[highlight_content]

श्रीवैकुण्ठस्तवव्याख्यानम्

श्रीः

श्रीमते रामानुजाय नमः

श्रीवैकुण्ठस्तवम्

श्रीवेङ्कटाचार्यवर्यस्य चरणौ शरणम् वृणे ।

यदीयसेवा सर्वेषाम् सूते तत्त्वार्थनिर्णयम् ॥

वेदान्तवेद्यविभवम् विविधावतारम्

आदित्यवर्णमुदितम् तमसः परस्तात् ।

वैकुण्ठनायकमनायकमादिमूलम्

पत्नीपरिच्छदविभूतियुतम् नमामि ॥

यो विष्णुरेव परतत्त्वमिति प्रतिज्ञाम्

प्रत्यर्थि सम्सदि समर्थयते स्म सत्याम् ।

वेदान्तवाक्यगतिभिर्विविधैश्च तर्के:

श्रीवत्सचिह्नगुरुमेनमुपयामि ॥

    अथ भगवद्भाष्यकारसकाशात् समधिगतपरावरतत्त्वयाथार्थ्यज्ञः श्रीवत्साङ्कमिश्रो वेदान्तैकसमधिगम्यम् पत्नीपरिजनपरिच्छदसमेतम् परमप्राप्यम् नित्यमुक्तभोग्यम् श्रीवैकुण्ठनाथम् वेदान्तवाक्यार्थानुसन्धानक्रमेण सकलजगदुज्जीवनार्थम् च स्तोतुकामः प्रथमम् स्वाचार्यम् प्रबन्धादौ ‘ प्रणमति । यो नित्यमिति –

यो नित्यमच्युतपदाम्बुजयुग्मरुक्म-

व्यामोहतस्तदितराणि तृणाय मेने ।

अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः

रामानुजस्य चरणौ शरणम् प्रपद्ये ॥ १ ॥

    पदाम्बुजयुग्ममेव रुक्मम् भोग्यमिति यावत् । तत्र व्यामोहात् तद्व्यतिरिक्त कृत्स्नपुरुषार्थान् तृणाय मेने तृणवदमम्स्त । मन्यकर्मण्यनादरे इत्यादिना चतुर्थी । चरणौ शरणम् प्रपद्ये इति यथा भगवच्चरणारविन्दद्वयम् परमशरण्यम् तद्वत् स्वाचार्यद्वयमपीति भावः ॥ १ ॥

   प्रपन्नजनकूटस्थम् श्रीपराङ्कुशमुनिम् शरण्यतया सर्वोत्कृष्टतया चानुसन्धत्ते श्लोकद्वयेन – त्रैविद्यमिति –

त्रैविद्यवृद्धजनमूर्धविभूषणम् यत्

सम्पच्च सात्त्विकजनस्य यदेव नित्यम् ।

यद्वा शरण्यमशरण्यजनस्य पुण्यम्

तत्सम्श्रयेम वकुलाभरणाङ्घ्रियुग्मम् ॥ २ ॥

   ऋग्यजुःसामरूपास्तिस्रो विद्यास्त्रिवि त्रिविद्या एव त्रैविद्यम् स्वार्थे *ष्यञ्* प्रत्ययः । तत्र वृद्धास्तेषाम् जनसमूहस्तस्य शिरोभूषणम् वेदवृद्धाः शिरसि चरणयुग्मम् धारयन्ति भावयन्ति वेत्यर्थः । सात्त्विकजनस्य सम्पद्भोग्यम्, वाशब्दश्चकारार्थे । अशरण्यजनस्य अकिञ्चनजनस्य शरण्यम् प्राप्यम् च तद्वकुलाभरणाङ्घ्रियुग्मम् द्रविडोपनिषत्प्रवर्तकस्य शठकोपस्य पादयुग्मम् सम्श्रयेम । लिडुत्तमबहुवचनम् । शठकोपमुनिप्रभावः श्रीरङ्गराजस्तवे प्रपञ्चितः ॥ २ ॥

   इत्थम् परमाचार्यमनुसन्धाय स्वप्रबन्धप्रतिपाद्यम् सर्वेश्वरम् स्तुतिनमस्काराभ्याम् अनुसन्धत्ते श्लोकद्वयेन भक्तीति –

भक्तिप्रभाव भवदद्भुत भावबन्ध-

सन्धुक्षित प्रणयसार रसौघपूर्णः ।

वेदार्थरत्ननिधिरच्युत दिव्यधाम

जीयात् पराङ्कुशपयोधिरसीमभूमा ॥ ३ ॥

   भक्त्यतिशयेन भवन् अद्भुतो भावबन्धश्चित्तबन्ध इति कर्मधारयः, तेन सन्धुक्षितः प्रवर्द्धितः प्रणयसारः स्नेहातिशयः स एव रसस्तस्यौघः प्रवाहस्तेन पूर्णः । भगवद्भक्तेन स्नेहतत्प्रकर्षजनकस्य पराकाष्ठेत्यर्थः । वेदार्था एव रत्नानि तेषाम् निधिः । अच्युतस्य सर्वेश्वरस्य दिव्यधाम दिव्यस्थानम् । असीमभूमा निस्सीममहिमा पराङ्कुश एव पयोधिः स्वप्रबन्धप्रवर्तनेन परेषाम् कुदृष्टीनाम् अङ्कुशः पराङ्कुशः, पराङ्कुश इति वकुलाभरणस्य नामान्तरम् । समुद्रपक्षेऽप्येतानि विशेषणानि यथायोग्यशः द्रष्टव्यानि ॥ ३ ॥

यन्मङ्गलाय महते जगतामुशन्ति

त्रैविष्टपान्यपि पदानि यदाश्रयाणि ।

वन्दामहे सरसिजेक्षणम्  अद्वितीयम्

वेदान्तवेद्यम् अनिदम्प्रथमम् महस्तत् ॥ ४ ॥

    यन्मङ्गलायेति – मङ्गलाय श्रेयसे उशन्ति वदन्ति वेदान्ताः  वैदिका वा, त्रैविष्टपानि त्रिविष्टपसम्बन्धीनि पदानि दिव्यस्थानानि, इदमेव प्रथममनिदम् न इदम् प्रथमम् अनिदम् प्रथमम् अनादीति यावत् । महत्तेजः ॥ ४ ॥

पीताम्बरम् वरदशीतलदृष्टिपातम्

आजानुलम्बिभुजम् आयतकर्णपाशम् ।

तन्मेघमेचकम् उदग्रविशालवक्षः

लक्ष्मीधरम् किमपि वस्तु ममाविरस्तु ॥ ५ ॥

   पीताम्बरमिति – वरदशब्दो दृष्टिपातविशेषणम्, प्रशस्तः कर्णः कर्णपाशः मेघमेचकम् नीलमेघ इव मेचकवर्णम् उदग्रम् ऊर्जितम् विशालम् वक्षो यस्य तत्किमपि वस्तु इदमिति निर्देष्टुमशक्यम् वस्तु आविरस्तु प्रकाशताम् ॥ ५ ॥

    अनेन श्लोकचतुष्टयेन प्रबन्धादौ कर्तव्या आसीर्नमस्क्रियावस्तुनिर्देशाः कृता इति मन्तव्यम् । इत्थम् प्रबन्धमुखम् प्रस्ताव्य सम्प्रति वेदान्तवेद्यम् सर्वेश्वरम् स्तोष्याम इति प्रतिजानीते यत्तत्त्वमिति –

यत्तत्त्वम्  अक्षरम् अदृश्यम् अगोत्रवर्णम्

अग्राह्यम्  अव्ययम्  अनीदृशम् अद्वितीयम् ।

ईशानमस्य जगतो यदणोरणीयः

तद्वैष्णवम् पदमुदारम्  उदाहरामः ॥ ६ ॥

    न क्षरतीत्यक्षरम् अविकारि, अदृश्यम् अप्रत्यक्षम्, अग्राह्यम् अनुमानाद्यगम्यम् अगोत्रवर्णम् नामरूपरहितम्, अव्ययम् नित्यम् अनीदृशम्, असदृशम् अद्वितीयम्, अधिकरहितम् अस्य जगतः ईशानम् ईशितृ यत्तत्त्वम् प्रामाणिकम् वस्तु यदणोरणीयः सूक्ष्मादपि सूक्ष्मतरम् तदन्तर्यामीति यावत् । तथा महतो व्यापकाद् गगनादेर्महत्तरमित्यपि विवक्षितम् तत्तादृशम् वेदान्तवेद्यम् वैष्णवम् विष्णुसम्बन्धि पद्यत इति पदम् स्वरूपम् उदात्तमुन्नतमुत्कृष्टमिति यावत् । उदारमिति पाठे ऊर्जितमित्यर्थः । उदाहरामः स्तुमः । अत्र अक्षरमिति प्रकृतित्वसम्सृष्टचेतनव्यावृत्तिः । अनीदृशमिति नित्यमुक्तव्यावृत्तिः । अवशिष्टम् पदजातम् स्वरूपपरम् ॥ ६ ॥

    इदानीम् वेदान्तवेद्यम् सनकसनन्दनाद्यभिवन्द्यम् सर्वोत्कृष्टम् वस्तु कथम् स्तुत्यमिति स्वयमेवाशङ्क्य वात्सल्यगुणयोगात् स्वेन स्तुत्यमित्युच्छ्वसति आम्नायेति –

आम्नायमूर्धनि च मूर्धनि चोर्ध्वपुम्साम्

यद्धाम वैष्णवमभीक्ष्णतरम् चकास्ति ।

तन्मादृशामपि च गोचरमेति वाचः

मन्ये तदीयमिदम्  आश्रितवत्सलत्वम् ॥ ७ ॥

   ऊर्ध्वपुम्सामुत्कृष्टपुरुषाणाम् अभीक्ष्णतरमतिशयेन पुनः पुनरिति वा वैष्णवम् विष्णुसम्बन्धि धामतेजः चकास्ति प्रकाशते । तन्मादृशामपि निकृष्टानाम् वाचोगोचरम् वाग्विषयत्वमुपैतीति यत्तदीयमाश्रितवात्सल्यमिति मन्ये । वात्सल्यम् नाम दोषे सत्यपि तदननुसन्धानेन स्वीकरणम् ॥ ७ ॥

   इदानीमतिनिकृष्टस्य तव स्तोत्रम् स्तुत्यस्य सर्वेश्वरस्यापि निकर्षकरम् स्वस्यापि लज्जावहम् चेत्याशङ्कय सर्वेश्वरमुद्दिश्य तत्स्नेहवशेन प्रवृत्तत्वात् तदुभयमपि दृष्टान्तमुखेन नास्तीत्याह जानन्नपीति –

जानन्नपीह किल मामनपत्रपिष्णुः

विष्णोः पदप्रणयिनीम् गिरमाद्रियेऽहम् ।

न श्वावलीढमपि तीर्थमतीर्थमाहुः

नोदन्यताऽपि च शुना किल लज्जितव्यम् ॥ ८ ॥

  वर्जितव्यमिति पाठान्तरम् | *अमर्यादः क्षुद्रश्चलमतिरसूया   प्रसवभूः(स्तो.र.६२) इत्याद्युक्तप्रकारम् जानन्नपि विष्णुपादप्रणयात् प्रवृत्ताम् गिरमनपत्रपिष्णुर्लज्जारहितः सन्नाद्रिये बहुमन्ये । तथा हि श्वावलीढमपि भागीरथ्यादितीर्थम् नाहुः किम् तु पूर्ववत् शुद्धिकरमेव । उदन्वतापि वा शुना शुनापि च न लज्जितव्यम् किल किम् तु तथ्यमेव । पिपासाशान्तिः शुद्धिश्च तस्य स्यान्महतो वस्तुनो निकृष्टसम्सर्गेऽपि महत्त्वम् न हीयते । उत्कृष्टस्यैवायुक्तकरणे लज्जा । स्वाधिकारानुरूपम् प्रवर्तमानस्य निकृष्टस्येति भावः ।      अनपत्रपिष्णुरिति त्रपूप् लज्जायाम् इत्यस्माद् धातोरलङ्कृञ् इत्यादिना (अष्टा.३.२.१३६) इष्णुच् प्रत्यये कृते रूपम् । उदन्वतेति अशनायो दन्यधनायाबुभुक्षापिपास गर्द्धेषु(अ.७.४.३४) इति क्यचिप्रत्ययान्ततया निपातितादुदन्यशब्दाल्लटि शतृप्रत्यये विहिते रूपम् ॥ ८ ॥

   ननु स्तुतिर्नाम स्तुत्यस्य वस्तुनो यथावत् कृत्स्नगुणवर्णनम् तच्चानवधिकासङ्ख्येयकल्याणगुणगणे सर्वेश्वरे तु तव दुःशक्यमपीत्याशङ्क्य यद्यप्येवम् तथा ह्यल्पगुणलववर्णनेनापि स्वस्य स्तोत्रप्रवृत्तिश्चरितार्थेत्याह देवस्येति –

देवस्य दैत्यमथनस्य गुणेष्वियत्ता

सङ्ख्या च वाङ्मनसगोचरमत्यभूताम् ।

अप्येवमण्वपि च तत्र ममार्तिशान्त्यै

कीटस्य तृष्यत उदन्वति विप्रुषाऽलम् ॥ ९ ॥

    देवस्य गुणेषु इयत्ता एकैकगुणस्य इयदिति परिमाणसङ्ख्या च यद्यपि वाङ्मनसयोर्गोचरमत्यभूताम् अत्यवर्तेताम् । एवमपि तत्र गुणेषु स्वल्पमपि स्तोतुकामस्य स्तुत्यभावे आत्मधारणम् कर्तुमशक्नुवतो मम दुःखशान्त्यै अलम् पर्याप्तम् । तथा हि तृष्यतः पिपासोः कीटस्य तृष्णाशान्त्यै समुद्रे विप्रुषाद्रप्सेनालम् वाङ्मनसेत्यकारान्तत्वम् निपातनात् सिद्धम् ॥ ९ ॥

   ननु भक्तिश्रद्धातिशययोगाद् वाङ्माधुर्याच्च पूर्वेषामेव सर्वेश्वरस्तोत्राधिकाराद्विलक्षणस्य तव कथमित्याशङ्क्य सर्वसहिष्णुतया ममाप्यधिकारोऽस्ति, तव क्षान्तिश्च सफलेत्याह प्रेमार्द्रेति –

प्रेमार्द्रविह्वलगिरः पुरुषाः पुराणाः

त्वाम् तुष्टुवुः मधुरिपो! मधुरैर्वचोभिः ।

वाचो विडम्बितमिदम् मम नीचवाचः

क्षान्तिस्तु ते सविषया मम दुर्वचोभिः ॥ १० ॥   

    प्रेम्णा स्नेहेनार्द्रा सिक्ता स्निग्धा विह्वला स्खलिता गीर्येषाम् ते पुराणा नाथमुनियामुनमुनिप्रभृतयः । नीचवाचो मम इदम् वचनम् पूर्वेषाम् वाचो विडम्बनम् वाक्प्रतिरूपकम् तदनुकरणमात्रमिति वा तल्लज्जाकरमिति वा किम् तु मम दुर्वचोभिस्तव क्षान्तिः सविषया अन्यथा निर्विषया स्यादिति भावः ॥ १० ॥

    इदानीम् वेदान्तवाक्यार्थानुसन्धानेन सर्वेश्वरम् स्तोष्यन् तदितरदर्शननिन्दापूर्वकम् श्रुतिमभिष्टौति आज्ञेति –

आज्ञा तवात्रभवती विदिता त्रयी सा

ताम् हि प्रमाणमुपजग्मुः  अतीन्द्रियेऽर्थे ।

आभासभूयम्  अभियान्त्यपराणि दोषैः

एषा तु दोषरहिता महिता पुराणी ॥ ११ ॥

   अत्र भवती पूज्या सा त्रयी तव आज्ञेति विदिता प्रसिद्धा । तदुक्तम् *श्रुतिस्मृतिर्ममैवाज्ञा यस्तामुल्लङ्घ्य वर्तते । आज्ञाछेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः(वि.ध.पु.७६.३१)* ॥ ताम् प्रत्यक्षानुमानाद्यगोचरकर्म ब्रह्मरूपेऽर्थे प्रमाणमभिजग्मुः अङ्गीचक्रुः । अपराणि श्रुतिविरुद्धानि शास्त्राणि वक्तृदोषैराभासभूयमाभासत्वमभियान्ति प्राप्नुवन्ति । आभासभूयमिति *भुवो भावे(अष्टा.१.३.६६)* इति क्यपि प्रत्यये विहिते रूपम् । पुराणी पुरातनी तत एव वक्तृदोषरहिता एषा तु महिता प्रशस्ता ॥ ११ ॥

    इदानीम् प्रमाणप्राप्तिः प्रमेयप्राप्तिश्च सुकृतिनामेव नेतरेषामित्याह अन्तर्हितेति

अन्तर्हितो निधिरसि त्वमशेषपुम्साम्

लभ्योऽसि पुण्यपुरुषैः इतरैर्दुरापः ।

तत्र त्रयीम् सुकृतिनः कृतिनोऽधिजग्मुः

बाह्येषु बाह्यचरितैः  इतरैर्निपेते ॥ १२ ॥

   त्वम् सर्वेषाम् तिरोहितो निधिरसि दुरापः दुष्प्रापः । तत्र निधिविषये कृतिनः विद्वाम्सः इतरैरसुकृतिभिः वेदबाह्यचरितैः वेदबाहुल्येषु दर्शनेषु निपेते पतितम् भावे लिट् ॥ १२ ॥

    इदानीम् प्रमाणप्राप्तावपि दुष्कृतिनाम् त्वत्कृपाशून्यानाम् च यथावत् प्रमेयप्राप्तिर्नास्ति विपरीतप्राप्तिरस्तीत्याह चित्रमिति –  

