगतोऽस्य जगच्च सः(वि.पु.१.३१)* इति उपबृह्मणाच्च स एव परमकारणम्, इन्द्रशिवादिशब्दास्तु रूढिवशात् रूढिपरित्यागेन नारायणपरा इति । तर्हि शिवः परतत्त्वम्, चतुर्मुखः पर तत्त्वमिति पामरप्रसिद्धेः का गतिरित्यत्राह – व्यावक्रोशीति । नृषु पामरजनेषु शिवादीन् परतत्त्वमित्याश्रित्य या व्यावक्रोशी परस्परव्यत्ययेनाक्रोशनम् तेऽपि ब्रह्माद्यास्ते तुन्दम् उदरम्, तदेव कन्दम्मूलम् यस्यारविन्दस्य तस्मिन् त्वद् जनितानाम् त्वदवरत्वमेव न तु त्वदुत्तरत्वमिति भावः । तथा च श्रुतिः *अजस्य नाभावध्येकमर्णितम् यस्मिन्निदम् विश्वम् भुवनमधिश्रितम् विश्वकर्माण्यजनिषदेव आदित्यगन्धर्वो अभवद् द्वितीयः तृतीयः पिता जनयितौषधीनम्(तै.यजु.४.६.२) इति । तथा भारते – *एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ । तदा दर्शितपन्थानौ सृष्टिसम्हारकारकौ(महा-शान्ति.३५०-१९) इति । व्यावक्रोशीति क्रुश आह्वान इति अस्मात् धातोः *कर्मव्यतिहारे णच् स्त्रियाम्(अष्टा. ३.३.४३) इति णच्प्रप्रत्यये विहिते ङीपि च कृते रूपम् ॥ ५३ ॥

मुष्णन्कृष्णः प्रयनिजजनैर्जय्यहैयङ्गवीनम्

दाम्ना भूम्ना वरद! हि यया त्वम् यशोदाकराभ्याम् ।

बद्धो बन्धक्षपणकरणीम् ताम् किलाद्यापि मातुः

प्रेम्णा गात्राभरणमुदराबन्धनाख्यम् बिभर्षि ॥ ५४ ॥

मुष्णन्निति –

उदराबन्धनाख्याभरणमुदरबन्धनदामत्वेन वर्णयति ।  प्रियैर्निजजनैजय्यः जेतुम् शक्यः। क्षय्य जय्यौ शक्यार्थ इति शक्यार्थे जय्यशब्दो निपातितः । भक्तवत्सलेति यावत् । अत एव तव दाम्ना बन्धनमुचितमिति भाव: । भूम्नातिशयेन दाम्ना बद्ध इत्यन्वयः । ध्यायताम् सम्सारबन्धक्षपणकरणीम् ताम् दामानमद्यापि अर्चावस्थायामपि मातृवात्सल्येन उदराबन्धनाख्यमुदरबन्धन नामकमुदरबन्धनापदेशकमिति यावत् ॥ ५४ ॥

सम्प्रति सौन्दर्यानामा वस्थापन्नम् नदीत्वेन रूपयति – सौन्दर्येति –

सौन्दर्याख्या सरिदुरसि विस्तीर्य मध्यावरुद्धा

स्थानाल्पत्वाद्विषमगतिजावर्तगर्ताभनाभिः ।

प्राप्य प्राप्तप्रथिम जघनम् विस्तृता हस्तिनाथ!

स्रोतोभेदम् भजति भवतः पाददेशापदेशात् ॥ ५५ ॥

सौन्दर्याख्या सौन्दर्यव्यपदेशा स्थानात्पत्वान्मध्यदेशे अवरुद्धा सती विषमगतिजनितावर्तरूपगर्तवद्भासमाननाभिः गर्तः पल्वलम् प्राप्तप्रथिमेति जघनविशेषणम् । पादद्वयप्रदेशव्याजात् ॥ ५५ ॥

रम्भास्तम्भाः करिवरकराः कारभास्सारभाजो

वेषाश्लेषा अपि मरकतस्तम्भमुख्यास्तुलाख्याः ।

साम्यम् सम्यग्वरद! न दधुस्सर्वमुर्वोस्त्वदूर्वोः

न ह्यैश्वर्यम् दधति न तथा यौवनारम्भजृम्भाः ॥ ५६ ॥

रम्भेति –

सारम् प्राशस्त्यम् भजतीति सारभाजः । वेषम् शोभाम् श्लिष्यन्ति सम्बध्नन्तीति वेषाश्लेषाः तुलाम् सादृश्यमाख्यान्तीति तुलाख्याः सादृश्यभाज इति यावत् । एतत्त्रयम् चतुर्णाम् रम्भास्तम्भादीनाम् विशेषणम् कारभः करस्य पार्श्वप्रदेशः । तत्सम्बन्धिनः प्रदेशाः करम्भाः अन्वयस्तु एवम् विशेषणविशिष्टम् मरतकस्तम्भमुख्या रम्भास्तम्भादयः उर्वोः पृथ्वोस्त्वदूर्वोः सर्वम् साम्यम् न दधुः । अतस्तत्राह न हीति । ऐश्वरमीश्वरसम्बन्धित्वम् सौन्दर्यैश्वर्यम् वा न हि दधति तथा यौवनारम्भजृम्भण यौवनारम्भणानि च न दधतीत्यर्थः । पुनरपि कान्तिम् नदीत्वेन रूपयित्वा पादद्वयम् प्रवाहयुगलत्वेन जानुद्वयम् ऊर्ध्वभ्रमित्वेन ककुदत्वेन च वर्णयति । अत्रोर्ध्वभ्रमिर्नाम वर्तुलाकारम् जलबुद्बुदम् विवक्षितम् न त्वावर्तः ॥ ५६ ॥

या ते गात्रे वरद! जनिता कान्तिमय्यापगाऽभूत्

तस्यास्स्रोतोयुगलमिह यद्याति पादप्रवादम् ।

तज्जातोर्ध्वभ्रमियुगमिवोद्भानुनी जानुनी ते

स्यादुक्ष्णोर्वा ककुदयुगलम् यौवनैश्वर्यनाम्नोः ॥ ५७ ॥

येति –

पादप्रवादम् पादव्यपदेशम् यौवनैश्वर्यनाम्नोः यौवनैश्वर्यव्यपदेशयोः । अत्र सर्वशरीरव्यापि यौवनमेव गर्वान्मदाच्च वृषभ युगलत्वेन रूपितम् । माम्सलतया जानुद्वयम् तत् ककुदत्वेन अकारान्तोऽपि ककुदशब्दोऽस्तीति मन्तव्यम् । इह तस्याः कान्तिमय्यापगायाः यत् स्रोतोयुगलम् तत् पादप्रवादम् यातीत्यन्वयः । स्वयम् परिमलम् बहलम् कण्टकितनालम् कमलयुगलम् यदि करिगिरिशिखरम् स्वतोऽधिकपरिमलमाघ्रातुम् अधोमुखी भवेत् तदा तादृशकमलत्वेनाङ्घ्रियुगलम्, तन्नालत्वेन च जङ्घाद्वयम् स्यादिति वर्णयति ॥ ५७ ॥

प्रेम्णाऽऽघ्रातुम् करिगिरिशिरोऽधोमुखीभावभाजोः

अङ्घ्रिद्वन्द्वाह्वयकमलयोर्दण्डकाण्डायमाने ।

अद्रिस्पर्शोद्भवसुखत उत्कण्टके रोमहर्षात्

द्रष्टुर्दृष्टिर्वरद! किमलम् लङ्घितुम् जङ्घिके ते ॥ ५८ ॥

प्रेम्णेति –

अधोमुखीभावमधोमुखीभवनम्, अङ्घ्रीति अङ्घ्रिद्वन्द्वव्यपदेशकरणयोरित्यर्थः। अन्वयस्तु – हे वरद एतादृशोः कमलयोः दण्डकाण्डयमाने अद्रिस्पर्शोद्भवसुखतो रोमहर्षादुत्कण्ठके जङ्घे अतिक्रान्तुम् द्रष्टुः पुरुषस्य दृष्टिरलम् किम् समर्थम् किम् न समर्थमित्यर्थः ॥ ५८ ॥

दहरादिस्थानेषु भवतः किम् वा प्रियतममिति प्रश्नमुखेन पादाम्बुजम् वर्णयति भक्तानामिति –

भक्तानाम् यद्वपुषि दहरम् पण्डितम् पुण्डरीकम्

यच्चाम्लानम् वरद! सतताध्यासनादासनाब्जम् ।

आम्नायानाम् यदपि च शिरो यश्च मूर्धा शठारेः

हस्त्यद्रेर्वा किमतिसुखदम् तेषु पादाब्जयोस्ते ॥ ५९ ॥

*दह्नम् विपाप्मम् परवेश्मभूतम् यत् पुण्डरीकम् पुरमध्यसम्स्थम् । तत्रापि दह्नम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम्* (महा.८.१३) इति श्रुतिप्रसिद्धम् पुण्डरीकम् । श्रुत्यस्तु दह्नम् दभ्रमल्पम् पापरहितम् भगवदुपासनस्थानतया परवेश्मभूतम् शरीरमध्यम् प्रतिष्ठितम् यद्धृदयपुण्डरीकम् तत्र पुण्डरीके विशोकम् शोकमोहादिरहितम् गगनमाकाशम् ब्रह्मस्वरूपमिति यावत् । तस्मिन् स्वरूपे यदन्तः कल्याणगुणजातम् तदुपासितव्यमिति पण्डितम् परिशुद्धम् विकसितमिति वा पडिपिडिसङ्घात इति धातो: पण्डितशब्दयुत्पत्तिः सम्हतमिति मुख्यार्थस्त्वयुक्तः । दहरसि दभ्रमल्पम् सततनिवासात् अम्लानम् म्लानिरहितम् विकसितमिति यावत् । विमलादष्टशक्त्यधिष्ठिताष्टदलम् सकर्णिकम् यच्चासनपद्मम् यद्यपि सतताध्यासनम् लोके म्लानिनिमित्तम् तथापि भगवत्पादाब्जयोरत्यन्तसुकुमारतया विकासनिमित्तत्वम् यच्च वेदान्तशिरः द्रमिडोपनिषत्प्रवर्तकस्य प्रपन्नजनकूटस्थस्य शठकोपमुनेः यश्च मूर्ध्ना यश्च हस्त्यद्रेर्वा मूर्धा तेषु मध्ये ते पादाब्जयोः किमतिसुखदम् ॥ ५९ ॥

