अथ चोलसिंहपुरं दोड्डय्याचार्य–कृतम्
श्रीदेवराजपञ्चकम्
प्रत्यूषे वरदः प्रसन्नवदनः प्राप्ताभिमुख्यान्जनान्
आबद्धाञ्जलिमस्तकानविरलान् आबालमानन्दयन् ।
मन्दोड्डायितचामरो मणिमयश्वेतातपत्रश्शनैः
अन्तर्गोपुरमाविरास भगवानारूढपक्षीश्वरः ॥ (१)
मुक्तातपत्रयुगलोभयचामरान्तः
विद्योतमान-विनयातनयाधिरूढम् ।
भक्ताभयप्रदकराम्बुजमंबुजाक्षं
नित्यं नमामि वरदं रमणीयवेषम् ॥ (२)
यद्वेदमौलिगणवेद्यमवेद्यमन्यैः
यद्ब्रह्मरुद्रसुरनायकमौलिवन्द्यम् ।
तत्पद्मनाभपदपद्मयुगं मनुष्यैः
सेव्यं भवद्भिरिति दर्शयतीव तार्क्ष्यः ॥ (३)
केचित्तत्त्वविशोधने पशुपतौ पारम्यमाहुः परे
व्याजह्रुः कमलासने नयविदोऽप्यन्ये हरौ सादरम् ।
इत्येवं चलचेतसां तनुभृतां पादावरिन्दं हरेः
तत्सन्दर्शयतीव संप्रति नृणां तार्क्ष्यः श्रुतीनां निधिः ॥ (४)
प्रत्यग्गोपुरसंमुखे दिनमुखे पक्षीन्द्रसंवाहितं
नृत्यच्चामरकोरकं निरुपमच्छत्रद्वयीभासुरम् ।
सानन्दं द्विजमण्डलं विदधतं सन्नाहचिह्नारवैः
कान्तं पुण्यकृतो भजन्ति वरदं काञ्च्यां तृतीयोत्सवे ॥ (५)
इति श्रीदेवराजपञ्चकं समाप्तम्