चित्रम् विधेर्विलसितम् त्विदमाविरस्ति

दुष्टात्मनामयमहो! किल दुर्विपाकः ।

यत्केचिदत्रभवतीम् श्रुतिमाश्रयन्तोऽ–

प्यर्थे कुदृष्टिविनिविष्टधियो विनष्टाः ॥ १३ ॥

    केचित् श्रुतिमाश्रयन्तोऽपि अर्थे वेदार्थविषये कुदृष्टिविनिविष्टधियः कुमार्गप्रवर्तकाचार्यैः कुदृष्टिभिः अपन्यायैर्वा अनिविष्टधिय: सन्तो विनष्टा इति यत् इदम् सर्वेश्वरविलसितम् आविरस्तु अयम् दुष्टात्मनाम् दुष्कर्मदुर्विपाकश्च एकैव श्रुतिः । सर्वेश्वरकृपावताम् यथावदर्थप्रकाशिकाः इतरेषाम् विपरीतप्रकाशिकेति चित्रमहोशब्दतात्पर्यम् । अयम् भावः – कर्ममीमाम्सकेषु भाट्टप्राभाकरास्तावत् पूर्वभागे कर्मैव प्रतिपाद्यम् तदेव फलप्रदम् न तु ईश्वर इति प्रतिपेदिरे । ब्रह्ममीमाम्सकेष्वपि मायावादिनस्तावत् उपनिषद्भागेन ब्रह्मैव प्रतिपाद्यम् तच्च सन्मात्रम् स्वप्रकाशम् निर्गुणमनाद्यविद्यासङ्गाज्जीवभावमापन्नम् सत् सम्सरति ऐक्यज्ञानान्मुच्यते प्रपञ्चस्तु मिथ्येति । भास्करीयाः यादवप्रकाशीयाश्च ब्रह्म-सर्वज्ञम् सर्वशक्तिम् सत्यकामसत्यसङ्कल्पम्, प्रपञ्चश्च सत्य एव, जीवास्तु ब्रह्मणो अम्शाः ततोभिन्नाभिन्नस्वभावा इति स्थिते तत्र जीवब्रह्मणोः सर्वदा भेदा भेदस्तात्त्विक इति यादवप्रकाशीयाः भास्करीयास्तु भेदस्त्वौपाधिकः मुक्तेः पूर्वमनुवर्तते उपाधिश्चान्तःकरणम् तदुपहितम् ब्रह्म जीवभावम् भजते उपाधिविगमे अभेदस्तु पारमार्थिको मुक्तिदशायामनुवर्तत इति । एतत्सर्वम् श्रीनिवासस्तोत्रेऽभिहितम् –  

   सन्मात्रम् स्वप्रकाशम् स्वकल्पितजगदाभासमेकम् विशुद्धम् ।    

   ब्रह्मैवाज्ञानसङ्गाद्विवशमनुभवत्यात्मनो जीवभावम् ॥

   पश्चात् सम्सारबन्धम् वृषशिखरिपते दुःखरूपम् ततः स्याद् ।

   ऐक्यज्ञानाद्विमुक्तिः सकललयफलेत्याह कश्चित् कुदृष्टिः ॥

   तथा भेदश्रुत्या च भेदम् तदितरपरया चेदसीम्नित्वभेदे ।

   सत्यापातप्रतीते द्वयमपि कतिचित् तात्त्विकम् प्रोचुराचार्या ॥

   भेदस्त्वौपाधिकोऽयम् वृषाशिखरिपते सोऽपि मुक्तेः पुरस्तात् ।

   पश्चाद्भावित्वभेदः सहज इति परे मेनिरेऽध्यात्मनिष्ठाः ॥ इति ।

   इदानीमल्पापराध इति पूर्वमीमाम्सकानुपेक्ष्य कुदृष्टिनामुत्तरमीमाम्सकानाम् वेदबाह्यानाम् च न कश्चिद्विशेष इत्याह बाह्या इति –

बाह्याः कुदृष्टय इति द्वितयेऽप्यपारम्

घोरम् तमः समुपयन्ति न हीक्षसे तान् ।

जग्धस्य काननमृगैर्मृगतृष्णिकेप्सोः

कासारसत्त्वनिहतस्य च को विशेषः ॥ १४ ॥

   अपन्यायैः कुत्सिता विपरीतादृष्टिर्येषाम् ते कुदृष्टयः तमः अज्ञानम् सम्सारमिति यावत् । तान् कृपया न निरीक्षसे हि । *जायमानम् हि पुरुषम् यम् पश्येन्मधुसूदनः । सात्त्विक: स तु विज्ञेयः स वै मोक्षार्थचिन्तकः(भारतम्.मोक्षधर्मपर्वम्.३५८-७३)* इति पुराणप्रसिद्धो जायमानकटाक्षस्तेषु नास्तीति भावः । ननु श्रुतिमाश्रयताम् निन्दयताम् च कथमिव विशेष इत्याशङ्कयाह जग्धस्येति । मृगतृष्णिकाम् जलम् मत्वा पिपासया तदिच्छोस्तत्र काननमृगैर्भक्षितस्य साक्षाज्जलपिपासया कासारम् सरः प्रविष्टस्य तत्रत्यजलग्राहनिहतस्य मरणे न किञ्चिद्वैषम्यमित्यर्थः । जग्धस्येत्यदभक्षण इत्यस्य धातोरदो जग्धिर्ल्यप्तिकितीति जग्धादेशः । तत्त्वार्थापरिज्ञानम् तद्विपरीतानुष्ठानम् च उभयेषाम् सममित्यर्थः ॥ १४ ॥

   इदानीम् प्रमाणपरिकरवताम् त्वत्कृपावतामेव यथावदर्थप्रकाश इत्याह न्यायेति –

न्यायस्मृतिप्रभृतिभिः  भवता निसृष्टैः

वेदोपबृम्हणविधावुचितैरुपायैः ।

श्रुत्यर्थमर्थमिव भानुकरैर्विभेजुः

त्वद्भक्तिभावितविकल्मषशेमुषीकाः ॥ १५ ॥

   वेदार्थनिर्णयौपयिकाः पूर्वोत्तरमीमाम्साशास्त्रप्रतिपादिता न्यायाः स्मृतयः प्रसिद्धाः । प्रभृतिशब्देनेतिहासपुराणादीनि विवक्षितानि । भवता निसृष्टैः असृष्टैः तत्तद्दृष्टिमुखेन प्रवर्तितैरिति यावत् । उपबृम्हणम् नाम श्रुतिवाक्यैः सामान्यतः प्रतिपन्नस्यार्थस्य स्मृत्यादिभिर्व्यक्तीकरणम् स्मृतीतिहासपुराणनाम् प्रायशः स्वातन्त्र्येणार्थप्रतिपादकत्वम् क्वचित्क्वचिदेवोपबृम्हणमिति मन्तव्यम् । विधिर्विधानम् अर्थम् हेयोपादेयरूपम् लौकिकम् घटपटादिकम् न केवलमेतावदुपकरणम् भक्तिरपीत्याह त्वद्भक्तीति । त्वद्भक्त्या भाविता वासिता विकल्मषा रजस्तमःशून्या शेमुषी बुद्धिर्येषाम् ते तथोक्ताः । तदुक्तम् भारते – *शुद्धभावम् गतोभक्त्या शास्त्राद्वेद्मि जनार्दनम्(महाभा.उत्.६८.५) इति, तथा गीतायाम् – *भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः । ततो माम् तत्त्वतो ज्ञात्वा विशते तदनन्तरम्(भ.गी.१८.५५) इति ॥ १५ ॥

    सम्प्रति श्रुत्युपकरणेषु भक्तिः प्रधानम् तदितरसाकल्येऽपि तद्वैकल्ये यथावत्प्रमेयप्राप्तिर्नास्तीत्याह | येत्विति –

ये तु त्वदङ्घ्रिसरसीरुहभक्तिहीनाः

तेषाममीभिरपि नैव यथार्थबोधः ।

पित्तघ्नमञ्जनमनापुषि जातु नेत्रे

नैव प्रभाभिरपि शङ्खसितत्वबुद्धिः ॥ १६ ॥

    अमीभिरुपकरणैः तथाहि नेत्रे पित्रदोषघ्नमञ्जनमनापुषि अनाप्तवति सति सूर्यप्रभाभिरपि सहकारिसद्भावेऽपीति यावत् । शङ्खधावल्यबुद्धिर्नास्ति किम् तु पीतत्वबुद्धिरेव । अनापुषीति आप्लृव्याप्ताविति धातोः क्वसुप्रत्ययान्तम् पदम् ॥ १६ ॥

    आचार्यकृपया त्वद्भक्तिभावितबुद्धयो वयम् तु एभिरुपायैरित्थम् निश्चिनुम इत्याह – तत्त्वार्थेति –

तत्त्वार्थतत्परपरश्शतवेदवाक्यैः

सामर्थ्यतः स्मृतिभिरप्यथ तादृशीभिः ।

त्वामेव तत्त्वपरसात्त्विकसत्पुराणैः

देवज्ञधीभिरपि निश्चिनुमः परेशम् ॥ १७ ॥

   तत्त्वार्थे तात्पर्यविद्भिः परश्शतैः शतात्परैः वेदान्तवाक्यैः सामर्थ्यतः शब्दसामर्थ्यादर्थसामर्थ्याच तादृशीभिः तत्त्वार्थपराभिर्देवज्ञाः  सर्वेश्वरसाक्षात्कारवन्तः तेषा बुद्धिभिस्त्वामेव पुरुषोत्तमम् विष्णुनारायणवासुदेवादिशब्दवाच्यम् त्वामेव परेशम् परमस्वामिनमीशम् महेश्वरशब्दवाच्यम् न निश्चिनुम इत्यर्थः ॥ १७ ॥

   ननु ईशशब्दस्य लोके देवतान्तरे प्रसिद्धत्वात् कथम् भगवत्परत्वमित्याशङ्क्य श्रुत्यनुग्रहादित्याह- अन्यत्रेति –

अन्यत्र तु क्वचन केचिदिहेशशब्दात्

लोकप्रसिद्धिमुपगम्य तमीशमाहुः ।

तैश्च प्रसिद्धिविभवस्य समूलतायै

ग्राह्या त्रयी त्वयि तु साऽच्युत! सम्मुखीना ॥ १८ ॥

   केचित् पाशुपताः अन्यत्र क्वचन शिवे लोके प्रयोगप्रसिद्धिमुपगम्य तम् शिवम् सर्वेश्वरमाहुः । तैरपि प्रसिद्धविभवस्य लोके प्रसिद्धिप्राचुर्यस्य समूलतायै शिवे ईशशब्दप्रयोगप्रसिद्धिः किमन्धपरम्परामूला वा प्रमाणमूला वेति प्रमाणमूलत्वसिद्ध्यर्थम् श्रुति प्रमाणमूलत्वेनाङ्गीकार्या । हे अच्युत सा त्रयी त्वयि तु सम्मुखीना तात्पर्यवती न तु शिवे इत्यर्थः ॥ १८ ॥

  श्रुतेराभिमुख्यमेव दर्शयति यः खल्विति –

यः खल्वणोरणुतरो महतो महीयान्

आत्मा जनस्य जनको जगतश्च योऽभूत् ।

वेदात्मकप्रणवकारणवर्णवाच्यम्

तम् त्वाम् वयम् तु परमेश्वरमामनामः ॥ १९ ॥

   अत्र श्रुतिः *अणोरणीयान् महतो महीयानात्मा गुहायाम् निहितोऽस्य जन्तोः(तै.उ.२.१)* । *तमक्रतुम् पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम्(कठो.२.२०)* *सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः सप्तजिह्वाः । सप्त इमे लोका येषु चरन्ति प्राणा गुहाशयान्निहिताः सप्त सप्त(मुण्डक.२.१.८)* *अतः समुद्रा गिरयश्च सर्वेऽस्मात् स्यन्दन्ते सिन्धवः सर्वरूपाः । अतश्च विश्वा ओषधयो रसाश्च येनैष भूतस्तिष्ठत्यन्तरात्मा(मुण्डक.२.१.९) तथा   अस्यैवानुवाकस्यान्ते *यत् वेदादौ स्वरःप्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः(महाना.८.१७) । अयमनुवाको नारायणमुनिभिः प्रपञ्चेन व्याख्यातः । सङ्क्षेपार्थस्तु अणोः सूक्ष्माज्जीवात्मनोऽप्यणीयान् अणुतरः, महतः पृथिव्यादेः अपि महीयान् महत्तरः, एवम् विध आत्मा परमात्मा अस्य जन्तोः प्राणिनः गुहायाम् हृदयगुहायाम् निहितः सन्निहितः तम् परमात्मानम् वीतशोको मुक्तपुरुषो मुमुक्षुर्वा पश्यति साक्षात्करोति । कीदृशम् ? अक्रतुम् अकर्मवश्यम् अथवा केवलक्रतुभिः कर्मभिरप्राप्यम् वा महिमानम् महिमगुणयुक्तम् ईशम् स्वामिनम् तस्माद् धातुस्तस्यैव प्रसादेन परमात्मनः प्रसादात् तथा तस्मात् परमात्मनः सप्तप्राणाश्चक्षुरादिपञ्चकम् मनो बुद्धिश्चेति सप्तप्राणाः प्रभवन्ति प्रवर्तन्ते उद्भवन्ति वा सप्तार्चिषः *सप्तसूर्याश्च प्रभवन्ति सूर्याणाम् सप्तत्वम् सप्तसूर्यादिवमनुप्रविष्टा* इति श्रुतिप्रसिद्धम् । तथा

यग्नियाविलवदुम्बराश्वत्थखदिरपालाशप्लक्षन्यग्रोधाः सप्त समिधः, तथा अग्नेः सप्तजिह्वाः । ताश्च पठिताः – *काली कराली च मनोजवा च सुलोहिता या च सुधूर्मवर्णा । स्फुलिङ्गिनी विश्वरुची च देवी लोलायमाना(मुण्डक.१.२.४)* इति सप्त जिह्वा इति । तथा येषु लोकेषु प्राणाः प्राणिनशीलाः प्राणिनश्चरन्ति, इमे अधस्तना उपरितनाश्च सप्तलोकाः प्रभवन्ति किम् च एते सर्वे गुहाशयात् प्रकृतात् परमात्मनो निहिता स्थापिताः । गुहाशयादिति हेतौ पञ्चमी । तथा *सप्त ये लोकेसप्तसप्त अन्ये च सप्तसङ्ख्याकाः सप्तछन्दाम्सि सप्त स्वरा* इत्यादयः, एतेऽप्यस्मात् प्रभवन्तीत्यार्थः । किम् च अतः परमात्मनः सप्तवणेक्षुसुरासर्पिर्दधिदुग्धशुद्धजलसमुद्राः सप्तकुलपर्वताश्चः सर्वे प्रभवन्ति, अस्मात्सर्वेश्वरान्नानारूपा नद्यः स्यन्दन्ते प्रभवन्ति । अतः सर्वेश्वरात् सर्वा ओषयः तद्गता मधुरादि रसाश्च प्रभवन्ति । पुनरपीश्वरमेव विशिनष्टि येन सर्वेश्वरेण हेतुना एष अन्तरात्मा शरीरान्तरात्मा भोक्ता जीवात्मा भूत उद्भूतो भोगसमर्थः सन् तिष्ठतीति । अत्राणोरणीयस्त्वम् पुरुषोत्तमस्यैव न तु देवतान्तरस्य तथा च मनुवचनम् – *प्रशासितारम् सर्वेषाम् अणीयाम्समणीसाम् । रुक्माभम् स्वप्नधीगम्यम् विद्यात् तु पुरुषम् परम्(मनुस्मृति.१२.१२२)* इति परम् पुरुषम् पुरुषोत्तममित्यर्थः । रुक्माभम् विद्युद्वर्णम् स्वप्नधीगम्यम् अविकल्पधीगम्यम् केवलमनोग्राह्यम् । तथा गीतायाम् *अणोरणीयाम्समनुस्मरेद्यः सर्वस्य धातारमचिन्त्यरूपम् । आदित्यवर्णम् तमसः परस्तात् स तम् परम् पुरुषमुपैति दिव्यम्(भ.गी.८.९)* इति । तथा महतो महीयस्त्वमपि तस्यैव । *अतो ज्यायाम्श्च पुरुष(यजु.३१.३)* इति पुरुषसूक्ते प्रसिद्धेः । गुहायाम् निहितोऽस्य जन्तोरित्यन्तरात्मत्वम् प्रतीयते, तच्च नारायणस्यैव, *एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायण(सुबा.७)* इत्युपनिषत्प्रसिद्धेः । तथा समनन्तरवाक्यप्रतिपन्नस्रष्टृत्वम् प्रवर्तकत्वम् च तस्यैव युक्तम् । तथा लोकानकल्पयन् *वेदाहमेतम् पुरुषम् महान्तम्(श्वेता.३.७)* इति पुरुषसूक्तप्रसिद्धेः । अतोऽस्मिन्ननुवाके *धातुःप्रसादान्महिमानमीशम् (कठो.२.२०) इतीशशब्देनाणीयस्त्वादिगुणविशिष्टः पुरषोत्तमनारायणादिशब्दवाच्यः सर्वेश्वर एव प्रतीयते इतीयम् श्रुतिस्तत्सम्मुखीनेति सिद्धम् । तथा वेदोपक्रमकाले यः प्रणवाख्यः स्वरः प्रोक्तः वेदपरिसमाप्तिसमये च प्रतिष्ठितः तस्य प्रणवस्य प्रकृतिलीनस्य केवलस्य कारणस्येति यावत् । यः परो वाच्यः स महेश्वर इत्यर्थः । आदावन्ते च वेदस्यावसानार्थम् च विशरणार्थम् च प्रणवोच्चारणम् मनुना विहितम् । *ब्राह्मणः प्रणवम् कुर्यादादावन्ते च सर्वदा । स्रवत्यनोङ्कृतम् पूर्वम् परस्ताच्च विशीर्यति(मनुस्मृति.२.७४)* इति अकारस्य सर्वाक्षरप्रकृतित्वम्, *अकारो वै सर्वा वाक्(ऐत.३.६.७)* इति श्रुतिप्रसिद्धम् । अत्राप्यकारवाच्यत्वम् भगवत एव, न तु देवतान्तरस्य *अ इति ब्रह्म(ऐत.३.८.६)* इति श्रुतिप्रसिद्धेः, तथा *अक्षराणामकारोऽस्मीति(भ.गी.१०.३३)* गीतावचनात् ।    तथाभियुक्तैरप्युक्तम् *भगवतो वासुदेवस्य प्रथमाभिधानमकारमभिदधतो किम् नाम मङ्गलम् न कृतम्(महाभाष्ये अइउण् सूत्रभाष्यम्)* इति । अतोऽत्राप्यकारवाच्यो महेश्वरः पुरुषोत्तम एवेति श्रुतिरपि तत्सम्मुखीनेति सिद्धम् । यद्यप्यस्मिन्ननुवाके *इन्द्र एकम् सूर्य एकम् जजान वेनादेकम् स्वधयानिष्ठतक्षुः यो देवानाम् प्रथमम् पुरस्ताद् विश्वाधिको रुद्रो महर्षिः, हिरण्यगर्भम् पश्यत जायमानम् स नो देवः शुभया स्मृत्या सम्युक्त्विति(महा.८.११)* रुद्रोऽपि पठितः । तथाप्यीशादिभिः सहपाठान्महर्षित्वेन   जायमानहिरण्यगर्भद्रष्टुत्वव्यपदेशात् शुभस्मृतिमात्रप्रार्थनाच्च न परदेवतात्वमिति श्रीवेदान्ताचार्या आहुः । रुजम् सम्सारक्लेशम् द्रावयतीति व्युत्पत्त्यात्र रुद्रशब्दे भगवत्परः उपक्रमोपसम्हारानुकूल्यम् चेति नारायणमुनयः इति । किम् च समनन्तरवाक्ये *वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदम् पूर्णम् पुरुषेण सर्वमिति पुरुषः पठ्यते* (तैत्ति.११.२०) अतः पुरुषोत्तम एवार्थः । श्लोकार्थस्तु यः खलु देव अणोरणुतरो महतो महीयानभूत् यश्चास्य जनस्य जन्तोरात्मा अन्तरात्मा चाभूत् हे अच्युत! वेदात्मकस्य प्रणवस्य यः कारणभूतो वर्णोऽकारः तस्य वाच्यम् तम् त्वाम् परमेश्वरम् सर्वस्वामिनमामनामः वेदान्तमुखेन निश्चिनुमः । तस्मादुक्तेन न्यायेन नारायणपुरुषोत्तमशब्दवाच्य एवेशमहेश्वरशब्दवाच्यः, रुद्रस्य त्वीश्वरमहेशशब्दवाच्यत्वम् निर्मूलम्, लोकप्रयोगस्त्वन्धपरम्परामूलो वा उपचारमूलो वा, कतिपयेशितृत्वमूलो वेत्यर्थः ॥ १९ ॥