सम्प्रति दिव्यविग्रहकान्तिम् सिन्धुत्वेन निरूप्य पदाङ्गुलीः प्रान्ततरङ्गपङ्क्तित्वेन निरूप्य चन्द्रस्य तत्र प्रतिफलनमुत्प्रेक्ष्य नानात्मना प्रतिफलितस्यैव तस्य नखपङ्क्तित्वमुत्प्रेक्षते – पद्यास्विति –

पद्यास्वद्याङ्गुलिषु वरद! प्रान्ततः कान्तिसिन्धोः

वीचीवीथीविभवमुभयीष्वम्भसो लम्भितासु ।

विन्दन्निन्दुः प्रतिफलनजाम् सम्पदम् किम् पदम् ते

छायाच्छद्मा नखविततिताम् लम्भितश्शुम्भितस्सन् ॥ ६० ॥

हे वरद! अद्य कान्तिसिन्धो अम्भसाम् प्रान्तदेशे वीचिवीथिविभवम् तरङ्गपङ्क्तिवैभवम् लम्भितासु प्रापितासु पद्यासु पदसम्बन्धिनीषु *शरीरावयवाद्यत्(अष्टा.५.१.६) इति यत्प्रत्ययः । उभयीषु उभयविधासु अङ्गुलीषु प्रतिफलनजाम् सम्पदम् विन्दन् प्राप्नुवन् इन्दुः तत एव छायाच्छद्मा प्रतिफलनव्याजतः शुम्भितः सन्  शुभि शुम्भि शोभार्थ इति धातुः । ते पदनखविततिनाम् लम्भितः किम् । किम् लम्भित इति णिजन्ततया द्विकर्मक: पदयोर्नखविततित्वम् प्रापित इत्यर्थः ॥ ६० ॥

शम्भोरम्भोरुहमुख! सखा सन् सहाङ्कश्शशाङ्कः

कुर्वन्सेवाम् वरद! विकलो वृत्तहीनस्सुवक्रः ।

त्वत्पादाब्जे प्रियमुख! नखच्छद्मनाऽऽश्रित्य नित्यम्

सद्वृत्तोऽभूत्स तु दशगुणः पुष्कलो निष्कलङ्कः ॥ ६१ ॥

शम्भोरिति –

हे अम्भोरुहमुख हे प्रियसखमख शशाङ्कः शम्भोः सखा सन् सेवाम् कुर्वन् शशाङ्ककलङ्कसहित विकलो विगतकलः वृत्तहीनः आचारहीनः सुवक्रः वक्राकृतिः शठचित्तो वा आसीत् । स तु पश्चात् पादाब्जे नखव्याजेनाश्रित्य निष्कलङ्कः पुष्कलः परिपूर्णम् सद्वृत्तः सदाचारः दशगुणपूर्वा चाराद्दशगुणः शाठ्यादिदोषरहितो वा आसीत् । अयमत्र ध्वनिः । अपकृष्टसेवया अपकर्षप्राप्तिः उत्कृष्टसेवया उत्कर्षप्राप्तिः इति ॥ ६१ ॥

त्वत्पादाब्जे प्रजाता सुरसरिदभवत्प्राक् चतुर्धा ततस्तासु

एकाम् धत्ते ध्रुवस्सा त्रिभुवनमपुनात्त्रीन्पथो भावयन्ती ।

तत्रैका खम् व्रजन्ती शिवयति तु शिवम् सा पुनस्सत्पधाऽभूत्

तास्वेका गाम् पुनाना वरद! सगरजस्वर्गसर्गम् चकार ॥ ६२ ॥

त्वदिति –

त्रैविक्रमावसरे सत्यलोकपर्यन्तम् भगवत्पादपद्मम् प्रसारितम् । तदानीम् चतुर्मुखः स्वयमर्चनार्थम् तत्प्रक्षालयामास । तत् सलिलम् तदानीम् विष्णुपदी सुरसरिदिति प्रसिद्धम् । चतुर्धा विभक्तम् चत्वारि स्रोताम्स्यभवत् तदुक्तम् श्रीविष्णुपुराणे – *जगतः पावनार्थाय सा प्रयाता चतुर्दिशम् । सीता चालकनन्दा च चक्षुर्भद्रा च वै क्रमान्(वि.पु. २.२.३३) इति । सिता चक्षुर्भद्रा च ध्रुवमण्डलमप्राप्यैव मेरोः  पूर्वपश्चिमोत्तरभागेषु प्रसृतास्तत्तदर्णवान् प्रविशन्ति । अलकनन्दा तु ध्रुवमण्डलमाप्लावयन्ती मेरोदक्षिणभागे प्रसृता त्रेधा विभक्ताभूत् । तत्रैका स्वर्लोकम् व्रजन्ती मन्दाकिनी अभूत् । अपरा तु पातालम् व्रजन्ती सगरपुत्रान् भोगवत्यभूत् । भुवम् पतन्तीम् तृतीयामन्तरिक्ष एव शिवः शिरसा दधार । तदुक्तम् विष्णुपुराणे – *भेदम् चालकनन्दाख्यम् यस्याः शर्वोऽपि दक्षिणम् । दधार शिरसा प्रीत्या वर्षाणामधिकम् शतम्(वि.पु) इति । सा चालकनन्दा च पुनः सप्तधा विभक्ताभूत् । तत्रैका तपःप्रभावसन्तोषितजीवेन भगीरथेन भारतवर्षम् प्रत्यानीता सागरम् व्रजन्ती सगरपुत्रान् कपिलमुनिक्रोधाग्निदग्धानुत्तारयामास । एतत्तु श्रीरामायणे बालकाण्डे प्रसिद्धम् । *अनेन तोषितश्चाभूदत्यर्थम् रघुनन्दन । विससर्ज ततो गङ्गाम् हरो बिन्दुसरः प्रति ॥ तस्यां विसृज्यमानायाम् सप्तस्रोताम्सि जज्ञिरे । शङ्खिनी पावनी चैव नलिनी च तथापरा । ताः प्रतीचीम् दिशम् जग्मुः तिस्रो गङ्गा शुभोदकाः । चक्षुषी चैव सीता च वसुश्चैव महानी । तिस्रश्चेता दिशम् जग्मुः प्रतीचीम् तु शुभोदकाः । सप्तमी चान्वगात् तासाम् भगीरथमथो ध्रुवम्(रा.बाल.४३.१०,११,१२,१३)* इति । तत्सर्वमनुसन्धत्ते – प्राक् प्रथममेकाम् धत्ते । ध्रुव इति ध्रुवमण्डलप्रसृतेत्यर्थः । त्रीन् पथः स्वर्गभूमिपातालान् भवयन्ती प्राप्तवती शिवयति शिवम् मङ्गलम् करोति इत्यर्थः । *तत्करोति तदाचप्टे(वार्तिक १०१८ under सूत्र ५१६) इति णिच्प्रत्यये कृते लटि रूपम् । स्वर्गसर्गम् सृष्टिम् प्राप्तिमिति यावत् ॥ ६२ ॥

इत्थम् वरदराजमापादचूडमभिष्टुत्य सविभूतिकस्य तस्य सम्श्रितजनप्राप्यत्वमनुसन्धत्ते – परिजनेति –

परिजनपरिबर्हा भूषणान्यायुधानि

प्रवरगुणगणाश्च ज्ञानशक्त्यादयस्ते ।

परमपदमथाण्डान्यात्मदेहस्तथाऽऽत्मा

वरद! सकलमेतत्सम्श्रितार्थम् चकर्थ ॥ ६३ ॥

अनन्तगरुडविष्वक्सेनादयः परिजनाः परिवर्हाः परिच्छदाश्छत्रचामरादयः *तद्विष्णोः परमम् पदम्(ना.उप.९.२२, सुबाल.६) इति श्रुतिप्रसिद्धम् परमपदम् । अथशब्दो वाक्यान्तरोपक्रमे । अण्डानि ब्रह्माण्डानि आत्मदेहो दिव्यमङ्गलविग्रहः, आत्मा दिव्यात्मस्वरूपम् एतत्सर्वम् सम्श्रितशेषभूतम् चकर्थ कृतवानासीः । करोतेर्लटि लङ् मध्यम-पुरुषैकवचनम् । सकलमेतदिति । *नपुम्सकमनपुम्सकेनैकवञ्चान्यतरस्याम्(अष्टा.१.२.६९) इति एकवद्भावादेकवचनम् नपुम्सकत्वम् च ॥ ६३ ॥

इत्थम् प्राप्यप्रापकदशापन्नम् परव्यूहार्चावताररूपम् परम् ब्रह्मानुसन्धाय सम्प्रति रामकृष्णादिविभवावस्थम् दयाक्षान्तिसौशील्यादिगुणयोगात् प्रापकमात्रभूतम् ब्रह्मानुसन्धत्ते समनन्तरश्लोकैः – अनाप्तमिति –

