श्रीवात्स्यवरदगुरुभिरनुगृहीतं
॥ परत्वादिपञ्चकम् ॥
वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् । भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि ॥
उद्यद्भानुसहस्रभास्वरपरव्योमास्पदं निर्मलज्ञानानन्दघनस्वरूपममलज्ञानादिभिष्षड्गुणैः ॥
जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलं श्रीभूसेव्यमनन्तभोगिनिलयं श्रीवासुदेवं भजे ॥ १ ॥
आमोदे भुवने प्रमोद उत्त संमोदे च सङ्कर्षणं प्रद्युम्नं च तथाऽनिरुद्धमपि तान् सृष्टिस्थिती चाप्ययम् कुर्वाणान् मतिमुख्यषड्गुणवरैर्युक्तांस्त्रियुग्मात्मकैः व्यूहाधिष्ठितवासुदेवमपि तं क्षीराब्धिनाथं भजे॥ २ ॥
वेदान्वेषणमन्दराद्रिभरणक्ष्मोद्धारणस्वाश्रितप्रह्लादावनभूमिभिक्षणजगद्विक्रान्तयो यत्क्रियाः ॥ दुष्टक्षत्रनिबर्हणं दशमुखाद्युन्मूलनं कर्षणं कालिन्द्या अतिपापकंसनिधनं यत्क्रीडितं तं नुमः ॥ ३ ॥
यो देवादिचतुर्विधेषु जनिषु ब्रह्माण्डकोशान्तरे संभक्तेषु चराचरेषु निवसन्नास्ते सदाऽन्तर्बहिः । विष्णु तं निखिलेष्वणुष्वणुतरं भूयस्सु भूयस्तरं स्वाङ्गुष्टप्रमितं च योगिहृदयेष्वासीनमीशं भजे ॥ ४ ॥
श्रीरङ्गस्थलवेङ्कटाद्रिकरिगिर्यादौ शतेऽष्टोत्तरे स्थाने ग्रामनिकेतनेषु च सदा सान्निध्यमासेदुषे । अर्चारुपिणमर्चकाभिमतितः स्वीकुर्वते विग्रहं पूजां चाखिलवाञ्छितान् वितरते श्रीशाय तस्मै नमः ॥ ५ ॥
प्रातर्विष्णोः परत्वादिपञ्चकस्तुतिमुत्तमाम् । पठन् प्राप्नोति भगवद्भक्तिं वरदनिर्मिताम् ॥
॥ इति परत्वादिपञ्चकं समाप्तम् ।।