   सम्प्रति समनन्तरे सहस्रशीर्षमित्यादिना नारायणानुवाके *पतिम् विश्वस्यात्मेश्वरम् शाश्वतम् शिवमच्युतम् । नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् । नारायणपरम् ब्रह्मतत्त्वम् नारायणः परम् (महा.९.३)* इत्यादिवाक्यानि श्रूयन्ते । तदर्थानुसन्धानेन तत्त्वनिर्णयम् कुर्वन् भगवन्तमभिष्टौति । अयमनुवाकश्च *लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपीति(ब्रह्मसूत्र.३.३.४३)* सूत्रव्याख्यानावसरे भगवता  भाष्यकारेण सर्वपरविद्याशेषतया व्याख्यातः । सर्वासु परविद्यासु एवम् विधगुणविशिष्टो नारायण एवोपास्य इति – आत्मेश्वरोऽसीति –

आत्मेश्वरोऽसि न परोऽस्ति तवेश्वरोऽन्यः

विश्वस्य चाधिपतिरस्य परायणम् च ।

नारायणाच्युत! परस्त्वमिहैक एव

ब्रह्मादयोऽपि भवदीक्षणलब्धसत्ताः ॥ २० ॥

   आत्मा चासावीश्वरश्चेति कर्मधारयः । आत्मनः स्वस्येश्वर इति षष्टीतत्पुरुषो वा । स्वस्यैव स्वयम् निर्वाहकः स्वयम् दासास्तपस्विन इतिवत् । अत एव तावन्यः पर उत्कृष्ट ईश्वरो नास्ति । अस्या चेतनाचेतनात्मकस्य विश्वस्य पतिः पालकः, परायणम् परमप्राप्यम् चासि । अतस्त्वमिह प्रपञ्चे अनुवाके वा एक एव नारायणश्चाच्युतश्चासि नराणाम् चेतनानामयनम् नारायणः । न विद्यते च्युतिर्यस्येत्यच्युतः नित्य इत्यर्थः । अत एव परः सर्वोत्कृष्टः । इदानीम् तस्मिन्नेवानुवाके *तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः । स ब्रह्मा स शिवः सेन्द्रः सोक्षरः परमः  स्वराट्(ना.पू.ता.३.१)* इति पठितम् । तस्यार्थमनुसन्धत्ते ब्रह्मादयोऽपीति । सत्त्वम् स्वरूपम् । तच्च स्थितिप्रवृत्त्योरप्युपलक्षणम् । चतुर्मुखादीनाम् स्वरूपस्थितिप्रवृत्तयोभगवत्कटाक्षाधीना इत्यर्थः । अयम् भावः – स ब्रह्मेत्यत्र तच्छब्देन प्रधानप्रकृतो नारायणः परमात्मा परामृश्यते । स एव ब्रह्मा चतुर्मुखः स एव शिवः स एवेन्द्रः स एव न क्षरतीत्यक्षरः परमस्स्वराट् मुक्तपुरुष इति सामानाधिकरण्यम्  प्रतीयते, तच्चात्र शरीरात्मभावनिबन्धनम् देवत्वमनुष्यत्वमित्यादौ तथा दर्शनात् । ततश्च नारायणस्यात्मत्वम् ब्रह्मादीनाम् शरीरत्वम् फलितम् । तेन नारायणस्य नियामकत्वम् आधारत्वम् शेषित्वम्, ब्रह्मादीनाम् नियाम्यत्वम् आधेयत्वम् शेषत्वम् सिद्धम् । ततश्च तदधीनसत्ता स्थितिप्रवृत्तय इति । अयमर्थः श्रीमद्यामुनमुनिभिरप्यनुसम्हितः – *ब्रह्मा शिवः शतमखः परमः स्वराडित्येतेऽपि यस्य महिमार्णवविपृषस्ते(स्तो.र.११)* इति ॥ २० ॥

   पुनरपि तत्त्वार्थपरतत्तद्वेदान्तवाक्यार्थानुसन्धानेन तत्त्वनिर्णयम् कुर्वन् भगवन्तमभिष्टौति – नित्येति –

नित्यस्समाभ्यधिकवर्जित ऊर्जितश्रीः

नित्येऽक्षरे दिवि वसन् पुरुषः पुराणः ।

सत्त्वप्रवर्तनकरो जगतोऽस्य मूलम्

नान्यस्त्वदस्ति धरणीधर! वेदवेद्यः ॥ २१ ॥

   नित्यः शाश्वतः समाभ्यधिकवर्जितः *न तस्य कार्यम् करणम् च विद्यते न तत्समस्ताभ्यधिकश्च दृश्यते(श्वेता.६.८)* इति श्रुतिः । *न त्वत्समोऽभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभावः(भ.गी.११.४३)* इति गीता । ऊर्जितश्रीः उत्कृष्टैश्वर्यः न क्षरतीत्यक्षरम्  तस्मिन्नुत्पत्त्यादिरहिते । अत एव नित्ये दिवि परमाकाशे परमपद इति यावत् । तत्र वसन् *यो वेदनिहितम् गुहायाम् परमे व्योमन् (तैत्ति.२.१.१)* इति श्रुतिः । सत्त्वप्रवर्तनकरः सत्त्वगुणस्याधिष्ठाता ज्ञानप्रद इति यावत् । *सत्त्वात्सञ्जायते ज्ञानम्(भ.गी.१४.१७)* इति गीता । *महान् प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तक(श्वेता.३.१२)* इति हि श्रुतिः । *जगतोऽस्य मूलम्(ग.पू.१.३)* *यतो वा इमानि भूतानि जायन्ते(तैत्ति,भृगुवल्ली.१)* इति श्रुतिः । *विष्णोः सकाशादुद्भूतम् जगत् तत्रैव च स्थिताम्(वि.पु.१.३१)* इति श्रीविष्णुपुराणम् । अतः त्वदन्यस्त्वत्तोऽन्यः तत्त्वार्थपरवेदवेद्यो नास्तीत्यर्थः ॥ २१ ॥

यम् भूतभव्यभवदीशमनीशमाहुः

अन्तस्समुद्रनिलयम् यमनन्तरूपम् ।

यस्य त्रिलोकजननी महिषी च लक्ष्मीः

साक्षात्स एव पुरुषोऽसि सहस्रमूर्धा ॥ २२ ॥

यमिति –

  यम् भूतभव्यभवदीशम् कालत्रयवर्तिपदार्थस्येशम् *सर्वस्य वशी सर्वस्येशान(बृह.४.४.२२)* इति हि श्रुतिः । अनीशमाहुः श्रुतयः ब्रह्मवादिनो वा । *न तस्येशे कश्चन तस्य नाम महद्यशः(महाना. १.१०)* इति श्रुतिः । अन्तः समुद्रनिलयम् *यदन्तः समुद्रे कवयो वयन्ति तदक्षरे परमे प्रजाः(महाना.४.६)* इति हि श्रुतिः । *अनन्तरूपम् अनन्तविग्रहम् यदेकमव्यक्तमनन्तरूपम् विश्वम् पुराणम् तमसः परस्तात्(ते.आ.३.१३.२०)* इति श्रुतिः । *सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्(पु.सू.१)* इति प्रतिपादितः पुरुषोत्तमोऽसीत्यर्थः ॥ २२ ॥ 

   इदानीम् *वेदेषु पौरुषम् सूक्तम् पुराणेषु च वैष्णवम् । भारते भगवद्गीता धर्मशास्त्रेषु मानवम्* इति स्मृतिवचनेन प्रशस्ततया प्रतिपादितम् । अन्नसूक्तम् श्रीसूक्तमितिवत् पुरुषसूक्तम् नारायणमिति समाख्याद्वयेन पुरुषप्रकाशने विनियुक्तम् । कृत्स्नम् पुरुषसूक्तम् पुरुषोत्तमप्रतिपादकमित्यनुसन्धत्ते – सर्वेति –

सर्वश्रुतिष्वनुगतम् स्थिरमप्रकम्प्यम्

नारायणाह्वयधरम् त्वमिवानवद्यम् ।

सूक्तम् तु पौरुषमशेषजगत्पवित्रम्   

त्वामुत्तमम् पुरुषमीशमुदाजहार ॥ २३ ॥

   ऋग्यजुः सामवेदेषु अनुगतम् अध्येतृसम्प्रदायेनाधीयमानम् तदुक्तम् इदम् पुरुषसूक्तम् हि सर्ववेदेषु पठ्यते । *ऋग्वेदे षोडशर्चम् स्याद्यजुष्यष्टादशर्चकम् । सामवेदेषु सपर्चम् तथा वाजनसनेयके* इति स्थिरम् स्थिरार्थम् असन्दिग्धार्थमिति यावत् । अप्रकम्प्यम् अर्थान्तरपरतया नेतुमशक्यम् । नारायणाह्वयधरम् नारायणेति समाख्याधरम् तदुक्तम् भगवता आपस्तम्बेन ब्रह्ममेधसम्स्कारे *हृदयेन हिरण्यशकलान् सम्भारयजुर्भिः पात्रचयनम् ज्योतिष्मतीभिरुपोषणम् नारायणाभ्यामुपस्थानम्(ब्रह्ममेधसम्स्कार) इति । अत्र नारायणाभ्यामिति द्विवचनेन पुरुषसूक्तम् । तच्छेषभूतोऽद्भयः सम्भूत इत्यनुवाकश्च विवक्षितः । अनवद्यम् अस्पष्टार्थाध्याहार अन्यपरत्वादिदोषरहितम् पौरुषम् सूक्तमिति समाख्यातम् । पुरुषप्रकाशकम् पौरुषमिति समाख्या निरुक्तिः । पवित्रम् पावनकरम्  त्वाम् वेदान्तेषु सद्ब्रह्मात्मादिशब्दैः जगत्कारणतया प्रतिपन्नम् त्वामुत्तमम् पुरुषोत्तमम् महापुरुषम् व्याजहार । भगवत्पक्षेऽपि विशेषणानि द्रष्टव्यानि ॥ २३ ॥

    इदानीम् आनन्दवल्लीप्रतिपाद्यनिरतिशयानन्दः पुरुषसूक्ते  प्रतिपाद्यम्य महापुरुषस्य तवैवेत्याह । आनन्दमिति –

आनन्दमैश्वरमवाङ्मनसावगाह्यम्

आम्नासिषुश्शतगुणोत्तरितक्रमेण । 

सोऽयम् तवैव नृषु हि त्वमिहान्तरात्मा

त्वम् पुण्डरीकनयनः पुरुषश्च पौष्णः ॥ २४ ॥

   तत्रेयम् श्रुतिः | *सैषानन्दस्य मीमाम्सा भवति । युवा स्यात् साधुयुवाध्यायकः । आशिष्ठो द्रढिष्ठो बलिष्ठः । तस्येयम् पृथिवी सर्वा वित्तस्य पूर्णा स्यात् । स एको मानुष आनन्दः(तैत्ति.२.८)* इति प्रवृत्ता यूनः अध्ययनशीलस्य आरोग्यादिगुणयुवतस्य सकलवित्तपरिपूर्णस्य पृथिवीसार्वभौमस्य य आनन्दः स मानुष इति प्रथमावधित्वेन मानुषानन्दमभिधायानन्तरम् *ते ये शतम् मानुषानन्दाः । स एको मनुष्यगन्धर्वाणामानन्द(तै.उ.२.५)* इत्यभिधाय अकामहतः श्रोत्रियो मुक्तस्तस्यापि स एवानन्द इत्यभिधायानेनैव शतगुणितोत्तरित क्रमेणदेवगन्धर्वपितृ चिरपितृलोकदेवाजानदेवकर्मदेवदेवेन्द्रबृहस्पतिप्रजापतिपर्यन्तमभिधाय अनेन क्रमेण प्रवृद्ध आनन्दो ब्रह्मणो एको मुक्तस्याप्येक इत्युक्त्वा ततः परम् *यतो वाचो निवर्तन्ते अप्राप्य मनसा सह(तैत्ति.२.४.५)* इति वाङ्गनसागोचरत्वमभिदधाति । श्लोकार्थस्तु ऐश्वर्यम् ईश्वरसम्बन्धिनम् वाङ्गनसामनवगाह्यम् वाङ्मनसागोचरमानन्दम् शतगुणोत्तरितम् क्रमेणोत्तरमुपरितनम् तदस्य सज्जातमिति निरुत्तरितमितिवदिति इतच्प्रत्ययः । शतगुणितश्चासावुत्तरितश्चैति कर्मधारयः । तेन क्रमेणाम्नासिषुः अध्यापका वेदान्तावासोऽयमानन्दः तवैव     एतादृशनिरतिशयानन्दो भवानेव चतुर्मुखादिः तस्यावान्तरपाठात् । अयमर्थः श्रीवेङ्कटाचार्यैः वेदान्तस्तोत्रेऽनुसम्हितः *आनन्दोऽभ्यस्यमानः शतगुणनिकया मानुषानन्दपूर्वस्तत्तत्पूर्वातिगामी क्वचिदपि नितराम् पर्यवस्यन् स एकः । आनन्दो ब्रह्मणः स्यादिति भवति वृषाद्रीशितुः पर्यवस्यन्नुक्तानन्दाम्स्त्वदीयाननवधिकगुणानन्दलेशम् ब्रवीति* । वृषाद्रीशित इति सम्बुद्धिः । भवतीति सप्तमी । *स यश्चायम् पुरुषे यश्चासावादित्ये स एकः(तैत्ति.२.८)* इति श्रुतेः । तदर्थमनुसन्दधाति – नृषु हि त्वमिहान्तरात्मेति नृषु पुरुषेषु । तथा छान्दोग्ये *य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते । हिरण्यश्मश्रुर्हिरण्यकेशः आप्रनरवात् सर्व एव सुवर्णस्तस्य यथा कप्यासम् पुण्डरीकमेवाक्षिणी तस्य उदिति नाम । स एष हि सर्वेभ्यः पाप्मभ्य उदित(छान्.१.६.७)* इति कपिः सूर्यः तेनास्यते क्षिप्यते इति कप्यासम्  रविकरविकसितमिति यावत् । तादृशम् पुण्डरीकम् यथा एवमक्षिणी पुण्डरीकाक्ष इत्यर्थः । श्रुत्यर्थमनुसन्धत्ते त्वम् पुण्डरीकनयनः । पुरुषश्च पौम्स्न इति पूषन्मण्डलमध्यवर्ती ॥ २४ ॥

   इदानीम् तत्र तत्कारणवाक्यगतैः स ब्रह्मादि सामान्यशब्दैः नारायण एव प्रतिपाद्यत इत्याह । यन्मूलकारणमिति –

यन्मूलकारणमबुध्यत सृष्टिवाक्यैः

ब्रह्मेति वा सदिति वाऽऽत्मगिराऽथवा तत् ।

नारायणस्त्विति महोपनिषद्भवीति

सौबालिकीप्रभृतयोऽप्यनुजग्मुरेनाम् ॥ २५ ॥

  *ब्रह्म वा इदमग्र आसीत्(बृह.१.४.१)* । *सदेव सौम्येदमग्र आसीत् (छान्.उ.६.२.१)* । *आत्मा वा इदमेक एवाग्र आसीत्(ऐत.१.१)* इत्यादिसृष्टिवाक्यैः यद्वस्तु प्रधानकारणमबुध्यत तद्वस्तु *एको ह वै नारायण आसीन्न ब्रह्मा नेशान(महो.१.१)* इति चतुर्मुख रुद्रप्रतिषेधपूर्वकम् प्रवृत्ता महोपनिषन्नारायण इति ब्रवीति । *य आत्मनि सञ्चरन् आत्मनोऽन्तरोऽयमात्मा न वेद(सुबाल)*, *एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायण(मुण्ड.२.१.४)* इति सुबालोपनिषत्प्रभृतयोऽप्येनाम् महोपनिषदम् तत्समानार्थतयानुजग्मुः ॥ २५ ॥

इदानीम् नानाविद्यासु प्रसिद्धैः परञ्ज्योतिः परन्तत्त्वपरमात्मपरब्रह्मशब्दैर्नारायणस्तदिति तद्विशिनष्टि – ज्योतिः परमिति –