अनाप्तम् ह्याप्तव्यम् न तव किल किञ्चिद्वरद! ते

जगज्जन्मस्थेमप्रलयविधयो धीविलसितम् ।

तथाऽपि क्षोदीयस्सुरनरकुलेष्वाश्रितजनान्

समाश्लेष्टुम् पेष्टुम् तदसुखकृताम् चावतरसि ॥ ६४ ॥

अवतारात्पूर्वमनाप्तमवतारेणाप्तव्यम् किञ्चिदपि तव श्रेयो नास्तीत्यर्थः । तदुक्तम् गीतायाम् – *न मे पार्थास्ति कर्तव्यम् त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यम् वर्त एव तु कर्मणि(भ.गी. ३.२२) इति । कुतस्तत्राह – जगदिति । सृष्ट्यादिप्रकारस्तव सङ्कल्पविलास इत्यर्थः । तथापीति । अवाप्तसमस्तकामत्वे सत्यपीत्यर्थः । क्षोदीयः क्षुद्रतरम् *स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणाम् यणादि परम् पूर्वस्य च गुण(अष्टा.६.४.१५६) इति क्षुद्रशब्दात् क्षोदीयश्शब्दोत्पत्तिः । आश्रितजनान्    त्वद्दर्शनालापादिकमन्तरेणात्मधारणम् कर्तुम् अशक्नुवानान् त्वत्चित्तान् त्वद्गतप्राणान् प्राणिमात्रान् समाश्लेष्टुम् स्नेहपूर्वम् परिचेदितुम् परित्रातुमिति यावत् । तदसुखकृताम्    समाश्रितजनापकारिणाम् पेष्टुम् चूर्णयितुम् तदसुखकृतामिति । *जासिनिप्रहणनाटक्राथपिषाम् हिम्सायामि(अष्टा.२.३.५६) इति द्वितीयार्थे षष्ठी । तदुक्तम् – *परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् । धर्मसम्स्थापनार्थाय सम्भवामि युगे युगे(भ.गी.४.८)* इति ॥ ६४ ॥              साधुपरित्राणवदसदनुशासनम् न प्रधानप्रयोजनम् किम् तु    साधुपरित्राणमेव । तच्च सर्वज्ञत्वसर्वशक्तित्वपरत्वापरत्वाद्यभिभवेन केवलसौशील्यसौलभ्याभिनिवेशेन प्रयुक्तमित्यनुसन्धत्ते – विवेकेति –

विवेकधियमेकतो ह्यभिनिवेशलेशो हरेत्

महत्त्वभिनिवेशनम् किमुत तन्महिम्नस्तव ।

अहो! विसदृशे जगत्यवततर्थ पार्थादिकम्

निजम् जनमुदञ्चयन्वरद! तम् समाश्लेषकः ॥ ६५ ॥

लोके यस्य कस्यचिदेकस्मिन् वस्तुनि अभिनिवेशलेशो रागद्वेषमूल आग्रहो विवेकधियमिदम् युक्तमिदम् अयुक्तमिदम् कार्यमिदमकार्यमिति विवेकज्ञानमपहरेत् । मदभिनिवेशस्तु किमुत किमु वक्तव्यमपहरेदेवेत्यर्थः । तथा हीत्याह – अहो इत्यादिना । तत्तस्मात् कारणात् तव महिम्नो माहात्म्यस्य *मया ततमिदम् सर्वम् जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहम् तेष्ववस्थितः । न च मत्स्थानि सर्वभूतानि पश्य मे योगमैश्वरम्(भ.गी.९.४,५)* इत्यादिभिः प्रसिद्धवैभवस्य विसदृशविलक्षणेऽत्यन्तनिकृष्टे जगति पार्थादिकमर्जुनमक्रूरमालाकार युधिष्ठिरादिकम् निजम् जनम् कृत्वा उदञ्चयन् उत्कृष्टान् कुर्वन् तम् जनम् समाश्लेषुकः परिचयम् कुर्वन् अवततर्थ अवतीर्णवानासीः । तम् समाश्लेषुक इति । *अकेनोर्भविष्यदाधमर्ण्ययोः(अष्टा.२.३.७०)* इति षष्ठ्याः प्रतिषेधः । तवाश्रितजनाभिनिवेश एतादृश इति भावः । *चतुर्विधा भजन्ते माम् जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्(भ.गी.७.१६.१८)* इत्यादिभिः प्रसिद्धभक्तजनपरित्राणार्थम् सौशील्यवात्सल्यादिप्रयुक्तम् त्वदवतरणमस्तु । केवलमुदासीनजनपरित्राणे किम् प्रयोजनमिति पृच्छति ॥ ६५ ॥

सम्श्लेषे भजताम् त्वरापरवशः कालेन सम्शोध्य तान्

आनीय स्वपदे स्वसङ्गमकृतम् सोढुम् विलम्बम् बत ।

अक्षाम्यन् क्षमिणाम् वरो वरद! सन्नत्रावतीर्णो भवेः

किम् नाम त्वमसम्श्रितेषु वितरन् वेषम् वृणीषे तु तान् ॥ ६६ ॥

सम्श्लेषेति –

हे वरद भजताम् भक्तानाम् सम्श्लेषे प्राप्तिविषये त्वरापरवशः सन् कालक्रमेण तान् सम्शोध्यभक्त्युत्पत्तिविरोधिप्राचीनपापनिरसनेन शुद्धान् कृत्वा । तदुक्तम् – *तेषामेवानुकम्पार्थमहमज्ञानजम् तमः | नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वत(भ.गी.१०.११)* इति पुनरपि कालक्रमेण स्वपदे अप्राकृते नित्यमुक्तार्हे पुनरावृत्तिशून्ये स्वस्थाने आनीय स्वसङ्गमकृतम् इत्थम् स्वनित्यसम्श्लेषे कर्तव्ये तत्कृतम् तत्प्रयुक्तम् विलम्बम् क्षमिणाम् वरः सन्नपि अक्षाम्यन् असहमानः अत्र सम्सारमण्डले अवतीर्णो भवेः । केवलभक्तिप्रभावादेव परमपदप्राप्तौ तत्परिपाकस्य चिरकालापेक्षणम् मध्ये विघ्नसम्भवेऽनेकजन्मापेक्षणाञ्च त्वद्दर्शनालाभादिभिरचिरेण प्रापणार्थम् त्वदवतारो युक्तः । अतस्ते त्वदाश्रिता इति भावः । भवेरित्यधीष्टे लिङ् । अधीष्टः सत्कारपूर्वको व्यापारः । किम् तु त्वमसम्श्रितेष्वभक्तेषु त्वदवतार समकालवर्तिषु साक्षात् परम्परया वा त्वत्सम्सर्गवत्सु स्त्रीपुम्सेषु स्थावरजङ्गमेषु वा वेषम् सुवेषमाभिरूप्यम् वितरन् प्रतिपादयन् तान् स्वयमेव वृणीषे किन्नाम ? अत्र किन्निमित्तम् भवतो निरङ्कुशस्वातन्त्र्यम् वा आकस्मिककृपा वा साक्षात् परम्परया सम्सर्गो वा यत्किञ्चिद्व्याजमात्रम् वा अज्ञातसुकृतम् वा निमित्तमिति त्वमेव जानीषे, वयम् तु न जानीम इति भावः । मुखम् व्यादाय स्वपिति नेत्रे निमील्य हसतीत्युपसङ्ख्यानम् । अपूर्वकालत्वादिति कालव्यतित्ययेन ल्यप्प्रत्ययः । अवतीर्णो भूत्वा स्वपदम् आनयसि व्यादात् इतिवत् ॥ ६६ ॥

इत्थमवतारे बहुलाभमभिधायानवतारे बहुहानिमाह – वरदेति –

वरद! यदि न भुव्यवातरिष्यश्श्रुतिविहितास्त्वदुपासनार्चनाद्याः ।

करणपथविदूरगे सति त्वयि अविषयतानिकृताः किलाभविष्यन् ॥ ६७ ॥

ळहे वरद! भुवि यदि रामकृष्णादिरूपेणार्चारूपेण च नावातरिष्यः तदा परव्यूहान्तर्यामिरूपेणावस्थिते त्वयि कर्मज्ञानेन्द्रियागोचरे सति त्वाम् विषयीकृत्य प्रवृत्ता श्रुतिस्मृतीतिहासपुराणश्रीपाञ्चरात्रवैखानस-शास्त्रविहितास्त्वदुपासनार्चनप्रणामप्रदक्षिणाद्याः अविषयतया निर्विषयतया निराश्रयतया निराकृता निरर्था अभविष्यन्निति । अत्र श्रुतिपदम् स्मृत्यादीनामप्युपलक्षणम् । यद्यपि परव्यूहान्तर्यामि उपासनम् श्रुतिविहितम् तथापि सुकरम् सुलभम् च न भवतीति भावः ॥ ६७ ॥

स्वपराधसहिष्णुरपि भगवान् भागवतापराधम् न सह त इति भक्तवत्सलम् नृसिम्हावतारमभिष्टौति – यदिति –

यदपराधसहस्रमजस्रजम् त्वयि शरण्य! हिरण्य उपावहत् ।

वरद! तेन चिरम् त्वमविक्रियो विकृतिमर्भकनिर्भजनादगाः ॥ ६८ ॥

त्वयि विषये अजस्रजम् निरन्तरजमुपावहत् अवहत् अर्भकजनात् बाल्यावस्थ व्याजातन्निराकरणात् विकृतिम् वधपर्यन्ताम् ॥ ६८ ॥

भक्तिप्रपत्तिनिरपेक्षमेव स्थावरजङ्गमसाधारण्येन स्वपदप्रापकम् श्रीरामावतारम् सप्रश्रयम् चानुसन्धत्ते – त्वामिति –

त्वामामनन्ति कवयः करुणामृताब्धे!

