अनेकपूर्वाचार्यैरनुगृहीतम्
॥ पराङ्कुशाष्टकम् ॥
त्रैविद्यवृद्धजनमूर्धविभूषणं यत् सम्पच्च सात्त्विकजनस्य यदेव नित्यम् ।यद्वा शरण्यमशरण्यजनस्य पुण्यं तत्संश्रयेम वकुलाभरणाङ्घ्रियुग्मम् ॥ १ ॥
भक्तिप्रभावभवदद्भुतभावबन्धसन्धुक्षितप्रणयसाररसौघपूर्णः । वेदार्यरत्ननिधिरच्युतदिव्यधाम जीयात् पराङ्कुशपयोधिरसीमभूमा ॥ २ ॥
ऋषिं जुषामहे कृष्णतृष्णातत्त्वमिवोदितम् । सहस्रशाखां योऽद्राक्षीत् द्रामिडीं ब्रह्मसंहिताम् ॥ ३ ॥
यद्गोसहस्रमपहन्ति तमांसि पुसां नारायणो वसति यत्र सशङ्खचक्रः । यन्मण्डलं श्रुतिगतं प्रणमन्ति विप्राः तस्मै नमो वकुलभूषणभास्कराय ॥ ४ ॥
पत्युः श्रियः प्रसादेन प्राप्तसार्वज्ञ्यसंपदम् । प्रपन्नजनकूटस्थं प्रपद्ये श्रीपराङ्कुशम् ॥ ५ ॥
शठकोपमुनिं वन्दे शठानां बुद्धिदूषकम् । अज्ञानां ज्ञानजनकं तिन्त्रिणीमूलसंश्रयम् ॥ ६ ॥
वकुलाभरणं वन्दे जगदाभरणं मुनिम् । यश्श्रुतेरुत्तरं भागं चक्रे द्राविडभाषया ॥ ७ ॥
नमज्जनस्य चित्तभित्तिभक्तिचित्रतूलिका भवाहिवीर्यभञ्जने नरेन्द्रमन्त्रयन्त्रणा । प्रपन्नलोककैरवप्रसन्नचारुचन्द्रिका शठारिहस्तमुद्रिका हठाद्धुनोतु मे तमः ॥ ८ ॥
वकुलालङ्कृतं श्रीमच्छठकोपपदद्वयम् । अस्मत्कुलधनं भोग्यमस्तु मे मूर्ध्नि भूषणम् ॥
॥ इति पराङ्कुशाष्टकं समाप्तम् ॥