ज्योतिः परम् परमतत्त्वमथो परात्मा

ब्रह्मेति च श्रुतिषु यत्परवस्त्वधीतम् ।

नारायणस्तदिति तद्विशिनष्टि काचिद्

विष्णोः पदम् परममित्यपरा गृणाति ॥ २६ ॥

    काचिद् विष्णोः पदम् परममित्यपरा गृणाति । नानाविद्यासु ज्योतिरादि शब्दैर्यत् परवस्त्वधीतम् तन्नारायण इति काचिन्नारायणसमाख्या उपनिषत् तद्वस्तु विशिनष्टि विशिष्य प्रदर्शयति नारायणानुवाकस्य सर्वविद्याशेषवत्वमधस्तादुक्तम् । तथा *विज्ञानसारथिर्यस्तु मनःप्रग्रहवान् नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमम् पदम्(कठ.३.९) इत्यपरा कठवल्ली । तद्वस्तु विष्णोः परमम् पदमिति ब्रवीति । पद्यते इति पदम् स्वरूपमित्यर्थः । सर्ववेदान्तप्रतिपन्नम् तत्त्वम् पुरुषोत्तमो नारायणो विष्णुरेवेति प्रतिपादितम् । तच्च प्रमेयतत्त्वमुपसम्हरन् ॥ २६ ॥

    हिरण्यगर्भादीनाम् सृज्यसम्हार्यनियाम्यवर्गानुप्रवेशाद् भगवतः स्रष्टृत्वसम्हर्तृत्वनियमनकर्तृत्वकोट्यनुप्रवेशाच्च भगवानेव सर्वोत्तीर्णम् तत्त्वम्, न हिरण्यगर्भादयः इत्यनुसन्धत्ते सन्तीति –

सन्तीदृशः श्रुतिशिरस्सु परस्सहस्राः

वाचस्तव प्रथयितुम् परमेशितृत्वम् ।

किञ्चेह न व्यजगणः क्रिमिधातृभेदम्

क्रामञ्जगन्ति निगिरन् पुनरुद्गिरम्श्च ॥ २७ ॥

   परमेश्वरत्त्वम् प्रकाशयितुमीदृशाः सन्ति । तत्तिष्ठतु । अपरम्  त्वत्सामर्थ्यमपि निर्णायकमस्तीत्याह – किम् चेति । त्रिविक्रमावतारे जगन्ति क्रामन्, सम्हारसमये निगिरन् सृष्टिसमये उद्गिरम्श्च कृमिधातृभेदम् इदमुत्कृष्टमिदमपकृष्टमिति भेदम् न व्यजिगणः न विचारितवान् । गणसङ्ख्याने इति धातोः णौ चङि रूपम् । एतादृशम् सामर्थ्यम् पक्षपातश्च तवैवेति भावः ॥ २७ ॥

   इत्थम् सोपबृम्हणैर्वेदान्तवाक्यैः सर्वेश्वरनिश्चयप्रकारोऽभिहितः । इदानीमनितर साधारणै रूपादिभिरपि भगवन्तम् निश्चिनुमेत्याह – रूपश्रियेति –

रूपश्रिया परमया परमेण धाम्ना

चित्रैश्च कैश्चिदुचितैर्भवतश्चरित्रैः ।

चिह्नैरनिह्नवपरैरपरैश्च कैश्चित्

निश्चिन्वते त्वयि विपश्चित ईशितृत्वम् ॥ २८ ॥

  रूपश्रिया *आदित्यवर्णम् तमसः परस्तात्(श्वेता.३.८)* इत्यप्राकृतरूपलक्षया धाम्ना तेजसा । तथा च गीतावचनम् *दिवि सूर्यसहस्रस्य भवेद् युगपदुत्थिता । यदि भास्सदृशी सा स्याद् भासस्तस्य महात्मनः(भ.गी.११.१२)* इति । चित्रैरद्भुतैः उचितैः दयाक्षान्त्यादिभिर्गुणोचितैः चरित्रैः गोवर्धनोद्धरणामृतमथनसेतुनिर्माणादिभिः चिह्नैः श्रीवत्सकौस्तुभशङ्खचक्रादिभिः अनिह्नवपरैः स्वाभाविकैः अपरैश्च कैश्चिदिति अतिमानुषशीलदयाक्षान्त्यादिभिः सम्प्रति लक्ष्मीपतित्वमपि सर्वेश्वरस्यासाधारणलिङ्गमित्यनुसन्धत्ते ।

यस्याः कटाक्षणमनुक्षणमीश्वराणाम्

ऐश्वर्यहेतुरिति सर्वजनीनमेतत् ।

ताम् श्रीरिति त्वदुपसम्श्रयणान्निराहुः

त्वाम् च श्रियः श्रियमुदाहुरुदारवाचः ॥ २९ ॥

   यस्येति – कटाक्षणम् कटाक्षः ईश्वराणामिन्द्रवरुणादीनाम् सार्वजनीनम् सर्वजनप्रसिद्धम् ताम् श्रियम् त्वदुपसम्श्रयणात् श्रीरिति निराहुः निर्वचनम् ब्रूयुः ब्रह्मवादिनः। श्रीशब्दवाच्यत्वम् श्रयतीति श्रीरिति व्युत्पत्त्या सर्वदा त्वदुपसम्श्रणनिमित्तमित्यर्थः। त्वम् तु तस्या अप्यतिशयाधायक इत्याह – त्वामिति । उदारवाचः वाल्मीकिप्रभृतयः । तदुक्तम् श्रीरामायणे श्रीरामप्रभाववर्णने *श्रियः श्रीश्च भवेदग्र्याः कीर्त्याः कीर्तिः क्षमा क्षमा(रा.अयोध्या.४४.१५) इति । श्रीयामुनमुनिभिरप्युक्तम् – *कः श्रीः श्रियः परमसत्त्वसमाश्रयः क(स्तो.र.१२)* इति ॥ २९ ॥

   सम्प्रति कुदृष्टीनाम् मायाप्रभावादपि यथावत्तत्त्वबोधोनास्तीति दर्शयितुम् तद्भावमाह | मायेति –

माया त्वया गुणमयी किल या निसृष्टा

सा ते विभो! किमिव नर्म न निर्मिमीते ।

कौतस्कुताः स्थिरकुतर्कवशेन केचित्

सत्याम् श्रुतौ च बधिरास्त्वयि तन्महिम्ना ॥ ३० ॥

   *देवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेता तरन्ति ते(भ.गी.७.१४)* इति गीतायाम् । माया भवता निसृष्टा नियुक्ता सा ते किमिव नर्म किमिव कौतुकम् न निर्मिमीते सृजति तदेवाह – कौतस्कुता इति । कुतः कुतः इति पृच्छन्तीति कौतस्कुताः कुतार्किकाः तन्महिम्ना मायामहिम्ना त्वत्प्रकाशिकायाम् श्रुतौ सत्यामपि त्वयि बधिराः अज्ञाः ॥ ३० ॥ अज्ञानमेवाह यः स्थावरेति –

यः स्थावरक्रिमिपतङ्गमतङ्गजादिषु

अन्येषु जन्तुषु सदैव विजायमानः ।

त्वम् नित्यनिर्मलनिरञ्जननिर्विकार

कल्याणसद्गुणनिधे! स इतीरितस्तैः ॥ ३१ ॥

  नानायोनिषु जायमानः कर्मवश्यो जीवात्मा तद्विपरीतस्वभावस्त्वमसि तैः कौतस्कुतैः उक्त इत्यर्थः । हे नित्य शाश्वत हे निर्मल पुण्यपापगन्धरहितम् निरञ्जनकर्मवासनारहितम् तम् निर्विकारम् कूटस्थम् *सर्वम् खल्विदम् ब्रह्म(छान्.३.१४.१)* *तत्त्वमसि श्वेतकेतो(छान्.६.८.७)* *अयमात्मा ब्रह्म(बृह.६.४.५)* इत्यादिभिर्वाक्यैर्मायामोहिताः

      कुदृष्टयोऽत्यन्तविसदृशयोर्जीवब्रह्मणोस्तादात्म्यम् प्राहुरित्यर्थः ॥ ३१ ॥

   स्वमते तादात्म्यमते अर्थमनुसन्धत्ते – त्वद्दृष्टीति –

त्वद्दृष्टिजुष्टमिदमाविरभूदशेषम्

नो चेत्कटाक्षयसि नैव भवेत्प्रवृत्तिः ।

स्थातुम् च वाञ्छति जगत्तव दृष्टिपातम्

तेन श्रुतौ जगदिषे हि जगत् त्वमेव ॥ ३२ ॥

   महाप्रलय समये सूक्ष्मरूपेणावस्थितम् चिदचिदात्मकमिदम् प्रपञ्चजातम् त्वत्कटाक्षलक्ष्यम् सदेवेत्थम् रूपेणाविरभूदित्यर्थः । इत्थमन्वयमुखेनाभिधाय व्यतिरेकमुखेनाप्याह – नो चेदिति । स्थितिरपि त्वत्सङ्कल्पाधीनेत्याह – स्थातुमिति । वाञ्छति अर्हति । यत् इदमशेषम् जगत्त्वदधीनोत्पत्तिप्रवृत्तिस्थितिः तेन हेतुना त्वमेव जगदिति जगदिषे अभिहितः, गदव्यक्तायाम् वाचीत्यस्माद्धातोः कर्मणि लिटिमध्यमपुरुषैकवचनम् । एतदुक्तम् भवति – सूक्ष्मचिदचिद्विशिष्टम् ब्रह्म कारणम्, स्थूलचिदचिद्विशिष्टम् तदेव ब्रह्मकार्यम्, कार्यकारणशब्दयोश्च सामानाधिकरण्यम् । मृद्धटः, सुवर्णकुण्डलमित्यादौ लोकप्रसिद्धम् । तेन कृत्स्नम् जगद् ब्रह्मेति सामानाधिकरण्यम् युक्तमिति । तथा च श्रुतिः – *सर्वम् खल्विदम् ब्रह्म तज्जलानीति शान्त उपासीत(छान्.३.१४.१)* इति तस्मात् ब्रह्मणो जातत्वात् तस्मिन् लीनत्वात् तस्मात् प्राणनात् सर्वमिदम् ब्रह्मेति शान्तः स उपासीतेत्यर्थः ॥ ३२ ॥

    इदानीमशेषजगत्स्रष्टृत्वनिमित्तम् निरुपाधिकमीश्वरत्वम् भगवत एवेत्यनुसन्दधानः परेषाम् मायामोहितत्वमप्यनुसन्न्दधाति – एवमिति –

एवम् भगो! इह भवत्परतन्त्र एव

शब्दोऽपि रूपवदमुष्य चराचरस्य ।

ऐश्वर्यमीदृशमिदम् श्रुतिषूदितम् ते

पापीयसाम् अयमहो! त्वयि मोहहेतुः ॥ ३३ ॥

   हे भगो भगवन् अमुष्य चराचरस्य ऐश्वर्यमीदृशमिदम् श्रुतिप्रपञ्चस्य रूपवत् स्वरूपशब्दोऽपि भगवत्परतन्त्र एव भगवदधीनसत्तास्थितिप्रवृत्तिरेव रूपसृष्टिवत् नामसृष्टिरपि भगवदधीनेत्यर्थः । तेन ऐश्वर्यमीश्वरत्वम् श्रुतिप्रसिद्धम्, तथा च श्रुतिः – *सर्वाणि रूपाणि विचिन्त्य धीरो नामानि कृत्वाभिवदन् यदास्ते(महाना.३)* इति । *अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि(छान्दोग्य.६.३.२)* इति च । इदमैश्वर्यम् मायोपाधिकम् न तु स्वाभाविकमिति मुह्यन्तीत्यर्थः अयमिति हेतुविवक्षायाम् पुल्लिङ्गप्रयोगः । अथवा पूर्वोक्तसामानाधिकरण्यनिर्वाहः प्रकारान्तरेणोच्यते एवम् भगो इति रूपसृष्टिवन्नामसृष्टिरपि भगवत्परतन्त्रैव आत्मतया त्वदनुप्रवेशकृतैव । तथा च श्रुतिः *अनेन जीवेनात्मना अनुप्रविश्य नामरूपे व्याकरवाणीति     जीवान्तरात्मनामयानुप्रविश्य(छान्.६.३.२) इत्यर्थः । ततश्च सर्वेश्वरस्यात्मत्वम् प्रपञ्चस्य शरीरत्वम् सिद्धम् । एवम् च शरीरात्मभावनिबन्धनम् न तु स्वरूपैक्यनिबन्धनमिति । इदमैश्वर्यम् त्वयि पापीयसाम् त्वत्कृपाशून्यानाम् मोहहेतुः । ते हि सर्वेश्वरस्येतादृश शरीरवाचकानाम् शब्दानाम् शरीरिपर्यन्तत्वात् *सर्वम् खल्विदम् ब्रह्म (छान्.३.१४.१)*, *तत्त्वमसि श्वेतकेतो(छान्.६.८.७)* इत्यादि सामानाधिकरण्यम् शरीरात्मभाव निबन्धनम् न तु  स्वरूपैक्यनिबन्धनमिति स्थितम् । शरीरात्मभावे च सामानाधिकरण्यम् देवोऽहम् मनुष्योऽहम्, देवत्वमनुष्यत्वमित्यादौ लोक प्रसिद्धम् | शरीरात्मभावश्च *यस्यात्मा शरीरम्, यस्य पृथिवी शरीरम्(बृह.३.७.८)* इति श्रुतिप्रसिद्धः । ईदृशम् ते ऐश्वर्यम् श्रुतिषूदितम्  सामानाधिकरण्यनिबन्धन शरीरात्मभावरूपमैश्वर्यम् श्रुतिषूदितम् अयम् पापीयसाम् पापवशेन श्रुतितात्पर्यमजानतामैक्यभ्रमहेतुरिति ॥ ३३ ॥

    एतादृशम् निरुपाधिकमीश्वरत्वम् भगवत एव विधिशिवशतमखादीनाम् तत्कृपा मूलमित्यभिष्टौति – ये त्वत्कटाक्षेति –

ये त्वत्कटाक्षलवलक्ष्यमिव क्षणम् तैः

ऐश्वर्यमीदृशमलभ्यमलम्भि पुम्भिः ।

यत्केऽपि सञ्जगरिरे परमेशितृत्वम्

तेषामपि श्रुतिषु तन्महिमप्रसङ्गात् ॥ ३४ ॥

   ये ब्रह्मरुद्रादयः क्षणम् त्वत्कटाक्षलेशलक्ष्यमिव भवन्ति । इवशब्दो वाक्यालङ्कारे किञ्चिदर्थे वा । तैः पुम्भिः अलभ्यम् दुर्लभमीदृशम् जगत्प्रसिद्धमैश्वर्यमलम्भि लब्धम् लभेश्च विभाषा *चिण्णमुलोरिति (अ.६.४.९३) विकल्पेन नुमागमः । कीदृशम् तेषामपि त्वत्कृपालब्धैश्वर्याणामपि तन्महिमप्रसङ्गात् केऽपि पुरुषाः श्रुतिषु परमेश्वरत्वम् सञ्जगदिरे इति यत् ईदृशमैश्वर्यमलम्भीत्यर्थः । क्षणमिति सप्तम्यर्थे द्वितीया ॥ ३४ ॥

  पुनरप्यन्यूनमैश्वर्यमनुसन्धत्ते – नित्येष्विति –

नित्येषु वस्तुषु भवन्निरपेक्षमेव

तत्तत्स्वरूपमिति केचिदिह भ्रमन्तः ।

ऐश्वर्यमत्र तव सावधि सङ्गिरन्ते

ब्रूते त्रयी तु निरुपाधिकमीशनम् ते ॥ ३५ ॥

     केचिद्वैशेषिकादयः कालात्मकादिषु नित्येषु पदार्थेषु तत्स्वरूपम् भवन्निरपेक्षमेवेति भ्रमन्त इह ईशितव्येष्व नित्येषु तवैश्वर्यम् सावधिकम् परिच्छिन्नमिति सङ्गिरन्ते *सर्वस्य वशी सर्वस्येशान(बृह.४.४.२२) इति त्रयी तु ते ईशानम् निरुपाधिकमपरिच्छिन्नम् ब्रूते ॥ ३५ ॥

   इदानीम् कृत्स्नस्यापि चेतना चेतनपदार्थजातस्य भगवदधीनसत्तास्थितिप्रवृत्तितया तदैश्वर्यस्य निरतिशयत्वमुपपादयति । इच्छातेति –

इच्छात एव तव विश्वपदार्थसत्ता

नित्यम् प्रियास्तव तु केचन ते हि नित्याः ।

नित्यम् त्वदेकपरतन्त्रनिजस्वरूपा

भावत्कमङ्गलगुणा हि निदर्शनम् नः ॥ ३६ ॥ 

   नित्यानित्यकृत्स्नपदार्थसत्ता तव सङ्कल्पत एव तु किम् तु तेषु पदार्थेषु केचन पदार्थास्तव नित्यम् प्रियाः येषु सञ्जिहीर्षा नास्ति ते नित्याः, येषु सञ्जिहीर्षा ते अनित्या इत्यर्थः । सत्तेति स्थितिप्रवृत्त्योरुपलक्षणम् । ननु कथम् नित्यानाम् पारतन्त्र्यम् नित्यत्वविरोधात्, न हि नित्यम् केचन उत्पाद्यते स्थाप्यते वेत्याशङ्क्य दृष्टान्तमुखेन द्रढयति नित्यमिति । यथा तव ज्ञानशक्त्यादयो गुणा नित्या अथापि त्वदेकपरतन्त्रनिजस्वरूपास्तथेत्यर्थः । एतदुक्तम् भवति नित्यम् वस्तु नित्यसङ्कल्पायत्तस्वरूपस्थितिप्रवृत्ति अनित्यम् तत्पारतन्त्र्यम् चाङ्गीकृतम् ॥ ३६ ॥

   सम्प्रति चिदचिद्विशिष्टस्य एवम् ब्रह्मणः कारणत्वे कार्यत्वेऽपि तत्सम्सर्गप्रयुक्तपरिणामसुखादिदोषो नास्ति । अत एव तवैश्वर्यम् निरङ्कुशमित्यनुसन्धत्ते । विश्वस्येति –

विश्वस्य विश्वविधकारणमच्युत! त्वम्

कार्यम् तदेतदखिलम् चिदचित्स्वरूपम् ।

त्वम् निर्विकार इति वेदशिरस्सु घोषो

निस्सीममेव तव दर्शयतीशितृत्वम् ॥ ३७ ॥

    अच्युत त्वम् विश्वस्य प्रपञ्चस्य विश्वविधकारणम् सर्वविधकारणम् । सूक्ष्मचिदचिद्विशिष्टवेषेणोपादानम् *बहुस्याम् प्रजायेय(छान्.६.२.३) इति बहुभवनसङ्कल्पविशिष्टवेषेण निमित्तम् कालादिवेषेण सहकारीत्यर्थः । तदेव तवाखिलम् चिदचित्स्वरूपम् प्रत्यक्षपरोक्षरूपेणावस्थितम् स्थूलचिदचित्स्वरूपम् तदेव कार्यमित्यर्थः । अथवा एवम् विध चिदचित्स्वरूपम्म् कार्यमपि त्वमेवेत्यर्थः । अथापि त्वम् निर्विकार इति वेदशिरस्सु घोषो निरवधिकमीश्वरत्वम् दर्शयतीत्यर्थः। अवस्थाद्वयेऽपि विशेषणाम्श विकारो न तु विशेष्याम्शो इति भावः ॥ ३७ ॥

  सम्प्रति लोकप्रसिद्धकर्तृसाधर्म्यप्रयुक्त कुतर्कवर्गश्रुतिविरोधेन परिहरन् कर्तृवैलक्षण्यमनुसन्धत्ते । किम् साधन इति –

किम्साधनः? क्व निवसन्? किमुपाददानः?