ज्ञानक्रियाभजनलभ्यमलभ्यमन्यैः ।

एतेषु केन वरदोत्तरकोसलस्थाः

पूर्वम् सदूर्वमभजन्त हि जन्तवस्त्वाम् ॥ ६९ ॥

कवयः प्रत्यक्षादिप्रमाणपथातिक्रान्तलौकिकोपायोपेयस्वरूपदर्शिनः पराशरादयः त्वाम् कर्मयोगज्ञानयोग लभ्यम् तथा प्रपत्तिलभ्यमित्ययमपि इति हृदयम् अन्यैः उपायान्तरैः केवलकर्मयोगज्ञानयोगभक्तियोग ज्योतिष्ठोमादिभिः एतेषु केनोपायेन उपायेषु पूर्वम् श्रीरामावतारोपसम्हारसमय उत्तरकोसलवासिनः कर्मयोगज्ञानयोगाद्यनधिकारिणः प्राणिनः सदूर्वाम् दूर्वासहितम् दूर्वेत्यन्तः सञ्ज्ञकानाम् वृक्षादीनामप्युपलक्षणम् । अभजन्त आप्नुवन् । अत्र चिरकालपरिचितैः तैः विश्लेषासहत्वम् मार्दवम् वा निमित्तम् स्वविषयवासो वा अन्यत् किञचिद्वा न जानीमः । त्वमेव जानीष इति भावः । अयमेवार्थः – किम् नाम त्वमसम्श्रितेषु इति अत्र सर्वावतारसाधारणतया पूर्वमप्यनुसम्हितः यद्यपि कर्मयोगज्ञानयोगयोर्भक्त्यङ्गत्वमेव न पृथगुपायत्वम् तथापि पृथक्परिगणनम् कैवल्यम् प्रति उपायत्वविवक्षया वा भक्त्यङ्गेषु प्रधानाङ्गत्वविवक्षया वेति मन्तव्यम् ॥ ६९ ॥

सम्प्रति सौलभ्यवात्सल्यप्रयुक्तम् श्रीकृष्णावतारम् प्रश्नपूर्वकमनुसन्धत्ते – भजस्त्विति –

भजत्सु वात्सल्यवशात्समुत्सुकः प्रकाममत्रावतरेर्वरप्रद! ।

भवेश्च तेषाम् सुलभोऽथ किम् न्विदम् यदङ्गदाम्ना नियतः पुराऽरुदः ॥ ७० ॥

भजत्सु विषये वात्सल्यवशात् समुत्सुक स्तद्विश्लेष समुत्सुकस्तद्विश्लेषासहहिष्णुस्सन् अत्र सम्सारमण्डले काममवतरेः तेषाम् दौत्यसारथ्यादिषु सुलभश्च भवेः । अथेति प्रश्नोपक्रमे । हे अङ्ग! पुरा यशोदया दाम्ना नियतो नियन्त्रितः । स्वयम् तन्मोचनशक्तोऽपि तस्यास्त्वयि कृपाम् जनयितुम् अरुद इति यत् इदम् किन्नु? इत्थम् सार्वज्ञम् सर्वशक्तिम् तिरोधाय एतादृशमनुष्यम् समानधर्मत्वेऽत्यन्तमातृपारतन्त्र्ये च निमित्तम् त्वमेव जानीषे इति भावः ॥ ७० ॥

सम्प्रति मनुष्यवेषक क्वचिद् रामकृष्णाद्यवतारादपि प्रकर्षित सर्वेश्वररूपम् श्रीनृसिम्हावतारमादरातिशयेन पुनरनुसन्धत्ते – नरसिम्हेति –

नरसिम्हतनुरगौणी समसमयसमुद्भवश्च भक्तगिरः ।

स्तम्भे च सम्भवस्ते पिशुनयति परेशताम् वरद! ॥ ७१ ॥

अगौणी मुख्या सत्त्वादिगुणैरपिरणता वा शुद्धसत्वमयीति यावत् । सर्वत्रास्तीति प्रह्लादवचसः समानक्षणप्रादुर्भावः । कुत्रचिदप्यदृष्टः स्तम्भेप्रादुर्भावश्च । एतत्त्रयम् सर्वेश्वरत्वम् सूचयतीत्यर्थः । इत्थमुपेयोपायावस्थम् ब्रह्मानुसम्हितम् तदवस्थोपयुक्ताश्च गुणा-नुसम्हिताः ॥ ७१ ॥

इतः परम् विरोधिरूपम् स्वदोषम् तापत्रयातुरम् प्राप्तुः स्वरूपम् चानुसन्धत्ते – तापत्रयीति –

तापत्रयीमयदवानलदह्यमानम्

मुह्यन्तमन्तमवयन्तमनन्त! नैव ।

स्थातुम् प्रयातुमुपयातुमनीशमीश!

हस्तीश! दृष्ट्यमृतवृष्टिभिराभजेथाः ॥ ७२ ॥

आध्यात्मिकाधिभौतिकाधिदैविकदुःखत्रय प्राचुर्यरूपेण दावानलेन दह्यमानम्, मुह्यन्तम् मोहोपेतम् अनन्तदुःखपारम् नैवापयन्तमप्राप्नुवन्तम् विधिवशाद्यत्र स्थातुमनन्ततापत्रयातुरः तत्रैव स्थातुम् तापत्रयशून्यम् स्थानानन्तरम् प्रयातुम् गन्तुम् पुनरपि तत्स्थानम् प्राप्तुमनीशमसमर्थम् माम् हे हस्तीश अमृतवृष्टिभिः कृपावलोकनामृतवृष्टिभिः आभजेथाः अभिमुखमागच्छेः । यथा दावानलपरीतम् स्थातुम् प्रयातुमुपयातुमशक्तम् मृगम् मेघोऽभिवर्षति तथेति जन्यते ॥ ७२ ॥

नानाविरुद्धविदिशासु दशासु चाहो

वन्ध्यैर्मनोरथशतैर्युगपद्विकृष्टः ।

त्वत्पादयोरनुदितस्पृह एष सोऽहम्

न स्वस्तिहस्तिगिरिनाथ! निशामयामि ॥ ७३ ॥

नानेति –

अत्र दिशाशब्देन मनोरथविषविषयाः शब्दादयो विवक्षिताः । नानाविधासु विरुद्धासु विपरीतफलासु श्रुतिस्मृतिविरुद्धासु वा । अत एव विदिशासु विपरीतशब्दादिविषयेषु दिशासु अविरुद्धशब्दादिविषयेषु च वन्ध्यैः कुशलैर्मनोरथैर्युगपदाकृष्टः । अत एव त्वत्पादयोः सर्वमनोरथविषययोरनुदिताकाङ्क्षस्तत एव स्वस्ति कुशलम् न निशामयामि न पश्यामि ॥ ७३ ॥

इदम् स्वदोषनिवेदनमपि न मनःपूर्वकमतोऽयमपरो दोष इत्याह – है इति –

है! निर्भयोऽस्म्यविनयोऽस्मि यतस्त्वदङ्घ्रौ

लिप्सामलब्धवति चेतसि दुर्विनीते ।

दुष्कर्मवर्मपरिकर्मित एष सोऽहम्

अग्रे वरप्रद! तव प्रलपामि किञ्चित् ॥ ७४ ॥

है इति विषादे । अव्ययानामनेकार्थत्वात् यतः कारणाद् दुर्विनीते यमनियमादिभिरविनीते दुष्कृतकवचालङ्कृते चेतसि त्वदङ्घ्रो इदमेव परम् प्राप्यमिति वाञ्छामलब्धवति सति एतादृशस्वभावस्सोऽहम् सर्वज्ञस्यान्तर्यामिणस्तवाग्रे स्वदोषानुसन्धानम् त्वदप्राप्तिनिमित्तदुःखवचनम् च मनस्यविद्यमानमपि किञ्चित् त्वामद्याद्य प्रलपामि । अतः कारणात् एतादृशासत्यवचनान्निर्भयोऽस्म्यविनयोऽस्मि अशिक्षितोऽस्मि यद्यपि भगवद्भाष्यकारमुखेन शिक्षितोऽपि शिक्षाफलम् मयि न दृश्यत इति भावः ॥ ७४ ॥

अप्राप्तविषये तु दुःखप्राप्तविषये तु मम नास्तीति विषीदति -सव्याधिरिति –

स व्याधिराधिरवितुष्टिरनिष्टयोगः

स्वाभीष्टभञ्जनममर्षकरो निकर्षः ।

कृन्तन्ति सन्ततमिमानि मनो मदीयम्

हस्तीश! न त्वदभिलाषनिधिप्रहाणिः ॥ ७५ ॥

आधिर्मनः पीडा, अवितुष्टिश्चिरोपभुक्तेष्वप्यन्नपानादिष्वपर्याप्तता |  पुत्रमित्रादिविश्लेशाद्यनिष्टयोगः स्वाभीष्टभञ्जनम् चिरप्रार्थिताभिमतवस्तुन निकृन्तन्ति यल्लाभात् सर्वदु:खप्रहाणी  स्यादिति भावः ॥ ७५ ॥

भगवदाश्रयणविरोधिनो मानसान् कामक्रोधादीननुसन्धत्ते – विद्वेषेति –

विद्वेषमानमदरागविलोभमोहा-

द्याजानभूमिरहमत्र भवे निमज्जन् ।

निर्द्वन्द्व नित्यनिरवद्यमहागुणम् त्वाम्

हस्तीश! कश्श्रयितुमीक्षितुमीप्सितुम् वा ॥ ७६ ॥

विद्वेषो मात्सर्यम् स्वस्मिन्नुत्कर्षाभिमानो मानम् विषयानुभवजनित श्चित्तविकारो मदः | विषयस्पृहा रागः | लब्धार्थस्याविनियोगो विलोभः, युक्तायुत्क्तविषयज्ञाने मोहः | आदिशब्दात् क्रोधो विवक्षितः | एतेषामाजान भूमिर्जन्मभूमिरिति यावत् | भवस्सम्सारः, हे निर्द्वन्द्व सुखदु:खादिशून्य! अनेन बद्धचेतनव्यावृत्तिः | नित्यनिरवद्य | अनेन  कादाचित्कावद्यमुक्तचेतनव्यावृत्तिः | महागुणेति | भगवदपेक्षया  परिमितनित्यगुणव्यावृत्तिः | ईप्सितुमभिलषितुम् श्रयितुमाश्रयितुम् ईक्षितुम् साक्षात्कर्तुम् अहम् कः अनर्ह इत्यर्थः ॥ ७६ ॥

