श्रीवात्स्यवरदगुरुभिरनुगृहीतं
॥ परमार्थश्लोकद्वयम् ॥
वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् भाष्यामृतपदानाद्यः सज्जीवयति मामपि । सत्सङ्गाद्भवनिःस्पृहो गुरुमुखाच्छ्रीशं प्रपद्यात्मवान् प्रारब्धं परिभुज्य कर्मशकलं प्रक्षीणकर्मान्तरः । न्यासादेव निरङ्कुशेश्वरदयानिर्लूनमायान्वयः हार्दानुग्रहलब्धमध्यधमनिद्वारा बहिर्निर्गतः ॥ १ ॥
मुक्तोऽर्चिर्दिनपूर्वपक्षषडुदङ्मासाब्दवातांशुमद्ग्लौविद्युद्वरुणेन्द्रधातृमहितस्सीमान्तसिन्ध्वाप्लुतः । श्रीवैकुण्ठमुपेत्य नित्यमजडं तस्मिन् परब्रह्मण: सायुज्यं समवाप्य नन्दति समं तेनैव धन्यः पुमान् प्रातर्नित्यानुसन्धेयं परमार्थं मुमुक्षुभिः । श्लोकद्वयेन संक्षिप्तं सुव्यक्तं वरदोऽब्रवीत् ॥
॥ इति परमार्थश्लोकद्वयं समाप्तम् ।।