कस्मै फलाय सृजतीश इदम् समस्तम्? ।

इत्याद्यनिष्ठितकुतर्कमतर्कयन्तः

त्वद्वैभवम् श्रुतिविदो विदुरप्रतर्क्यम् ॥ ३८ ॥

    लोके कुलालादिकर्ता दण्डचक्रादिसाधनम् परिगृह्णन् स्व मृत्पिण्डादिकमुपादानमुपाददानः कुत्रचिदनुगुणे देशे वसन् कस्मैचित्प्रयोजनाय सृजतीति प्रसिद्धम् । अशरीरस्य व्यापकस्य निरपेक्षस्येश्वरस्य तत्सर्वम् नोपपद्यते इति कुतर्कास्तान्निराकुर्वन् श्रुतिप्रसिद्धम् भगवद्वैभवमाह – किम् साधनम् यस्य स तथोक्तः । क्व कुत्र । चिदम्शे एवमाद्यनिष्ठित कुतर्कमतर्कयन्तः त्रय्यन्तवृद्धाः त्वत्सामर्थ्यमतर्क्यमचिन्त्यम् विदुः । अयम् भावः – *सदेव सौम्येदमग्र आसीत्(छान्.६.२.१)* *एकमेवाद्वितीयम् ब्रह्म(छान्.६.१)* इति कृत्स्नप्रपञ्चविलये सन्मात्रमद्वितीयम् सर्वज्ञम् सर्वशक्ति ब्रह्म प्रतिपन्नम् तदन्ते तदैक्षत *बहुस्याम् प्रजायेय(छान्.६.२.३) इति तदेव ब्रह्माहमेव विचित्रप्रपञ्चात्मना बहुस्यामिति बहुभवनसङ्कल्पमकरोत् । तदनन्तरम् *तत्तेजोऽसृजत, तदापोऽसृजत(छान्.६.२.३) इति विचित्रसृष्टिः श्रूयते । ततश्चोत्थम् श्रुतिप्रतिपन्ने  विचित्रशक्तियुक्ते सर्वज्ञे ब्रह्मणि सर्वेश्वरे विचित्रसृष्टिरुपपन्नेति श्रुतिविरोधात् न कुतर्कावकाश इति भगवता पराशरेणाप्याक्षेksheपपूर्वकमयमर्थः समर्थितः । *निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः । कथम् सर्गादि कर्तुत्वम् ब्रह्मणोऽभ्युपगम्यत(वि.पु.३.१)*, इत्याक्षिप्य *शक्तयः सर्वभावानामचिन्त्यज्ञानगोचराः । यतोऽतो ब्रह्मणस्तासु सर्गाद्या भावशक्तयः भवन्ति तपताम् श्रेष्ठ पावकत्य यथोच्यतेति समाहितम्(वि.पु.३.२)* ॥ ३८ ॥ 

  सम्प्रति लोलाविभूतिमनुसन्धत्ते – विभूतिर्नाम सर्वेश्वरस्येशितव्यम् नियाम्यम् वस्तुस्वरूपम् । यत्सम्वृतमिति –

यत्सम्वृतम् दशगुणोत्तरसप्ततत्त्वैः

अण्डम् चतुर्दशजगद्भवधातृधाम ।

अण्डानि तत्सुसदृशानि परश्शतानि

क्रीडाविधेस्तव परिच्छदतामगच्छन् ॥ ३९ ॥

  यदण्डम् पूर्वपूर्वतत्त्वापेक्षया उत्तरोत्तरम् दशगुणाधिकैः सप्तभिः भुताहङ्कारतत्त्वैरावृत्तम् वेष्टितम् । सर्वेश्वरस्तावत् ब्रह्माण्डम् सृष्ट्वा तद्दृढीकरणार्थम् पृथिव्यादिभिः सप्ततत्त्वैरुपर्युपरि वेटयामासेति पुराणसिद्धम् । चतुर्दशलोकानाम् शिवस्य चतुर्मुखत्य च धाम स्थानम् तस्याण्डस्य सुसदृशानि शिशुसदृशानि यान्यण्डानि तानि तच्च तत्त्वम् तानि च तव क्रीडाविहारस्य परिच्छदताम् उपकरणतासगच्छन् । सुसदृम्शि इति प्रथमाबहुवचनम् । अयमर्थः श्रीनिवासस्तोत्रेऽप्यनुसम्हितः ।

इच्छाविहारविधये विहितान्यमूनि   

स्यात्त्वद्विभूतिलवलेशकलायुताम्शः ।

या वै न जातु परिणामपदास्पदम् सा

कालातिगा तव परा महती विभूतिः ॥ ४० ॥ 

    अमूनि ब्रह्माण्डानि लवस्य एकदेशः । तस्य कला अम्शस्तस्यायुताम्शः । दशसहस्रतमाम्शः । वैशब्दः प्रसिद्धौ । परिणामपदास्पदम् परिणामशब्दास्पदम् महती व्यापिनो परा उक्तविभूतेरुत्कृष्टा ॥ ४० ॥

   इदानीम् परमप्राप्य श्रीवैकुण्ठनाथनिवासस्थानम् नित्यमुक्तभोग्यम् नियविभूतिमनुसन्धत्ते – यदिति –

यद्वैष्णवम् हि परमम् पदमामनन्ति

खम् वा यदेव परमम् तमसः परस्तात् ।

तेजोमयम् परमसत्त्वमयम् ध्रुवम् यत्

आनन्दकन्दम् अतिसुन्दरमद्भुतम् यत् ॥ ४१ ॥

   वैकुण्ठम् नाम तन घाम तदामनन्ति इत्यन्वयः । यद्वैष्णवमिति *तद्विष्णोः परमम् पदम् सदा पश्यन्ति सूरयः(कठो.३.९) इति श्रुतिः । तमसः प्रकृतिमण्डलस्य परस्तात्तेजोमयमप्राकृततेजोमयम् परम सत्त्वमयम् रजस्तमोभ्यामसम्स्पृष्ट शुद्धसत्त्वमयम् ध्रुवम् स्थिरमानन्दमूलमतिसुन्दरमतिमनोहरमद्भुतम् चिरपरिचयेऽप्यत्याश्चर्यम् ॥ ४१ ॥

यद्ब्रह्मरुद्रपुरुहूतमुखैर्दुरापत्

नित्यत् निवृत्तिनिरतैः सनकादिभिर्वा ।

सायुज्यमुज्ज्वलमुशन्ति यदापरोक्ष्यत्

यस्मात् परत् न पदमञ्चितमस्ति कञ्चित् ॥ ४२ ॥ 

  यद्ब्रह्मेति – उभयभावनानिष्ठैश्चतुर्मुखादिभिर्दुरापम् निवृत्तिधर्मनिष्ठैः केवलब्रह्मभावनानिष्ठैः सनकसनन्दनादिभिर्महायोगिभिः स्वाधिकारनिवृत्तिपर्यन्तम् दुरापमित्यर्थः । यदापरोक्ष्यम् यस्य साक्षात्कारः यस्य प्राप्तिरिति यावत् । सायुज्यमुक्तिर्नाम ब्रह्मणा सह परमसाम्यापत्तिः । उभे विद्वान् पुण्यपापे विधूय *निरञ्जनः परमम् साम्यमुपैति(मुण्डक.३.१.३) इति श्रुतिः । उज्ज्वलम् ज्ञानावरणरहिततया प्रकाशमानम् अर्चितम् पूजितम् ॥ ४२ ॥

रूपेण सद्गुणगणैः परया समृद्ध्या

भावैरुदारमधुरैरपि वा महिम्ना ।

तादृक्तदीदृगिदमित्युपवर्णयन्त्यो

वाचो यदीयविभवस्य तिरस्क्रियायै ॥ ४३ ॥   

  रूपेणेति – आदित्यवर्णमित्यादिरूपेण अप्राकृतशब्दस्पर्शादिसद्गुणगणैः समृद्ध्या सम्पदा, भावैः पदार्थैः, महिम्ना प्रभावेण तत्तादृग् इदमीदृगिति परोक्षप्रत्यक्षरूपेणोपवर्णयन्त्यो वाचो यदीयवैभवस्य तिरस्क्रियायै स्युः स्वरूपतश्चापरिच्छिन्नवस्तुविषये परिच्छिन्नविषया वाचः तिरस्कार कारिण्य इति भावः ॥ ४३ ॥

यद्वृद्ध्यपक्षयविनाशमुखैर्विकारै-

रेतैरसम्स्तुतमनस्तमितास्तिशब्दम् ।

यद्गौरवाच्छ्रुतिषु फल्गु फलम् क्रियाणाम्

आदिष्टमन्यदसुखोत्तरमध्रुवम् च ॥ ४४ ॥

   यदिति – एतैः प्रत्यक्षसिद्धैः षड्भावविकारैः असम्स्तुतम् अपरिचितम् उत्पत्तिस्थितिविनाशा एव प्रत्येकम् द्विधाविभक्ताः षड्विकारा उच्यन्ते । अत एवानस्तमितास्तिशब्दम् अनित्यम् कादाचित्कम् कादाचित्कास्तिशब्दवाच्यम् यस्य गौरवात् श्रुतिष्वादिष्टम् ज्योतिष्टोमादिक्रियाफलम् फल्गु तुच्छम् तदुक्तम् – *एते वै निरयास्तात स्थानस्य परमात्मनः(भारत-शान्तिपर्वम्,१९६.६) इति । एते स्वर्गादिलोकाः यस्मादन्यध्रुवपदमारभ्य सत्यलोकपर्यन्तमसुखोत्तरमध्रुवम् च ॥ ४४ ॥

निष्कल्मषैर्निहतजन्मजराविकारैः

भूयिष्ठभक्तिविभवैरभवैरवाप्यम् ।

अन्यैरधन्यपुरुषैर्मनसाऽप्यनाप्यम्

वैकुण्ठनाम तव धाम तदामनन्ति ॥ ४५ ॥

   निष्कल्मषैरिति – निष्कल्मषैर्विधूतपुण्यपापैः अत एव निहतजन्मजराविकारैः । अत एवामरैः पुनरावृत्तिशून्यैर्भूयिष्ठभक्तिविभवैरिति प्रपन्नानामप्युपलक्षणम् । तेषामपि मोक्षाधिकारात् वैकुण्ठनाम इतिहासपुराणादि श्रीपाञ्चरात्रादिषु वैकुण्ठमिति प्रसिद्धम् । धाम स्थानम् तच्छब्दः प्रकृतयः सर्वशब्दप्रतिसम्बन्धी आमनन्ति ब्रह्मवादिनः ॥ ४५ ॥

   उक्ताम् विभूतिमुपसम्हरन् पत्नीपरिजनपरिच्छद गणान् सामान्याकारेणानुसन्धत्ते – नित्यमिति –

नित्या तवान्यनिरपेक्षमहामहिम्नोऽ

प्येतादृशी निरवधिर्नियता विभूतिः ।

ज्ञानादयो गुणगणाः समतीरसीमाः

लक्ष्मीः प्रिया परिजनाः पतगेन्द्रमुख्याः ॥ ४६ ॥

स्वायत्तमहामहिम्नः नियता तवैवासाधारिणी समतीतसीमाः ॥ ४६ ॥ इतः परम् विशेषणगुणाननुसन्धत्ते – एकस्येति –

एकस्य येषु हि गुणस्य लवायुताम्शः

स्यात् कस्यचित् स खलु वाङ्मनसातिगश्रीः ।

ये तादृशोऽत्यवधयः समतीतसङ्ख्याः

त्वत्सद्गुणास्त्वमसि तन्निरपेक्षलक्ष्मीः ॥ ४७ ॥

    येषु गुणेष्वेकस्य गुणस्य लवायुताम्शः कस्यचित् पुरुषस्य स्यात् स खलु वाङ्मनसागोचरमहिमा ते गुणास्तादृशलवायुताम्शे वामनसागोचरवैभवकराः अतिक्रान्तावधयः नित्यतया कालावधिशून्याः समतीतसङ्ख्याः निःसङ्ख्याः । त्वम् तु गुणनिरपेक्ष वैभवः  स्वरूपतोऽपि सर्वातिशायिस्वरूपसर्वविलक्षण इत्यर्थः ॥ ४७ ॥

   नैरपेक्ष्यमेवानुसन्धत्ते – सर्वस्येति –

सर्वस्य चैव गुणतो हि विलक्षणत्वम्

ऐश्वर्यतश्च किल कश्चिदुदञ्चितः स्यात् ।

तत्प्रत्युत त्वयि विभो! विभवो गुणाश्च

सम्बन्धतस्तव भजन्ति हि मङ्गळत्वम् ॥ ४८ ॥

  सर्वस्य पुरुषस्य सद्गुणैरितरवैलक्षण्यम् श्रैष्ठ्यम् किम् च विभूतिभिश्च कश्चित्पूजितः स्यात् । हे विभो ! एतदुभयम् त्वयि प्रत्युत विपरीतवैपरीत्यमेवाह । विभव इति सम्बन्धतः त्वदीयतया अयमेवार्थो वरदराजस्तोत्रेऽप्युक्तः । गुणायत्तम् लोके इति व्याख्यातम् च तत्रैवास्माभिः ॥ ४८ ॥

   केचित् सगुणनिर्गुणश्रुतिविरोधे निर्गुणश्रुतिबलेन सगुणश्रुतिर्बाधते, तदनुपपन्नमिति मत्वा स्वयमविरोधेनैव श्रुतिद्वयनिर्वाहमनुसन्धत्ते – दूरे इति –

दूरे गुणास्तव तु सत्त्वरजस्तमाम्सि

तेन त्रयी प्रथयति त्वयि निर्गुणत्वम् ।

नित्यम् हरे! निखिलसद्गुणसागरम् हि

त्वामामनन्ति परमेश्वरमीश्वराणाम् ॥ ४९ ॥

   सत्त्वादयो गुणाः तत्सम्सर्गप्रयुक्तरागद्वेषादयश्च तव दूर इत्यर्थः । तदुक्तम् *सत्त्वादयो न सन्तीशे येऽत्र प्राकृता गुणा(वि.पु.१.९.४४)* इति । तेन हेतुना *निर्गुणम् निरञ्जनम्(त्रि.म.ना.७.१२)* इत्यादिका श्रुतिः त्वयि निर्गुणत्वम् प्रथयति । *परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च(श्वेता.६.८)* इत्यादिकाः श्रुतयः    समस्तकल्याणगुणात्मकोऽसौ स्वशक्तिलेशोद्धृतभूतसर्गः । *तेजोबलैश्वर्यमहावबोधसुवीर्यशक्त्यादिगणैकराशिः(वि.पु.६.५.५४)* इत्यादिकाः स्मृतयश्च त्वाम् कल्याणगुणसागरमामनन्ति । कीदृशम् ईश्वराणामिन्द्रादीनाम् परमेश्वरम् *तमीश्वराणाम् परमम् महेश्वरम् (श्वेता.६.७) इति हि श्रुतिः । अयम् भावः – श्रुतिद्वयीनिर्वाहः कर्तव्य इति । किम् च *अपहृतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपि पासः सत्यकामः सत्यसङ्कल्प(छान्.८.१.५) इति श्रुतिर्हेयगुणान् प्रतिषिध्य सत्यकामत्वादिकल्याणगुणान् विदधाति स्वयमेव व्यवस्थापयतीति सर्वमुपपन्नम् ॥ ४९ ॥

    सगुणश्रुतिः तावदौपाधिकविषयेति पक्षस्तु स्वाभाविकी ज्ञानबलक्रियाचेति स्वाभाविकत्वश्रुतिविरोधादनुपपन्न एव । केचित्तु ज्ञानात्मनो ब्रह्मणो ज्ञानगुणकत्वमनुपपन्नम् । एकजातीययोर्वस्तुनोः

गुणगुणीभावानुपपत्तेरिति तदनुपपन्नमिति वदन् ज्ञानगुणमनुसन्धत्ते – ज्ञानात्मनेति –

ज्ञानात्मनस्तव तदेव गुणम् गृणन्ति

तेजोमयस्य हि मणेर्गुण एव तेजः ।

तेनैव विश्वमपरोक्षमुदीक्षसे त्वम्

रक्षा त्वदीक्षणत एव यतोऽखिलस्य ॥ ५० ॥

   ज्ञानात्मनस्तव ज्ञानस्वरूपस्य तव ज्ञानमेव गुणम् गृणन्ति ब्रह्मवादिनः । तदेव दृष्टान्तमुखेन द्रढयति तेजोमयस्येति । तेजोरूपस्य मणिः द्युमणिप्रदीपप्रभृतिद्रव्यस्य तत्प्रधानरूपम् तेजोद्रव्यमेव गुणद्रव्ययोरपि प्रधानोपसर्जनभावात् आश्रयाश्रयीभावाश्च गुणगुणीभावो नानुपपन्नः । तेनैव धर्मभूतज्ञानेनैव कृत्स्नम् विश्वमपरोक्षम् प्रत्यक्षमुदीक्षसे त्वम् । तत्र हेतुमाह रक्षेति । सृष्टिस्थितिसम्हारेषु रक्षात्वदसाधारणी । इतरे तु चतुर्मुखशिवादिधारके यतो हेतोः सा रक्षा त्वदीक्षणत एव स्यात् । न ह्यनिरीक्षमाणः पुरुषो रक्षितुम् द्रक्ष्यते तेन त्वमपरोक्षमुदीक्षस इत्यर्थः ॥ ५० ॥