सम्प्रति स्वात्मनि पृथुलविचारचारसद्भावमनुकूलविचारासद्भावम् चानुसन्धत्ते – पुत्रादयेति –

पुत्रादयः कथममी मयि सम्स्थिते स्युः

इत्यप्रतिक्रियनिरर्थकचिन्तनेन ।

दूये न तु स्वयमहम् भविताऽस्मि कीदृग्

इत्यस्ति हस्तिगिरिनाथ! विमर्शलेशः ॥ ७७ ॥

मयि सम्स्थिते मृते सति पुत्रादयः कथम् जीविष्यन्ति इति प्रतिकारशून्यवृथाविचारेण दूये परितप्ये अप्रतिक्रियत्वम् च स्वस्य मरणात् | किन्तु स्वयमहम्साक्षादहम् देहेन्द्रियादिविलक्षणोऽहमिति सम्शको विमर्शलेशः नास्तीति ॥ ७७ ॥

सम्प्रति दृष्टानुश्रविकविषयवैतृष्ण्य लक्षण म् वैराग्यमपि  नास्तीत्यनुसन्धत्ते – (दृष्टानुश्रविकविषया ऐहिकामुष्मिकविषयाः) – शम्पाचलमिति –

शम्पाचलम् बहुलदुःखमनर्थहेतुः

अल्पीय इत्यपि विमृष्टिषु दृष्टदोषम् ।

दुर्वासनाद्रढिमतस्सुखमिन्द्रियोत्थम्

हातुम् न मे मतिरलम् वरदाधिराज! ॥ ७८ ॥

विमृप्टिषु विचारेषु क्रियमाणेषु शम्पाचलमित्याद्याकारेण दृष्टदोषमिन्द्रियोत्थम् विषयेन्द्रियसम्प्रयोगजन्यम् सुखमनादिविषयानुभवजनितदुर्वासनादार्ढ्यात् हातुम् मे मतिर्नालम् न समर्थम् । अतो विषयदोष वैराग्यम् नोदेतीति भावः ॥ ७८ ॥

भगवदपचारादीनाम् विनाशकरत्वमनुसन्धत्ते – बुद्द्ध्वेति –

बुद्ध्वा च नो च विहिताकरणैर्निषिद्ध-

सम्सेवनैस्त्वदपचारशतैरसह्यैः ।

भक्तागसामपि शतैर्भवताऽप्यगण्यैः

हस्तीश! वाक्तनुमनोजनितैर्हतोऽस्मि ॥ ७९ ॥

बुद्ध्वा च नो च ज्ञात्वा अज्ञात्वा च भगवति शिशुपालेन कृतोऽपचारो भगवदपचारः । श्रीवैष्णवविषयापचारो भागवतापचारः श्रीवैष्णवविषयो निर्निमित्तद्वेषोऽसह्यापचारः । आचार्यापचार इति केचित् । भवता सर्वज्ञेनापीति शेषः ॥ ७९ ॥

यन्मूलान्मुमुक्षूणाम् वैदिकापचारप्रवृत्तिः सम्सारसागरनिरतरश्च यत् परम् च मोक्षम् मोक्षशास्त्रम् तादृशशेषशेषिभावसम्बन्धज्ञानदार्ढ्यम्  मम नास्तीत्यनुसन्धत्ते – त्वदिति –

त्वद्दास्यमस्य हि मम स्वरसप्रसक्तम्

तच्चोरयन्नयमहम् किल चस्खल प्राक् ।

त्वम् मामकीन इति मामभिमन्यसे स्म

हस्तीश! सम्शमय नस्तमिमम् विवादम् ॥ ८० ॥

करणकलेबरविलक्षणस्य ज्ञानात्मनः स्वस्मै स्वयम् प्रकाशस्य नित्यज्ञानाश्रयस्य त्वदधीनस्वरूपस्थितिप्रवृत्तिर्मम त्वद्दास्यम् त्वच्छेषत्वम् तव यथेष्ट विनिर्योगार्हत्वम् स्वरसप्रसक्तम् स्वभावप्राप्तम् न तु वेतनादिप्राप्तम् *ईश्वरोऽहमहमहम् भोगीसिद्धोऽहम् बलवान् सुखी आढ्येऽभिजनवानस्मि, कोऽन्योऽस्ति सदृशो मम(भ.गी.१६.१४) इत्यादिप्रकारेणाहङ्कारममकारग्रस्तोऽहम् तच्चोरयन्नपहरन् प्रागितः पूर्वम् तस्य ते चस्खलः मोक्षमार्गात् स्खलितवानासम् । चस्खलेति परोक्षत्वारोपेण लिडुत्तमपुरुषप्रयोगः । आत्मापहारश्च महाचौर्यम् तदुक्तम् भारते – *योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किम् तेन न कृतम् पापम् चोरेणात्मापहारिणा(भारत.उत्त.४१.३७)* इति । *सर्वज्ञसर्वभूतसुहृत् परमशेषत्वम् मदीयोऽयम्* इत्यभिमन्यसे । हे हस्तीश! नः वादिप्रतिवादिनाम् युष्माकमस्माकम् च *त्वम् मे (स्वम्), अहम् मे स्वम्* इत्यनयात्वम् विवादम् शम् शमय नः इति मदीयो यद्यत् परम् तत्तच्छिष्यत इति युष्मदस्मच्छब्दलोपे सत्यस्मच्छब्दस्यैकशेषः । एतदुक्तम् भवति –  अनादिसम्सारप्रवाहमारभ्य एतज्जन्मपर्यन्तम् देहात्माभिमानेननाना शरीरसञ्चारी नानाविधसुखदुःखभाजनः अहम् सम्प्रति  आकस्मिकभगवत्कटाक्षवीक्षया सदाचार्य समाश्रयणेन च *पतिम् विश्वस्यात्मेश्वरम्*, *नारायणपरम् ब्रह्म तत्त्वम् नारायणः परः* (महा.९.३), *दासभूताः स्वतः सर्वे ह्यात्मनः परमात्मनः(म.प.स्तो.१२) इत्यादि प्रमाणमुखेन समुपजनितसम्बन्धज्ञानोऽपि तद्दार्ढ्यम् तदापरोक्ष्यम् च न लभते । अतः *तेषामेवानुकम्पार्थमहमज्ञानजम् तमः | नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वते(भ.गी.१०.११) इति त्वदुक्तप्रकारेण अज्ञानम् शमयित्वा प्रत्यक्षसिद्धत्वन्नियाम्यत्वद्दास्यैकस्वभावानुभवम् माम् कुरुष्वेति ॥ ८० ॥

सम्प्रति भगवत्कटाक्षसन्धुक्षितसम्बन्धज्ञानस्सन् स्ववैराग्यपूर्वकम् स्वाभिसन्धि सम्प्रति भगवत्कटाक्षसन्धुक्षितसम्बन्धज्ञानस्सन् विज्ञापयति । भोगा इति –

भोगा इमे विधिशिवादिपदम् च किञ्च

स्वात्मानुभूतिरिति या किल मुक्तिरुक्ता ।

सर्वम् तदूषजलजोषमहम् जुषेय

हस्त्यद्रिनाथ! तव दास्यमहारसज्ञः ॥ ८१ ॥

इतः पूर्वमनादिकालपरिभुक्ता इदानीमपि भुज्यमाना इमे शब्दादिभोगा इतोऽप्युत्तरोत्तरमुत्कृष्टमामुष्मिकम् विधिशिवादिपदम् नैतावत् । किम् च एभ्योऽप्यतिशयिता स्वात्मानुभूतिरिति प्रसिद्धा । भगवत्स्वरूपगुणानुभवविधुरा स्वात्मानुभवमात्रप्रवणा सुषुप्तिकल्पा या कैवल्यमुक्तिः, *ये त्वक्षरमनिर्देश्यमव्यक्तम् पर्युपासते*(भ.गी.१२.३) तथा, *प्राजापत्यम् गृहस्थानाम् ब्राह्मम् सन्यासिनाम् स्मृतम् । योगिनाममृतम् स्थानम् स्वात्मसन्तोषकारिणैकान्तिनः सदा*  इत्यादिवचनैरुक्ता । एतत्सर्वम् ऊषजलजोषमूषजलसमम् । जुषेय सेवेय । क्षुद्रस्वा क्षुद्रतरस्वा क्षुद्रतमस्वा मन्यत इत्यर्थः । ऊषजलजोषमित्युपमाने कर्मणि इति णमुल् प्रत्ययः । प्रथमस्य जोषशब्दस्थानुप्रयोगमात्रम् न तु पृथगर्थः । किमर्थमेवम् जुषेथा इत्यत आह तव दास्येति । अशेषवस्थोचिताशेषशेषतैकरतिरूपनित्यकैङ्कर्यप्राप्तिरूपमोक्षरसज्ञ इत्यर्थः ॥ ८१ ॥

इत्थम् विरोधिवर्गप्राप्तुरात्मनो भगवच्छेषतैकरसस्वरूपम् प्रकृतिसम्सर्गयुक्ततापत्रयसम्भेदम् चानुसन्धाय इतः परम् स्तोत्रपरिसमाप्तिपर्यन्तम् नित्यकैङ्कर्यप्राप्तिरूपफलस्वरूपम् शरणागतिरूपमुपायस्वरूपम् चानुसन्धत्ते – विषयेति –

