श्रीपराङ्कुश–सुप्रभातम्
गाथा सरस्रकिरण-क्षपितात्मगूढ
गाढान्धकारमरविन्दविलोचनाङ्गम् ।
श्रीवैष्णवद्विजनिषेवित-मण्डलेशं
प्राप्यं भजामि वकुलाभरणज्बबन्धुम् ।। (१)
श्रीतिन्त्रिणीतरुवरातिफणीन्द्रभोग-
पूर्णे तरोरुहरिहभक्तिगृहाधिपवासिन् ।
हंसध्वजद्रविडवेदशिरःप्रवक्तः
श्रीमन्पराङ्कुशमुने तव सुप्रभातम् ।। (२)
नाथार्यदेशिकवरो मधुरः कविश्व-
गाथामयी द्रविडदशिरः परार्थान् ।
श्रीमन्त्ररत्नमनुराट् परमाग्धसारान्
श्रोतुं स्थिताश्छठरिपो तव सुप्रभातम् ।। (३)
वाणिं मरन्दशुभगां श्रुतिमार्गसौख्या
नन्दप्रदां नवनवान्तवनाथवल्ली ।
आकर्णितुं स्वतनयप्रणुतां निशान्ते
प्रत्यागताध्यशठजित् तव सुप्रभातम् ।। (४)
नन्तुं नतार्तिहरमुत्तममादिनाथं
नीळामही-कमलपाणिसमेतमेतम् ।
स्तोतुं विभूतियुगळाधिपमात्मनाथं
कामोद्य जागृहि गुरो तव सुप्रभातम् ।। (५)
आपादचूडमभीक्षितुम् आदरात्त्वाम्
आनन्दपूर्णमनसा हरिभक्तिभुक्तिम् ।
आयात्ययं यतिवरस्सह शिष्यवर्गैः
श्रीकारिनन्दनगुरो तव सुप्रभातम् ।। (६)
उत्तारकस्वपद-संश्रितदेशिकानां
पूर्णार्यपादसरसीरुह-भृङ्गराजः ।
रामानुजस्तवपदाम्बुजमत्रद्रष्टुं
तिष्ठत्यसौ शररिपो तव सुप्रभातम् ।। (७)
श्रीताम्रपर्ण्यभिनवोत्तमतीर्थपूर्ण-
सौवर्णकुम्भसमलङ्कृतमस्तकोऽद्य ।
आराधनार्थमभियाति गजः प्रतोळ्यां
देयं पराङ्कुशकवे तव सुप्रभातम् ।। (८)
चिध्वोर्ध्वपुण्ड्र-विलसन् निजपालपट्टाः
कण्ठावलम्ब-तुलसीनलिनाक्षमालाः ।
स्नानोत्सवंतव समीक्षतु मागतास्ते
श्रीवैष्णवावकुळभूषण सुप्रभातम् ।। (९)
गायत्ययं सुरुचिरां मधुरेण गाथा
मारार्तदेह-कविना द्विजवंशजाताः ।
श्रीवैष्णवाश्रुतिपथामृतधाररूपा
माकर्ण्यस्व शठजित्तव सुप्रभातम् ।। (१० )
श्रीतिन्त्रिणीतरुवरप्रणुतार्ति-दीर्घ-
शाखाशिखानिलयगौ प्रतिबद्धपहर्षौ ।
श्रीसार-सौरभ-युतस्तवपक्षिणौ द्वौ
स्तोत्रं शृणुष्व कुरुकेश्वर सुप्रभातम् ।। (११)
नाथादिनाथ शठकोपधराधिनाथ-
बोधात्पुरैव समयः कमलादिनाथः ।
बोधक्षमागुणवतः कमलाकृतिस्ते
जागृह्यतः शररिपो तव सुप्रभातम् ।। (१२)
अत्यादरेण भवतोदित-दिव्यगाथा
तत्वार्थसारमधिकर्तुममी प्रपन्नाः ।
काङ्क्षन्त तेऽङ्घ्रि सरसीरुह-युग्मसेवां
दासाः पराङ्कुशमुने तव सुप्रभातम् ।। (१३)
आषोडाज्बमभुवीक्ष्य परं पुमांसं
आनन्दभक्तिरसभुक्तिविवर्धमानः ।
रामानुजार्यशरणः परभक्तियोगनिद्रो-
ऽ सि किं तव पराङ्कुश सुप्रभातम् ।। (१४)
अब्जे च षड्भिरनिशं दशभिः समस्त-
कल्याण-दिव्य-गुणपूर्ण-मवर्णवाच्यम् ।
स्तुत्वानुभूय परिमीलितदिक्प्रबन्धैः
निद्रोऽसि किं शठरिपो तव सुप्रभातम् ।। (१५)
आयात्ययं वरवरो मुनिरष्टभिस्तैः
दिग्दन्तिभिः परिवृतस्तव पादपद्मम् ।
स्तोतुं भवान्तरविहन्तृ-सुमन्त्ररत्नः
श्रीमत्पराङ्कुशगुरो तव सुप्रभातम् ।। (१६)
इति श्रीपराङ्कुश–सुप्रभातम्