   पूर्वम् तत्त्वनिर्णयप्रकरणे निरतिशयानन्दः पुरुषोत्तमः इति प्रतिपादितम् पुनरपि गुणवर्णन प्रकरणे तमेवानन्दमनुसन्धत्ते – त्रय्युद्यतेति –

त्रय्युद्यता तव युवत्वमुखैर्गुणौघैः

आनन्दमेधितमियानिति सन्नियन्तुम् ।

ते ये शतम् त्विति परम्परया प्रवृत्ता

नैवैष वाङ्मनसगोचर इत्युदाह ॥ ५१ ॥

   त्रयी आनन्दवल्ली युवत्व शिष्टत्वाध्यापकत्वादिप्रमुखैर्गुणौघैः प्रवृद्धमानन्दमियानिति सन्नियन्तुम् परिच्छेत्तुम् *ते ये शतम्* इति परम्परया प्रवृत्ता सती तवैष आनन्दो वाङ्मनसगोचर इति न प्राहु: ॥ ५१ ॥

  इत्थमानन्दमीमाम्सायाम् प्रवृत्तायाम् आनन्दवल्ल्याम् इतरगुणमीमाम्सायामपि तात्पर्यम् ततश्च तेऽपि आनन्दवत् अनन्तवाङ्गनसगोचराश्चेत्याह – एवमिति –

एवम् तया चतुरया तव यौवनाद्याः

सर्वे गुणाः सह समस्तविभूतिभिश्च ।

प्रव्याहृतास्स्युरवधीन् अवधीरयन्तः  

वाचामगोचरमहामहिमान एव ॥ ५२ ॥

    एवमनेनानन्दप्रकारेण चतुरया आनन्दव्याजेन इतरगुणानन्त्य प्रतिपादनेऽपि तात्पर्यवत्या तया आनन्दवल्ल्या श्रुत्या *युवा स्यात् साधुयुवाध्यायकः आशिष्टो द्रढिष्ठो बलिष्ठः तस्येयम् पृथिवी सर्वा वित्तस्य पूर्णा स्यात् स एको मानुष आनन्द(तैत्ति.२.८)* इति वाक्यैर्मानुषानन्दावयवत्वेन पठिताः तव यौवनाशिष्टादयः त्वद्रढिष्ठ्रुबलिष्ठ्रुत्वादयो गुणाः समस्तविभूतिभिः सह निरवधिकावाङ्मनसागोचरमहामहिमान एव अव्याहृताः स्युरित्यर्थः । अयम् भावः – तत्रान्ध्यापकत्वेन ज्ञानम् लक्ष्यते । द्रढिष्ठ्रुत्वेन शक्ति: । बलिष्ठ्रुत्वेन च बलम् । तस्येयम् पृथिवी वित्तस्य पूर्णा स्यादित्यनेनैश्वर्यम् विभूतिश्च । ततश्च मानुषानन्दावयवत्वेन युवत्वाशिष्टत्वादीनामुपक्रमे प्रस्तुतत्वात्तन्मीमाम्सायामपि तात्पर्यवत्या श्रुत्या युवत्वज्ञानबलैश्वर्यविभूतीनामप्यानन्त्यम् प्रतिपादितम् ॥ ५२ ॥

   सम्प्रति सृष्टिकालीनम् पक्षपातम् बहु स्यामिति प्रथमम् कल्पमनुसन्धत्ते – सम्वर्तवर्तीति –

सम्वर्तवर्ति निखिलम् निरभिज्ञमज्ञम्

चित्रे च कर्मणि यथार्हमहो! नियच्छन् ।

सद्यः क्रिमिद्रुहिणभेदम् अभेदमेतद्

आविश्चकर्थ सकृदीक्षणदीक्षणेन ॥ ५३ ॥

  सम्वर्तवर्ति प्रलयकालवर्ति निरभिज्ञम् करणकलेबरप्रविलयादिन्द्रियाधीनज्ञानरहितम् अज्ञम् सम्स्कारोद्बोधाभावात् स्मृतिप्रत्यभिज्ञाशून्यम् अभेदम् तदानीम् परस्परभेदशून्यम् एतद्प्रपञ्च जातम् चित्रे कर्मणि तत्तज्जात्यनुरूपेण तत्तदधिकारानुरूपे कर्मणि लौकिके व्यापारे वैदिके वा अनुष्ठाने नियच्छन् नियोक्तुकामः सकृदीक्षणदीक्षणेन सकृदीक्षणरूपदीक्षया सङ्कल्पेन सद्यः कृमिद्दृहिणभेदम् ब्रह्मादिपिपीलिकान्तमाविश्चकर्थ आविर्भूतम् चकर्थ । अथवा अभेदम् पक्षपातभेदशून्यम् वैषम्यनैर्घृण्यशून्यमिति यावत् ॥ ५३ ॥

सम्प्रति शक्त्यवस्थानम् सङ्कल्पमनुसन्धत्ते । अस्तमिति –

अस्तम् यदुद्यत् उपचाय्यपचायि चैवम्

ईशम् दरिद्रमथ जङ्गममप्यनिङ्गम् ।

विश्वम् विचित्रम् अविलक्षणवीक्षणेन

विक्षोभयस्यनवधिर्बत! शक्तिरैशी ॥ ५४ ॥

   हे ईश! अविलक्षणवीक्षणेन एकरूपसङ्कल्पेन विश्वम् विचित्रम् नानाप्रकारम् विक्षोभयसि परिणामयसि । तथा हि ऐशी ईश्वरसम्बन्धिनी शक्तिरनवधिरनन्ता बत आश्चर्यविक्षोभप्रकारमेवाह – अस्तम् नाशम् यत् प्राप्नुवत् उद्यत् उत्पद्यमानम् यदिति इण् गताविति धातोः शतृन्तम् पदम् उपचायि वर्धिष्णु अपचायि क्षयिष्णु ईशम् ईड्यम् अनीहम् निश्चेष्टम् । अगन्तृ इति पाठेऽप्ययवमेवार्थः । श्लोकद्वयेऽपि सङ्कल्पस्यैकरूपत्वम् पक्षपातः । कर्ममूलम् च जगद्वैचित्र्यमिति विवक्षितम् ॥ ५४ ॥

   सम्प्रति निरङ्कुशस्स्वातन्त्र्यमनुसन्धत्ते – रूपप्रकारमिति –

रूपप्रकारपरिणामकृतव्यवस्थम्

विश्वम् विपर्यसितुमन्यदसच्च कर्तुम् ।

क्षाम्यन् स्वभावनियमम् किमुदीक्षसे त्वम्

स्वातन्त्र्यमैश्वरमपर्यनुयोज्यमाहुः ॥ ५५ ॥

    परस्परविलक्षणपृथिव्यादितत्तद्रूपेण रूपरसगन्धस्पर्शादिप्रकारेण तत्तद्व्यवस्थारूपरूपपरिणामेन च कृतव्यवस्थम् प्राप्तमर्यादम् परस्परविलक्षण स्वभावमिति यावत् । अथवा रूपशब्देन धर्मी विवक्ष्यते । प्रकारशब्देन धर्मः । पृथिव्यादिधर्मिपरिणामेन रूपादिधर्मपरिणामेन चेत्यर्थः । एतादृशम् विश्वम् विपर्यसितुम् विपर्यस्तम् कर्तुम् तत्त्वान्तरवेषेण धर्मम्, धर्मान्तरवेषेण पुराणत्वेन विपरिणमयितुम् इदम् विश्वमन्यत्कर्तुमन्यथासन्निवेशम् कर्तुम् अकाले सम्हर्तुम् च क्षाम्यन् समर्थः सन्नपि स्वभावनियमम् पृथिव्याः पृथिवीस्वभावनियममेव रूपादेश्च तत्तत्स्वभावनियममेव किमुदीक्षसे अनुवर्तसे किमर्थम् परिपालयसीत्यर्थः । तथा हि ऐश्वरम् ईश्वरत्वप्रयुक्तम् स्वातन्त्र्यम् अपर्यनुयोज्यमनियाम्यमाहुर्ब्रह्मवादिनः । स्वतन्त्रस्येश्वरस्य तत्तत्पदार्थस्वाभावानुवर्तनेऽपि न तत्स्वरूपहानिः । तस्य स्वातन्त्र्यात्मकत्वात् ॥ ५५ ॥

  सम्प्रति तेजोऽनुसन्धत्ते – सम्वर्तेति –

सम्वर्तसम्भृतकरस्य सहस्ररश्मेः

उस्रम् तमिस्रयदजस्रविहारि हारि ।

नित्यानुकूलमनुकूलनृणाम् परेषाम्

उद्वेजनम् च तव तेज उदाहरन्ति ॥ ५६ ॥

  प्रलयकालप्रवृद्धम् किरणस्य उस्रम् किरणम् तमिस्रमन्धकारम् कुर्वन्स्तिरस्कुर्वदिति यावत् । अनुकूलनृणाम् स्वभक्तानाम् परेषाम् शत्रूणाम् अजस्रम् विहारि सर्वदा प्रसारहारि अथापि विहारि मनोहारि ॥ ५६ ॥

   औदार्यम् वर्णयति – नैवेति –

नैव ह्यवाप्यमनवाप्तमिहास्ति यस्य

सत्ताऽपि तस्य तव वीक्षणतः प्रजानाम् ।

सम्पत्तु किम् पुनरितो न वदान्यमन्यम्

मन्ये त्वमेव खलु मन्दिरमिन्दिरायाः ॥ ५७ ॥

   यस्य तवेतः पूर्वमनवाप्तमितः परमुपायान्तरानुष्ठानेनावाप्यम् वस्तु नैव ह्यस्ति प्राणिनाम् सत्तास्वरूपलाभोऽपि तस्य तव कटाक्षसम्पर्कात् तव सम्पत् किम् पुनः किमु वक्तव्यम् । तत्र हेतुः त्वमेव खलु श्रीनिवासः । अतोऽन्यम् पुरुषम् वदान्यमुदारम् न मन्ये ॥ ५७ ॥

   इतः परम् कृपामनुसन्धत्ते – पापैरिति –

पापैरनादिभवसम्भववासनोत्थैः

दुःखेषु यः खलु मिमङ्क्षति हन्त! जन्तुः ।

तम् केवलम् नु कृपयैव समुद्धरिष्यन्

तद्दुष्कृतस्य ननु निष्कृतिमात्थ शास्त्रैः ॥ ५८ ॥

अनादिसम्सारजनितदुर्वासनोत्थैः पापैः पापकर्मभिः मिमङ्क्षति मञ्जनम् कर्तुमिच्छति । निष्कृतिम् प्रायश्चित्तम् आत्थ ब्रवीषि । मन्वादिमुखेन शास्त्रप्रवृत्तिस्त्वत्कृपामूलेति भावः ॥ ५८ ॥

शास्त्रैरनादिनिधनैः स्मृतिभिस्त्वदीय-

दिव्यावतारचरितैः शुभया च दृष्ट्या ।

निःश्रेयसम् यदुपकल्पयसि प्रजानाम्

सा त्वत्कृपाजलधितल्लजवल्गितश्रीः ॥ ५९ ॥

   शास्त्रैरिति – शास्त्रैः श्रुतिभिः अनादिनिधनैः अपौरुषेयैः शुभया दृष्ट्या जायमानकटाक्षेण । तदुक्तम् *जायमानम् हि पुरुषम् यम् पश्येन्मधुसूदनः । सात्त्विक: स तु विज्ञेयः स वै मोक्षार्थचिन्तकः   (भारतम्.मोक्षधर्मपर्वम्,३५८.७३) एभिरुपायैः प्रजानाम् मोक्षमुपकल्पयसीति यत् सा तव कृपासमुद्रश्रेष्ठवेल्लितातिशया । तल्लजम् प्रशस्तम् वेल्लितमुत्कूलम् ॥ ५९ ॥

  क्वचिन्क्वचिद्भाग्यहीनेषु कृपासङ्कोचमनुसन्धत्ते – है हन्तेति –

है हन्त! जन्तुषु निरन्तरसन्ततात्मा

पाप्मा हि नाम वद कोऽयमचिन्त्यशक्तिः ।

यस्त्वत्कृपाजलधिमप्यतिवेलखेलम्

उल्लङ्घयत्यकृतभासुरभागधेयान् ॥ ६० ॥

    है हन्तेति निपातसमुदायो विस्मये । हे हरे त्वमिव नीरन्ध्रव्याप्तस्वरूपः त्वमिवाचिन्त्यशक्तिरयम् पाप्मा को हि नाम वद त्वयाप्यनिर्वचनीय इत्यर्थः । यः पाप्मा अकृतमसम्पादितम् भास्करमुज्ज्वलम् भागधेयम् भाग्यम् येषाम् ते । अतिवेल्लखेलम् अतिक्रान्ततीरवेल्लनम् च त्वत्कृपाजलधिमप्यतिलङ्घयति । द्विकर्मकप्रयोगोऽयम् ॥ ६० ॥

   सम्प्रति कृपायाः सन्धुक्षणीम् क्षान्तिमनुसन्धत्ते – यद्ब्रह्मेति –

यद्ब्रह्मकल्पनियुतानुभवेऽप्यनाश्यम्

तत् किल्बिषम् सृजति जन्तुरिह क्षणार्धे ।

एवम् सदा सकलजन्मसु सापराधम्

क्षाम्यस्यहो! तदभिसन्धिविराममात्रात् ॥ ६१ ॥

  नियुतम् लक्षम् तदभिसन्धिविराममात्रात् इतः परम् पापम् न करिष्यामीति पापाभिसन्धिविराममात्रात् क्षणार्ध इति ब्रह्महत्यादीनाम् क्षणार्धमात्रसाध्यत्वात् । अहो इत्यार्श्ये इयम् क्षान्तिः तवैवासाधारणीति भावः ॥ ६१ ॥

  पुनरपि विषय विशेषप्रवर्धमानाम् क्षान्ति वात्सल्यम् चानुसन्धत्ते – क्षान्ति इति –

क्षान्तिस्तवेयम् इयती महती कथम् नु

मुह्येदहो! त्वयि कृताञ्जलिपञ्जरेषु ।

इत्थम् स्वतो निखिलजन्तुषु निर्विशेषम्

वात्सल्यमुत्सुकजनेषु कथम् गुणस्ते ॥ ६२ ॥

   ब्रह्मकल्पनियुतानुभवेऽप्यनाश्यापराधविषयत्वादिति इयत्प्रमाणा महती सर्वजन्तुषु व्यापिनी तवेयम् शान्तिः । त्वयि विषये कृताञ्जलिपञ्जरेषु कथम् नु मुह्येत् कथम् नु विवशा स्यात् । इत्थमनेन प्रकारेण निखिलजन्तुषु निर्विशेषपक्षपातम् ते वात्सल्यम् गुण उत्सुकजनेषु अनुरक्तजनेषु कथम् गुण इत्येकम् पदम् किम्विधो गुण अतिक्रान्तमर्यादो गुण इत्यर्थः ॥ ६२ ॥ 

   पुनरप्यति क्रान्तमर्यादम् वात्सल्यमनुसन्धत्ते – विश्वमिति –

विश्वम् धियैव विरचय्य निचाय्य भूयः

सञ्जह्रुषः सति समाश्रितवत्सलत्वे ।

आजग्मुषस्तव गजोत्तमबृम्हितेन

पादम् पराममृशुषोऽपि च का मनीषा? ॥ ६३ ॥

   विश्वम् धियैव सङ्कल्पेनैव विरचय्य उत्पाद्य निचाय्य सम्वर्ध्य सज्जहृषः सम्हृतवतः तव आश्रितवत्सलत्वेऽनुद्भूते सति नक्रग्रस्तचरणस्य गजोत्तमस्य बृम्हितेन गर्जितेनातित्वरया आजग्मुषस्तव आगतवतः । तद्वेदनोपशमनार्थम् पादमपि पराममृशुषः परामृष्टवतश्च तव का मनीषा कोऽभिप्रायः तदानीम् तवाभिप्रायो दुर्ज्ञेय इत्यर्थः । सृष्ट्यादिकर्तुस्तत्रैव स्थित्वा रक्षितुम् शक्तस्य तव सामर्थ्यम् क्व गतम् । वात्सल्येनाभिभूतम् वेति भावः । सञ्जहृष इत्यादि क्वसुप्रत्ययान्तम् पदम् ॥ ६३ ॥

  पुनरपि वात्सल्यमनुसन्धत्ते – य इति –

यः कश्चिदेव यदि किञ्चन हन्त! जन्तुः

भव्यो भजेत भगवन्तमनन्यचेताः ।

तम् सोऽयम् ईदृश इयानिति वाऽप्यजानन्

है! वैनतेयसममप्युररीकरोषि ॥ ६४ ॥

  जात्या गुणैः कर्मभिरुत्कृष्ट अपकृष्ट इति वा यः कश्चिदेव प्राणी भव्यः कुशलस्वभावः अनन्यचेताः सन् भगवन्तम् किञ्चन अल्पमपि यदि भजेत तमपि सोऽयम् जात्या उत्कृष्टः अपकृष्टः इति वा ईदृशः इति वा गुणैरुपकृष्टः अपकृष्टः इति वा स इयानिति वा अजानन् अविचारयन् वैनतेयसममङ्गीकरोषि । वैशब्दः प्रसिद्धौ । है इति पाठेऽपि स एवार्थः । हन्त इति हर्षे । यावत् सङ्कल्पम् या हर्षवर्धनमिति भावः ॥ ६४ ॥ 

  पुनरपि वात्सल्यम् औदार्यम् चानुसन्धत्ते – त्वदिति –

त्वत्साम्यमेव भजतामभिवाञ्छसि त्वम्

तत्सात्कृतैर्विभवरूपगुणैस्त्वदीयैः ।

मुक्तिम् ततो हि परमम् तव साम्यमाहुः

त्वद्दास्यमेव विदुषाम् परमम् मतम् तत् ॥ ६५ ॥ 

   यतः कारणात् तत्सात्कृतैर्भक्त जनसात्कृतैस्त्वदीयैर्विभवादिस्त्वत्साम्यमेव वाञ्छसि ततः कारणात् परमम् साम्यमेव मुक्तिमाहुः । त्वया भक्तानाम् देयत्वेनाभिमतत्वात् सैव मुक्तिरित्यर्थः । तव मनोरथस्तावदेतादृशः भक्तानाम् त्वपर इत्याह – त्वद्दास्यमिति । विदुषाम् शेषशेषिभावमीशेशितव्यभावम् च जानताम् तेषाम् त्वद्दास्यमेव परमभिमतम् न तु साम्यमित्यर्थः ॥ ६५ ॥ 