विषयविषधरव्रजव्याकुले जननमरणनक्रचक्रास्पदे ।

अगतिरशरणो भवाब्धौ लुठन् वरद! शरणमित्यहम् त्वाम् वृणे ॥ ८२ ॥

अत्रेदमनुसन्धेयम् – भगवत्प्राप्तावुपायद्वयम् श्रुतिस्मृतिचोदितम्, भक्तिः प्रपत्तिश्च । तत्र भक्तिर्नाम कर्मयोगज्ञानयोगाङ्गकम् वेदनोपासनादिपदपर्यायम् भगवद्ध्यानम् । कर्मयोगो नाम फलसङ्गकर्तृत्वपरित्यागपूर्वकम् भगवत्समाराधनवेषेण कर्मानुष्ठानम् । ज्ञानयोगो नाम देहेन्द्रियिलक्षणतया प्रत्यहम् प्रत्यगात्मानुसन्धानम् । प्रपत्तिस्तु गोप्तृत्ववरणपूर्वकम् सर्वेश्वरे स्वभरन्यासः । तदनन्तरभाविनी सर्वप्रवृत्तिनिवृत्तिस्तु तत्फलम् भोक्तृत्ववरणमेव आत्मनिक्षेपः । प्रपत्तिः स्वप्रवृत्तिनिवृत्तिः प्रपत्तिरित्यादिप्रभेदनातीव भेदोपादकाः । *आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्ववरणम् तथा ॥ आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः(अहि.३७-२८,२९)* इत्यत्रापि      विहितानुष्ठानादिनिषिद्धवर्जनादिरूपम्, अन्यद्वयम् वृत्तिरेव न प्रपत्तिः । वृत्तिस्तु यावच्छरीरपातमनुष्ठेया । प्रपत्तिस्तु सकृदेव, विश्वासोऽपि यावच्छरीरपातमनुवृत्तेर्न प्रपत्तिः । कार्पण्यम् ॥ त्वधिकारिविशेषणम् अकिञ्चनस्यैव प्रपत्तावधिकारात् । अतो गोप्तृत्ववरणमात्मनिक्षेपश्च प्रपत्तित्वेन पर्यवस्यति । आनुकूल्यसङ्कल्पप्रातिकूल्यनर्जनादीनाम् तु न प्रपत्त्यङ्गकमपि । तस्याः सकृदनुष्ठेयत्वेन प्राच्योदीच्याङ्ग निरपेक्षणात् । वर्णाश्रमधर्मानुष्ठानम् तु भगवदाज्ञारूपतया भगवन्मुखोल्लासहेतुतया स्वयम् प्रयोजनत्वेन न त्वङ्गतया प्रत्यवायपरिहारार्थमिति केचित् । प्रपन्नस्यापि विधिनिषेधातिक्रमे प्रत्यवायसम्भवात् तस्मान्मद्रक्षणे अहमशक्तः, त्वमेव माम् रक्षेति सम्प्रार्थ्य मदीयरक्षणभारम् त्वयि विन्यस्यामिति भरन्यासः प्रपत्तिः । आत्मनिक्षेपादयस्तदेकदेशाः । तत्र प्रपत्तिव्यवहार औपचारिकः स च मानसानुसन्धानरूपः मन्त्ररत्नम् चरमश्लोकः *सकृदेव प्रपन्नाय तवास्मीति च याचते । अभयम् सर्वभूतेभ्यो ददाम्येतद्व्रतम् मम(रा.६.१८.३३)* इति श्रीरामायणवचनम् । *न धर्मनिष्ठोऽस्मि न चात्मवेदी न भक्तिमाम्स्त्वच्चरणारविन्दे । अकिञ्चनोऽनन्यगतिः शरण्य त्वत्पादमूलम् शरणम् प्रपद्ये(स्तो.र.२२) इति पूर्वाचार्यवचनम् च । तत्प्रकाशकम् वाचकप्रवृत्तिर्वा । एवम् च भक्तिः प्रपत्तिश्च प्रयत्नसाध्यत्वेन साध्योपायः इति । सिद्धोपायरतु सर्वेश्वर अनादिसिद्धत्वात् दयाक्षान्त्यादिगुणयोगेनोपायत्वाच्च शेषशेषिभावसम्बन्धज्ञानम् तूपायत्वासाधारणम् तत्पूर्वकत्वात्तयोः वृत्तिरूपवर्णाश्रमानुष्ठानम् च साधारणम् । किन्तु भक्तस्य भक्त्यङ्गतया । प्रपन्नस्य तु स्वयम्प्रयोजनतया वा प्रत्यवाय परिहारार्थतया वा । एतत्सर्वम् तत्त्वविवेकेऽस्माभिः प्रपञ्चितम् । एवम् स्थिते तत्र भक्तेः समर्थाधिकारितया साक्षात्कारप-र्यन्तभक्तिपरिपाकस्य चिरकालसाध्यतया भगवत्प्राप्तौ विलम्बितोपायत्वाच तदुपेक्ष्या – विलम्बितोपायम् सकृदेवानुष्ठेयाम् वाचकीम् प्रपत्तिमेव श्रीवत्साङ्कमिश्राः श्लोकद्वयेनानुसम्हितवन्त इति । तत्र अगतिः अशरणः इत्यादिभिः प्रथमान्तैः पदैरधिकारिविशेषणम् कार्पण्यम् विवक्षितम् । आर्तिः प्राप्यत्वरा उपायान्तरपरित्यागश्च । तन्मूल: परित्यागे च प्राप्यत्वरा अशक्तिर्वा मूलमिति | विषधराः सर्पाः, चक्रम् समूहः, अगतिरूपायान्तरशून्य अगतिरुपेयान्तरशून्यः | लुठन् परिवर्तमानः । इतिशब्दो हेतौ । यतः कारणात् अहमेतादृश इति हेतोः हे वरद त्वाम् वृणे ॥ ८२ ॥

अकृतसुकृतकस्सुदुष्कृत्तरः शुभगुणलवलेशदेशातिगः ।

अशुभगुणपरस्सहस्रावृतः वरदमुरुदयम् गतिम् त्वाम् वृणे ॥ ८३ ॥

अकृतेति –

अकृतसुकृतकः अननुष्ठितयज्ञादिसुकृतकः सुदुष्कृत्तरः अतिशयेन दुष्कृतीत्यर्थः। तत्र हेतुमाह शुभगुणेति ।   *अमानित्वमदम्भित्वमहिम्साक्षान्तिरार्जवम् । आचार्योपासनम् शौचम् स्थैर्यमात्मविनिग्रहः(भ.गी.१३.७) इत्यादिवचनैर्गीतासु ये गुणा उक्ताः तेषाम् गुणानाम् लवलेशो यत्र देशे तद्देशमतिक्रान्तः तच्छून्य इत्यर्थः । अशुभगुणा: अमानित्वप्रतिभटा मानदम्भादयः, तेषाम् सहस्रेभ्यः पराणि परस्सहस्राणि तैरावृतम् इति अगतिश्शरणम् अहम् वृण इति । एवमकिञ्चनोऽहम् अत एव उरुदयम् त्वाम् गतिम् प्राप्य भूतम् शरणम् रक्षकम् वृणे मद्रक्षणभारम् त्वयि विन्यस्य निर्भरो भवामीत्यर्थः ॥ ८३ ॥

इत्थम् प्रपत्तिमनुसन्धाय तदनुसन्धानमपि न मनःपूर्वकम् । अतोऽत्रापि विकलतयाऽहम् प्रायेण तव दयापात्रमित्युच्छ्वसिति – शरणेति –

शरणवरणवागियम् योदिता

न भवति बत! साऽपि धीपूर्विका ।

इति यदि दयनीयता मय्यहो!

वरद! तव भवेत्ततः प्राणिमि ॥ ८४ ॥

इयम् वाचिकी या शरणवरणत्वादुदीरिता सापि उत्सवाप्यायितवाक्यम् बुद्धिपूर्विका न भवति । बत हन्त । अयम् न केवलमुपायान्तरविकल्प: । प्रपत्तावपि विकल इति हेतोर्मयि तव दयनीयता यदि भवेत् ततः प्राणिमि लब्धात्मसत्ताको भवामि ॥ ८४ ॥

सम्प्रति दयाप्रचारनिमित्तपश्चात्तापाभावात् नाहम् तत्पात्रमिति विषीदति – निरवधिषु –

निरवधिषु कृतेषु चागस्स्वहो!

मतिरनुशयिनी यदि स्यात्ततः ।

वरद! हि दयसे न सम्शेमहे

निरनुशयधियो हता है! वयम् ॥ ८५ ॥

अनुशयनी पश्चात्तापिनी ततः स तर्हि दयसे दयाम् कुरुषे न सम्शेमहे सम्शयम् न कुर्महे । शीङ् स्वप्न इत्यस्माद् धातोः लडुत्तमबहुवचनम् । निरनुशयधियः पश्चात्तापशून्यबुद्धयः ॥ ८५ ॥

सम्प्रति *येन केनापि प्रकारेण द्वय वक्ता त्वम्(श.ग)* इति न्यायेन विकलमविकलम् वा यदिदम् द्वयवचनम् तदेव व्याजमात्रापेक्षिणस्तव परमदयानिमित्तमित्यनुसन्धत्ते – शरणवरणेति –

शरणवरणवागियम् याऽद्य मे वरद! तदधिकम् न किञ्चिन्मम ।

सुलभमभिमतार्थदम् साधनम् तदयमवसरो दयायास्तव ॥ ८६ ॥

येयम् शरणवरणवाक् तस्याधिकमुत्कृष्टम् व्यतिरिक्तम् वा ममाकिञ्चिन्यस्याभिमतार्थप्रापकम् न किञ्चित्साधनम् सुलभम् सुखोपादेयमस्ति । तत्तस्मात् कारणात् तव मद्गोचरा या दया ततः प्राप्तकाल इति ॥ ८६ ॥