  इदानीम् वात्सल्यमौदार्याभ्यामतिशायितम् वर्धमानम् सौशील्यमनुसन्धत्ते – महतो मन्दैः सह नीरन्ध्रेण सम्श्लेषः सौशील्यम् । तद्वै इति –

तद्वै तथाऽस्तु कतमोऽयमहो! स्वभावः

यावान्यथाविधगुणो भजते भवन्तम् ।

तावान् तथाविधगुणा तदधीनवृत्तिः

सम्श्लिष्यसि त्वमिह तेन समानधर्मा ॥ ६६ ॥

   समानैश्वर्यसमानरूपसमानगुणप्रधानवाञ्छा तथा स्यात् । यस्तु यावान् यादृशधर्मा यथाविधगुणो भवन्तम् भजते भवत्परतन्त्रवृत्तिर्भवति त्वम् तु तावाम्स्तथाविधगुणस्तत्परतन्त्रवृत्तिः तत एव तेन समानधर्माः सन् तम् सम्श्लिष्यसि सङ्गच्छसे । अयम् स्वभावः कतमः कीदृशः । अहो आश्चर्ये । इतरदेवतास्वसम्भावितस्त्वदसाधारण इति भावः । एतच्च गोपालनादिषु प्रसिद्धम् ॥ ६६ ॥ 

  इतः परम् स्वमनोरथमाविष्कुर्वन् पत्नीपरिजनपरिchChaदसहितम् श्रीवेकुण्ठनाथमभिष्टौति –  नीलेति –

नीलाञ्जनाद्रिनिभम् उन्नसमायताक्षम्

आजानुजैत्रभुजम् आयतकर्णपाशम् ।

श्रीवत्सलक्षणम् उदारगभीरनाभिम्

पश्येम देव! शरदश्शतमीदृशम् त्वाम् ॥ ६७ ॥

  श्रीवेकुण्ठनाथो नीलवर्ण इति प्रसिद्धिः । उन्नसमुन्नतनासिकम् उदारमूर्जितन्न शतम् शरद इति *कालाध्यनोरत्यन्तसम्योगे(अ.२.३.५) द्वितीया । सदेवेत्यर्थः । ईदृशम् पूर्वोक्तप्राकारम् ॥ ६७ ॥      

अम्भोरुहाक्षमरविन्दनिभाङ्घ्रियुग्मम्

आताम्रतामरसरम्यकराग्रकान्ति ।

भृङ्गालकम् भ्रमरविभ्रमकायकान्ति

पीताम्बरम् वपुरदस्तु वयम् स्तवाम ॥ ६८ ॥

  अम्भोरुहाक्षमिति – भृङ्गालकम् भ्रमरसदृशालकम् भ्रमरस्य विभ्रमःकायकान्ति भ्रमरविभ्रमम् आकाशे भ्रमणम् आकाशे परिस्फुरणम् भ्रमरकान्तीत्यर्थः । यद्वा भ्रमरभ्रान्तिजनककायकान्ति निमित्तमध्यमपदलोपिसमासः । अत्र कायशब्देनावयवो विवक्ष्यते । अदः शब्दानपुम्सकम् द्वितीयैकवचनम्, सम्स्तुयाम इति ष्ट्रुञ् स्तुताविति धातोर्लिङि उत्तमपुरुषबहुवचनम् । परिचिनुयामेत्यर्थः ॥ ६८ ॥

भ्रूविभ्रमेण मृदुशीतविलोकितेन

मन्दस्मितेन मधुराक्षरया च वाचा ।

प्रेमप्रकर्षपिशुनेन विकासिना च

सम्भावयिष्यसि कदा मुखपङ्कजेन ॥ ६९ ॥

  भूविभ्रमेणेति – भ्रूविभ्रमेणेत्यादित्रयम् मुखविशेषणम् स्वतन्त्रम् वा अभिप्रेतार्थसूचकेन भ्रूविलासेन मृदु अघोरम् स्निग्धम् वा शीतमाप्यायकम् पिशुनेन सूचकेन सम्भावयिष्यसि च ॥ ६९ ॥

वज्राङ्कुशध्वजसरोरुहशङ्खचक्र-

मत्सीसुधाकलशकल्पककल्पिताङ्कम् ।

त्वत्पादपद्मयुगलम् विगलत्प्रभाद्भिः

भूयोऽभिषेक्ष्यति कदा नु शिरो मदीयम् ॥ ७० ॥

  वज्राङ्कुशेति – मत्सी मत्स्यस्त्री *योपधप्रतिषेधे हयगवयमत्स्यमनुष्याणाम् प्रतिषेध(अ.वा.२४९५)* इति ङीप् । कल्पकः कल्पवृक्षः । वज्रादिभिः कल्पितम् चिह्नम् सार्वभौमलक्षणमिदम् विगलत्प्रभाभिः भूयो अतिशयेन कदा पादयोः प्रणमामीति प्रार्थना ॥ ७० ॥

त्रैविक्रमक्रमकृताक्रमणत्रिलोकम्

उत्तम्समुत्तमम् अनुत्तमभक्तिभाजाम् ।

नित्यम् धनम् मम कदा हि मदुत्तमाङ्गम्

अङ्गीकरिष्यति चिरम् तव पादपद्मम् ॥ ७१ ॥

   त्रैविक्रमेति – त्रिविक्रमसम्बन्धिनस्त्रैविक्रमाः । ते च ते क्रमाश्च, क्रमाः पादविन्यासास्तैः कृताक्रमणत्रिलोकम् उत्तम्सम् शिरोभूषणम् चिरम् सर्वदा ॥ ७१ ॥

उन्निद्रपत्रशतपत्रसगोत्रम्  अन्त-

र्लेखारविन्दम् अभिनन्दनमिन्द्रियाणाम् ।

मन्मूर्ध्नि हन्त! करपल्लवतल्लजम् ते

कुर्वन् कदा कृतमनोरथयिष्यसे माम् ॥ ७२ ॥

  उन्निद्रेति – पत्रदलम् शतपत्रम् पद्मम् सगोत्र बान्धवः लेखारविन्दम् रेखारूपम् पद्मम् स्वस्य दर्शनेनेन्द्रियाणाम् आप्यायकम्, तल्लजम् प्रशस्तम् कृतमनोरथयिष्यन्ते ॥ ७२ ॥ 

आङ्गी निसर्गनियता त्वयि हन्त कान्तिः

नित्यम् तवालमियमेव तथाऽपि चान्या ।

वैभूषणी भवति कान्तिरलन्तराम् सा

है पुष्कलैव निखिलाऽपि भवद्विभूतिः ॥ ७३ ॥

  आङ्गीति – आङ्गी अङ्गेषु भवा निसर्गनियता स्वाभाविकीति यावत् । इयमेव तव शोभा या नित्यम् सर्वदा अलम् पर्याप्ता । अथापि विभूषणसम्बन्धिनी सा कान्तिरलन्तराम् अत्यन्तपर्याप्ता तथापि भवद्विभूतिः सर्वा एकैकापि पुष्कलेत्यर्थः । सर्वे च मङ्गलमुशन्ति हि मङ्गलानामिति क्वचित्पाठः । तदानीमयमर्थः । तथा हि लोके मङ्गलानाम् वस्तूनाम् सम्बन्धि सर्वमपि मङ्गलमुशन्तीति ॥ ७३ ॥

श्रीवत्सकौस्तुभकिरीटललाटिकाभिः

केयूरहारकटकोत्तमकण्ठिकाभिः ।

उद्दामदाममणिनूपुरनीविबन्धैः

भान्तम् भवन्तम् अनिमेषम् उदीक्षिषीय ॥ ७४ ॥

   श्रीवत्सेति – ललाटिका ललाटालङ्कारः केयूरम् अङ्गदम् कण्ठिका कण्ठालङ्कारः उद्दामदाम प्रशस्तम् दाम वैजयन्तीति यावत् । पट्टबन्धः उदरबन्धः । नीविबन्धैरिति पाठे स एवार्थः । अनिमेषम् निर्निमेषम् उदीक्षिषीय पश्येम ॥ ७४ ॥

ऐन्दीवरी क्वचिदपि क्वचनारविन्दी

चान्द्रातपी क्वचन च, क्वचनाथ हैमी ।

कान्तिस्तवोढपरभागपरस्परश्रीः

पार्येत पारणयितुम् किमु चक्षुषोर्मे ॥ ७५ ॥

  ऐन्दीवरीति – कृष्णतारकाया मैन्दीवरी इन्दीवरसम्बन्धिनी देहकान्तिर्वा नेत्रयोरारविन्दी मुखदन्तेषु चान्द्रातपी क्वचन च भूषणेषु  हैमी ऊढा प्राप्तः परभागो वर्णोत्कर्षो यस्याम् सा तादृशी श्रीर्यस्याः सा तथोक्ता । एतादृशी कान्तिर्मे चक्षुषोः पारणयितुम् पारणाम् कारयितुम् पार्येत उपेक्षेत किमु इयमपि प्रार्थना सम्भावना वा क्वचन अथ हैमीति पदच्छेदः ॥ ७५ ॥

त्वाम् सेवितम् जलजचक्रगदासिशार्ङ्गैः

तार्क्ष्येण सैन्यपतिनाऽनुचरैस्तथाऽन्यैः ।

देव्या श्रिया सह लसन्तमनन्तभोगे

भुञ्जीय साञ्जलिरसङ्कुचिताक्षिपक्ष्मा ॥ ७६ ॥

  त्वामिति – तथान्यैश्चण्डप्रचण्डादिभिर्दिव्यपारिषदैः असङ्कुचिताक्षिपक्ष्मा निर्निमेषनेत्रपक्ष्मा भुञ्जीय अनुभवेयम् *भुजोऽनवने(अष्टा.१.३.६६) इत्यात्मनेपदम् । अयमेव परब्रह्मानन्दानुभवः ॥ ७६ ॥

कैङ्कर्यनित्यनिरतैः  भवदेकभोगैः

नित्यैरनुक्षणनवीनरसार्द्रभावैः ।

नित्याभिवाञ्छितपरस्परनीचभावैः

मद्दैवतैः परिजनैस्तव सङ्गसीय ॥ ७७ ॥

   कैङ्कर्येति – नित्यकैङ्कर्यनिरतैः नित्यैः नित्यसिद्धैः पुरुषैः  सर्वेश्वरवदस्पृष्टम् सम्सारगन्धा नित्यसिद्धाः पुरुषाः सन्ति तथा च श्रुतिः – *तद्विष्णोः परमम् पदम्, सदा पश्यन्ति सूरयः, दिवी व चक्षुराततम्(कठो.३.९) दिवि आकाशे किरणैराततम् चक्षुः सूर्यमण्डलम् सूर्यमण्डलमिव स्थितम् तत्प्रसिद्धम् विष्णोः परम उत्कृष्टम् स्थानम् पश्यन्ति साक्षात्कुर्वन्तीत्यर्थः । अत्र सदा पश्यन्तीत्यनेन मुक्तव्यावृत्तिः । तेषाम् सदा दर्शनाभावात् । अनुक्षणनवीनर – सार्द्रभावैः क्षणे क्षणे नूतनकैडूर्यरसेन ब्रह्मानन्दानुभवरसेन वा आर्द्रहृदयैर्नित्याभिवाञ्छितपरस्परनीचभावैः सर्वेषामपि सर्वेश्वरात्मकतया सर्वेश्वरम् प्रीतिरूपतया च सर्वेश्वररूपपरस्परनैच्यम् नित्याभिवाञ्छितमित्यर्थः । मद्दैवतैः ममोपास्यैः तव परिजनैः सङ्गमीय सङ्गतो भवेयम् । आशीर्लिङि उत्तमैकवचनम् ॥ ७७ ॥

यत् किञ्चिदुज्ज्वलमिदभो यदुपाख्ययाऽऽहुः

सौन्दर्यमृद्धिरिति यन्महिमाम्शलेशः ।

नाम्नैव याम् श्रियमुशन्ति, यदीयधाम

त्वामामनन्ति, यतमा यतमानसिद्धिः ॥ ७८ ॥

   यत्किञ्चिदिति – अत्र श्लोकत्रयम् कुलकम् – लोके यत्किञ्चिदुज्ज्वलम् ऊर्जितम् वस्तु इदम् यदुपाख्यया यस्याः नाम्ना आहुः प्रशस्तम् वस्तु श्रीशब्दपूर्वकम् व्यपदिशन्तीत्यर्थः । स्त्रीषु पुरुषेषु सौन्दर्यमृद्धिरिति प्रसिद्धम् वस्तु यस्याः कटाक्षमहिम्नः अम्शलेशः अम्शलवः याम् श्रीरिति नाम्नैवोपदिशन्ति इतरासाम् स्त्रीणाम् गुणक्रियासौन्दर्यादिभिरतिशयः, अस्यास्तु नाम्नैवेत्यर्थः यतताम् यतमानानाम् सिद्धिः पुरुषार्थप्राप्तिः । यतमेति यच्छब्दाद् इतमच् प्रत्यये कृते रूपम् ॥ ७८ ॥

या वै त्वयाऽप्युदधिमन्थनयत्नलभ्या

याऽन्तर्हितेति जगदुन्मथनोद्यतोऽभूः ।

या च प्रतिक्षणमपूर्वरसानुबन्धैः

भावैर्भवन्तमभिनन्दयते सदैव ॥ ७९ ॥

   येति – त्वयापि सत्यसङ्कल्पेन सर्वशक्तिनापि यान्तर्हितति उत्तरश्रीरामायणे चैतत्प्रसिद्धम् । प्रतिक्षणमपूर्वशृङ्गारादिरसानुबन्धैभावैर्विलासैः ॥ ७९ ॥

रूपश्रिया गुणगणैर्विभवेन धाम्ना

भावैरुदारमधुरैश्चतुरैश्चरित्रैः ।

नित्यम् तवैव सदृशीम् श्रियमीश्वरीम् ताम्

त्वाम् चाञ्चितः परिचरेयमुदीर्णभावः ॥ ८० ॥

   रूपश्रियेति – रूपश्रिया सौन्दर्यातिशयेन विभवेन ऐश्वर्येण धाम्ना तेजसा भावैश्चित्तवृत्तिभिः उदारैः ऊर्जितैः, मधुरैः प्रियैः चरित्रैः आचारैः उदीर्णभावः उदारहृदयः ॥ ८० ॥

या बिभ्रती स्थिरचरात्मकमेव विश्वम्

विश्वम्भरा परमया क्षमया क्षमा च ।

ताम् मातरम् च पितरम् च भवन्तमस्य

व्युच्छन्तु रात्रय इमा वरिवस्यतो मे ॥ ८१ ॥

  येति – बिभ्रतीति शत्रन्तम् स्त्रीलिङ्गम् पदम् । यतो विश्वम् बिभर्ति अतो विभ्वम्भरा यतः परमया क्षान्त्योपलक्षिता अतः क्षमेति च प्रसिद्धा । वरिवस्यतः शुश्रूषमाणस्य मे इमा रात्रयः व्युच्छन्तु व्युष्टाः स्युः प्रभाताः स्युरित्यर्थः । रात्रय इति कालमात्रोपलक्षणम् मुक्तिदशायाम् रात्रीणामभावात् ॥ ८१ ॥

 भावैरिति –

भावैरुदारमधुरैर्विविधैर्विलासैः

भ्रूविभ्रमस्मितकटाक्षनिरीक्षणैश्च ।

या त्वन्मयी त्वमपि यन्मय एव सा माम्

नीला नितान्तमुररीकुरुतामुदारा ॥ ८२ ॥

   भावैश्चित्तवृत्तिभिः त्वन्मयी सर्वात्मना त्वत्स्वरूपा त्वदधीनवृत्तिर्वा । त्वमपि यन्मय एव । यत्स्वरूपो यदनुवर्तनपरो वा । भगवतीलीला प्रायेण परमपदैकनिलयानामवतारे एवानुयायिनी ॥ ८२ ॥

भावैरनुक्षणमपूर्वरसानुविद्धैः

अत्यद्भुतैरभिनवैरभिनन्द्य देवीः ।

भृत्यान् यथोचितपरिच्छदिनो यथार्हम्

सम्भावयन्तमभितो भगवन्! भवेयम् ॥ ८३ ॥

   भावैरिति – देवीरिति बहुवचनम् । अभितो भवेयम् अनेकशरीरपरिग्रहेण वा स्वरूपाभिप्रायेण वा इयम् कृत्स्नमनोरथोपसम्हारेण प्रार्थना ॥ ८३ ॥

  इतः परम् स्वदोषमनुसन्धाय एतादृशी प्रार्थना मम दुर्घटानुचिता चेति स्वात्मानम् विगर्हमाणो विषीदति – हा हन्तेति ।

हा हन्त हन्त! हतकोऽस्मि खलोऽस्मि धिङ्माम्

मुह्यन्नहो! अहमिदम् किमुवाच वाचा ।

त्वामङ्ग! मङ्गलगुणास्पदमस्तहेयम्

आः! स्मर्तुमेव कथमर्हति मादृगम्हः ॥ ८४ ॥

    निपातसमुदायेनात्यन्तगर्हा द्योत्यते । हतकोऽस्मि नष्टोऽस्मि । खलः शठः । मुह्यन् शब्दादिविषयेषु भ्राम्यन्नहम् वाचा अप्राप्तप्रार्थनारूपया किमुवाच किमवोचम् । उवाचेत्युत्तमैकवचनम् । अनर्हमवोचमित्यर्थः । अङ्गेत्यव्यथमाभिमुख्यपरम् । एतादृशम् त्वाम् मादृशः पापस्वरूपः कथम् स्मर्तुमर्हति वक्तुम् प्राप्तुम् च दूरत इत्यर्थः । आ इति विषादे । अहो अहमिति *ओत्(अष्टा.१.१.१६)* इति प्रगृह्यसञ्ज्ञायाम् प्रकृतिवद्भावः ॥ ८४ ॥

   सम्सारसमुद्रमग्ने अतिपापिष्ठे मयि त्वत्प्रयत्नोऽपि निष्फल इत्याह अम्ह इति –

अम्हः प्रसह्य विनिगृह्य विशोध्य बुद्धिम्

व्यापूय विश्वमशिवम् जनुषाऽनुबद्धम् ।

आधाय सद्गुणगणानपि नाहमर्हः

त्वत्पादयोर्यदहमत्र चिरान्निमग्नः ॥ ८५ ॥

  यद्यस्मात्कारणादहमत्र सम्सारे निमग्नस्ततः कारणात्त्वत्पादयोरहमनर्ह इत्यन्वयः । प्रसह्य बलात्कारेण निगृह्य नाशयित्वा विशोध्य प्रशोध्य जनुषानुबन्धम् जन्मानुबन्धम् सर्वमशिवम् दुर्वासनाम् व्यापूय विशोधयित्वा व्याधूयेति पाठान्तरम् । अपनीयेत्यर्थः । सद् गुणगणात् *अमानित्वमदम्भित्वमहिम्साक्षान्तिरार्जवम् । आचार्योपासनम्(भ.गी.१३.७) इत्यादि गीताशास्त्रोक्तमादाय सम्पाद्य अनर्हस्यापि मम त्वदङ्गीकारोऽस्ति चेदात्मोपजीवनम् स्यादिति पुनरुच्छ्वसति ॥ ८५ ॥

जानेऽथ वा किमहमङ्ग! यदेव सङ्गात्

अङ्गीकरोषि न हि मङ्गलमन्यदस्मात् ।

तेन त्वमेनमुररीकुरुषे जनम् चेत्

नैवामुतो भवति युक्ततमो हि कश्चित् ॥ ८६ ॥

   जाने इति – अथवा अनर्हपक्षस्तावदास्ताम् पक्षान्तरमस्तीत्यर्थः । अङ्ग! अहम् किम् जाने । त्वदङ्गीकारनिमित्तमुपायान्तरम् न जाने इत्यर्थः । यदेव स्थावरम् प्राणिमात्रम् वा ।  केवलदयासङ्गादाचार्याभिमानसङ्गाद्वा समानदेशसङ्गाद्वा त्वया यादृच्छिकसङ्गाद्वा अङ्गीकरोषि अस्मादन्यन्मङ्गलम् प्रशस्तम् नास्ति तेन कारणेन त्वमेनम् जनमुररीकुरुषे चेतमुतो जनाद्युक्ततरः कल्याणतरः । कश्चिन्नैव भवति हि ॥ ८६ ॥

इतः परमङ्गीकाररहितस्य पापीयसः कथमङ्गीकारः सम्भवेदिति स्वदोषमनुसन्धाय पुनर्विषीदति – यन्नामेति –

यन्नाभवाम भवदीयकटाक्षलक्षम्

सम्सारगर्तपरिवर्तमतोऽगमाम ।

आगाम्सि ये खलु सहस्रमजस्रमेवम्म्

जन्मस्वतन्महि कथम् त इमेऽनुकम्प्याः ॥ ८७ ॥

   गर्तो बिलम् । परिवर्तः परिवर्तनम् अगमामेतिलडुत्तमबहुवचनम् ॥ ८७ ॥

   अथाप्याकिञ्चन्यातिशयेनाह *न धर्मनिष्ठोऽस्मि(स्तो.र.२२) इति न्यायेन केवलम् एत्वत्कृपापात्रमित्यनुसन्धत्ते – सत्कर्मेति –

सत्कर्म नैव किल किञ्चन सञ्चिनोमि

विद्याऽप्यवद्यरहिता न च विद्यते मे ।

किञ्च त्वदञ्चितपदाम्बुजभक्तिहीनः

पात्रम् भवामि भगवन्! भवतो दयायाः ॥ ८८ ॥

   फलसङ्गकर्तृत्वपरित्यागपूर्वकम् भक्त्यङ्गभूतम् सत्कर्म किञ्चनाल्पमपि न सञ्चिनोमि । अवद्यरहिता देहात्माभिमानशून्यप्रत्यगात्मानुसन्धानरूपा विद्या न विद्यते । अनेन भक्त्यङ्गभूत कर्मयोग ज्ञानयोगाभाव उक्तः । अङ्गीभूता भक्तिरपि नास्तीत्याह – किम् चेति । अतः कारणात् केवलकृपापात्रम् भवामीत्यर्थः ॥ ८८ ॥

 अहम् न केवलम् कृपापात्रम् क्षमापात्रमपीति विज्ञापयति – किमिति –

किम् भूयसा प्रलपितेन? यदेव किञ्चित्

पापाह्वम् अल्पमुरु वा तदशेषमेषः ।

जानन् न वा शतसहस्रपरार्धकृत्वो

योऽकार्षम् एनमगतिम् कृपया क्षमस्व ॥ ८९ ॥

   हा हन्त हतकोऽस्मीत्यादिना भूयसा प्रलापेन किम् प्रयोजनम् । अल्पम् पापनामकम् उर्वनल्पम् वा उपपातक महापातकातिपातकानाम् अपि मम शेषत्वेन शतकृत्वः सहस्रकृत्वः परार्ध्यकृत्वः ज्ञानादज्ञानाच्च एषोऽहमकार्षम् । एनमगतिम् माम् क्षमस्वेत्यर्थः । कृत्वसुच्प्रत्ययस्य शतसहस्रादिभिरन्वयः ॥ ८९ ॥

   भगवत्परिग्रहमूलमाचार्याभिमानः सोऽपि पापिष्ठे मयि इदानीमल्पप्रयोजन इति विषीदति – देवेति –

देव! त्वदीयचरणप्रणयप्रवीण-

रामानुजार्यविषयीकृतमप्यहो! माम् ।

भूयः प्रधर्षयति वैषयिको विमोहो

मत्कर्मणः कतरदत्र समानसारम् ॥ ९० ॥

    प्रणयप्रवीणः विषयीकृत्यम् तम् मदीयोऽयमित्यभिमानविपर्यीकृतम् भूयः अतिशयेन प्रधर्षयति अभिभवति मत्कर्मणः मत्पापस्य । अत्र सम्सारमण्डले समानसारम् तुल्यवलम् ॥ ९० ॥

   इतः परम् सम्सारदशामनुसन्धत्ते । तत्र प्रथमम् स्वकीयाम् गर्भदशामाह गर्भेष्विति –

गर्भेषु निर्भरनिपीडनखिन्नदेहः

क्षोदीयसोऽतिमहतोऽप्यखिलस्य जन्तोः ।

जन्मान्तराण्यनुविचिन्त्य परस्सहस्राणि

अत्राहम् अप्रतिविधिर्निहतश्चरामि ॥ ९१ ॥

   निर्भरनिपीडनमनिर्बन्धपीडनम् । जन्मान्तराप्यनुविचिन्त्येति गर्भदशायाम् जातिस्मरणम् गर्भोपनिषदि प्रसिद्धम् । तथा हि *मया परिजनस्यार्थे कृतम् कर्म शुभाशुभम् । एकाकी तेन देह्येहम् गतास्ते फलभागिनः । यदि योन्याः प्रमुञ्चामि तम् प्रपद्ये महेश्वरम् । अशुभक्षयकर्तारम् फलमुक्तिप्रदायकम्(गर्भ.४) इति । तथा श्रीविष्णुपुराणेऽपि *निरुच्छ्वासः चैतन्यः स्मरन् जन्मशतान्यपि । आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः(वि.पु)* इति । तथा जातस्य ज्ञानभ्रम्शोऽपि तत्रोक्तः । *विज्ञानभ्रम्शमाप्नोति जातश्च मुनिसत्तमा* इति क्षोदीयसः क्षुद्रतरस्य कीटादेः । अतिमहतो गजादेः अप्रतिविधिः अप्रतिक्रियः । निहतः नष्टः ॥ ९१ ॥

  जन्मदशाम् बाल्यदशाम् चानुसन्धत्ते – भूयश्चेति –

भूयश्च जन्मसमयेषु सुदुर्वचानि

दुःखानि दुःखमतिरिच्य किमप्यजानन् ।

मूढोऽनुभूय पुनरेव तु बालभावात्

दुःखोत्तरम् निजचरित्रममुत्र सेवे ॥ ९२ ॥

  भूयः पुनरपि जन्मसमयेषु सुदुर्वचानीति प्राणिनः दुःखान्यनुभूय दुःखमतिरिच्य वर्जयित्वा अन्यत्किमप्यजानन् मूढः प्रसूतिव्यसनेन प्राप्तज्ञानभ्रम्शः सन् पुनरेव बालभावात् अमुत्र परलोकेऽपि दुःखप्रचुरम् दुःखनिदानम् निजचरित्रकम् सेवे प्राप्नोमि । जन्मसमयेष्विति बहुवचनम् स्वस्यानेकजन्मपरम्परानुवर्तनेन ॥ ९२ ॥

   यौवनदशामनुसन्धत्ते – भूयाम्सीति –

भूयाम्सि भूय उपयन् विविधानि दुःखानि

अन्यच्च दुःखम्  अनुभूय सुखभ्रमेण ।

दुःखानुबन्धमपि दुःखविमिश्रमल्पम्

क्षुद्रम् जुगुप्सितसुखम् सुखमित्युपासे ॥ ९३ ॥

   भूयः पुनरपि यौवने भूयाम्सि विविधानि साक्षाद् दुःखानि उपचयन् सुखसाधनसम्पादनदशायामन्यच्चसुखसाधनम् सम्पादनदुःखसुखभ्रमेणानुभूय दुःखानुबन्धकालान्तरेऽपि दुःखाविनाभूतम् दुःखविमिश्रमननुभवदशायामपि दुःखसम्भिन्नमल्पम् स्वरूपतोऽल्पम् क्षुद्रम् क्षयिष्णुर्जुगुप्सितम् सुखमध्यात्मविद्भिर्गर्हितम् वैषयिकसुखम् सुखमिति इदमेव च तुरीयम् सुखम् । इतः परम् अन्यन्नास्तीत्युपासे ॥ ९३ ॥

  इत्थम् सम्सारदशामनुसन्दधानस्यापि मम विषयोपरमो नास्तीत्यनुसन्धत्ते – लोलद्भिरिति –

लोलद्भिरिन्द्रियहयैः अपथेषु नीतः

दुष्प्रापदुर्भगमनोरथमथ्यमानः ।

विद्याधनाभिजनजन्ममदेन काम-

क्रोधादिभिश्च हतधीर्न शमम् प्रयामि ॥ ९४ ॥

   लोलद्भिः चपलवद्भिः अपथेषु पापमार्गेषु दुर्भगो निकृष्टः । विद्याजन्मना धनजन्मना अभिजनजन्मना मदेन ॥ ९४ ॥

   न केवलम् मम विषयेषूपरमाभावः अत्यन्ताभिरतिरपीत्याह – लभ्येष्विति –

लभ्येषु दुर्लभतरेष्वपि वाञ्छितेषु

जाता सहस्रगुणतः प्रतिलम्भनेऽपि ।

विघ्नैर्हतेष्वपि च तेषु समूलघातम्

वर्धिष्णुरेव न तु शाम्यति हन्त तृष्णा ॥ ९५ ॥

   लभ्येषु लब्धुम् योग्येषु वाञ्छितेषु वर्धिष्णुरेव न तु शाम्यति । तथा दुर्लभतरेषु तेषु वाञ्छितेषु वस्तुषु विघ्नैः समूलघातम् हृतेष्वपि सकारणनष्टेष्वपि वर्धिष्णुरेव न शाम्यतीत्यर्थ: ॥ ९५ ॥

  न केवलम् प्रातिकूल्यसद्भाव एव । आनुकूल्याभावोऽपीत्याह – त्वदिति –

त्वत्कीर्तनस्तुतिनमस्कृतिवेदनेषु

श्रद्धा न भक्तिरपि शक्तिरथो न चेच्छा ।

नैवानुतापमतिरेष्वकृतेषु किम् नु

भूयानहो! परिकरः प्रतिकूलपक्षे ॥ ९६ ॥

  वेदनम् श्रवणमननजन्यम् परतत्त्वज्ञानम् न केवलमेतावदेव  प्रातिकूल्यनिमित्तम् किन्त्वन्योऽप्यस्तीत्याह । किम् च भूयानिति परिकरः उपकरणम् । अत्र कीर्तनस्तुतिनमस्कारा गोणपक्षः । एतच्च  श्रवणार्चनानामप्युपलक्षणम् । भक्तिशब्देन तु साक्षाद्भक्तिर्विवक्षिता प्रतिकुलपक्षे पुर्वोक्तसम्सारपक्षे ॥ ९६ ॥

  किम् बहुना, अहमितः पूर्व पापीयानेवेत्याह – एतेनेति –

एतेन वै सुविदितम् बत मामकीनम्

दौरात्म्यमप्रतिविधेयमपारमीश! ।

सम्मूर्च्छतोऽप्यपदमस्मि यतस्त्वदीय-

निस्सीमभूमकरुणामृतवीचिवायोः ॥ ९७ ॥    

  मामकम् दौरात्म्यम् दुःस्वभावत्वम् अप्रतिविधेयम् अप्रतिक्रियम् अपारम् अनन्तम् सम्मूर्च्छितव्यापिनः निस्सीमभूमा निर्मर्यादमहिमा चासौ करुणा च सैवामृतवीचि तत्सम्बन्धिवायोः परम्परयापि कृपास्पदम् नाभूवमित्यर्थः । करुणा निस्सीमत्वमुत्कर्षापकर्षतारतम्यमनवेक्ष्य प्रवर्तमानत्वम् ॥ ९७ ॥

   इदानीम् ममैवम् विधम् दौरात्म्यमेव तवेश्वरत्वनिर्वाहकम् । अतः करुणालब्धाचार्यसमाश्रयणस्य ममेतः परम् सम्सारो न युक्त इत्याह । ऐश्वर्येति – 

ऐश्वर्यवीर्यकरुणागरिमक्षमाद्याः

स्वामिन्! अकारणसुहृत्त्वमथो विशेषात् ।

सर्वे गुणाः सविषयास्तव मामपार-

घोराघपूर्णमगतिम् निहतम् समेत्य ॥ ९८ ॥

  ऐश्वर्यवीर्य! मम घोरपापेषु सविषये करुणा मम दु:खे सविषीयागुरुत्वम् मम ज्ञाने क्षमत्वपराधे विशेषादकारणसुहृत्वम् ममागतित्वे एवमन्येऽपि तव गुणेषु निहितम् पतितम् ॥ ९८ ॥

    ननु मम गुणाः कर्मज्ञानभक्तिनिष्ठेषु सावकाशा इति मामवम्स्तास्तेषाम् रक्षणे सर्वेश्वरस्य तव नातिशयः । मद्रक्षणे एवातिशयः इत्याह

त्वदिति –

त्वत्पादसम्श्रयणहेतुषु साधिकारान्

उद्युञ्जतश्चरितकृत्स्नविधीम्श्च ताम्स्तान् ।

त्वम् रक्षसीति महिमा न तवालमेषः

माम् चेदनीदृशमनन्यगतिम् न रक्षेः ॥ ९९ ॥

  त्वत्पादसम्श्रयणहेतुषु कर्मज्ञानभक्तियोगेषु साधिकारान् भक्तान् उद्युञ्जतः प्रयतमानान् चरितकृत्स्नविधीन् अनुष्ठितस्य कृत्स्नकर्मादियोगान् ताम्स्तान् तत्तत्कालीनान् रक्षसीति । एष महिमा तव नालम् न भूषणम् किम् तु केवलकृपया किञ्चन मद्रक्षणमेव भूषणमित्यर्थः । अमुमर्थम् व्यतिरेकमुखेनाह – माम् चेदिति । अनीदृशम् निरधिकारम् निरुद्योगम् । अत एव निरनुष्ठानम् । अत एवागतिम् अकिञ्चनम् न रक्षेरिति लिङ्मध्यमैकवचनम् । अयमर्थः श्रीमद्भट्टारकैरपि *त्वमेनम् पापीयसम्(श्रीरङ्ग.स्तो.उ.श.१०५) ॥ ९९ ॥

  किम् च पूर्वेषामपि पुम्सामधिकारादिसम्पादकस्त्वमेव न तु तेषाम्  स्वातन्त्र्यमतोऽकिञ्चने मयि समर्थेषु तेषु तेषु च तवोपायमनपेक्ष्यैव रक्षणस्य तुल्यत्वान्न कश्चिद्विशेष इत्याह – येति

या कर्मणामधिकृतिर्य इहोद्यमस्तेषु

अप्येष्वनुष्ठितिरशेषमिदम् हि पुम्साम् ।

त्वामन्तरेण न कथञ्चन शक्यमाप्तुम्

एवम् च तेषु मयि चास्ति न ते विशेषः ॥ १०० ॥

   त्वामन्तरेण शरीरेन्द्रियकर्तृप्रेरकम् सर्वान्तरात्मानम् त्वाम् विनेत्यर्थः ॥ १०० ॥

    अहम् कर्मज्ञानभक्तिनिष्ठानेव रक्षिष्यामि, नेतराननुष्ठानशून्यान् इति । यदि ते निर्बन्ध तर्हि सपरिकरम् कर्मादिकम् मम सम्पाद्य तन्मुखेन रक्षेति विज्ञापयन् स्तोत्रमुपसम्हरति – निर्बन्धेति –

निर्बन्ध एष यदि ते यदशेषवैध-

सम्सेविनो वरद! रक्षसि नेतरान्स्त्वम् ।

तर्हि त्वमेव मयि शक्त्यधिकारवाञ्छाः

प्रत्यूहशान्तिमितरच्च विधेहि विश्वम् ॥ १०१ ॥

   हे वरद! यद् यस्मात् कारणात्, अशेषवैधसम्सेविनः पुरुषान् रक्षसि, नेतरान् तत्तस्मात् कारणात् कर्मज्ञानादिनिष्ठानाम् रक्षणे यदि एष निर्बन्धः तर्हि त्वमेव मयि सर्वम् विधेहि सम्पादयेत्यर्थः । वैधम् श्रुतिस्मृतिविहितम् कर्मादिकम् प्रत्यूहशान्तिम् विघ्नोपशमम् इतरच्च कर्मज्ञानादिकम् तस्मात् केवलमुखेन वा कर्मज्ञानभक्तिसम्पादनेन वा अहम् रक्षणीय इति सर्वम् समञ्जसम् ॥ १०१ ॥

इति रामानुजाचार्यविरचितम् श्रीवैकुण्ठस्तवव्याख्यानम्  सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.