सम्प्रति त्वत्पादपद्मस्पृहायाम् त्वमेव कारणमिति प्रार्थयते – विषयीति –

विषयविषयिणी स्पृहा भूयसी

तव तु चरणयोर्न साऽल्पापि मे ।

वरद! ननु भरस्तवैव त्वयम्

यदुत तव पदस्पृहाजन्म मे ॥ ८७ ॥

हे वरद! विषयगोचरा वाञ्छा भूयसी अनादिवासनारूढमूलतया भूयिष्ठा सा स्पृहा श्रुत्यैकसमधिगम्यस्यानवधिकातिशयानन्दस्येतः पूर्वम् अपरिचितस्य पादयोरप्यल्पापि नास्ति । अत एवम् विधस्य मे यत्तव पादयोः स्पृहायाम् कथञ्चिद्विजननम् । उतशब्द: कृच्छ्रार्थे । अयम् तु तवैवम् भरः न त्वस्मत्प्रयत्नसाध्य इत्यर्थः । कालियनागेन्द्राणामप्येवमेव प्रार्थितम् । *या प्रीतिरविवेकानाम् विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्नापसर्पतु(वि.पु. १.२०.१९) इति ॥ ८७ ॥

सम्प्रति कृतज्ञः सन् स्तोता शरणागतिविषया प्रवृत्तिरपि त्वत्प्रसादमूलेत्यनुसन्धत्ते – इयमिति –

इयमिह मतिरस्मदुज्जीवनी वरद! तव खलु प्रसादादृते ।

शरणमिति वचोऽपि मे नोदियात्त्वमसि मयि ततः प्रसादोन्मुखः ॥ ८८ ॥

हे वरद! इह अस्मिन् दुर्लभतरे जन्मनि अस्मदुज्जीवनहेतुरियम् शरणवरणप्रयोगनिमित्ता मतिः शरणमिति वचोऽपि तव प्रसादाद् ऋते प्रसादम् विना *अन्यारादितरर्त(अ.२.३.९२)* इति द्वितीयार्थे पञ्चमी । नोदीयात् खलु नोदेति च, ततस्त्वम् मयि प्रसादोन्मुखोऽसि ॥ ८८ ॥

इत्थम् मोक्षार्थम् प्रपत्तिमनुसन्धाय निर्भरो दृढविश्वासः श्रीवत्साङ्कमिश्रः प्रारब्धकर्मविगमपर्यन्ताम् शरीरानुवृत्तिमनुसन्धायालोच्य भाष्यकारप्रचोदनया पूर्वमेव प्रार्थितम् स्तोत्रसमाप्तिपर्यन्तम् विलम्बितम् विकलम् चक्षुः पुनरपि कथञ्चित् प्रार्थयते – वरदेति –

वरद! यदिह वस्तु वाञ्छाम्यहम्

तव चरणलभाविरोधस्ततः ।

यदि न भवति तच्च देहि प्रभो!

झटिति वितर पादमेवान्यथा ॥ ८९ ॥

वस्तु शरीरावयवभूतम् प्राकृतम् चक्षुः ततो वस्तुतो हेतोः इह प्रकृतिमण्डलेऽहम् ज्ञानमात्रदृष्टिर्यद् वस्तु वाञ्छामि तद्वरणे । तव चरणलभायाः विरोधो यदि न चेत् तच्च देहि । चकारो वाक्यालङ्कारः । अन्यथा विरोधो भवति चेत् प्रभो सर्वशक्तेः झटिति प्रारब्धकर्मविभागमन्तरेण विनाश्य पादमेव देहि । डु लभष् प्राप्ताविति धातोरङ्प्रत्यये विहिते लभेति रूपम् । छिन्दतिवत् सर्वेश्वरम् प्रत्यनुचितमेव या प्रार्थ्यत इति स्वात्मानम् जुगुप्सते ॥ ८९ ॥

तदपि किमपि हन्त! दुर्वासनाशतविवशतया यदभ्यर्थये ।

तदतुलदय! सार्व! सर्वप्रद! प्रवितर वरद! क्षमाम्भोनिधे ॥ ९० ॥

तदपीति –

अहम् यदभ्यर्थये तदपि किमपि नश्वरम् शरीरावयवभूतम् प्राकृतम् चक्षुर्मात्रम् । हन्त विषादे । हे सार्व सर्वहित *तस्मै हितम्* इत्यर्थे *पुरुषाभ्याण्णढञौ(अ.५.१.५)* इति सर्वशब्दाण्णप्रत्यये रूपम् । प्रवितर देहि । क्षमाम्भोनिधे सर्वापराधसहिष्णोः प्रपन्नस्य मम त्वत्सङ्कल्पानुवृत्तिरेवोचिता ॥ ९० ॥

अतः प्रार्थिताप्रदाने विपरीतवस्तुप्रदानेऽपि न विषाद इत्याह – प्रियेति –

प्रियमितरदथापि वा यद्यथा वितरसि वरद! प्रभो! त्वम् हि मे ।

तदनुभवनमेव युक्तम् तु मे त्वयि निहितभरोऽस्मि सोऽहम् यतः ॥ ९१ ॥

प्रियम् अथापि वा अथवा इतरदप्रियम् । यद्वस्तु यथा येनाकारेण वितरसि मे तदनुभवमेव युक्तम् । यतः कारणात् सोऽहम् अविनिहित भरः सोऽहमिति इतः पूर्वम् अज्ञातशेषशेषित्वसम्बन्धज्ञानम् । सम्प्रति सदाचार्यसमाश्रयणात् उद्बुद्धसम्बन्धज्ञान इत्यर्थः ॥ ९१ ॥

इत्थम् स्तोत्रमध्ये आनुषङ्गिकफलम् प्रार्थ्य वरदराजान्नलब्धप्रार्थनोऽपि तत्र अनादरः सन् इतःपरम् सर्वेश्वरसाक्षात्कारलक्षणमोक्षफलम् प्रार्थयते – यथेति –

यथाऽसि यावानसि योऽसि यद्गुणः

करीश! यादृग्विभवो यदिङ्गितः ।

तथाविधम् त्वाऽहमभक्तदुर्ग्रहम्

प्रपत्तिवाचैव निरीक्षितुम् वृणे ॥ ९२ ॥

योऽसि *सत्यम् ज्ञानमनन्तम् ब्रह्म(तैत्ति.२.१.१)*, *आनन्दो ब्रह्म (तैत्ति.३.६) इति श्रुतिप्रसिद्ध यादृक्स्वरूपोऽसि, यावानसि *अणोरणीयान्महतो महीयान्(कठो.२.२०)* इति श्रुतिप्रसिद्ध यादृक्परिमाणोऽसि, यद्गुणोऽसि *परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च(श्वेता.६.८) । *स एको ब्रह्मण आनन्द (तैत्ति.२.८)इति श्रुतिप्रसिद्ध, यादृग्गुणोऽसि । यथाह *आदित्यवर्णम् तमसः परस्ताद्(श्वेता.३.८) इति श्रुति प्रसिद्ध यादृग्रूपोऽसि यादृग्विभवोऽसि, *सर्वम् खल्विदम् ब्रह्म(त्रि.म.ना.१.६), *यस्यात्मा शरीरम्, यस्य पृथिवी शरीरम्(बृ.५.७)*, *आदित्यानामहम् विष्णुः(भ.गी.१०.२१)* इत्यादिप्रसिद्ध, यादृग्विभूतिरसि यदिङ्गितोऽसि *इमान् लोकान् कामानी ईशत ईशनीभिः त्वष्टारम् रूपाणि विकुर्वन्तम् विपश्चिम्(तैत्ति-आनन्दवल्ली)* इति प्रसिद्ध, शासन सर्ज्जनादिव्यापारोऽसि । तथा त्वाम् तथाविधम् त्वाम् अभक्तदुर्ग्रहम् केवलम् कर्मनिष्ठैर्दुर्ग्रहम् *तमेवम् विद्वानमृत इह भवति (तै.आ.३.१.३)*, *नान्यः पन्था अयनाय विद्यते(चित्त्यु.१२.७) इति हि श्रुतिः । प्रपत्तिवाचैवश्लोकद्वयोक्तप्रपत्तिवचनेनैव निरीक्षितुम् साक्षात्कर्तुम् वृणे ॥ ९२ ॥

ऐहिकामुष्मिकभोगानुषङ्गम् सवासनम् त्याजयन् नित्यकैङ्कर्यमेव प्रापयेति प्रार्थयते – अय इति –

अये! दयालो! वरद! क्षमानिधे!

विशेषतो विश्वजनीन! विश्वद! ।

हितज्ञ! सर्वज्ञ! समग्रशक्तिक!

प्रसह्य माम् प्रापय दास्यमेव ते ॥ ९३ ॥

अये इत्यव्ययम् आभिमुख्येविशेषतः शब्दस्य यथायोगम् सम्बन्धः । विश्वजनीन विश्वहित *आत्मन्विश्वजनभोगोत्तरपदात् स्वः(अ.५.१.९) इति हितार्थे खप्रत्ययः । विश्वद अभिमतसर्वफलप्रद, सेवकानाम् हितज्ञ दास्यन् नित्यकैङ्कर्यम् णिजन्ततया द्विकर्मकत्वम् ॥ ९३ ॥

सम्प्रत्युपासकानामपि तव दयैव सम्सारमोचनी आत्मोज्जीवनी च । उपासनम् तु व्याजमात्रम् सा च शरणवरणवाचा मयि प्रसृता अतः कृतार्थोऽस्मीत्यनुसन्धत्ते – स्वकैरिति –

स्वकैर्गुणैः स्वैश्चरितैः स्ववेदना-

द्भजन्ति ये त्वाम् त्वयि भक्तितोऽथवा ।

करीश! तेषामपि तावकी दया

तथात्वकृत्सैव तु मे बलम् मतम् ॥ ९४ ॥

अथवेति पक्षान्तरे। मम बलान्तरमप्यस्तीत्यर्थः । ये उपासकास्त्वद्भक्तितः त्वयि स्नेहात् त्वाम् भजन्ते उपासते तेषामपि तावकी दया तथा दास्यकृत् तादृशी सैव मे बलम् निश्चितमित्यर्थः । साङ्गा हि भक्तिर्मोक्षसाधनम् कर्मयोगज्ञानयोगौ । अमानित्वादि गुणाश्च भक्त्यङ्गम् तत्सर्वमनुसन्धत्ते । गुणैरमानित्वादिभिः चरितैः कर्मानुष्ठानैः स्ववेदनात् प्रत्यहम् प्रकृतिवियुत्तात्मध्यानात् हेतौ पञ्चमी ॥ ९४ ॥

इदानीम् स्वकार्पण्यातिशयस्सर्वेश्वरस्य क्षमादयादिगुणजातम् च स्वोज्जीवनहेतुरित्यनुसन्धत्ते – यदीति –

यदि त्वभक्तोऽप्यगुणोऽपि निष्क्रियो

निरुद्यमो निष्कृतदुष्कृतो न च ।

लभेय पादौ वरद! स्फुटास्ततः

क्षमादयाद्यास्तव मङ्गला गुणाः ॥ ९५ ॥

हे वरद! यतः कारणात् स्फुटा: शिशुपालवायसादिषु दृष्टफलाः क्षमादयाद्यास्तव गुणा मङ्गलाः । अमङ्गलेष्वपि मङ्गलफलप्रदाः । ततः कारणादभक्तोऽपि भक्तिरहितोऽपि अगुणोऽपि तदङ्गभूता मानित्वादिगुणरहितोऽपि निष्क्रियोऽपि तदङ्गभूतकर्मयोगरहितोऽपि निरुद्यमोऽपि उद्योगरहितोऽपि न निष्कृतदुष्कृतोऽपि च भक्त्युत्पत्तिविरोधिप्राचीनपापप्रायश्चित्तरहितोऽपि च तव पादौ लभेय ॥ ९५ ॥

इतः परम् भगवद्भाष्यकारेण श्रीगद्ये *अनवधिकातिशयप्रीतिकारि ताशेषावस्थोचितशेषशेषतैकरतिरूपनित्यकिङ्करो भवानि(श.ग) इति शेषत्वनिर्वाहकम् नित्यकैङ्कयम् प्रार्थितम् । तदेव मोक्षभोगः तत्प्रार्थयते – विलोकनैरिति –

विलोकनैर्विभ्रमणैरपि भ्रुवोः स्मितामृतैरिङ्गितमङ्गलैरपि ।

प्रचोदितस्ते वरद! प्रहृष्टधीः कदा विधास्ये वरिवस्यनम् तव ॥ ९६ ॥

भ्रुवोर्विभ्रमणैर्विलासैः इङ्गितान्येव मङ्गलानि मङ्गलेङ्गितैरिति वा । इङ्गितम् नाम स्फुटशरीरतदवयवव्यापारः प्रचोदितः प्रेरितः । वरिवस्यनम् सेवनम् ॥ ९६ ॥

विविश्य विश्वेन्द्रियतर्षकर्षणीर्मनः स्थले नित्यनिखातनिश्चलाः ।

सुधासखीर्हस्तिपते! सुशीतला गिरः श्रवस्याश्शृणुयाम तावकीः ॥ ९७ ॥

विविश्येति –

विविश्य अतिप्रियतया हृदयम् प्रविश्य तथा सर्वार्थग्रहणशक्तानाम् सर्वेन्द्रियाणामहमेव श्रोष्यामि अहमेवेति तृष्णाकर्षणी तृष्णोत्पादिकाश्रवस्याः श्रोत्रहिताः *शरीरावयवाद्यत्(अ.५.१.६) इति यत्प्रत्ययः । तथा नित्यनिखातेन नित्यलग्नतया निश्चलाः । तथैव स्थिताः पुनः पुनरनुसन्धीयमाना इति यावत् ॥ ९७ ॥

अशेषदेशाखिलकालयोगिनीषु

अहम् त्ववस्थास्वखिलास्वनन्यधीः ।

अशेषदास्यैकरतिस्तदाचरन्

करीश! वर्तेय सदा त्वदन्तिके ॥ ९८ ॥

अशेषेति –

हे करीश! यथायोगम् अशेषदेशाखिलकालयोगिनीष्वखिलासु परव्यूहादिविभवावस्थासु अशेषदास्यैकरतिः निवासशय्यासनपादुकाम्शुकोपधानवर्षातपवारणादिभिः । इति प्रकारेण कृत्स्नकैङ्कर्यप्रीतिः अनन्यधीः त्वदेकधीः त्वद्दास्यमाचरन् त्वदन्तिके सर्वदा वर्तेय त्वद्व्यतिरिक्तधारकपोषकभोग्यरहितो वर्तेय इत्यर्थः ॥ ९८ ॥

इमम् जनम् हन्त! कदाऽभिषेक्ष्यति त्वदक्षिनद्योर्वरद! श्रमापहा ।

अकृत्रिमप्रेमरसप्रवाहजा विसृत्वरी वीक्षणवीचिसन्ततिः ॥ ९९ ॥

इत्थमिति –

त्वदक्षिणी एव नद्यौ तयोः इमम् तापत्रयातुरम् जनम् वीक्षणान्येव वीचयः सहजप्रेमरससानाम्  प्रवाहजा विसृत्वरी प्रसरणशीला अभिषेक्ष्यते नित्यकैङ्कर्यसाम्राज्ये ॥ ९९ ॥

सम्प्रति लक्ष्मीविशिष्टस्यैव सर्वेश्वरस्य नित्यकैङ्कर्यम् प्रार्थयते – सदातनत्वेऽपीति –

सदातनत्वेऽपि तदातनत्ववन्नवीभवत्प्रेमरसप्रवाहया ।

निषेवितम् त्वाम् सततोत्कया श्रिया करीश! पश्येम परश्शतम् समाः ॥ १०० ॥

सदातनत्वेऽपि सार्वकालिकत्वेऽपि नित्यपरिचयेऽपीति भावः | तदातनत्ववत् तात्कालिकत्वत् प्रथमपरिचयवदिति भावः । पुनः पुनर्नवीभवत्प्रेमरसप्रवाहया विश्लेषासहिष्णुतया निरन्तरससमुत्सुकतया श्रिया निषेवितम् त्वाम् शतात्परम् परश्शतम् समाः सम्वत्सरान् पश्येम *सदा पश्यन्ति सूरयः(डी.२.२०) इतिवत् *तेषाम् तत्परमम् स्थानम् यद्वै पश्यन्ति सूरयः । एकान्तिनः सदा ब्रह्म ध्यायिनो योगिनो हि ये(वि.पु.१.६.३९)* इतिवत् सदा पश्येम इत्यर्थः । *न च पुनरावर्तत(छान्.८.१५.१)* इति हि श्रुतिः ।  अनावृत्तिः शब्दादनावृत्तिः शब्दात्(ब्र.सू.४.४.२२) इति च वेदान्तसूत्रम् । समा इति *कालाध्वनोरत्यन्तसम्योगे(अ.२.३.५) इति सप्तम्यर्थे द्वितीया ॥ १०० ॥

सम्प्रति भगवत्परत्वम् सौलभ्यम् चानुसन्धाय स्वदोषम् चानुस्मरन् सञ्चिन्त्य सविचिकित्से मोक्षमेव प्रार्थयन् स्तोत्रम् परिसमापयति – समाहितैरिति –

समाहितैस्साधु सनन्दनादिभिस्सुदुर्लभम् भक्तजनैरदुर्लभम् ।

अचिन्त्यमत्यद्भुतमप्रतर्कणम् वरप्रद! त्वत्पदमाप्नुयाम् कथम् ॥ १०१ ॥

केवलब्रह्मनिष्ठभावैः ब्रह्मभावनायाम् साधु समाहितैः समाहितचित्तैः सत्यलोकवासिभिः सनकसनन्दनसनत्सुजातप्रभृतिभिः स्वस्वाधिकारपरिसमाप्तिपर्यन्तम् सुदुर्लभम् *सततम् कीर्तयन्तो माम् यतन्तश्च दृढव्रताः । नमस्यन्तश्च माम् भक्त्या नित्ययुक्ता उपासते (भ.गी.९.१४)* । तथा *भवामि न चिरात् पार्थ मय्यावेशितचेतसाम् (भ.गी.१२.९)*। तथा *मत्कर्म कृन्मत् परमो मद्भक्तस्सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः समामेति पाण्डव(भ.गी.११.५५)* इत्यादिवचनप्रसिद्धैः भक्तजनैरदुर्लभम् सुलभम् । अत्र भक्तजनैरिति प्रपन्नस्याप्युपलक्षणम् । अथवा भक्तजनैरनुरक्तजनैरचिन्त्यम् स्वेतरसदृशतया चिन्तयितुमशक्यम् । अत एवात्यद्भुतम् अत्याश्चर्यम् अप्रतर्कणम् कुतर्कागोचरवत् पदम् पद्यत इति पदम् स्थानम् स्वरूपम् वा कथम् प्राप्नुयाम् । त्वत्कृपामन्तरेण कथम् प्राप्नुयामिति ॥ १०१ ॥

रामानुजाङ्घ्रिशरणोऽस्मि कुलप्रदीपः

त्वासीत्स यामुनमुनेस्स च नाथवम्श्यः ।

वम्श्यः पराङ्कुशमुनेस्स च सोऽपि देव्याः

दासस्तवेति वरदास्मि तवेक्षणीयः ॥ १०२ ॥

॥ हरिः ओम् ॥

॥ इति श्रीमद्रामानुजविरचिते  वरदराजशतकस्तोत्रव्याख्यानम्   सम्पूर्णम् ॥

———————-

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.